०२ वासुदेवादिव्यूहरूपनिरूपणम्

किञ्च ‘‘यतो वा इमानि भूतानि जायन्ते

वासुदेवादिव्यूहरूपनिरूपणम्

तात्पर्यचन्द्रिका

किञ्च ‘‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । विज्ञानघन एतेभ्यो भूतेभ्यःसमुत्थाय तान्येवानुविनश्यति । यथाग्नेःक्षुद्रा विस्पुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्व एवात्मानो व्युच्चरन्ती’’ ति जीवोत्पत्त्यादि श्रूयते । न ह्यचेतनस्य जीवनादि युक्तम् । श्रुतिर्देहयोगादिपरा चेत्पञ्चरात्रमपि तथास्तु । श्रुतिष्विव पञ्चरात्रेऽपि

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

स ह्यनादिरनन्तश्च परमार्थेन निश्चितः ॥

इत्यादौ जीवनित्यतोक्तेः । प्रत्युत परपक्ष एव विशिष्टरूपो जीवो न नित्यः । जीवशब्दलक्ष्यं शुद्धं नित्यमिति चेज्जीवपदलक्ष्यस्याजीवत्वेन जीवानित्यत्वतादवस्थ्यात् । त्वन्मते संसरणस्य दर्पणमालिन्यादिवदनित्यविशिष्यरूपप्रतिबिम्बगतत्वेन बन्धमोक्षयोर्वैयधिकरण्यादिदोषापत्तेश्च । अविद्यावच्छिन्नचैतन्यरूपस्य वा तत्प्रतिबिम्बितचैतन्यरूपस्य वा जीवस्यानादित्वेऽप्यन्तःकरणविशिष्टस्याहमर्थस्य प्रतिसर्गं प्रतिजागरणं चोत्पत्तेरहमर्थस्यैव च कर्तृत्वाङ्गीकारात्त्वन्मत एव कृतहान्याद्यापाताच्च । एवं जीवान्मनस उत्पत्त्यसम्भवदोषोऽपि परेषां पक्ष एव । तैः ‘‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी’’ त्यादिश्रुत्या ब्रह्मणो जीवरूपेणैव मन आदि जगत्स्रष्टृत्वस्य वक्तव्यत्वात् ।

वस्तुतस्तु ‘‘वासुदेवात्सङ्कर्षण’’ इत्यादिकं

जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य च ।

वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ।

मनोभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।

सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।

व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥

इत्यनुव्याख्यानोक्तरीत्याऽन्यपरं न तु जीवोत्पत्त्यादिपरम् । तत्तव्द्यापारार्थतत्तदधिकार्युपासनार्थं चाचिन्त्यशक्तेर्भगवतः स्वेच्छया दशद्वादशचतुर्विंशत्यादिव्यूहरूपेणेव चतुर्व्यूहरूपेणाप्यवस्थानं युक्तम् । अन्यथा ‘‘स एको भवति स त्रिधा भवती’’त्यादिश्रुतिः

सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना ।

सृज त्वमात्मना कृष्ण प्रद्युम्नञ्चात्मसम्भवम् ।

प्रद्युम्नाच्चानिरुद्धं तं यं प्राहुर्विष्णुमव्ययम् ।

अनिरुद्धोऽसृजत्सोऽयं ब्रह्माणं लोकधारिणम् ॥

इत्यादिभारतादिवचनञ्चाप्रमाणं स्यात् । किञ्च त्वन्मते ‘‘उत्पत्त्यसम्भवा’’दिति सामान्योक्तयैव जीवोत्पत्त्यसम्भववत्कर्तु; करणोत्पत्त्यसम्भवस्यापि विवक्षितुं शक्यत्वाद्द्वितीयसूत्रवैयर्थ्यम् । किञ्चैवं कर्तुश्च करणस्येत्येव सूत्रणीयम् । ‘‘उत्पत्त्यसम्भवा’’दित्यनेनानुषक्तेनास्यान्वयसम्भवात् । यथा न्यासपक्षेऽपि ह्युत्पद्यत इत्येतदध्याहार्यम् । अध्याहाराच्चानुषङ्गो ज्यायान् । तृतीयेऽपि मम ‘‘विज्ञानादिभाव’’ इत्यत्र द्वितीये प्रकृतस्य कर्तुरित्यस्यान्वयः । तव तु सङ्कर्षणादीनामित्यध्याहारः । तदप्रतिषेध इति वक्रोक्तिवैयर्थ्यं च । स इत्येतावतैव प्रकृतस्योत्पत्त्यसम्भवस्य परामर्शोपपत्तेः । मम तु तदप्रतिषेधः दूषितत्वेन सन्निहितस्य पाशुपतमतस्याप्रतिषेध; । अनुमतिः । तदन्तर्भाव इत्यर्थः ।

किञ्च उत्पत्त्यसम्भवभयात्सङ्कर्षणादीनां जीवत्वं त्यक्त्वा परमात्मत्वं शङ्कमानेनोत्पत्तिवाक्यस्य प्रादुर्भावाभिप्रायताया अवश्यं विवक्षितत्वेन तं प्रत्युत्पत्त्यसम्भवोक्तिरयुक्ता । चतुर्थोक्तस्तु विप्रतिषेधोऽसिद्धः । ज्ञानादीनां गुणत्वेऽपि ‘‘एवं धर्मान् पृथक् पश्य’’न्नित्यादिश्रुतिभिः स्वरूपत्वात् । अन्यथा ‘‘आनन्दो ब्रह्म आनन्दं ब्रह्मण’’ इति श्रुत्योरपि विप्रतिषेधः स्यात् । शाण्डिल्यवर्तनेऽपि

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः ।

न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥

इत्यादाविव पञ्चरात्रेण वेदोपबृंहणस्य विवक्षितत्वेन वा ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्र’’मित्यादिवन्न हि निन्दान्यायेन पञ्चरात्र प्राशस्त्यमात्रपरत्वेन वा वेदनिन्दाया अभावात् । तथा पञ्चरात्रस्य वेदाविरोधेन विरोधाधिकरणन्यायाविषयत्वात्स्मृत्यधिकरणन्यायेन वेदमूलत्वेन प्रामाण्यमेव । तस्मात्

शाक्तपक्षे पक्षपाताद्विद्वेषाद्वैष्णवे मते ।

महासुरैः पञ्चरात्रनिरास इह कल्पितः ॥ १ ॥

प्रकाशिका

श्रुतौ भूतशब्दस्य जडपरत्वमाशङ्क्याह ॥ न ह्यचेतनस्येति ॥ आद्यसूत्रे कृतहान्यादिर्यो दोष उक्तस्स तवैव न तु गौणोत्पत्तिपक्ष इत्याह ॥ अविद्येति ॥ द्वितीयसूत्रोक्तदोषोऽपि तवैवेत्याह ॥ एवमिति ॥ इत्यादिकमन्यपरमित्यन्वयः । जनिर्देहयोगरूपा । ततः सङ्कर्षणनामकाच्छेषात् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञकोऽहंकारो जायत इति गृह्यते । अर्थान्तरमप्याह ॥ साक्षादिति ॥ एतदर्थः सुधायां व्यक्तः । यदस्मिन्पक्षे दूषणं ‘‘तथाप्युत्पत्त्यसम्भवस्याप्रतिषेध’’ इत्यादि तत्सुधोक्तानुव्याख्यानतात्पर्यविवरणेन निराह ॥ तत्तदिति ॥ सृजेति वाक्यान्तरम् । सूत्रास्वारस्यं चाह ॥ किञ्चेति ॥ द्वितीयसूत्रेति ॥ एतच्च केषाञ्चिन्मतेऽपि समम् । किञ्चैवमित्याद्यपि सममेवेति बोध्यम् । सुधोक्तमेव समाधिं व्यनक्ति ॥ ज्ञानादीनामिति ॥ ‘‘यदि विद्याच्चतुर्वेदानितिवद्वेदपुराण’’मित्याद्यनुभाष्योक्तं सुधोक्तदिशा व्यनक्ति ॥ यदि विद्यादिति ॥ रामानुजभाष्योक्तं समाध्यंतरमाह ॥ प्रातःप्रातरिति ॥ ‘‘न हि निन्दा निंद्यं निन्दितुं प्रवर्तते । अपि तु विधेयं स्तोतु’’मिति वार्तिकोक्तन्यायेनेत्यर्थः । ‘‘अतःपरमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्ये’’त्याद्यनुव्याख्यानं हृदि निधायाह ॥ शाक्तपक्ष इति ॥