०१ जीवस्याणुत्वसमर्थनम्

जीवे धर्मिण्युत्पत्त्यनुत्पत्ती चिन्तिते

उत्क्रान्त्यधिकरणम्

तात्पर्यचन्द्रिका

जीवस्याणुत्वसमर्थनम्

ॐ उत्क्रान्तिगत्यागतीनां ॐ ॥

जीवे धर्मिण्युत्पत्त्यनुत्पत्ती चिन्तिते । अथ तद्धर्मे परिमाणेऽणुत्वमहत्त्वे चिन्त्येते इति सङ्गतिः । अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं जीवस्याणुत्वोत्क्रमणादिश्रुतिः किं सर्वदेहसम्बद्धस्पर्शादिज्ञानरूपयुक्तयनुगृहीतया ‘‘व्याप्ता ह्यात्मान’’ इति व्याप्तिश्रुत्या बाधितोत नेति चिन्ता । तदर्थं व्याप्तिश्रुतिः किं जीवविषया सर्वदेहसम्बद्धस्पर्शादिज्ञानं चाणुत्वेनोपपद्यते उत व्याप्तिश्रुतिरीश्वरविषया सर्वदेहसम्बद्धस्पर्शादिज्ञानं च जीवस्याणुत्वेऽप्यंशव्याप्त्यादिनोपपद्यत इति । तदर्थं व्याप्तिश्रुतौ श्रुतं बहुत्वं भिन्नाश्रितमित्युत्सर्गन्यायस्यापवादकं नास्त्यंशव्याप्त्यादिकं च न युक्तमुत सामान्यन्यायस्यापवादकमस्त्यंशव्याप्त्यादिकं चन्दनवद्युक्तमिति ।

पूर्वपक्ष्यभिमतव्याप्तिश्रुतेः प्राबल्याय ‘‘सर्वदेहस्पर्शज्ञाना’’दिति न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ॥ सर्वदेहेति ॥ सिद्धान्तमाह ॥ सिद्धान्तयदिति ॥ एतेन चैत्रभोगार्थस्याङ्कुरादेश्चैत्रादृष्टजन्यत्वादात्मसमवेतस्य चादृष्टस्य साक्षादङ्कुराद्यसम्बन्धादात्मनोंऽकुरसम्बन्धावश्यंभावाद्विभुत्वमिति तार्किकोक्तं निरस्तम् । चैत्रभोगाहेतोरप्यंकुरादेरात्मद्वारा तददृष्टसम्बन्धेऽपि तदजन्यत्वेनात्म द्वारकसम्बन्धस्यातन्त्रतया प्रतियोग्यभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्टकार्ययोरपि सम्बन्धांतरस्यैव वक्तव्यत्वात् । अस्ति हि कारीर्यदृष्टस्य वृष्ट्या सह तदुद्देशेन विहितक्रियाजन्यत्वरूपः सम्बन्धः ॥ प्रसङ्गाच्चिन्त्यत इति ॥ प्रस्तुतस्याणुत्वस्योत्क्रान्तिमात्रेण सिद्धेरणुत्वसाधकाधिकरणमध्ये स्वातन्त्र्यपारतन्त्र्यादिचिन्ता प्रासङ्गिकीत्यर्थः । ‘‘यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः’’ । इत्युत्तरार्धे ऐतरेयभाष्योक्तरीत्या ‘‘यस्य योग’’ इत्यनेन शरीराख्यरथस्य भगवदर्पणरूपः सम्बन्धः, ‘‘विवस्वत’’ इत्यनेन भगवान्, ‘‘दिवो दुहिते’’त्यनेन परोक्षज्ञानं, ‘‘सुदिने अहनी’’ इत्यनेन जीवन्मुक्तिमुक्ती विवक्षिते इत्यभिप्रेत्य व्याचष्टे ॥ यत्सम्बन्धादिति ॥ घटादिरूपस्यैव तत्र प्रतीयमानत्वादिति ॥ नीलघटादिसम्बद्धबालार्कप्रभादौ प्रतीयमानमारुण्यादिकं तु न्यायमतेऽपि न प्रभानिष्ठमिति भावः ।

किं च ‘‘गुणादिपञ्चकस्य निर्गुणत्वनिष्क्रियत्वादिपरिभाषा नादरणीये’’ति टीकाकारैरन्यत्रोक्तत्वाद्गुणेषु चतुर्विंशतिसङ्ख्यावत् समवायादावेकत्वसङ्ख्यावद् रूपे स्पर्शात्पृथक्त्ववज् जातेः सर्वगतत्वेन महत्त्ववच्च प्रभाया गुणत्वेऽपि तत्र रूपचलनादिकमप्यस्तु । अत एव दीपे गच्छति प्रभाया अपि गतिदर्शनात्क्रियावत्त्वेनालोकस्य द्रव्यत्वमिति निरस्तम् । घटे गच्छति तद्रूपस्यापि गतेः । अन्यथा श्येने चलत्यचलतः स्थाणोरिव रूपस्य तत्रैवावस्थितिः स्यादित्यपि द्रष्टव्यम् ॥

द्रव्यत्वसाधकताविवादादिति ॥ उत्तराधिकरणे गुणस्यापि गन्धस्य द्रव्यं विहायापि वृत्तेर्वक्ष्यमाणत्वादिति भावः ॥ तदनुविधानादिनेति ॥ न च छायायां व्यभिचारः । भित्त्यादावचलेऽपि छायायाः सूर्यप्रातिलोम्येन चलनात् । लोके माणिक्यप्रभादौ तद्गुणत्वव्यवहारः, ‘‘तेजोबलैश्वर्यमहावबोध सद्वीर्यशक्तयादिगुणैकराशि’’रिति स्मार्तस्तेजसि गुणत्वव्यवहारश्च गुणत्वे प्रमाणमिति दर्शयितुमादिशब्दः । अत एव टीकाकारैः ‘‘शुद्धानंदोरुसंविद्द्युती’’ति द्युतेर्गुणत्वमुक्तम् ॥ कारणान्तरदर्शनादिति ॥ तदैव तत्रत्यतैजसपरमाणव एव द्व्यणुकादिप्रक्रमेणालोकमण्डलमारभन्त इत्यत्र मानाभावादिति भावः ॥ अप्रतीतिप्रसङ्गादिति ॥ अकार्यद्रव्यत्वे परमाणुत्वापातेनाप्रत्यक्षत्वप्रसङ्गादित्यर्थः ॥ तथा सति प्रदीपानुविधानानुपपत्तेरिति ॥ उपलक्षणं चैतत् । निबिडावयवेन्द्रनीलादाववयवविकिरणस्यासम्भावितत्वात्तत्र प्रभा न स्यादित्यपि द्रष्टव्यम् ॥ बाहुल्यं स्यादिति ॥ आद्यक्षण इव द्वितीयादिक्षणेष्वप्यवयवानां विकिरणस्य न्याय्यत्वादिति भावः । पक्षान्तरमाह ॥ अप्रधानसाम्येन वेति ॥ शुभमादत्त इत्यर्थकेन श्रुतिसूत्रस्थेन स्वात्मशब्देनेश्वरस्योत्क्रान्त्यादिना जीववन्न दुःखमिति दर्शितम् ॥ छ ॥ उत्क्रान्त्यधिकरणम् ॥१२॥

प्रकाशिका

अत्र जन्मादिसूत्राक्षेपायोगादाह ॥ श्रुतिसमन्वयसिद्ध्यर्थमिति ॥ अणुत्वेति ॥ ‘‘अणुर्ह्येष आत्मे’’त्यणुत्वश्रुतिः । ‘‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छती’’त्याद्युत्क्रमणगत्यादिश्रुतिः ॥ सर्वदेहसम्बद्धेति ॥ कमनीयतनयाद्यालिङ्गनादिना जातसर्वाङ्गीणस्पर्शादिज्ञानेत्यर्थः । युक्तेरपि निरवकाशत्वसावकाशत्वचिन्तामाह ॥ नोपपद्यत उपपद्यत इति ॥ युक्तेरप्युपपादकाभावभावचिन्तामाह ॥ न युक्तं युक्तमिति ॥ अत्राद्या ‘‘नाणुतरच्छते’’रिति सूत्रांशसूचिता । अन्ये तु ‘‘अविरोधश्चन्दनव’’दित्यादिसूत्रसूचिते । अंशव्याप्त्यादीत्यादिपदेन चिद्गुणव्याप्तेर्ग्राह्यत्वादपवादकमधिकारस्वशब्दोन्मानत्वरूपम् । व्यक्तोऽत्र फलपलिभावः । प्रतियोग्यभावादाविव क्लृप्तस्वरूपसम्बन्धो नास्तीत्यत आह ॥ अस्ति हीति ॥ न प्रभानिष्ठमिति ॥ पार्थिवत्रसरेण्वादिनिष्ठम् । प्रभायाश्शुक्लभास्वररूपत्वादिति भावः । अन्यत्र मिथ्यात्वानुमानखण्डनटीकायाम् । विवृतमेतत्तत्रैव भावप्रकाशिकायाम् ॥ न च छायायामिति ॥ तस्यास्तमोविशेषत्वात्तमसोद्रव्यत्वस्य तर्कताण्डवे साधनादिति भावः । स्वात्मना चोत्तरयोरित्यत्र स्वात्मपदकृत्यमाह ॥ शुभमादत्त इति ॥ छ ॥ उत्क्रान्त्यधिकरणम् ॥ १२ ॥

चन्द्रिकाविवृतिः

ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ अणुत्त्वमहत्त्वे इति ॥ अणुमहच्छब्दौ परिमाणस्यापि वाचकाविति कृत्त्वाऽणुत्वेत्याद्युक्तम् ॥ तदर्थं व्याप्तिश्रुतौ श्रुतमिति ॥ व्याप्तिश्रुतिः किं जीवविषयेत्येतदर्थत्वेन बहुत्वं भिन्नाश्रितमित्युत्सर्गन्यायस्यापवादकं नास्तीत्यंशः देहसम्बन्धस्पर्शादिज्ञानं चाणुत्वेनोपपद्यत इत्येतदर्थत्त्वेनांशव्याप्त्यादिकं च न युक्तमित्यंशः । एवं सिद्धान्तकोटौ फलफलिभाव ऊह्यः ॥ श्रुतेः प्राबल्यायेति ॥ नतु जन्मादिसूत्राक्षेपाय केवां पूर्वपक्षदार्ढ्यार्थमेवोपन्यासादिति भावः ॥ अदृष्टवदात्मसम्बन्धोऽतिप्रसक्त इत्याह ॥ चैत्रभोगाहेतोरिति ॥ प्रतियोग्यभावेत्यादि ॥ घटतत्प्रागभावयोः कालद्वारा सम्बन्धः यस्मिन् घटस्तस्मिन्नेव काले प्रागभाव इति घटाश्रयकालसम्बन्धित्त्वेनैव घटप्रागभाव इति व्यवहारोत्पत्तौ प्रतियोग्यनुयोगिभावो न स्वीकर्यः । एवं वाच्यवाचकभावोऽपि ज्ञानविषययोर् न स्वीकार्यः । ज्ञानाश्रयात्मसंबन्धित्वेनैव घटस्य घटज्ञानमित्युपपत्तेरित्याशयः ॥ नन्वदृष्टतत्कार्ययोर् ज्ञानज्ञेयादिवत्संबन्धविशेषालाभादात्मद्वारक एव सम्बन्धः स्वीकार्य इत्यत आह ॥ अस्ति हीति ॥ तदुद्देशेन तत्फलार्थमित्यर्थः ॥

ननु प्रसङ्गादिति टीकोक्तमयुक्तम् । जीवप्रकरणे स्वातन्त्र्यास्वातन्त्र्यविचारस्य जीवविषयसङ्गतेरित्यत आह ॥ प्रस्तुतस्येति ॥ अधिकरणेऽस्मिन्नसङ्गतिरेवेति भावः ॥ न तत्प्रभानिष्ठमिति ॥ तच्चोभयसमाधेयम् ॥ आलोकस्य तेजोद्रव्यत्त्ववादिनापि शुक्लभास्वररूपवत्वमेव वक्तव्यं न त्वारण्यमिति भावः ॥ चतुर्विंशतिशब्दाभिधेयत्वेन गुणेषु चतुर्विंशतित्त्वमिति पराभिप्रेतं समाधानमयुक्तमित्यभिप्रेत्य द्वितीयमुदाहरणं गृह्णाति ॥ समवायादावेकत्वसंख्यावदिति ॥ एकत्वं नात्र संख्या किं तु स्वसजातीयव्यक्तयंतरशून्यत्वमिति समाधानं मत्त्वा तृतीयोदाहरणमाह ॥ रूपे स्पर्शादिति ॥ पृथक्त्वमन्योन्याभाव एवेति परो वदति । अतस् तदर्थमाह ॥ जातेः सर्वगतत्वेनेति ॥ महत्त्वं तु जातेरन्यत्रोपपादितम् । गन्धस्येति ॥ पुष्पवनमध्यगतस्य पुंसः सूक्ष्मवाय्वभावदशायामपि गन्धोपाब्धिर्गन्धगुणस्य गुणिनं विहायाप्यन्यत्र सत्वज्ञापिका । वायुस्थो तु अवयवानां गमनमङ्गीकृतं गीताभाष्यटीकायां स्फुटम् । पक्षान्तरमाहेति ॥ अनेनेदं केवां पक्षान्तरमेव । नतु पूर्वारुच्या पक्षान्तरमिति ज्ञापितम् । अन्यथा वाशब्देनैव पक्षान्तरत्वज्ञानसम्भवाद् अवतारिका व्यर्था । अत्राधिकरणे जीवाविभुत्वसाधकम् उत्क्रान्त्यादिकं सर्वात्मनाः पूर्वदेशविभागादिकारणीभूतक्रिया विवक्षिता । अतो भगवद्रूपे कृष्णरूपेण पूर्वदेशविभागेऽपि रूपान्तरेण तत्रैव भगवतः सत्वादिति भूमाधिकरणे सिद्धान्ते स्फुटं चन्द्रिकायाम् ॥ छ ॥