सदसदुभयमित्यादि
नैकस्मिन्नधिकरणम्
तात्पर्यचन्द्रिका
स्याद्वादमतनिरासः
ॐ नैकस्मिन्नसम्भवात् ॐ
सदसदुभयमित्यादि ॥ तत्र सदित्याद्यःप्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणमिति चतुर्थः । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । तत्र सत्तद्विलक्षणं चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसद्विलक्षणमिति सप्तम उक्त इति द्रष्टव्यम् । स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यं स्यादस्ति चावक्तव्यं च स्यादस्ति च स्यान्नास्ति चावक्तव्यं चेति हि क्षपणका आहुः । अत्र च स्याच्छब्दस्तिङंतप्रतिरूपकानेकान्तद्योतको निपातः ।
यथाऽहुर्
वाक्येष्वनेकांतद्योतीगम्यं प्रतिविशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात्तिङंतप्रतिरूपकः ॥ इति ।
एवं च सत्त्वमसत्त्वं सदसत्त्वं सदसद्विलक्षणत्वं सत्त्वे सति तद्विलक्षणत्वमसत्त्वे सति तद्विलक्षणत्वं सदसत्त्वे सति तद्विलक्षणत्वमित्यनियतसप्तप्रकारं विश्वम् । एवं नित्यत्वभिन्नत्वादावपि सप्तप्रकारा ऊह्याः । उक्तं हि
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोगस्स्यात्तन्निषेधो विवक्षितः ॥ इत्यादि ।
टीकायां तु
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभंगिसनातम् ॥
इत्यनुव्याख्यानानुसारेण संक्षिप्योक्तम् । अत्राद्यतृतीयसूत्रयोरस्माकं परेषां च प्रमेये योजनायां चाविरोधः । यत्तूक्तं परैर् यथैकस्मिन्सप्तभंग्यसम्भव एवमात्मनो देहपरिमाणत्वे अकार्त्स्न्यं परिच्छिन्नत्वं स्यात् । ततश्चानित्यत्वं स्यादिति द्वितीयार्थ इति तन्न । मम मत इव सूत्रे जैनमतप्रसङ्गसन्निधापितदेहपरिमाणत्वरूपापादकसूचनाभावेन न्यूनत्वात् । जैनमतप्रसङ्गसन्निधापितत्वादेवंशब्देन देहपरिमाणत्वपरामर्शोऽयुक्तः । देहपरिमाणत्वेनैवानित्यत्वापादनसम्भवेन मध्य आत्माकार्त्स्न्यापादनवैयर्थ्याच्च । यच्चोक्तं मोक्षस्थस्यांत्यपरिमाणस्य नित्यत्व आदिमध्यपरिमाणयोरपि नित्यत्वप्रसङ्गादिति वा आदिमध्यावस्थयोरंत्यपरिमाणस्य स्थितिप्रसङ्गादिति वा चतुर्थ ‘‘उभयनित्यत्वा’’दित्यस्यार्थ इति तन्न । संसारस्यानादित्वेन परिमाणस्यावस्थाया वाऽऽदित्वायोगात् । आद्याभावे मध्यमत्वस्याप्ययोगाच्च । द्वितीयपक्षे नित्यपदस्य स्थितिलक्षकत्वापाताच्च । तस्माट्टीकोक्तरीत्योभयशब्दो देहात्मपरः ॥
प्रकाशिका
टीकाक्षरार्थमाह ॥ सदसदुभयमित्यादीति ॥ प्रतीकग्रहणमेतत् । टीकोक्तार्थे संवादं दर्शयति ॥ स्यादस्तीति ॥ नन्वस्ति स्यादिति वर्तमानत्वविधिवाचिनोः कथमेकार्थपर्यवसानमित्यतस्तद्विवृणोति ॥ अत्र चेति ॥ एतेन ‘‘स्याद्वादिमतं दूषयती’’ति भाष्यं विवृतम् ॥ वाक्येष्विति ॥ स्यादस्तीत्यादिवाक्येषु स्यादित्ययं शब्दस्तिङंतसदृशो निपात इत्यन्वयः । कोऽसावस्यार्थ उक्त इत्यत उक्तमनेकांतद्योतीति ॥ अनैयत्यद्योतकत्वं स्वातन्त्र्येण नेत्याह ॥ गम्यं प्रतीति ॥ गम्यम् अस्तीत्यादि । कुतोऽस्यानेकांतद्योतित्वमित्यतोऽर्थयोगित्वादिति । अर्थवत्त्वान्निमित्तात् । अर्थवत्त्वान्यथानुपपत्त्येत्यर्थः । यद्ययमनेकांतद्योतको न स्यात्तर्हि स्यादस्तीति वाक्ये स्यादित्येतदनर्थकं स्यात् । अनेकांतद्योतकश्चेत्तदा स्यादस्ति कथंचिदस्तीति स्यात्पदात्कथं चिदर्थोऽस्तीत्यनेनानूदितः प्रतीयत इति नानर्थक्यमिति भामतीकल्पतर्वोरयं श्लोको व्याख्यातः । स्यात्पदेनानेकांतद्योतने किं लब्धमित्यतस्स्यादस्तीति वाक्यार्थं निष्कृष्याह ॥ एवं चेति ॥ ‘‘एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणानेकांत वादोऽवगन्तव्य’’ इति सुधोक्तेराह ॥ एवमिति ॥ ननु स्यादस्तीत्यादिवाक्यात्सत्त्वमसत्त्वमित्यादिप्रकाराः कथं लब्धा इत्यतस्तद्विवरणपरं तदीयश्लोकं संवादयति ॥ तद्विधानेति ॥ बुद्धिस्थसत्त्वनित्यत्वादिधर्मविधानविवक्षायां स्यादस्तीति गतिः प्रयोगो भवेदित्यर्थः । तन्निषेधे सत्त्वादिनिषेधे । असत्त्वादिप्रकारे विवक्षित इत्यर्थः । इत्यादीत्यादिपदेन
क्रमेणोभयवांछायां प्रयोगस्समुदायभाक् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ।
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अंत्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ।
समुच्चयेन युक्तश्च सप्तमो भङ्ग इष्यत ॥
इति कल्पतरूदाहृतसार्धश्लोकौ ग्राह्यौ । अस्यार्थः । आद्यः सत्त्वैकांतवादः साङ्ख्यादिभिरङ्गीकृतः । तद्विधिविवक्षायां स्यादस्तीति प्रयोगः । शून्यवाद्यभिमते तन्निषेधरूपासत्त्वप्रकारे विवक्षिते सति स्यान्नास्तीति प्रयोगः । मध्ये सत्त्वं प्रागूर्ध्वं प्रागभावध्वंसकालेऽसत्त्वमिति क्रमेणोभयं सदसत्त्वं वैशेषिकादिभिरङ्गीकृतमिति तद्वांछायां स्यादस्ति स्यान्नास्तीति समुदायप्रयोगः । युगपदेकदा सदसत्त्वविवक्षायामशक्तितो शक्यत्वादवाच्यमनिर्वचनीयं स्यात् । सदसद्विलक्षणमिति स्यात् । स्यादवक्तव्यमिति प्रयोगस्स्यादित्यर्थः । आद्यावाच्येति सत्त्वतद्वैलक्षण्यविवक्षायां स्यादस्ति चावक्तव्यं चेति पक्षः पञ्चम इत्यर्थः । अंत्यावाच्येत्यसत्त्वतद्वैलक्षण्यविवक्षायां स्यान्नास्ति चावक्तव्यं चेति पक्षः षष्ठभङ्ग इत्यर्थः । समुच्चयेन सत्त्वासत्त्वयोस्तद्वैलक्षण्ययोश्च समुच्चयेन सदसत्त्वे सति सदसद्विलक्षणत्वमित्येवं रूपेण युक्त इत्यर्थः । स्यादस्ति च नास्तीति चावक्तव्यं चेति पक्षस्सप्तमभङ्ग इति कुतःटीकायां नोक्त इत्यत आह ॥ टीकायां त्विति ॥ श्लोकार्थस्सुधायां व्यक्तः ॥ तृतीयेति ॥ ‘‘न च पर्यायादपी’’त्यादिसूत्र इत्यर्थः । परेषामित्युपलक्षणम् । केषाञ्चिदपीत्यपि ध्येयम् । ‘‘एवं चात्माकार्त्स्न्य’’मिति द्वितीयसूत्रार्थं निराह ॥ यत्त्विति ॥
कैश्चित्तु एवं शब्दस्यास्मद्रीत्यैवार्थमुपेत्य जीवस्य कायपरिमाणत्वे हस्त्यादिशरीरे स्थितस्यात्मनः पिपीलिकाशरीरे प्रविशतोऽल्पदेशव्यापित्वेनाकार्त्स्न्यमपूर्णता स्यादित्यर्थ उक्त इति परैरित्युक्तम् । वैयर्थ्याच्चेति ॥ पूर्वोक्तदूषणस्यैवं शब्देन दृष्टान्तीकरणे प्रयोजनाभावाच्चेत्यपि ध्येयम् । केषाञ्चिन्मते तु अण्वादिशरीरस्थस्य हस्त्यादिशरीरेऽकार्त्स्न्यमित्यस्मद्भाष्योक्त एवार्थस्स्वरसो न तु तद्भाष्योक्तार्थः । त्वदुक्तार्थपक्षेऽस्मद्भाष्यटीकोक्तरीत्याऽतिरेकस्स्यादित्यापादनं स्वरसम् । न त्वकार्त्स्न्यापादनमिति दूषणं बोध्यम् । मतद्वयेऽपि ‘‘अंत्यावस्थितेरुभयनित्यत्वादविशेष’’ इति प्रथमांतसूत्रपाठः । न त्वस्मन्मत इव पञ्चम्यंतः । अंत्यस्य मोक्षावस्थापरिमाणस्य । अवस्थितेर् अवस्थितत्वात् । जीवस्य कायपरिमाणपक्षे मुक्तौ कायांतरप्रवेशाभावेन तत्रत्यपरिमाणस्य तन्मते नित्यत्वात्तद्दृष्टान्तेनोभयोराद्यमध्यमकालीनयोरपि परिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः । सर्वशरीरेष्वेकरूपत्वमेव स्यादित्यादिरर्थः परैरुक्तः । तत्र दूष्यांशमनूद्य दूषयति ॥ यच्चोक्तमिति ॥ परैरित्यनुषङ्गः । देहात्मपर इति ॥ एतेन उभयनित्यत्वाज् जीवपरिमाणयोरुभयोर्नित्यत्वादिति केषाञ्चिदर्थोऽप्यसमंजस इति सूचितम् । ‘‘अंत्यावस्थिते’’रिति पूर्वत्र परिमाणमात्रनित्यत्वस्यैव प्रस्तुतत्वेन जीवनित्यत्वस्याप्रसक्तेरित्यादेरिति भावः ॥ छ ॥ नैकस्मिन्नधिकरणम् ॥ १० ॥
चन्द्रिकाविवृतिः
ॐ नैकस्मिन्नसंभवात् ॐ ॥ स्यादस्ति । अस्तित्त्वमपि स्यात्कथंचित् । एवमुत्तरत्र स्याच्छब्दः सम्भावनाद्योतकः सन् अनेकान्तपक्षद्योतकः । अनेकान्तपक्ष एकप्रकारापर्यवसायी पक्षः । स्यादस्ति अस्तित्त्वं स्यात् । नास्ति नास्तित्त्वं स्यात् । अस्ति नास्ति सदसत्त्वं स्यात् । अवक्तव्यम् उभयरूपेणाप्यवक्तव्यम् । सदसद्विलक्षणं स्यात् । अस्ति चावक्तव्यं च सत्त्वे सति सद्विाक्षणत्त्वं स्यान्नास्ति चावक्तव्यं चासत्त्वे सति असद्विाक्षणत्त्वं स्यात् । अस्ति नास्ति चावक्तव्यं सदसद्विलक्षणत्त्वं स्यादस्तीत्यत्र पुनरुक्तिभयादाह ॥ अत्र च स्याच्छब्द इति ॥ गम्यं प्रति विशेषणं ज्ञापकम् । स्यान्निपातः स्यादित्ययं निपातः । अर्थयोगित्त्वाद् अर्थोपपत्तेः ॥ अर्थानुपपत्तौ स्यान्निपातो व्यर्थ एवेति भावः ॥ ननु टीकाकारः, पररीत्या स्यादस्तीत्यादिप्रकारेण व्युत्पादनमकृत्वा सत्त्वमसत्त्वरूपेण कथं व्यवहार इत्यत आह ॥ टीकायां त्त्विति ॥ मम मत इवेति ॥ अहमित्यस्य एकस्मिन् सप्तभङ्ग्यसम्भववदित्यर्थ-स्यैवाङ्गीकारादात्मनो देहपरिमितत्त्व इत्यर्थानङ्गीकाराच्चेत्यर्थः । आदिमध्ययोः संसारादिमध्ययोः ॥ छ ॥