०१ परमाणुपुञ्जवादनिरासः

रूपविज्ञानवेदनासंज्ञासंस्कार रूपेणेति ..

समुदायाधिकरणम्

तात्पर्यचन्द्रिका

परमाणुपुञ्जवादनिरासः

ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥

रूपविज्ञानवेदनासंज्ञासंस्कार रूपेणेति ॥ विषयेन्द्रियाद्यात्मना स्थिता रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । दुःखं वेदनास्कन्धः । सुखं तु दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः । तेषां वासना संस्कारस्कन्ध इति द्रष्टव्यम् ॥ अतिपीडायामनवस्थेति ॥ अन्योन्याश्रयपरिहाराय मेलनस्य मेलनान्तरेण वा सामीप्येन वा विशिष्टानेकहेतुकत्वेऽनवस्थेत्यर्थः ॥ तदङ्गीक्रियत एवेति ॥ अनेकत्वसङ्ख्यारूपस्य समुदायस्य विरलेष्वपि परमाणुषु सत्त्वेन तस्य सदातनत्वादिति भावः ॥ व्यवहारादेरिदं चेदं चेतीति ॥ अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यंग्यत्वेन तत्प्रतीतिव्यवहारयोरिदं चेदं चेत्यपेक्षाबुद्ध्यधीनत्वादित्यर्थः ॥ सामीप्यापेक्षेति ॥ विप्रकृष्ट इदं चेदं चेत्यपेक्षाबुद्धेरदर्शनादिति भावः ।

पुरुषस्यापि तथात्वमिति ॥ विषयवदात्मनोऽपि क्षणिकत्वेन परमाणुदर्शनमपेक्षाबुद्धिः समुदायव्यवहार इत्येतेषामेकविषयकत्वमिवैकाधिकरणत्वमपि न युक्तमित्यर्थः ॥ विशेषकार्योत्पत्तिमपि निराकुर्वत्सूत्रमिति ॥ यद्यपि ‘‘इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् । न तु कार्यविशेषेषु व्यापृतं कारणं भवे’’दित्यनुव्याख्याने ‘‘कारणानि खलु स्वसदृशकार्यजननव्यापाराणि न तु विसदृशकार्यजनने व्यापृतानी’’ति सुधायां च विसदृशकार्यरूपविशेषकार्योत्पत्तिरपि द्वितीयसूत्र एव निरस्ता । सूत्रे मात्रशब्देनापेक्षाबुद्ध्यादेरिव वैसादृश्यस्यापि व्यावर्तितत्वादित्युक्त्वा

उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुनः ।

न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥

इत्यनुव्याख्याने ‘‘अथ मतम् । कारणक्षणाः कार्येषु संस्कारानर्पयन्ति । अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहार इत्येतन्निराकरणाय सूत्रमुत्तरोत्पादे चे’’त्यादि सुधायां च तृतीयसूत्रं बौद्धमते संस्कारनिरासार्थमित्युक्तम् । तथापीह ‘‘एकं कार्यमुत्पाद्य तस्य नष्टत्वात्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यत’’ इति द्वितीयसूत्रभाष्ये तट्टीकायां च विरलपरमाणुकार्याणां मिलितपरमाणूनां क्षणिकत्वेनापेक्षाबुद्ध्यादिविषयत्वादिकमेव द्वितीयसूत्रे निरस्तम् । सूत्रे मात्रशब्देनापेक्षाबुद्धिरेव व्यावर्तितेत्युक्त्वा (त्वं न युक्तमिति द्वितीयसूत्रार्थः । तत्र मात्रशब्दश्चापेक्षाबुद्ध्यादेरेव व्यावर्तक इति विवक्षितम् ।) ‘‘न विशेषकार्योत्पत्ति’’रित्यादि तृतीयसूत्रभाष्ये तट्टीकायां च विसदृशकार्यरूपविशेषकार्योत्पत्तिरेव तृतीयसूत्रे निरस्तेति सूत्रद्वयं प्रकारान्तरेण व्याख्यातमिति द्रष्टव्यम् ॥ अन्यथा क्षणिकत्वविरोध इति ॥ यदि तु स्वतस्सदृशकार्यजनका अप्यणवोऽदृष्टसहकृता आदावेव विसदृशानुत्पादयेयुस् तर्हि स्वतः सदृशजनकोऽपि घटोऽदृष्टसहकृतः कदाचित्पटमुत्पादयेदिति भावः ।

पूर्वमविच्छेदेनोत्पत्तिर्यौगपद्यमित्यभिप्रेत्योक्तम् । इदानीं सहावस्थानं यौगपद्यमित्यभिप्रेत्याह ॥ तथा यस्मिन्क्षण इति ॥ यः प्रतिक्षणं विनाश इत्यादि ॥ यद्यपि बुद्धिपूर्वकाबुद्धिपूर्वकविनाशौ प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाविति बौद्धानां परिभाषा । उक्तं हि ‘‘बुद्धिपूर्वविनाशो हि प्रतिसङ्ख्यानिरोधधीः । अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यये’’ति । तथापि प्रतिक्षणविनाशस्याबुद्धिपूर्वकत्वात्संतानेन सह विनाशस्य तु प्रायेण बुद्धिपूर्वकत्वात्प्रतिक्षणविनाशसंतानविनाशावप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधशब्दार्थत्वेनोक्तावित्यविरोधः ॥ स्वकार्यवियोगकाल इति ॥ कार्योत्पत्तिक्षणे कारणं तावत्सदेव । क्षणिकस्य चोत्पत्तिकाल एव वियोगकाल इति वियोगकालेऽपि कारणं सदेवेति भावः ॥ त्वदनुमानेऽसिद्धिरित्यादि ॥ अर्थक्रियाकारित्वं कदाचित्कार्यकरत्वं चेद्गगनेऽपि तस्य सत्त्वात्तत्र तन्नेति वदता त्वया प्रतिक्षणं कार्यकरत्वमिति वक्तव्यम् । तच्च पक्षे प्रपञ्चे दृष्टान्ते दीपे च नेत्यसिध्द्यादीत्यर्थः ॥ साऽऽकाशेन नास्तीति ॥ किं त्वस्त्येव । ततश्च मदीयहेतौ त्वदुक्तं साधनवैकल्यं नेति शेषः ॥ कालादिभेदेनोपपत्तेरित्यादि ॥ चूतफलादौ श्यामत्वाश्यामत्वादिः कालादिभेदेनोपपन्नः । यद्यपि तार्किकाणां तत्रापि भेदः । तथापि तदेवेदमिति प्रत्यभिज्ञानान्न भेदोऽस्मत्संमत इत्यर्थः ॥ अन्यथैकक्षणेऽपीति ॥ अभेदे प्रमितेऽपि भेदश्चेदेकक्षणवर्तिनोर्घटपटयोर्भेददर्शनात्तद्दृष्टान्तेनैकक्षणवर्तिनोऽपि घटस्य स्वस्माद्भेदः स्यादित्यर्थः । यद्वा एकक्षणवर्तिनोऽपि घटस्य पुरुषभेदेन ज्ञातत्वाज्ञातत्वयोर्दृष्टे र्भेदः स्यादित्यर्थः ॥ एतेन प्रदीपोऽपि व्याख्यात इति ॥ बालयुवशरीरवद्दीपेऽप्यत्यंतभेदाभावेऽपि कालभेदेन परिमाणभेद इति भावः ॥ दृष्टान्ताभावादिति ॥ मुसलाहतैकक्षणवर्तिपरमाण्वात्मकघटरूपदृष्टान्तस्वरूपे तत्र साध्यसाधनयोश्च मम विप्रतिपत्तेरित्यर्थः ॥ छ ॥ समुदायाधिकरणम् ॥

प्रकाशिका

टीकाक्षरार्थान् व्यनक्ति ॥ रूपेति ॥ ननु सुखमप्यन्यदस्तीत्यतः ‘‘दुःखाभावं सुखं चाहु’’रित्याद्यनुव्याख्यानोक्तमाह ॥ सुखं त्विति ॥ ‘‘चशब्देन केचित्सुखमपि वेदनास्कन्धेंऽतर्भावयन्तीति सूचयती’’ति सुधोक्तेराह ॥ सुखमपीति ॥ एतेन ‘‘सुखदुःखे वेदनास्कन्ध’’ इति तत्वनिर्णयटीकाविरोधः प्रत्युक्तः । कुण्डलीति द्रव्यविकल्पः । भाष्यटीकयोरनुव्याख्यानसुधाविरोधमाशङ्क्य वर्णकान्तरत्वेन समाधिमाह ॥ यद्यपीत्यादिना इति द्रष्टव्यमित्यन्तेन ॥ ‘‘यः प्रतिक्षणं विनाश’’ इत्यादिटीकार्थं ‘‘प्रतिसङ्ख्याप्रतिसङ्ख्ये’’ति सूत्राक्षरारूढं कर्तुं परमतानुवादत्वं च व्यञ्जयितुं शङ्कोत्तरे आह ॥ यद्यपीत्यादिनाऽविरोध इत्यन्तेन ॥ अप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधशब्दार्थत्वेनोक्तावितीति ॥ एतेन भाष्ये सन्तानविनाशस्य प्रतिक्षणविनाशपूर्वकत्वमभिप्रेत्य सौत्रपदयोर्व्यत्यासेन निस्संतानससंतानेत्यर्थोक्तिः । टीकापि तथैव प्रवृत्तेति सूचितम् । एतेन ‘‘विनाशद्वयस्वरूपं च, ‘‘बुद्धिपूर्वविनाशो हि प्रतिसङ्ख्यानिरोधदी’’रित्यादितत्वनिर्णयटीकाविरोधोऽपि प्रत्युक्तः ॥ छ ॥ समुदायाधिकरणम् ॥

चन्द्रिकाविवृतिः

॥ ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ सुधावाक्यानां किंचिदर्थकथनपूर्वकमेव रूपादिस्कन्धान् दर्शयति ॥ विषयेन्द्रियाद्यात्मनेत्यादिना ॥ तेषां विज्ञानादिस्कन्धानां सम्बन्धिनी वासना, रागद्वेषमोहादयः ॥ सुधासूचितमेवार्थमनुवदति सुधायां च विसदृशकार्यरूपेत्यादि ॥ द्वितीयसूत्र एव इतरेतरप्रत्ययत्वादिति द्वितीयसूत्र एव । मात्रशब्देनापेक्षाबुध्यादिरिवेति ॥ उत्पत्तिमात्रनिमित्तत्वादित्युक्ते उत्पत्तिमात्रमेवानेन भवति । अनन्तरं स्वयमेव नष्टं भवति । क्षणिकत्वात् । दर्शनापेक्षा बुध्यादीनाम् एकविषयत्वाभावेना(पि)पेक्षाबुध्यादिकत्व दर्शनापेक्षा । बुद्धिवृत्तिव्यवहाराणां न भिन्नविषयत्त्व-स्यानुत्पत्या एकविषयत्वस्यापि सम्भवादित्याक्षेपाभिप्रायः सुधायाम् ॥ प्रकारान्तरेणेति ॥ तथा चोपायस्योपायांतरादूषकत्वात्तेन च परस्परविरोधशङ्केति भावः ॥ भाष्यटीकापक्षे बौद्धाभिमतसंस्कार-निरासपक्षस्तु बहिरेव द्रष्टव्य इत्यदोषः ॥ पूर्वमविच्छेदेनोत्पत्तिरिति ॥ यस्मिन्क्षणे घटेन सदृशघटांत-रोत्पत्तिरङ्गीकृता घटान्तरोत्पत्तिकालेऽपि पूर्वघटस्य सत्त्वेनार्थक्रियाकारित्वात्तेनैवाद्यघटेन पुनर्घटांतर-मुत्पादनीयम् । तदुत्पत्तिकालेऽपि पुनर्घटः सन्नेवेत्यादिरूपेणैकमेव घटं गृहीत्वाऽनेकघटोत्पत्तेरविच्छेद उपपाद्यः । इदमेकविधं यौगपद्यम् । अन्यच्च सहावस्थानरूपम् । यदा एकेन घटेन घटान्तरमुत्पाद्यं तदा पूर्वघट उत्तरघटोत्पत्तिकाले सन्नुत्तरघटोऽपि सन्नेवेति तदैव क्षणे घटान्तरमुत्पादयेत् ॥ तदपि घटान्तरं सदेवेति अनेकेषामपि घटानां कार्यरूपाणां सत्त्वापत्या यौगपद्यं प्राप्तमित्यर्थः । क्षणिकस्य उत्पत्स्यमानक्षणिकस्य । न हि तादृशान्यत्वमस्मत्सङ्गतमिति टीकावाक्यार्थमाह ॥ यद्यपि तार्किकाणामिति ॥ ननु प्रमिताभेद एव क्षणवर्तिघटे न भेदापादनं युक्तं विरुद्धाध्यासेनैव मयाभेदस्योक्तत्त्वेन भवदुक्तस्थो घटेऽभेदप्रमाबाधकस्य विरुद्धधर्माधिकरणत्वस्याभावादित्यरुच्या पक्षान्तरमाह ॥ यद्वा एकक्षणवर्तिनोऽपीति ।