०२ परमतपरीक्षा

अन्ये तु

परमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु ब्रह्म कार्यं कारणत्वात् पटादिवदिति प्राप्ते सन्मात्रं हि ब्रह्म । तस्य न तावत्सन्मात्रादुत्पत्तिः । अतिशयाभावे कार्यकारणभावायोगात् । नापि सद् विशेषात् । विशेषात्सामान्यस्यानुत्पत्तेः । नाप्यसतः । तस्य निरात्मकत्वादिति सिद्धान्त इत्याहुः । तन्न । मम रीत्या ‘‘असतः सदजायते’’त्यादिश्रुत्या ब्रह्मणः कार्यत्वशङ्कायाः पादसङ्गतायाः सम्भवेऽप्रयोजकेन कारणत्वेन तदसङ्गततच्छङ्कायोगात् । यच्चोक्तं सत्सामान्यं ब्रह्मेति । तन्न । परमार्थसतो ब्रह्मणो व्यावहारिकसदाद्यनुगत्ययोगात् । परमार्थसति च सामान्यविशेषभावाभावात् । सद्व्यक्तीनां च सत्त्वाविशेषेऽपि शक्तशक्यत्वादिविशेषेणैव द्रव्यादिव्यक्तीनामिव कार्यकारणतोपपत्तेः । यत्तूक्तं भामत्याम् अधिष्ठानार्थमपेक्षितेन सत्त्वेन ब्रह्मण आरोपितत्वमिह निषिध्यते । आरोपितता हि कार्यतेति । तत्र प्रक्रमानानुगुण्यम् । न हि पूर्वाधिकरणयोः ‘‘आत्मन आकाशः सम्भूत’’ इत्यादिश्रुत्याऽऽकाशवाय्वादेरात्माकाशादावारोपितत्वमुक्तम् । येनेह ब्रह्मणि तदाशङ्क्य निषिध्येत । सौत्रासम्भवपदास्वारस्यं च । ‘‘नात्मा श्रुते’’रित्यनेन पौनरुक्तयं च । न चात्र ब्रह्मणोऽनुत्पत्त्युक्तिः । नात्मेत्यत्र तु तस्माद्भिन्नस्य जीवस्येति वाच्यम् । विशिष्टरूपस्य जीवस्य ब्रह्मणश्चारोपितत्वात् । आरोपितस्य च निवृत्तिनियमात् । चिन्मात्रानारोपस्य चैकेनैव सिद्धेः ।

केचित्तु असम्भवोऽनुत्पत्तिः सत एव ब्रह्मण एव । अन्यत्तु महदादिकमुत्पद्यत इत्येवं महदादेरुत्पत्त्यर्थमिदं सूत्रमित्याहुः । तन्न । अवक्तव्योक्तेरवश्यवक्तव्यानुक्तेश्च । वियदधिकरणोक्तैरेकविज्ञानेन सर्वविज्ञानादिन्यायैः सिद्धा हि महदादेरुत्पत्तिः पृथगवक्तव्या । अवश्यवक्तव्या च सतोऽनुत्पत्तिः ‘‘सदजायते’’त्यादिश्रुत्यविरोधाय ॥ छ ॥ असम्भवाधिकरणम् ॥ ३ ॥

प्रकाशिका

अन्ये त्विति ॥ ‘‘सदेकस्वभावस्योत्पत्त्यसम्भवः । कुतः । अनुपपत्ते’’रिति सूत्रार्थो भामत्यां व्यक्तः । तत्र सतोऽनुपपत्तेरित्यंशार्थो भाष्य उपपादितः । तमनुवदति ॥ सन्मात्रं हीति ॥ पादसङ्गताया इति ॥ श्रुतिविप्रतिषेधशङ्काया एव पादसङ्गतत्वेन युक्तिविरोधशङ्काया असङ्गतत्वादित्यर्थः । सन्मात्रमित्यस्य किं व्यावहारिकप्रातिभासिकरूपसद्विशेषानुगतसन्मात्रमित्यर्थ उत पारमार्थिकसद्विशेषायावन्तस्तावदनुगतपरमार्थसन्मात्रं वेत्यर्थ इति विकल्पौ हृदि कृत्वाऽऽद्य आह ॥ परमार्थसत इति ॥ द्वितीय आह ॥ परमार्थसतीति ॥ तथा च सन्मात्रमित्यस्य परमार्थसन्मात्रमित्यर्थो न युक्त इति भावः । यदपि तस्य न तावत्सन्मात्रादुत्पत्तिरिति तदपि नेति भावेनाह ॥ सद्व्यक्तीनां चेति ॥ यथा दण्डघटतन्तुपटादिद्रव्यव्यक्तीनां द्रव्यत्वाविशेषेऽपि दण्डादिघटादिजनने शक्तं घटादिकं तु दण्डादिनिष्ठशक्तिविषय इति शक्तशक्यत्वरूपविशेषेण पूर्वापरीभावलक्षणविशेषेण वा कार्यकारणभाववद्भवति तथा सत्त्वाविशेषेऽपि शक्तशक्यत्वादिविशेषेणैव तथाभावोपपत्तेरित्यर्थः ॥ अधिष्ठानार्थमिति ॥ जगदारोपस्य निरधिष्ठानत्वानुपपत्त्या ब्रह्मणोऽधिष्ठानस्य सत्त्वमवश्यमपेक्षितमिति तेन सत्त्वेन हेतुनाऽऽरोपितत्वं ब्रह्मणो नेत्युच्यतेऽसम्भवस्त्विति सूत्र इत्यर्थः । ‘‘विवर्तता हि कार्यते’’ति कल्पतरूक्तमाह ॥ आरोपितता हीति ॥ सौत्रासम्भवपदेति ॥ यद्यपि भामत्यां ‘‘उत्पत्त्यसम्भव’’ इत्येवार्थ उक्तः । न त्वसम्भवपदस्यैवानुत्पत्त्यर्थकत्वम् । येनासम्भवपदस्यानारोपार्थत्वमस्वरसं स्यात् । तथा चारोपासम्भव इत्येवार्थोऽभिमतः । तथापि भाष्ये ‘‘सत उत्पत्तिर्नाशङ्कितव्ये’’त्युक्तयाऽसम्भवपदस्यैवानुत्पत्तिरर्थः परभाष्येऽभिमत इति तद्रीत्या वा उत्पत्त्यसम्भव इत्यर्थवर्णनापेक्षया श्रुतासम्भवपदस्यैवानुत्पत्त्यर्थत्वमुचितमित्युपेत्य वाऽऽरोपार्थत्वे तत्पदास्वारस्यमिदमुक्तमिति ध्येयम् । यत्तु कल्पतरावेतदेव पौनरुक्तयमाशङ्क्य ‘‘तत्र हि ब्रह्मनित्यत्वमुपेत्यैव जीवस्य तदुत्पत्तिराशङ्किष्यत’’ इत्यादिना समाहितं तदनूद्य निराह ॥ न चात्रेति ॥ अनुत्पत्त्युक्तिरिति ॥ तत एव नित्यत्वोक्तिश्चेत्यपि ध्येयम् । किं ब्रह्मजीवशब्दाभ्यां विशिष्टमभिमतमुत चिन्मात्रमिति कल्पौ हृदि कृत्वा क्रमेण प्रत्याह ॥ विशिष्टेति ॥ आरोपितत्वादिति ॥ आरोपस्यैवोत्पत्तिपदार्थत्वोक्तेरनुत्पत्त्युक्तिरयुक्तेत्यर्थः । नित्यत्वोपगमश्चायुक्त इत्याह ॥ आरोपितस्य चेति ॥ एकेनैव अधिकरणेनेत्यर्थः । ‘‘अन्ये त्वेवं व्याकुर्वत’’ इत्यादिसुधोक्तं विवरितुमाह ॥ केचित्त्विति ॥ तन्मते हि नेदमधिकरणान्तरम् । अपि तु ‘‘एतेने’’ति सूत्रवदिदमपि पूर्वशेष एव । तत्र ‘‘असम्भवस्तु सत’’ इत्येतदंशार्थमनुवदति ॥ असम्भवोऽनुत्पत्तिरिति ॥ तुशब्दोऽवधारणार्थः । असम्भवो ऽनुत्पत्तिः । सतः ब्रह्मण एवे’’ति सद्भाष्योक्तेरिति भावः । अनुपपत्तेरित्यस्यैकविज्ञानेन सर्वविज्ञानानुपपत्तेरित्यर्थकस्य एवकारव्यावर्त्यतया प्राप्तेन महदादिकमुत्पद्यत इति साध्येनान्वयः । ब्रह्मणोऽनुत्पत्तेरदृश्यत्वाधिकरणे ‘‘नित्यं विभुं सर्वगतं सुसूक्ष्मं स बाह्याभ्यंतरो ह्यज’’ इति नित्यत्वाजत्वयोरुक्तया सिद्धत्वेनावक्तव्यत्वाद्वियन्मातरिश्व नोरुत्पत्तेरुक्तत्वात्परिशेषान्महदादेरुत्पत्त्यर्थमिदं सूत्रमित्याहुरित्यर्थः ॥ पृथगवक्तव्येति ॥ प्रागुक्तस्योपरि मन्मते ‘‘एतेने’’त्यत्रेव ‘‘ज्ञोत एवे’’त्यत्रेव च त्वन्मते विशेषशङ्कानुक्तेरिति भावः । अवश्यवक्तव्यत्वे बीजमाह ॥ सदजायतेति ॥ छ ॥ असम्भवाधिकरणम् ॥ ३ ॥

चन्द्रिकाविवृतिः

अतिशयाभावे इति ॥ कारणात्कार्ये कश्चिदतिशयः सर्वत्रानुभूयत एवेति भावः ॥ पादसङ्गताया इति ॥ न तु कारणत्वादियुक्ति-विरोधशङ्काश्रुतिविरोधपरिहारात्मके पादेऽस्मिन् सङ्गतेति परपक्षे दूषणं सूचितमिति ध्येयम् । ॥ परमार्थसतो ब्रह्मण इति ॥ ब्रह्मणः सत्सामान्यत्वे त्रिविधसत्ताश्रयत्वमपि वक्तव्यमेव । तच्चायुक्तम् । तस्य पारमार्थिकत्वेन इतरसत्ताश्रयत्त्वायोगादिति भावः ॥ परमार्थतत्सामान्यत्वमस्त्वित्याशङ्क्य परमार्थसद्य्वतिरेकत्त्वात्परमार्थसत्सामान्यमपि न ब्रह्मण इत्याह ॥ परमार्थसतीति ॥ शक्तशक्यत्वादीति ॥ किंचिच्छक्तं किंचिच्छक्यं किंचिद्विशेषणकं किंचिद्विशेष्यकमित्यादीत्यर्थः ॥ ननु ब्रह्मण आरोपितत्वनिषेधेऽपि न कार्यत्त्वनिषेध इत्यत आह ॥ आरोपितताहीति ॥ आत्माकाशादाविति ॥ आत्मनि कथंचिदाकाशारोपसम्भवाभिमानेप्यनाकाशे वाचारोपासम्भवात्तस्मात्स्वरूपोत्पत्तिरारोपाति-रिक्तांगीकार्येति भावः ॥ असम्भवपदेति ॥ सम्भवपदस्य•ोके उत्पत्तावेव प्रसिद्धत्त्वेनारोपेऽप्रयोगादिति भावः ॥ ब्रह्मजीवशब्दाभ्यां विशिष्टचिद्गृह्यते चिन्मात्रं वेति विकल्प्याद्यं दूषयति ॥ विशिष्टरूपस्येति ॥ द्वितीयमाह ॥ चिन्मात्रानारोपस्येति ॥ अवक्तव्योक्तिम् अवश्यवक्तव्यानुक्तिं च क्रमेणोपपादयति ॥ वियदधिकरणोक्तैरित्यादिना ।