०१ पञ्चरात्रप्रामाण्यसमर्थनम्

अन्ये तु पञ्चरात्रे ..

उत्पत्यधिकरणम्

तात्पर्यचन्द्रिका

पञ्चरात्रप्रामाण्यसमर्थनम्

॥ ॐ उत्पत्त्यसम्भवात् ॐ ॥

अन्ये तु पञ्चरात्रे यदुच्यते वासुदेवात्सङ्कर्षणनामा जीवो जायत इति तन्न । जीवानादित्वस्य श्रुत्यादिसिद्धत्वेन कृतहानाकृताभ्यागमादिप्रसङ्गेन च जीवोत्पत्त्यसम्भवादित्याद्येनोक्त्वा यच्चोच्यते सङ्कर्षणाख्याज्जीवात्प्रद्युम्नो नाम मनो जायत इति तदपि न । न हि कर्तुः करणमुत्पद्यमानं दृश्यते । कर्ता च जीवः करणं च मन इति द्वितीयेनोक्त्वा अथ सङ्कर्षणादयो न जीवरूपाः किन्तु परमात्मरूपा एवेति तेषामपि तद्वदेव ज्ञानैश्वर्यादिसद्भाव इति मतम् । तथाप्युत्पत्त्यसम्भवस्याप्रतिषेध एव । सर्वेषां भगवद्रूपत्वेनातिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेनेति तृतीयेनोक्त्वा परस्परं वेदेन च विप्रतिषेधश्चास्मिन् शास्त्रे दृश्यते । ज्ञानैश्वर्यादीनां क्वचिद्गुणत्वोक्तेः क्वचिच्च स्वरूपत्वोक्तेः । चतुर्वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधीत्वा नित्यादिवेदनिन्दादर्शनाच्चेति चतुर्थेनोक्तम् । तथा च पञ्चरात्राप्रामाण्यप्रतिपादकमिदमधिकरणमित्याहुः । तन्न । ‘‘ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोका’’ इति श्रुत्या ‘‘इतिहासपुराणः पञ्चमो वेदानां वेद’’ इत्यादिश्रुत्या विरोधात् । ‘‘कृतं शतसहस्रं हि श्लोकानां हितमुत्तम’’मिति भारते पञ्चरात्रस्य निरुपपदश्लोकशब्देनोक्तेर्

भारतं पञ्चरात्रञ्च मूलरामायणं तथा ।

इतिहास इति प्रोक्तं ब्रह्माद्यन्तु पुराणकम् ॥

इति पाद्मे पञ्चरात्रस्येतिहासत्वोक्तेः।

वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ।

दृश्योऽहं नान्यथाऽदृश्यो वर्षकोटिशतैरपि ॥ इति वाराहोक्तेः ।

ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ।

मूलरामायणञ्चैव शास्त्रमित्यभिधीयते ।

यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।

अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्मत ॥

इति च स्कान्दोक्तेः ।

ऋगाद्या भारतञ्चैव पञ्चरात्रमथाखिलम् ।

मूलरामायणञ्चैव पुराणञ्चैतदात्मकम् ।

ये चानुयायिनस्तेषां सर्वे ते च सदागमाः ।

दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दन ॥ इति च ब्रह्माण्डेनोक्तेः ।

वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलम् ।

तत्संक्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ॥

इति च ब्रह्मवैवर्तोक्तेः ।

भारते साङ्खयं योगः पाशुपतं वेदारण्यकमेव च ।

ज्ञानान्येतानि भिन्नानि उताहो नेति चोच्यताम् ॥ इति पृष्टे ।

साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।

ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥

इति साङ्खयादीनां परस्परं विरुद्धत्वमुक्त्वा

पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।

ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ।

पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप ।

एकान्तभावोपगता वासुदेवं विशन्ति ते ॥

इति प्राग्वेदारण्यशब्दोपलक्षितस्य पञ्चरात्रस्य विशेषोक्तयाऽर्थात्प्रामाण्योक्तेश्च । विस्तृतञ्चैतत्प्रथमसूत्रभाष्यादौ । तथा भारत एव

इदं महोपनिषदं चतुर्वेदसमन्वितम् ।

साङ्खययोगकृतां तेषु पञ्चरात्रानुशब्दितम् ॥

इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।

ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥

भविष्यति प्रमाणं वै एतदेवानुशासनम् ॥

इति साक्षात्प्रामाण्यवेदमूलत्वयोस् तथा ‘‘अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवःस्वय’’मिति मन्वादिस्मृतीनामपि पञ्चरात्रमूलकत्वस्य तथा ‘‘वेदैश्चतुर्भिः सम्मितं कृतं मेरौ महागिरा’’ विति सर्वमुनिजनसङ्कुले पुण्यदेशे प्रवर्तितत्वस्य,

तथा

तत्र प्रशासतो राज्यं धर्मेणामित्रघातिनः ।

नानृता वाक् समभवन्मनो दुष्टञ्च नाभवत् ॥

संस्थिते तु नृपे तस्मिन् शास्त्रमेतत्सनातनम् ।

अन्तर्धास्यति तत्सर्वमेतद्वःकथितं मया ॥

इति सत्काले प्रवृत्तेर्दुष्काले तिरोधानस्य तथा श्रुत्वा ब्रह्ममुखाद्रुद्रः स देव्यै कथयन् पुन’’रिति

(एकाग्रमनसो दान्ता ऋषयः समये रताः ।

दिव्यवर्षसहस्रान्ते सर्वे ते मुनयः समम् ।

नारायणानुशिष्टा हि तदा देवी सरस्वती ।

विवेश तानृषीन् सर्वांल्लोकानां हितकाम्यया ।)

ऋषीनुवाच तान् सर्वानदृश्यः पुरुषोत्तमः ।

कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम् ॥ इति ।

उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ।

तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ।

युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।

बृहस्पतिसकाशाद्धै प्राप्स्यति द्विजसत्तम ॥

इत्यादिना शिष्टपरिग्रहस्य तथा ‘‘वक्ता नारायणःस्वय’’ मिति वक्तुर्भ्रान्त्याद्यभावस्य ‘‘हितकाम्यये’’ त्यादिना विप्रलिप्साभावस्य चोक्तेः । एतेन पाशुपतादिप्रतिबन्दी निरस्ता । तेषां श्रुतिस्मृतिषु प्रामाण्याद्यनुक्तेः । प्रत्युत तत्प्रतिषेधात् । उक्तञ्चैतत् ‘‘स्मृत्यनवकाशे’’ त्यत्र । ननूक्तानि श्रुत्यादीन्यविरुद्धविषयाणि । जीवोत्पत्तिस्तु श्रुत्यादिविरुद्धा । अत एव साङ्करभाष्येऽपि वासुदेवतदाराधनादावन्यत्र सर्वत्र पञ्चरात्रप्रामाण्यमुपेत्य वेदविरुद्धजीवोत्पत्त्यादावेवाप्रामाण्यमुक्तमिति । तन्न ।

अविरोधे श्रुतिर्मूलं न मूलान्तरसम्भवः ।

विरोधे त्वन्यमूलत्वमिति स्यादर्धवैशसम् ॥

कठमैत्रायणीयादिपठितश्रुतिमूलिकाः । दृश्यन्ते स्मृतयः सर्वा य(थो)दोपनयनादिषु(काः) । तदा तन्मध्यपात्येकं वाक्यं किञ्चिदपश्रुति । मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्तत’’ इति भाट्टोक्तेस्तन्मतानुसारिणा त्वयाप्यन्यत्र सर्वत्र श्रुतिसंवादिन्याःश्रुतिस्मृतिपरिगृहीतायाश्च पञ्चरात्रस्मृतेः श्रुति विरुद्धांशे गौणार्थत्वस्यैव वक्तव्यत्वेनाप्रामाण्योक्तययोगात् । उक्तं च कल्पतरावपि

बुद्धिपूर्वकृतिः पञ्चरात्रं निश्वसितं श्रुतिः ।

तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते ॥ इति ।

न चेदमेवाप्रामाण्यम् ।‘‘गौण्यसभ्मवा’’ दित्यादौ श्रुतेरपि श्रुत्यन्तरविरोधेन गौणार्थताया वक्ष्यमाणत्वात् ।

प्रकाशिका

अन्ये त्विति ॥ केषाञ्चिन्मतमग्रे निरसिष्यते । वासुदेवाद् वासुदेवनामकपरमात्मनः सकाशादित्यर्थः । तत्र हि वासुदेवात्सङ्कर्षणो नाम जीवः सङ्कर्षणात्प्रद्युम्नो नाम मनः प्रद्युम्नादनिरुद्धो नामाहंकारो जायत इत्युच्यते । तत्र वासुदेवो भगवान् । सङ्कर्षणादयस्तु यथाक्रमं जीवमनोहंकारा इत्युभाभ्यामर्थ उक्तः । तत्रोपयुक्तांशमनूद्य तन्निरासार्थत्वेनाद्यसूत्रार्थमनुवदति ॥ तन्नेति ॥ अकृताभ्यागमादीत्यादिपदेन ‘‘नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य’’ इति जीवोत्पत्तिनिरासकसूत्रविरोधो ग्राह्यः । ‘‘न च कर्तुः करण’’मिति सूत्रार्थमनुवदति ॥ यच्चेति ॥ ‘‘विज्ञानादिभावे वा तदप्रतिषेध’’ इति सूत्रार्थमनुवदति ॥ अथेति ॥ अस्तु भगवद्रूपयोरपि जन्यजनकभावः । येनोत्पत्त्यसम्भवः परिहृतस्स्यादित्यत आह ॥ सर्वेषामिति ॥ ‘‘विप्रतिषेधाच्चे’’ति सूत्रार्थमन्वाह ॥ परस्परमिति ॥ तद्व्यनक्ति ॥ ज्ञानेति ॥ श्रेयो ऽलब्ध्वेति पदच्छेदः । छान्दोग्यवाक्यमाह ॥ ऋग्वेद इति ॥ वाक्यान्तरमाह ॥ इतिहासेति ॥ पञ्चरात्रस्य श्लोकत्वमितिहासत्वं च वाक्यद्वयेन क्रमाद्य्वनक्ति ॥ कृतमिति ॥ पञ्चरात्रस्य मुक्तिहेतुपरब्रह्मज्ञानोपायत्वे स्मृतिमाह ॥ वेदेनेति ॥ वेदादितौल्येन शास्त्रत्वेस्मृतिमाह ॥ ऋग्यजुरिति ॥ सच्छास्त्रत्वे प्रमाणान्तरं पठति ॥ ऋगाद्या इति ॥ वेदोपबृंहकत्वे स्मृतिमाह ॥ वेदेति ॥ एतेन पञ्चमवेदत्वमस्योपपादितं बोध्यम् । यद्वा कृत्स्नपञ्चरात्रस्याप्युपादेयत्वे स्मृत्युक्तिरियम् । एतेन ‘‘चतुर्वेदेष्वि’’ति परोक्तं वाक्यं वेदार्थपूरकत्वपरं पञ्चरात्रस्य । ‘‘यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् । पञ्चरात्रादिति कुतो द्वेषश्शाण्डिल्य वर्तन’’ इत्यनुव्याख्यानोक्तेरिति । एताश्च स्मृतयस्तत्र तत्र भाष्यतत्वनिर्णयादिग्रन्थेष्वाचार्योदाहृताः । कृत्स्नप्रामाण्ये वाक्यान्तरं पठति ॥ भारत इति ॥ ज्ञानानि ज्ञानजनकानि ॥ विस्तृतं चैतदिति ॥ साङ्ख्यं योग इत्यादिनोक्तम् । शास्त्रयोनिसूत्रभाष्यादाविति पाठस्साधुः । यद्वा ‘‘एषमोहं सृजामी’’त्यादिना पाशुपताद्यप्रामाण्यवैष्णवग्रन्थप्रामाण्यादेरुक्तया तदभिप्रायेण ‘‘प्रथमसूत्रे’’त्यादि पाठः । रामानुजभाष्योक्तं वाक्यं पठति ॥ भारत एवेत्यादिना ॥ साङ्ख्ययोगकृतांतेत्यत्र साङ्ख्ययोग शब्दाभ्यां ‘‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’’मिति गीतोक्तदिशा ज्ञानकर्मयोगौ ग्राह्यौ । तेन ‘‘एतेन योगः प्रत्युक्त’’ इत्याद्यविरोधः । कृतांतेषु सिद्धान्तेषु । प्रकारान्तरेण प्रामाण्यं वाक्यान्तराणि स्वयमुदाहृत्य साधयति ॥ तथेति ॥ षष्ठ्यन्तानां ‘‘उक्ते’’रिति वक्ष्यमाणेनान्वयः । ननु पाशुपतसाङ्ख्यादेरपि सर्वज्ञपशुपत्यादिप्रणीतत्वात्प्रामाण्यं स्यादित्यत आह ॥ एतेनेति ॥ तदेव व्यनक्ति ॥ तेषामिति ॥

साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।

आत्मप्रमाणान्येतानि न हातव्यानि हेतुभिः ॥

इत्येतत्तु रामानुजभाष्ये ‘‘तत्तदभिहिततत्तत्स्वरूपमङ्गीकार्य’’मित्युक्तरीत्या पाशुपताद्युक्ताविरुद्धप्रमेयाङ्गीकारमात्रपरं वा वेदपञ्चरात्रं हेतुभिरपि न हातव्यमन्यत्तु स्वभावत एव हेयमित्येवंपरमिति वा मोहनपरं वा नेयमिति भावः । ‘‘अविरोधे श्रुतिर्मूल’’मिति श्लोकः, ‘‘विरोधे त्वनपेक्षं स्या’’दिति स्मृतिपादीयद्वितीयाधिकरणपूर्वपक्षवार्तिकश्लोकः । कण्ठेत्यादि तु ‘‘दर्शनाच्चे’’त्यत्रत्यवार्तिकम् । उपनयनादिषु विषये । तत्प्रतिपादका इति यावत् ॥ तन्मध्यपातीति ॥ उपनयनादिबोधकमन्वादिस्मृतिमध्यपातीत्यर्थः । अपश्रुति अनुपलभ्यमानमूलश्रुत्युपेतमित्यर्थः । भाष्यभामत्योरुक्तमप्रामाण्यमरोचमानः ‘‘सिद्धान्तस्त्वि’’त्यादिना प्रमेयं सञ्जग्राह । तं श्लोकं पठति ॥ बुद्धिपूर्वेति ॥ व्याख्यातं च ‘‘अतः प्रमाणावधृते विषये गौणं तद्वचनम् । न तु भ्रांत’’मिति ।