०१ जीवोऽणुः

यदि जीवोऽणुस्तर्हि ..

व्यतिरेकाधिकरणम्

तात्पर्यचन्द्रिका

जीवोऽणुः

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

यदि जीवोऽणुस्तर्हि योगिनो बहुरूपत्वायोग इति पूर्वाक्षेपेण पूर्वपक्षोत्थानात्सङ्गतिः ॥ अत्र जीवस्य बहुरूपत्वश्रुतिः किं निरवयवत्वयुक्तयनुगृहीतयैकरूपत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं विष्णोः सर्वस्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणं न वेति । तदर्थं जीवबहुरूपत्वश्रुतिः किं निरवयवत्वयुक्तयनुगृहीतयैकरूपत्वश्रुत्या बाधितोत नेति) तदर्थं भिन्नांशरहितस्य बहुरूपत्वं न घटत उत योगसामर्थ्याद्घटत इति । तदर्थं योगिनोऽघटितघटनाशक्तिमत्त्वे किमीश्वरत्वमापद्यत उत नेति । न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ॥ तथा सतीति ॥ अत्र सूत्रे गन्धवच्छब्देनात्यन्तभेदहीनस्यापि व्यतिरेकसम्भावको दृष्टान्त उक्तः । दर्शयतिचशब्दाभ्यां त्वत्यंताभिन्नस्यापि विभागरूपे व्यतिरेके श्रुतिस्मृती प्रमाणीकृते । तत्सम्भावकं योगसामर्थ्यं योगिनस्तादृशसामर्थ्यदातृत्वरूपमीश्वरसामर्थ्यं च श्रुतिस्मृतिभ्यामेवोक्ते इति न सूत्रे पृथगुक्ते । प्रमितेऽनन्यगतिके चाविरोध ईश्वरशक्तयेति नातिप्रसङ्गः ॥ छ ॥ व्यतिरेकाधिकरणम् ॥ १३ ॥

प्रकाशिका

‘‘युज्यते खलु विभावात्मनी’’त्यादिटीकासूचितामाह ॥ यदीति ॥ योगिनः निरवयवजीवस्येति शेषः । सुधायां तु ‘‘अविरोधश्चन्दनव’’दित्युक्तार्थोपपादकत्वेन सङ्गतिरुक्ता । पूर्वोत्तरपक्षटीकासूचिताश्चिंता आह ॥ अत्रेति ॥ ‘‘स पञ्चधा सप्तधा दशधा भवती’’ति बहुरूपत्वश्रुतिः । ‘‘स एकधा न सप्तधे’’त्यैकरूप्यश्रुतिः । टीकोक्तं सूत्रारूढं दर्शयितुं सूत्रार्थं निष्कृष्याह ॥ अत्र सूत्र इति ॥ नन्वेवं जीवजडेश्वराणामभेदमुपेत्य तन्निबन्धन सर्वानुपपत्तिरपीशाचिन्त्यशक्तयैव समाधीयतामित्यत आह ॥ प्रमित इति ॥ गुणक्रियादीनां धर्मिणा तादात्म्यमुपेत्य भेदनिबन्धनकार्याणामपीश्वराचिन्त्यशक्तयैव निर्वाहः क्रियतां किं विशेषादिनेत्यत आह ॥ अनन्यगतिकेति ॥ छ ॥ व्यतिरेकाधिकरणम् ॥ १३ ॥

चन्द्रिकाविवृतिः

॥ ॐ व्यतिरेको गन्धवत् ॐ ॥ अत्यन्ताभिमानस्य जीवस्यैकस्य कथमतिरेक इत्याशङ्कायां गन्धवदिति दृष्टान्तो न युक्तः । गन्धस्य पुष्पादिनाऽत्यन्तभेदाभावात् । दृष्टान्तमात्रस्य असाधकात्वाच्च । व्यतिरेकशब्दस्याभावार्थकत्त्वे प्रकृतासङ्गतेश्चात्यन्ताभिन्नस्यापि विभागे सम्भाविकयोगसामर्थ्यतद्घट-केशशक्तयोः सूत्रेऽनुक्तया न्यूनता च । ईशशक्तया सम्भाविताङ्गीकारे शशशृङ्गाङ्गीकारापाताच्चेत्याशङ्क्य सूत्रार्थमाह ॥ अत्र सूत्र इत्यादिना ॥ अत्र वाक्यांशैः पूर्वोक्तसर्वशङ्कोद्धारो द्रष्टव्यः ।