०१ शून्यवादनिरासः

सौत्रस्य ‘‘अदृष्टत्वा’दित्यस्य ..

असदधिकरणम्

तात्पर्यचन्द्रिका

शून्यवादनिरासः

ॐ नासतोऽदृष्टत्वात् ॐ

सौत्रस्य ‘‘अदृष्टत्वा’दित्यस्य शून्यकारणत्वस्याप्रत्यक्षत्वादिति असति कारणत्वस्य क्वाप्यननुभावादिति असत्कारणत्व आगमस्यादृष्टत्वादिति त्रेधाऽर्थोऽभिप्रेत इति भावेनाह ॥ न तावत्प्रत्यक्षमित्यादिना ॥ भाष्ये सौत्रोदासीनशब्दव्याख्यानरूपं ‘‘हेयोपादेयबुद्धिवर्जिताना’’मिति हेतुगर्भविशेषणमयुक्तम् । तद्वर्जितानामपि तंत्वादीनां हेतुत्वादित्याशङ्क्य तद्बुद्धिविषयतावर्जितत्वं भाष्ये विवक्षितम् । तंत्वादयश्च तद्बुद्धिविषया एवेति न दोष इत्याह ॥ हेयोपादेयबुद्धिविषयतावर्जितत्वादिति ॥ भाष्यस्थं खपुष्पाद्यन्यबौद्धाभिमतशून्यप्रतिपादकं ‘‘अन्यत्रे’’ति पदं ‘‘कार्यसिद्धि’’रित्यनेनानुषक्तेनान्वयार्थं पञ्चम्यर्थत्वेन व्याचष्टे ॥ अन्यत्र शून्यादिति ॥ यदत्रोक्तमुभाभ्यां ‘‘समुदाय इत्याद्युदासीनानामित्यन्तं सूत्रदशकमेकमधिकरणम् । वैभाषिकसौत्रान्तिकमतान्तरनिरासकमिति तन्न । मम रीत्या ‘‘नासत’’ इत्यादि सूत्रचतुष्टयस्यावश्यनिरसनीयशून्यवादनिरासकत्वेन भिन्नाधिकरणत्वसम्भवे एकत्वायोगात् । यत्त्वन्य आहुर् योऽयमणुहेतुको भूतभौतिक (शरीर) रूपो नदीसमुद्रादिर्बाह्यस्संघातो यश्च चित्तचैत्यात्मक आध्यात्मिकस्संघातस्तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः समुदायाप्राप्तिः । समुदायिनामचेतनत्वात् । मृद्दण्डचक्रादीनां हि सङ्घातश्चेतनाधीनो दृष्ट इत्याद्यार्थ इति ।

प्रकाशिका

टीकोक्तं सूत्रारूढं करोति ॥ सौत्रस्येति ॥ यदत्रेति ॥ ‘‘ये सर्वास्तित्ववादिनो बाह्यमाभ्यंतरं च वस्त्वभ्युपगच्छन्ति तांस्तावत्प्रति ब्रूम’’ इति परभाष्यं ‘‘ये बाह्यार्थास्तित्ववादिनस्ते तावन्निरस्यन्त’’ इति रामानुजभाष्यं च हृदि कृत्वाऽऽह ॥ वैभाषिकसौत्रान्तिकेति ॥ ‘‘वैभाषिकसौत्रान्तिकयोरेकीकृत्योपन्यास’’ इति भामत्युक्तेरिति भावः । सूत्रार्थं चानूद्य निराह ॥ यत्त्वन्य इति ॥ चित्यचैत्यात्मक इति ॥ रूपादिपञ्चस्कन्धात्मक इत्यर्थः । रूपशब्देन सविषयेन्द्रियाण्यत्र ग्राह्याणि । समुदायाप्राप्तिः समुदायानुपपत्तिरित्यर्थः । भाष्यभामत्योरुक्तं हेतुमाह ॥ समुदायिनामिति ॥

चन्द्रिकाविवृतिः

ॐ नासतोदृष्टत्वात् ॐ ॥ हेतुगर्भविशेषणमिति । हेयोपादेयबुद्धिवर्जितत्वादेव खपुष्पादीनां हेतुत्वाभाव इति हेतुत्वाभावे बुद्धिवर्जितत्वं हेतुः ॥ अत एव तत्त्वादौ व्यभिचारशङ्का, तत्परिहारार्थं बुद्धिविषयवर्जितानामिति टीका चोपपन्ना ॥ अन्यत्रेति पदस्य शून्यत्वादिति पञ्चम्यंततया व्याख्याने हेतुं दर्शयति ॥ कार्यसिद्धिरित्यनेनानुषक्तेनेति ॥ अन्यथा शून्ये इत्यपि व्याख्यानं न स्यादिति भावः ॥ भूतभौतिकरूप इति ॥ संघातशब्दोक्तसमुदायस्योभयहेतुकत्वसम्पादनार्थं भूतभौतिकयोर्ग्रहणम् ॥ सोऽपि समुदायः परमाणुपुञ्जात्मक एवेति योऽणुहेतुक इत्युक्तम् । अत्र तत्र किंचित्किञ्चिदर्थविशेष एवास्माभिर्लिख्यते इति निष्कर्षज्ञानार्थः परकायभाष्याद्यनवलोकनप्रसङ्गः । एवं सर्वत्र । चित्तचैत्यात्मकश् चित्तं ज्ञानं तदन्यस्कन्धश्चैत्यम् । तस्मिन्नुभयहेतुक इति ॥ परमाणुभूतोभयहेतुके भूतभौतिकसमुदाय इत्यर्थः ॥ उभयविधवाद्युक्तमर्थद्वयमपि न भवतीत्यर्थः ॥