०२ परमतव्याख्याननिरासः

यच्च केचिदाहुः

परमतव्याख्याननिरासः

तात्पर्यचर्न्दिका

यच्च केचिदाहुर् योऽयमणुहेतुको भूतसमुदायो यश्च भूतहेतुको भौतिकसमुदायस्तस्मिन्नुभयहेतुकेऽपि समुदाये समुदायप्राप्तिर्न युक्ता । समुदायिनामणूनां क्षणिकत्वाभ्युपगमादित्याद्यार्थ इति । तन्न । तथात्वे ‘‘प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्ति’’रित्यादिवदुभयहेतुसमुदायाप्राप्तिरित्येव सूत्रणीयत्वेन समुदाये उभयहेतुके इति सप्तम्योर् अपि शब्दस्य तदप्राप्तिरित्यत्र तच्छब्दस्य च व्यर्थत्वात् । मम मत इव सूत्रे हेतुसूचनाभावेन न्यूनत्वाच्च । मम मते समुदाय एकैकहेतुके विरोधः । एकस्मात्समुदाय इत्यस्य व्याहतेः । उभयहेतुकत्वपक्षेऽपि समुदाये विरलोभयहेतुके समुदायस्सदा स्यात् । मिलितोभयहेतुकेऽन्योन्याश्रय इति युक्तिः सूत्रारूढा । तव तु न । किं च त्वत्पक्षे उत्तरसूत्रे इतरेतरप्रत्ययत्वादि चेदिति शङ्का न युक्ता । न हि संहंतुश्चेतनस्याभावात्संघातो न युक्त इत्युक्ते त्वदुक्तमविद्यासंस्कारजरामरण शोकादीनामन्योन्यं हेतुहेतुमद्भावेन पूर्वापरीभूततया घटीयंत्रवदनिशमावर्तमानत्वरूपमितरेतरप्रत्ययत्वं शङ्कार्हम् । अत एव द्वितीयसूत्रार्थोऽप्ययुक्तः । यच्चोक्तमेकैकहेत्वधीनं कार्योत्पादं स्वीकृत्य समुदायाधीनः स द्वितीये दूषितः । तृतीये त्वेकैकहेत्वधीनोऽपि स दूष्यत इति तन्न । समुदायाधीनकार्योत्पादनिरासकेन पूर्वोक्तेन चेतनाभावेनैवैकैकाधीनस्यापि तस्य ‘‘पयोम्बुव’’दित्युक्तन्यायेनैव निराससम्भवात् । चतुर्थे तु ‘‘यौगपद्यमन्यथे’’त्यस्य ‘‘उत्तरोत्पादे च पूर्वनिरोधा’’दिति तृतीये न गतार्थता । तत्राप्यन्यथा यौगपद्यं स्यादिति विपक्षे बाधकविवक्षां विनोत्तरोत्पादे पूर्वनिरोधस्यासिद्धेः । मम मते तु कार्याणां यौगपद्यमिह विवक्षितम् । न तु त्वन्मत इव कार्यकारणयोः । यच्चोक्तं प्रतिसङ्ख्याविनाशोऽप्रतिसङ्ख्याविनाशश्च वैनाशिकैर्निरन्वयः स्वीकृतः । स न युक्तः । कुण्डलादिविनाशे सुवर्णाद्यन्वयाविच्छेदात् । तप्तशिलातलपतितजलबिन्दुविनाशोऽपि न निरन्वयः । यतः ‘‘उदबिन्दौ च सिन्धौ च तोयभावो न भिद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधा’’ विति पञ्चमार्थ इति । तन्न । मम रीत्याऽध्याहारं विना निरोधस्वरूपनिरासकत्वे सम्भवत्यध्याहारेण निरन्वयत्वविशिष्टनिरोधनिरासकत्वायोगात् । त्वदभिप्रेतमूलाविद्याविनाशस्य निरन्वयत्वाच्च ।

प्रकाशिका

रामानुजभाष्योक्तमनुवदति ॥ योयमिति ॥ भूतसमुदायः पृथिव्यादिः । भौतिकसमुदायः शरीरेन्द्रियादिः ॥ सूत्रारूढेति ॥ मेलनसमुदाययोरन्योन्यसापेक्षत्वस्य सूचनादिति भावः ॥ तव तु नेति द्वावपि प्रत्युच्यते । अचेतनत्वक्षणिकत्वहेत्वोस्सूत्रेऽप्रतीतेः । मतद्वयेऽपि प्रथमसूत्रे कथितहेतुरुत्तरसूत्रस्थशङ्काननुगुणश्चेत्याह ॥ किञ्चेति ॥ मायावादिमतं तावदुपपादयति ॥ न हीति ॥ शङ्कार्हमिति ॥ अविद्यादिप्रतीतिव्यवहाराणां सङ्घातसिद्ध्यधीनत्वेन तस्यैवा सम्भवेऽन्योन्यहेतुत्वशङ्कादूरापास्तेति भावः । तथा क्षणिकत्वादणूनां सङ्घात एव नोपपद्यत इत्युक्ते पुनः कथमन्योन्यहेतुहेतुमद्भावरूपेतरेतरप्रत्ययत्वं शङ्कार्हमित्युपपादनं ध्येयम् ॥ अत एवेति ॥ शङ्कानुत्थानादेवेत्यर्थः ।

यदत्र कैश्चिदितरेतरप्रत्ययत्वादुपपन्नमिति चेन्न । सङ्घातभावानिमित्तत्वादिति पाठान्तरं परिकल्प्यायमेवाकृत्रिमो वृत्तिसिद्धः पाठ इत्युक्तम् । तदसांप्रदायिकमिति भावेनोपेक्षितम् । मतद्वयेऽपि ज्ञाने रूढस्य प्रत्ययशब्दस्य हेत्वर्थत्वं क्लिष्टम् । सङ्घातभावानिमित्तत्वे क्षणिकत्वहेतोर्बहिरेव वाच्यत्वाच्च । ‘‘उत्तरोत्पादे च पूर्वनिरोधा’’दित्येतत्तात्पर्यार्थं परमते निराह ॥ यच्चोक्तमिति ॥ उत्तरक्षणस्योत्पादे पूर्वक्षणस्य निरोध इति मतद्वयेऽपि सूत्रार्थोऽविशिष्टः ॥ इत्युक्तन्यायेनेति ॥ तत्र चेतननिरपेक्षकारणककार्यस्य निरासादिति भावः । मतद्वयेऽपि ‘‘असति प्रतिज्ञोपरोधो यौगपद्यमन्यथे’’ति सूत्रे चरमांशस्य ‘‘उत्तरोत्पादे चे’’ति पूर्वसूत्रेण पौनरुक्तयमाह ॥ चतुर्थे त्विति ॥ पूर्वत्र ह्युत्तरस्य क्षणिककार्यस्योत्पादे पूर्वस्य निरोधाद्विनाशादसति कारणे कार्योत्पत्तौ सर्वदा कार्योत्पत्तिस्स्यादित्युक्तम् । इहत्वसत्यपि हेतौ कार्योत्पत्तावुच्यमानायां चतुर्विधान् हेतून् प्रतीत्यचित्यचैत्या उत्पद्यंत इत्यधिपतिसहकार्यालम्बनसमनंतरप्रत्ययाश्चत्वारो विमानोत्पत्तौ हेतव इति त्वदीयप्रतिज्ञोपरोधः । अन्यथा कार्यस्य क्षणे कारणस्य सत्त्वे कारणकार्ययोर्यौगपद्यमित्युभाभ्यामर्थ उक्तः । तत्र मतद्वयेऽपि पूर्वसूत्रे उत्तरोत्पादे पूर्वस्य निरोधः कुतः । येनासति हेतौ कार्योत्पादस्स्यादिति शङ्किते यौगपद्यमन्यथेत्यस्यावश्यं विवक्षणीयत्वादिति भावः । मतद्वयेऽपि ‘‘प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधे’’ति सूत्रार्थमनूद्य निराह ॥ यच्चोक्तमिति ॥ बुद्धिपूर्वविनाशोऽबुद्धिपूर्वविनाशश्चेत्यर्थः । निरन्वयः कारणान्वयशून्यः । निश्शेष इति यावत् ॥ स न युक्त इति ॥ एतेन प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधयोर्निरन्वययोरप्राप्तिरसम्भव इति सूत्रांशस्यार्थः सूचितो भवति । भामत्युक्तमेवाह ॥ तप्तशिलेत्यादि ॥ उदबिन्दौ उपलतलपतिते सिन्धौ समुद्रे च तोयभावस् तोयत्वसामान्यं न भिद्यते । तस्मादुदबिन्दौ विनष्टेऽपि तस्य बिन्दोस्सामान्यरूपेण सिन्धावस्त्यन्वय इति श्लोकार्थः कल्पतरूक्तो ध्येयः । रामानुजभाष्येऽपि निर्वाणप्रदीपादौ सूक्ष्मदशापत्त्याप्यनुलम्भोपपत्तेरित्युक्तम् । व्यभिचरितश्चाविच्छेदादिहेतुरित्याह ॥ त्वदभिप्रेतेति ॥

चन्द्रिकाविवृतिः

अपिशब्दस्येति ॥ त्वन्मत इव विकल्पद्योतकत्वाभावादिति भावः ॥ तच्छब्दस्य चेतोसमुदाय उभयहेतुके प्राप्तिरित्युक्ते समुदायस्याप्राप्तिरिति ज्ञातुं शक्यमेवेति भावः ॥ स्वमते सूत्र एव हेतुसूचनाप्रकारं दर्शयितुमाह ॥ मम मते इवेति ॥ अविद्यासंस्कारेत्यादिपदानां रूपसंज्ञासंस्काराद्यर्थकत्वे व्याख्यानं परग्रन्थानुसारेण परपदं विहाय कर्तव्यम् ॥ घटीयन्त्रवदिति ॥ वर्तुलाकार उभयतः जलादानोपाययोगिताम्रपात्रयुक्तः यन्त्रः घटीयन्त्रः । स च पट्टणादौ प्रसिद्धः ॥ शङ्कार्हमिति ॥ अविद्यासंस्काराद्यधिष्ठातृचेतनाभावेनैव तैरपि कार्यजननाभावसिद्धेर्न शङ्कार्हमित्यर्थः ॥ अत एव द्वितीयसूत्रार्थ इति ॥ इतरेतरप्रत्ययत्वादित्यादि-सौत्राभिप्रेतशङ्काया अनुत्थितेर्नेति भावः ॥ एवं च पूर्वसूत्रं यथा इतरेतरप्रत्ययत्त्वादिति शङ्का उदेष्यति तथैव व्याख्येयं न तु सङ्घातकर्तुश्चेतनस्याभावादिति हेतुपरतया व्याख्येयमिति पूर्वसूत्रे दूषणमनुसन्धेयम् ॥

पयोम्बुवदित्युक्तन्यायेनेति ॥ तत्र एकस्यापि प्रवृत्तिर् न चेतनं विनोपपद्यत इत्युक्तम् । अन्यथाऽनेकसङ्घात एव चेतनापेक्षामेनाधीनत्वान्न त्वेकमात्राधीन इति वदेदिति भावः ॥ तत्राप्युत्तरोत्पादे च पूर्वनिरोधादित्यत्रापि ॥ मम मते त्विति ॥ यौगपद्यमित्यत्र कार्याणामेव यौगपद्यं विवक्षितम् । उत्तरोत्पादसूत्रे तु कार्यकारणयोरिति भेद इति ॥ निरन्वयजातिविनाशस्य निरन्वयत्वं विनाशप्रतियोगावयवतत्सजातीयैः सहानवस्थानम् । यथा मयि ब्रह्मज्ञानोत्तरभाव्यविद्यानाश इति ध्येयम् ॥ तस्येति ॥ बिन्दोरेव परसूक्ष्मैरं शोऽन्वयो ऽम्बुधावस्त्येवेति भावः ॥

निरन्वयत्वविशिष्टेति ॥ विशिष्टनिरासे निरन्वयत्वरूपविशेषणमात्रनिरसन एव पर्यवसानं सविशेषणे हीति न्यायात् ॥ स्वरूपनिरासाभिप्राये तु विशिष्टनिरास अनुचित एवेति भावः ॥