०१ पाशुपतमतनिरासः

पञ्चममुखछेत्र इति

पत्युरधिकरणम्

तात्पर्यचन्द्रिका

पाशुपतमतनिरासः

ॐ पत्युरसामंजस्यात् ॐ

पञ्चममुखछेत्र इति ॥ सुधायां तु व्यत्ययमाश्रित्य ब्रह्मद्विषां शरवे हिंसकायेति व्याख्यातम् । दक्षप्रजापतिद्विष इति वा द्रष्टव्यम् । एषशब्दस्य आ ईश इति व्रिग्रहः । शकारस्य च व्यत्ययेन षकार इत्यभिप्रेत्याह ॥ आसमंतादीशस्येति ॥ सुधायां त्विच्छारूपस्येति व्याख्यातम् ॥ इति च न जगत्कारणत्वमिति ॥ इति हेतोश्च न कारणत्वमित्यर्थः । एते च सम्बन्धानुपपत्त्यादयो दोषाः शिवस्यानुमानेन शैवागमैश्च कारणत्वपक्ष आपाद्यंते । स्वमते तु ‘‘आत्मनि चैवं विचित्राश्च हि । सर्वोपेता च तद्दर्शनात् । विकरणत्वान्नेति चेत्तदुक्तं’’ इत्यादिसूत्रेषु श्रुतिबलादेवैते दोषा उद्धृताः । शिवस्य तु न श्रुतिभिर्जगत्कारणत्वम् । सर्वश्रुतीनां विष्णावेव समन्वयस्योक्तत्वात् । उत्तराधिकरणेऽप्येतदनुसन्धेयम् । अत्र यदुक्तमन्यैर् ईश्वरः कर्तैव न तूपादानमिति वदतां तार्किकसेश्वरसाङ्ख्ययोगमाहेश्वराणां मतमत्र निरस्यत इति तन्न । केवलकर्तृत्वमेव श्रुतिसूत्रसंमतमित्युक्तत्वात् । किं च उपादाननिमित्तभेदः प्रकृत्यधिकरणे निरस्तः । न चेह तद्भेदे दोषः सूत्र उक्तः । प्रत्युत हेयजगदुपादानत्व एवेश्वरस्यासामंजस्यम् । तार्किकमतं शास्त्रयोनिसूत्रे सामान्येन ‘‘महद्दीर्घवद्वे’’त्यत्र विशिष्य च निरस्तम् । योगमतं तु ‘‘एतेन योगः प्रत्युक्त’’ इत्यत्र विशिष्य निरस्तम् । सेश्वरसाङ्ख्यमतं तु साङ्ख्यपरीक्षायां निरस्तमितीह परिशेषात्पाशुपतमतमेव निरस्यमिति वरम् । यच्चोक्तमाद्यसूत्रे ‘‘असामंजस्या’’दित्यस्य हीनमध्योत्तमभावेन प्राणिनिर्माणादीश्वरस्य रागद्वेषाख्यदोषप्रसङ्गादित्यर्थ इति तन्न ।

नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ।

उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।

यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया ।

धनुर्यंकामयेतं तमुग्रं माशिश्नदेवताः ।

घ्नन् शिश्नदेवानेकोऽसावासीन्नारायणः परः ।

तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।

यज्ञेन यज्ञमयजंताबध्नन्पुरुषं पशुम् ।

यो भूतानामधिपती रुद्रस्तंतिचरो वृषा ॥

इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलये भवः ।’’ इत्यनुव्याख्यानोक्तरीत्या पारतंत्र्यादिरूपास्वव्याघातकसिद्धरूपदृढहेतुपरत्वे सम्भवति स्वव्याघातकप्रसङ्गरूपादृढहेतुपरत्वायोगात् । ननु मम मते श्रुत्यनुसारेण कर्मसापेक्षत्वादीश्वरस्य रागाद्यप्रसङ्ग इति न स्वव्याघातः । परस्यापि तथा चेच्छत्यनुसारेणोपादानतापि स्यादिति चेन्न । त्वन्मतेऽपि विशिष्टचिद्रूपस्येश्वरस्य जीवभ्रांतिकल्पितत्वेन जीवकर्मापेक्षायोगात् । यच्चोक्तं सर्वगतत्वान्निरवयवत्वाच्चेश्वरस्य प्रधानादिना सह संयोगस्याश्रयाश्रयिभावाभावेन समवायस्य चायोगान्न तदधिष्ठातृत्वम् । मम त्वनिर्वाच्यस्तादात्म्यलक्षणः सम्बन्धोऽस्तीति द्वितीयार्थ इति तन्न । सर्वज्ञस्येश्वरस्य स्वस्मिञ्जगत्तादात्म्य भ्रमाभावात् । ‘‘अधिष्ठानानुपपत्ते’’रित्युत्तरसूत्र एव स्वप्रधानस्याधिष्ठेयत्वाभावसाधकानामप्रत्यक्षत्वादीनामिवासम्बन्धत्वस्यापि विवक्षितुं शक्यत्वेनैतत्सूत्रवैयर्थ्यात् । तादात्म्यसम्बन्धेनाधिष्ठानत्वस्य क्वाप्यदृष्टेश्च । सर्वज्ञस्येश्वरस्य स्वस्मिञ्जगत्तादात्म्यभ्रमाभावाच्च ।

यच्चोक्तमप्रत्यक्षत्वात्प्रधानपरमाण्वादेरीश्वरस्य तदधिष्ठातृत्वानुपपत्तेरिति तृतीयार्थ इति तन्न । कर्तृत्वानुपपत्तेः साध्यत्वेन हेतूकरणायोगात् । परमाण्वादेरीश्वरं प्रति प्रत्यक्षत्वाच्च । अत एव यदुक्तं यथा ह्यप्रत्यक्षं चक्षुरादिकरणं जीवोऽधितिष्ठत्येवमीश्वरोप्रत्यक्षं प्रधानादीति चतुर्थे शङ्काभागार्थ इति तन्निरस्तम् । ईश्वरं प्रति प्रधानादेरप्रत्यक्षत्वाभावेन शङ्कानुदयात् । मम त्वात्मनस्तत्तत्कार्यजनने शरीरस्य सहकारित्वात्तत्र करणशब्दो युक्तः । यच्चोक्तमीश्वरो जीवादीनियत्तया परिच्छिनत्ति न वा । आद्ये तेषां परिमितत्वरूपमन्तवत्त्वं स्यात् । तथा च तेषां सर्वेषां मुक्तौ शून्यवादापातः । जडस्यापि जीवार्थमेव सृष्टेः । अंत्ये ईश्वरस्यासार्वज्ञमिति पञ्चमार्थ इति तन्न । सर्वमुक्तावपि चेतनानां जडानां च नित्यानां सत्त्वेन शून्यवादाप्रसङ्गात् । कार्याभावस्य चेष्टत्वात् । तव मत एव कल्पितस्य चिन्मात्रादन्यस्येश्वरादेः कालादेर्वेदादेः कर्मसृष्टिप्रलयादिप्रवाहस्य च कदाचिन्निः शेषनिवृत्त्यवश्यंभावेन शून्यवादापातात् । जीवादीनामसङ्ख्यत्वेनाविद्यमानाया इयत्ताया अज्ञाने सार्वज्ञाहानेश्च । न च द्रव्यत्वादिना जीवानां ससङ्ख्यत्वं साध्यमिति भामत्युक्तं युक्तम् । परमाण्वादौ घटादौ च व्यभिचारादप्रयोजकत्वात्स्वव्याघातकत्वाच्च । मम रीत्यांतवत्त्वस्याद्यसूत्र प्रकृतेश्वरधर्मिकत्वे ‘‘असर्वज्ञता वे’’ति वैकल्पिकेनासर्वज्ञत्वेन सामानाधिकरण्ये च सम्भवति जीवादीनामिति धर्म्यध्याहारस्य वैयधिकरण्यस्य चायोगाच्च ॥ पत्युरधिकरणम् ॥ ११ ॥

प्रकाशिका

ब्रह्मतोऽप्याधिक्यभ्रान्तिनिरासायार्थांतरं च दर्शयति ॥ सुधायां त्विति ॥ ‘‘ननु विष्णावप्येते दोषाः प्रसरंत्येवेति कारणत्वानुपपत्तिरित्याशङ्कां सूत्रकृता निरस्तामपि पुनः प्रमाणविशेषैः परिहरती’’त्यादिटीकां व्यनक्ति ॥ एते चेत्यादिना ॥ उत्तरेति ॥ ‘‘न च कर्तुःकरण’’मित्यादिदोषनिरासाय स्वमते त्वित्यादिनोक्तमनुसंधेयमित्यर्थः ॥ अन्यैरिति ॥ ईश्वरः कर्तैव न तूपादानमिति वदतां निरास इति मतांतरेऽपि समं यद्यपि । तथापि कापालकालामुखपाशुपतशैवभेदभिन्नचतुर्विधमाहेश्वरमतमात्रनिरासोपगमादन्यैरित्येवोक्तम् । तथा च केवलेति वक्ष्यमाणो दोषस्तन्मतेऽपि ध्येयः ॥ उक्तत्वादिति ॥ प्रकृत्यधिकरणारम्भणाधिकरणादावित्यर्थः । इहापि निरस्यतामित्यत आह ॥ न चेति ॥ किं चेति चार्थः । अन्यमते दोषान्तरमाह ॥ तार्किकेति ॥ पाशुपतमतमेवेति ॥ एतेन ‘‘पाशुपतपक्षं निराकरोती’’ति भाष्यं समर्थितं ज्ञेयम् ॥ यच्चोक्तमिति ॥ अन्यैरित्यस्ति । पत्युरीश्वरस्येति व्यक्तम् । कैश्चित्पत्युः पशुपतेर् मतं नादरणीयम् । अन्योन्यव्याघातेन नारायणजगत्कारणत्वबोधकवेदविरोधेन चासामंजस्यादित्यर्थ उक्तः । एतन्मते पूर्वस्मात् ‘‘ने’’त्यनुवृत्तावप्यनैकाध्याहारदोषस्स्पष्ट इत्युपेक्ष्यान्यमत एव दोषमाह ॥ तन्नेत्यादिना ॥ अनुव्याख्यानार्थस्सुधायां व्यक्तः ॥ सिद्धरूपेति ॥ त्वदुक्तरागादिदोषस्यापाद्यत्वेनासिद्धत्वमिति भावः ॥ स्वव्याघातकेति ॥ ब्रह्मवादिनोऽप्यस्य दोषस्य साम्यादिति भावः ॥ श्रुत्यनुसारेणेति ॥ ‘‘सो कामयत । बहुःस्यां प्रजायेयेति । तदात्मानस्वयमकुरुते’’त्यादिश्रुत्यनुसारेणेत्यर्थः ॥ जीवभ्रांतीति ॥ निर्विशेषशुद्धस्याकल्पकत्वादात्मनैव कल्पितत्व आत्माश्रयाज्जीवभ्रांतिकल्पितत्वेनेत्युक्तम् । ‘‘सम्बन्धानुपपत्तेश्चे’’ति सूत्रार्थमन्यमतेऽनूद्य निराह ॥ यच्चोक्तमिति ॥ अन्यैरित्यस्ति । केषांचिन्मते नास्त्येवेदं सूत्रम् । न तदधिष्ठातृत्वं न प्रधानाद्यधिष्ठातृत्वमित्यर्थः ॥ सर्वज्ञस्येति ॥ ‘‘सर्वज्ञस्य भ्रांतत्वायोगा’’दिति न प्रयोजनाधिकरणभामत्युक्तेरिति भावः । ‘‘अधिष्ठानानुपपत्तेश्चे’’ति सूत्रार्थं परमतेऽनूद्य निराह ॥ यच्चोक्तमिति ॥ केषाञ्चिन्मते त्वशरीरस्येश्वरस्य प्रधानाद्यधिष्ठानानुपपत्तेरित्यर्थः ॥ जडसृष्टिसम्भवात्कुतश्शून्यवाद इत्यत आह ॥ जडस्यापीति ॥ चेतनानामिति ॥ त्वन्मत इव तन्मते ब्रह्मैक्याभावादिति भावः ॥ अविद्यमानाया इति ॥ अत एव भामत्यां ‘‘यस्य त्वं त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहती’’त्युक्तमिति भावः ॥ द्रव्यत्वादिनेति ॥ सङ्ख्यान्यत्वे सति प्रमेयत्वमादिपदार्थः । ससङ्ख्यत्वं सङ्ख्याविशेषवत्त्वमित्यर्थः ॥ स्वव्याघातकत्वाच्चेति ॥ सङ्ख्यावत्त्वेनांतवत्त्वसाधनस्येति भावः ।

नन्वेतदाशंक्य भामत्यामेव ‘‘अस्माकं चागमगम्यस्यैतद्बाधितविषयतयाऽनुमानं भविष्यती’’ति समाहितम् । कल्पतरौ च ‘‘ननु ब्रह्माप्यंतवत् । एकत्वादेकघटवदिति किं न स्यादत आह अस्माकं चेती’’त्यवतारितमिति चेन्न । त्वन्मतेऽप्यवेद्यत्वरूपस्वप्रकाशत्वस्य ब्रह्मणोंऽगीकारेण तस्यागमावेद्यत्वादिति भावः । केचित्तु बहुजीववादे ‘‘परमाणुप्रदेशेऽपि ह्यनंताः प्राणिराशय’’ इत्यादिप्रमाणबलेन जीवासङ्ख्यत्वस्य त्वयापि वाच्यत्वेन द्रव्यत्वादिना सङ्ख्याविशेषवत्त्वानुमानं स्वव्याघातकमित्याहुः ॥ मम रीत्येति ॥ एतेन पूर्वत्र ‘‘भोगादिभ्य’’ इत्यनेनेश्वरस्य कर्मफलभोगप्रसङ्ग उक्तः । ईश्वरस्य पुण्यपापरूपकर्मवत्त्वेऽङ्गीक्रियमाणे जीववत्सृष्टिसंहारास्पदत्वरूपांतवत्त्वमसर्वज्ञता चापद्यत इति वाशब्दस्य चार्थत्वमुपेत्यांतवत्त्वासर्वज्ञतयोरीश्वरे सामानाधिकरण्यं वदतां केषांचित्सूत्रार्थोऽपि प्रत्युक्तः । वाशब्दे चशब्दार्थत्वस्यास्वारस्यात् । अत एव ‘‘वैकल्पिकेने’’त्युक्तम् । अंतवत्त्वादित्येव पूर्तौ विशिष्यासर्वज्ञताग्रहणे प्रयोजनाभावाच्च । आपादकस्याध्याहार्यत्वाच्चेति । मन्मते तु पत्युः करणवत्त्वे इत्यापादकं प्रकृतम् ॥ पत्युरधिकरणम् ॥ ११ ॥

चन्द्रिकाविवृतिः

ॐ पत्युरसामञ्जस्यात् ॐ ॥ दक्षप्रजापतीति ॥ ब्रह्मशब्दस्य दक्षप्रजापतावभिधानादिति भावः ॥ ननु प्रकृत्यधिकरणे उपादाननिमित्तभेदनिरासेऽपि अत्र दोषान्तरोक्तिरविरुद्धेत्यत आह ॥ न चेह तद्भेदे दोष इति ॥ तार्किकाद्यभिमतजगत्कारणनिरासार्थमत्र प्रासङ्गिकमित्यत आह ॥ तार्किकमतं चेत्यादिना ॥ स्वव्याघातकत्वं परिहर्तुं शङ्कते ॥ ननु मम मत इति ॥ हेतूकरणायोगादिति ॥ कर्तृत्वाधिष्ठातृत्वयोर्भेदाभावादित्यर्थः ॥ इयत्तया परिच्छिनतीति ॥ एतावन्तो जीवा इति संख्याविशेषवत्तया परिच्छिनत्तीत्यर्थः ॥ ससंख्यत्त्वं संख्याविशेषवत्त्वम् ॥ छ ॥