०२ परमतनिरासः

अन्ये तु

परमतनिरासः

तात्पर्यचन्द्रिका

अन्ये तु ॥ ‘‘आकाशाद्वायु’’रित्यादावाकाशाद्यभिमानिदेवानामीश्वरा नधिष्ठितानां स्वतन्त्राणामेवोत्तरोत्तरभूतकर्तृतोच्यत इति प्राप्ते ईश्वराधिष्ठितानां परतन्त्राणामेव सोच्यत इत्याहुस् तन्न । त्वयाऽऽकाशादिशब्दानां भूतार्थत्वस्य पञ्चम्याश्चोपादानार्थत्वस्योक्तत्वेनाभिमान्यर्थत्वस्य निमित्तार्थत्वस्य चाभावात् । अभ्युपगमवादेन सिद्धान्तोक्तेश्च क्लिष्टत्वात् । किञ्च ‘‘यः पृथिवीमन्तरो यमयती’’ति त्वदुक्तस्य नियंतृत्वलिङ्गस्य ‘‘तल्लिङ्गा’’दित्यनेनैवोक्तत्वात् ‘‘सोकामयते’’त्यभिधानस्य च देवतानामीश्वराधिष्ठितत्वे लिङ्गत्वायोगात्सूत्रे ‘‘तदभिध्याना’’दिति व्यर्थम् । न चाकाशादित्यादिवाक्यं तत्तद्देवतानां कर्तृत्वपरं तत्तद्भूतानामुपादानत्वपरं चेति द्वेधा पूर्वपक्षे प्राप्ते तत्तद्भावापन्नस्य ब्रह्मण उपादानत्वपरत्वमिति सिद्धान्त इति युक्तम् । त्वदीयभाष्योक्तस्यास्य पक्षस्य भामतीकल्पतरुभ्यामेव ‘‘तेजोत’’ इत्यनेन गतार्थत्वेन निरस्तत्वात् । अपि च मम रीत्या सयुक्तिकया (पितुरन्यस्य मारकत्वयुक्तयनुगृहीतया ‘‘रुद्रोमाविशान्तक’’ इति भाष्योदाहृतया) ब्रह्मणोऽन्यस्य लयकर्तृत्वश्रुत्या ब्रह्मणो लयकर्तृत्वश्रुतेरवश्यनिरसनीयं विरोधं ‘‘तस्याभिध्याना’’दिति समानाक्षरश्रुतिविषयेण ‘‘तदभिध्याना’’दिति सूत्रेण निरस्य ब्रह्मणो लयकर्तृत्व इह स्थापिते उत्तराधिकरणे लयक्रमविचारः सङ्गतो नान्यथा ।

सूत्राक्षरार्थस्तु । तदभिध्यानात् तस्याभिध्यानादिति श्रुत्युक्ताद्धरेरनादि बन्धसञ्जिहीर्षारूपात् । तल्लिङ्गात् सादिजगत्संहर्तृत्वसाधकलिङ्गात् । योऽबादिस्रष्टृत्वेन प्रकृतः यश्च जनकत्वेनामारकतया शङ्कितः यश्च ‘‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत’’ इति स्मृतौ तच्छब्दवाच्यत्वेनोक्तः ‘‘स नो हरिघर््त’’मिति श्रुतौ च स इत्युक्तः स एव हरिः संहर्ता । तुशब्दस्त्वभिध्यानगतस्य संजिहीर्षात्वरूप विशेषस्य द्योतकः । एवकारस्तु कैमुत्यन्यायसूचक इति भाष्य एवोक्तम् ॥ छ ॥ तदभिध्यानाधिकरणम् ॥ ७ ॥

प्रकाशिका

अन्ये त्विति ॥ पूर्वत्र सृष्टिक्रमे भूतानामविरोध उक्तः । अत्र तु तदधिष्ठातृदेवतासु स उच्यते । तत्राकाशाद्यधिष्ठात्र्यो देवताः किं स्वतन्त्रा एव वाय्वादिसर्गे वर्तंत उतेश्वराधिष्ठिता इति सन्देहे आकाशाद्वायुरित्यादिस्वस्ववाक्ये निरपेक्षाणां श्रुतेश् चेतनानां चेतनांतरापेक्षायां कारणाभावाच्च स्वतन्त्रा एवेति जगतो ब्रह्मजत्वव्याघात इति प्राप्ते आकाशादिविकारात्मनाऽवतिष्ठमानस्य तस्येश्वरस्याभिध्यानात् ‘‘सोकामयते’’त्यादिनाऽभिध्यानपूर्वं सर्वात्मकत्वाभिधानात् ‘‘यः पृथिव्यां तिष्ठन् यः पृथिवीमन्तरो यमयती’’ त्यादिनियन्तृत्वरूपतल्लिङ्गात्स परमेश्वरस्सर्वस्य कर्तेति सिद्धान्तसूत्रार्थं चाहुरित्यर्थः । सूत्रार्थं च प्रत्याचष्टे ॥ किं च य इति ॥ व्यर्थमिति ॥ तल्लिङ्गात्स इत्येतावतैव पूर्तेरिति भावः । कल्पतरौ हि ‘‘एतदुक्तं भवति । यथाऽऽकाशात्मना ईश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मनाधिष्ठाते’’ति भाष्यादिभाव उक्तः । तमनूद्य निराह ॥ न चेति ॥ भाष्याद्युक्तमाह ॥ तत्तद्भावेति ॥ निरस्तत्वादिति ॥ ‘‘न तावदिह भूतानां ब्रह्मानधिष्ठितानां स्रष्टृत्वाभावश्चिंत्यते । ईक्षत्याद्यधिकरणैर्गतार्थत्वात् । नापि ब्रह्मण एव तत्तद्भूतात्मना स्थितस्योत्तरकार्योपादानत्वम् । तेजोत इत्यत्र तन्निर्णयात् । अतोऽधिकरणानारम्भ’’ इति कल्पतरावुक्तेः । भामत्यां केवलदेवतापूर्वपक्षस्यैव वर्णनादिति भावः । टीका भाष्ययोजनापरेति भावेनाक्लेशेनैव सूत्राक्षरयोजनामाह ॥ सूत्रेति ॥ इति श्रुत्युक्तादिति ॥ एतेन ‘‘आकाशाद्वायुरित्यादौ पूर्वपूर्वभूतशरीरः स एव पुरुषोत्तम उत्तरोत्तरभूतकारणम् । न तु केवलं भूतम् । तत्तेज ऐक्षत बहुस्यां प्रजायेयेति बहुभावरूपात्परमात्मलिङ्गा’’दिति केषाञ्चिदर्थः प्रत्युक्तः । त्वन्मते तदभिध्यानादित्यस्य मन्मत इव श्रुतिसमानाक्षरत्वाभावात् । तदीक्षणादित्युक्तौ त्वदुदाहृतश्रुतिसमानाक्षरत्वलाघवयोर्लाभेन तथैव निर्देष्टव्यत्वाच्च । श्रुत्यन्तरेऽभिध्यानभावेऽपि विप्रतिपन्ने ‘‘आकाशाद्वायु’’रित्यत्र तदभावाच्च । अभिध्यानात्तल्लिङ्गात्स इति वा तदभिध्यानात्स इत्येतावतावा पूर्तेश्च । तुशब्दवैयर्थ्यस्य स्पष्टत्वाच्च । एवकारेणैव पूर्वपक्षनिरासप्राप्तेरिति ॥ विशेषस्य द्योतक इति ॥ ‘‘तुशब्दश्च विशेषवाची’’ति तत्वप्रदीपोक्तेरिति भावः ॥ छ ॥ तदभिध्यानाधिकरणम् ॥ ७ ॥

चन्द्रिकाविवृतिः

अभ्युपेत्येति (अभ्युपगमवादेनेति) ॥ आकाशादिशब्दानां पञ्चम्याश्च भूतपरत्त्वादिकमभ्युपेत्येत्यर्थः ॥ विकल्पेन पूर्वपक्षोत्थानान्न पूर्वोक्तदोष इत्यभिप्रेत्य शङ्कते ॥ न चाकाशादिवाक्यमित्यादिना ॥ वायुशब्दस्य भूतपरत्त्वे वा देवतापरत्त्वे वा न दोष इति भावः । ननु भवन्मतेऽपि तदभिध्यानादिति पदं व्यर्थमित्याशङ्क्य तल्लिङ्गादित्युक्तािङ्ग-विशेषसमर्पकतया सार्थकत्त्वं मत्त्वा इदानीं स्वमतानुसारेण सूत्राक्षरार्थमाह ॥ सूत्राक्षरार्थस्त्विति ॥ ७ ॥