‘‘नाभाव उपलब्धे’’रिति पूर्वसूत्र इवात्रापि..
अनुपलब्ध्यधिकरणम्
तात्पर्यचन्द्रिका
विज्ञानवादनिरासः
ॐ न भावोऽनुपलब्धेः ॐ
‘‘नाभाव उपलब्धे’’रिति पूर्वसूत्र इवात्रापि सूत्रे कर्तृसाधनेन भावशब्देन सद्रूपं ज्ञानमुच्यते । विज्ञानवादे ज्ञानादन्यस्यासत्त्वात् । ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु ‘‘नासतोऽदृष्टत्वा’’दिति शून्यवादिनं प्रत्युक्तो दोषो नास्माकमिति पूर्वपक्षोत्थानार्थमिति द्रष्टव्यम् । केचित्तु प्राप्तौ भूक् शुद्धिचिंतयोरिति वचनाच्चिंतात्मकज्ञानार्थोऽपि भूधातुरस्तीति वा वः युष्माकं भाः साकारत्वेनाभिमतं ज्ञानमिति वाऽभिप्रेत्य भाव इत्युक्तिरित्याहुः । अत एव भाष्ये ‘‘न विज्ञानमात्रं जगदि’’ति टीकायां च ‘‘न विज्ञानातिरिक्तं जगदि’’त्युक्तम् । ननु तार्किकमते स्ववृत्तिविरोधः । न तु सिद्धान्ते । साक्षिणस्स्वप्रकाशत्वाङ्गीकारादिति पूर्वत्रारुच्या दोषांतरमाह ॥ अज्ञाने व्यभिचारश्चेति ॥ ज्ञानप्रागभावादौ ज्ञानावरणे संवृतौ च व्यभिचारः । न हि ज्ञानाभावादिरपि ज्ञानम् । विरोधादिति भावः ॥ अधिकारिणं प्रतीति ॥ प्रतिवादिना बौद्धेन श्रुत्यादिप्रामाण्यास्वीकारेऽपि शास्त्रेऽधिकृतं मुमुक्षुं प्रति तदङ्गीकृतप्रामाण्येन श्रुत्यादिना विरोध उच्यत इत्यर्थः । यच्चोक्तं परैः ‘‘नाभाव उपलब्धे’’रित्यादिसूत्रपञ्चकमेकमधिकरणं विज्ञानवादनिरासकमिति तन्न । ‘‘नासत’’ इत्यादिसूत्राभ्यां शून्यपरिणामे निरस्तेऽवशिष्टमवश्यनिरसनीयं शून्यविवर्तत्वमनिरस्यान्यनिरासानवसरात् । किञ्चाद्यद्वितीयसूत्रे त्वयापि ‘‘किं पुनर्वैधर्म्यबाधाबाधाविति ब्रूम’’ इत्यादिना जगत्सत्यत्वसाधनेन व्याख्याते इति त्वन्मतविरुद्धे । ननु योगाचारस्य नीलपीतादिर्ज्ञानाकार एव । न तु बाह्योर्थोऽस्ति । तत्र बाह्यार्थानुभवविरोधः सूत्र उक्तः । मम तु नीलपीतादिर्मिथ्याभूतो बाह्य एव । न तु ज्ञानाकार इति न सूत्रविरोध इति चेन्न । ‘‘नाभाव उपलब्धे’’रिति सूत्रे उपलम्भेन बाह्यार्थमिथ्यात्वस्यैव निषेधात् । ज्ञानाकारत्वनिषेधे हि न ज्ञानमनुपलब्धेरिति सूत्रणीयम् । किं च तत्तदाकारवृत्त्या तत्तदज्ञाननिवृत्तिरिति वदतस्तव मतेऽपि ज्ञानं साकारमेव । किं च बाह्यार्थस्यानिर्वचनीयत्वं सूत्राभिमतं चेत्स्वप्नवैधर्म्योक्तिरयुक्ता । स्वप्नस्याप्यनिर्वचनीयत्वात् । व्यवहारदशायां बाधाभावमात्रेण च तद्वैधर्म्यविवक्षायां विज्ञानवादोऽप्यनिरस्तः स्यात् । तन्मतेऽपि जगतो व्यवहारदशायामबाधात् । किं च विज्ञानविवर्त इति मतेऽधिष्ठान भूतज्ञानस्य मिथ्याभूतबाह्यार्थात्मना धीस्तत्वतो बाह्यार्थभावश्च द्वयोः सम एव ।
ननु तस्यार्थोऽत्यंतासन् । मम तु सदसद्विलक्षण इति चेन्न । तथापि स्वप्नवैधर्म्योक्तययोगात् । सत्त्वानुभवविरोधस्योभयत्र साम्यात् । सत्त्वाभावादन्यस्यासत्त्वस्याभावाच्च । अपरोक्षधीविषयत्वार्थक्रियाकारित्वादिरूपस्य सांवृतिकसत्त्वरूपस्य चासद्वैलक्षण्यस्य परमतेऽपि भावात् । परमार्थसत्त्वादिरूपस्य च तस्य त्वन्मतेऽप्यभावात् । यच्चोक्तं न भावो वासनानां युक्तः । विज्ञानवादे बाह्यार्थानामसत्त्वेनानुपलब्धेः । उपलब्धेषु हि वासनेति तृतीयार्थ इति । तत्र हेतुसाध्ययोर्वैयधिकरण्यम् । वासनानामित्यध्याहारश्च । असत्त्वेनानुपलब्धिं वदता लाघवेन सत्त्वमेवोपलब्धौ तंत्रमिति वक्तव्यतयाऽनिर्वाच्यपक्षेऽपि दोषसाम्यं च । मम तु जगन्न भावः न ज्ञानं तथाऽनुपलब्धेरिति सामानाधिकरण्यम् । पूर्वसूत्रप्रकृतजगत एवानुषङ्गादनध्याहारश्च । (समानार्थौ ‘‘ऋदोर’’ बित्यप्प्रत्ययांतो भवशब्दो भावार्थघञ्प्रत्ययांतो भावशब्दश्च । उपसर्गो धातुगतशक्तिद्योतक एवेति भावेन सूत्रेऽन्वित्युपसर्गस्याप्रयोगः) यच्चोक्तं नालयज्ञानं संस्काराश्रयः । क्षणिकत्वादिति चतुर्थार्थ इति तन्न । मम रीत्येह विज्ञानवाद्यसाधारणस्यार्थो ज्ञानाकार इत्यस्य दूषणसम्भवे क्षणिकत्वप्रयुक्तसंस्काराभावस्य बौद्धमतसाधारणस्योक्तययोगात् । केचित्तु पञ्चमं शून्यवादिनिरासकमित्याहुः । तन्न । नासत इत्यत्रैव शून्यवाद्युक्तासत्कारणत्वनिरासप्रतीतेः । इह च शब्दास्वारस्याच्च ॥
प्रकाशिका
‘‘न विज्ञानमात्रं जगदि’’ त्यादिभाष्यटीकयोरुक्तमर्थं सूत्रारूढं कर्तुमाह ॥ नाभाव सति ॥ एतेन तत्रापि कर्तृसाधन इति सूचयति । कर्ता साधनं निमित्तं प्रत्ययोत्पत्तौ यस्य स कर्तृसाधनस्तेनेत्यर्थः । भू सत्तायामिति धातोः ‘‘भवतेश्चे’’ति णप्रत्यये ‘‘अचो ञ्णिती’’ति वृद्धावावादेशे भाव इति रूपं सन्नित्यर्थः । ज्ञानमिति योग्यतालभ्यमिति भावेनाह ॥ विज्ञानवाद इति ॥ इति वचनादिति ॥ ‘‘ब्रूलञुक्तौ भूकङ्भूञप्राप्तौ भू’’गिति कविकल्पद्रुमोक्तेरित्यर्थः । भूधातुः प्राप्त्यर्थे शुद्ध्यर्थे चिंतार्थे च वर्तत इत्यर्थः । प्राप्तावित्यस्य पूर्वेणान्वयः । ककारानुबन्धश्चुरादिण्यंतत्वज्ञापनार्थः । कर्तरि पचाद्यच् । भाश्शब्दस्सकारांतोऽत्र ज्ञानवाची । भा दीप्ताविति धातुजत्वात् । भास् शब्दसकारस्य रुत्वयत्वयलोपेषु भाव इति निर्देश इति वा भा दीप्तावित्यतो भावे विच्प्रत्यये भा इत्याकारांत एवायं शब्द इति वा भाव इति निर्देश इत्युपेत्यार्थान्तरमाह ॥ व इति ॥ टीकाक्षरार्थान् व्यनक्ति ॥ नन्वित्यादिना ॥ यच्चोक्तं परैरिति ॥ कैश्चित्तु सूत्रत्रयं तथेत्युक्तमिति योज्यम् ॥ विज्ञानवादेति ॥ एतच्च यथाश्रुतभाष्यदिशा । भामतीरीत्या तु शून्यवादनिरासकमपीति बोध्यम् । तत्राद्यसूत्रस्य ज्ञानव्यतिरेकेण बाह्यार्थस्याभावो न । कुतः । उपलब्धेर् उपलभ्यमानत्वादिति मतद्वयेऽप्यर्थः । स्वप्नदृष्टान्तेन जागरितज्ञानानां यन्निरालंबनत्वमुक्तं तन्निरसितुं ‘‘वैधर्म्याच्च न स्वप्नादिवदि’’ति द्वितीयं सूत्रम् । बाधभावात्स्वप्नादिज्ञानानां जाग्रद्दशोत्पन्नज्ञानानां तदभावेन स्वप्नादिवैधर्म्यान्न तद्वन्निरालंबनत्वमित्युभाभ्यां तस्यार्थ उक्तः । बाह्यार्थाभावेऽपि वासनावैचित्र्यान्न ज्ञानवैचित्र्यमित्येतन्निरसितुं ‘‘न भावोऽनुपलब्धे’’रिति सूत्रम् । कदाचिदप्यर्थोपलब्ध्यभावान्न वासनानां भावस्सत्ता सम्भवतीति तस्यार्थः परमते । मतान्तरे तु केवलस्यार्थशून्यस्य न भावः सत्ता सम्भवतीति । अकर्मकाकर्तृकज्ञानस्यानुपलब्धेरिति ज्ञानस्य निरालम्बनत्वनिरासार्थमिदमिति । वासनानामाश्रयं निरसितुं सूत्रं ‘‘क्षणिकत्वाच्चे’’ति । ज्ञानादन्यस्य तन्मतेऽभावाज्ज्ञानस्य च क्षणिकत्वान्न वासनाश्रयत्वमिति परमतेऽर्थः । मतान्तरे तु ‘‘क्षणिकत्वाच्चे’’ति सूत्रं नास्त्येव । बाह्यार्थवादविज्ञानवादशून्यवादरूपवादत्रयस्याप्यसंबद्धप्रलापत्वेन सर्वथानुपपत्तेश्चेति पञ्चमार्थः परमते । मतान्तरे त्वग्रे व्यक्तम् । स्वमतावष्टंभेन मतद्वयेऽपि दोषमाह ॥ नासत इति ॥ पररीत्या दोषमाह ॥ किं चेति ॥ इत्यादिनेति ॥ त्वदीयभाष्येणेत्यर्थः ॥ तत्तदाकारेति ॥ तटाकोदकं छिद्रान्निर्गत्य कुल्याद्वारा केदारान् प्रविश्य चतुष्कोणाद्याकारमिवांतःकरणं गोलकान्निर्गत्य रश्मिद्वारा घटादीन् सम्बध्य तत्तदाकारं जायत इति प्रक्रिययेति भावः ।
विज्ञानवादनिरासस्त्वन्मतप्रतिकूल इत्याह ॥ किं च विज्ञानविवर्त इतीति ॥ द्वयोर् विज्ञानवादिमायावादिनोः ॥ स्वप्नेति ॥ तस्यापि सदसद्विलक्षणत्वादिति भावः । उभयत्र असत्त्ववादे सदसद्वैलक्षण्यवादे चेत्यर्थः । सद्वैलक्षण्योक्तयैव त्वयाप्यसत्त्वमङ्गीकार्य मेवेत्याशयेनाह ॥ सत्त्वेति ॥ तथा च न विज्ञानवादवैलक्षण्यमिति भावः । असद्वैलक्षण्याङ्गीकारांशेन तद्वैलक्षण्यं ममेत्यत आह ॥ अपरोक्षेति ॥ सांवृतिकेति ॥ आविद्यकेत्यनर्थान्तरम् ॥ तस्येति ॥ असद्वैलक्षण्यस्येत्यर्थः ॥ वैयधिकरण्यमिति ॥ अर्थानामनुपलभ्यमानत्वाद्वासनानां भावो नास्तीत्युक्ते हेतोः पक्षधर्मताभाव इत्यर्थः । न सम्भवन्ति वासनाः । उपलब्धिरूपकारणशून्यत्वादित्युक्तिस्तु न सूत्रारूढेति भावः ॥ अध्याहारश्चेति ॥ केषाञ्चिन्मतेऽप्यनेकाध्याहारदोषस्समः ॥ असत्त्वेनेति ॥ अनुपलब्धेरिति सौत्रपदस्यार्थानामसत्त्वेन हेतुनाऽनुपलम्भादित्यर्थ उक्तः । तथा चानुपलब्धावसत्त्वं कारणतयोपन्यस्तमित्यर्थानामसत्त्वेन हेतुनाऽनुपलब्धिं वदता त्वया सत्त्वमेवार्थानामुपलब्धौ तन्त्रमिति वक्तव्यम् । लाघवात् । न त्वसत्त्वाभावः । गौरवात् । तथा च जगतः सदसद्वैलक्षण्यरूपानिर्वाच्यत्वपक्षे उपलब्धिप्रयोजकस्य सत्त्वस्याभावेन जगदुपलब्ध्यभावस्स्यात् । तदभावाच्च बाह्यपदार्थवासनानामभावस्स्यादिति तन्मतोक्तदोषसाम्यमित्यर्थः ॥ नालयेति ॥ आलयज्ञानमिति पदच्छेदः ॥ छ ॥ अनुपलब्ध्यधिकरणम् ॥ ९ ॥
चन्द्रिकाविवृतिः
ननु न विज्ञानमात्रं जगदित्यादिभाष्यादिषु जगज्ज्ञानं नेति निषेधः क्रियते । सूत्रे च ज्ञानशब्दो न दृश्यत इत्यत आह ॥ नाभाव उपाब्धेरितीति ॥ भावशब्दस्य कर्तृव्युत्पत्यनाश्रयणेऽपि ज्ञानार्थत्व-मस्तीत्याह ॥ केचित्त्विति ॥ शून्यविवर्तमिति ॥ जगत इति शेषः ॥ ॥ किं पुनर्वैधर्म्यमिति ॥ स्वाप्नजगतोरिति शेषः । ननूपाब्धेरित्यनेन न मिथ्यात्वं निराक्रियते किंत्वसत्त्वमात्रनिरसनेऽनिर्वाच्य-त्वमेवात्रोच्यत इत्यत आह ॥ किं च बाह्यार्थस्येति ॥ व्यवहारदशायामिति ॥ स्वाप्नस्य तु व्यवहारदशायामेव बाध इति भावः ॥ सत्त्वानुभवविरोधस्येति ॥ मायावादिनापि प्रपञ्चसद्वैलक्षण्याङ्गी-कारादिति भावः ॥ वासनेति ॥ विषयानुभवजनितः विषयगतः संस्कारो वासनेत्यर्थः ॥ अत्रोत्तरत्र च परभाष्यादिभिरेव सम्यङि्नश्चयः प्रतिपाद्यः ॥ तथाऽनुपाब्धेरिति ॥ असतः शशृङ्गादेरुपाब्ध्य-सम्भवादित्यर्थः ॥ नालयज्ञानमिति ॥ आलयज्ञानं नाम परमते विज्ञानरूपात्मैव ॥ चशब्दास्वारस्याच्चेति ॥ अनेनैव सूत्रेणाधिकरणांतररूपशून्यनिरासे युक्तयुक्तेरिति भावः ॥