०२ परमतव्याख्याननिरासः

अत्र यदुक्तं परैः

परमतव्याख्याननिरासः

तात्पर्यचन्द्रिका

अत्र यदुक्तं परैः । महदित्येकं सूत्रमेकमधिकरणम् । उभयथेत्याद्यपरिग्रहादित्यन्तं सूत्रषट्कमधिकरणान्तरमिति तन्न । उभयोरपि तार्किकप्रक्रियानिरासकत्वात् । विज्ञानशून्यवादयोरिव चेहावान्तरप्रमेयभेदस्यादूषणात् । साङ्ख्याधिकरणानामिवैकाधिकरणत्वस्यैवन्याय्यत्वात् । यच्चोक्तं महद्दीर्घं च त्र्यणुकादिकं विजातीयाद्ध्रस्वादिरूपाद्व्यणुकादित इव चेतनाद्ब्रह्मणोऽचेतनं जगज्जायत इति स्वपक्षदोषोद्धारार्थमाद्याधिकरणमिति तन्न । पादासङ्गतेः । पुनरुक्तेश्च । आद्ये पादे स्वपक्षदोषोद्धारः । द्वितीये तु परपक्षदूषणमिति हि ते मतम् । उक्तं च ‘‘न विलक्षणत्वा’’ दित्यत्र विजातीयादपि जन्म । न हि तत्र साक्षाच्चेतनाचेतनयोरुपादानोपादेयभावे वृश्चिकगोमयादिदृष्टान्तेषु सर्वलौकिकपरीक्षकसंमतेषूक्तेष्वपि विजातीयमात्रयोस्तद्भावे परमात्रसिद्धं दृष्टान्तान्तरमात्रं वक्तुमधिकरणान्तरं युक्तम् । किञ्च महतो दीर्घस्य च त्र्यणुकादिकस्य विजातीयाद्ध्रस्वाद्द्व्यणुकादुत्पत्तावपि परिमण्डलात्परमाणुतोऽनुत्पत्तेस्सूत्रे परिमण्डलशब्दो व्यर्थः स्यात् ।

ननु सौत्रो वाशब्दश्चार्थस्सन्न परिमण्डलभूतव्द्यणुकसमुच्चयार्थः । तथा च परिमण्डलादपरिमण्डलवदिति दृष्टान्तान्तरार्थस्स इति चेत्तर्हि कार्यकारणयोर्वैजात्यस्फोरणाय ह्रस्वप्रतियोगित्वेन महद्दीर्घपदमिव परिमण्डलप्रतियोगित्वेनापरिमण्डलपदं प्रयुज्य महद्दीर्घापरिमण्डलवद्ध्रस्व परिमण्डलाभ्यामिति सूत्रणीयम् । यथान्यासपक्षे हि समासैकदेशस्य ह्रस्वस्य महद्दीर्घान्वयः । परिमण्डलस्य तु वाशब्दसमुच्चितापरिमण्हलान्वय इति क्लिष्टम् । किञ्च पररीत्या विजातीयं तन्तुपटादि परित्यज्याविजातीयस्य विलक्षणमात्रस्य परमाणुद्व्यणुकादेर्दृष्टान्तीकरणम युक्तम् । न हि परमाणुत्वादिकं जातिः । पृथिवीत्वादिना सङ्करात् । यद्यपि परमाणुव्द्यणुकादिपरिमाणानि तार्किकमते विजातीयानि तथापि न तेषामुपादानोपादेयत्वम् । किञ्चायं दृष्टान्तो विवर्तप्रतिकूलः । अपि च तव चेतनाद्ब्रह्मणोऽचेतनं जगदिति दार्ष्टान्तिकोऽध्याहार्यः । मम तु न । केचित्तु परिमण्डलात्परमाणुतो ह्रस्वस्य व्द्यणुकस्य तस्माच्च महद्दीर्घस्य त्र्यणुकादेर्जन्म तावदयुक्तम् । अणोरण्वन्तरसंयोगस्य व्याप्यवृत्तित्वे तत्कार्यपरिमाणाधिक्यायोगात् । एकदेशवृत्तित्वे चाणोर्निरंशत्वहानेः । सूत्रे वाशब्दस्तु चार्थः । तथा च परमाणुभ्यो व्द्यणुकादिक्रमेण जगदुत्पत्ति वद्वैशेषिकाभ्युपगतं गगननित्यत्वादिकमन्यदप्यसमञ्जसमिति सूत्रार्थ इत्याहुः । तन्नह। पञ्चमीनिर्दिष्टे ह्रस्वशब्दे षष्ठ्यन्तताया आवृत्तेश्च कल्प्यत्वात् । किञ्च व्याप्यवृत्तित्वाव्याप्यवृत्तित्वविकल्पः किं व्द्यणुकसंयोगविषयः परमाणुसंयोगमात्रविषयो वा । नाद्यः । व्द्यणुकस्य सांशत्वेन तत्संयोगस्यैकदेशवृत्तित्वसम्भवात् । द्वितीये परिमण्डलाद्ध्रस्ववद्वेत्येव सूत्रणीयम् । अन्यत्तु निरर्थकम् ।

किञ्च गगननित्यत्वाभावस्येवाणुभ्यो जगज्जन्माभावस्यापि परं प्रति साध्यत्वाद्दृष्टान्तो न युक्तः । अपि च मदीयाह्रस्वपरिमण्डलपरिमाणयोः कार्यपरिमाणोत्पादकत्वे महद्दीर्घपरिमाणप्रतिबन्दीरूपा युक्तिः सूत्रारूढा । संयोगस्य व्याप्यवृत्तित्वमित्यादिका त्वदीया तु न । मम पक्षे सूत्रे त्वप्रत्ययायोगस्तु ‘‘प्रचयविशेषाच्च मह’’दिति कणादसूत्रानुसारेण । यच्चोक्तं परैर् अणुष्वाद्यकर्मणो हेत्वभ्युपगमेऽनभ्युपगमे च न कर्मेति वा कर्महेतोरदृष्टस्याणुगतत्व आत्मगतत्वे च न कर्मेति वा सृष्टिकाले संयोगोत्पत्त्यर्थं संहारकाले विभागोत्पत्त्यर्थं च न कर्मेति वा द्वितीयेऽधिकरण आद्यसूत्रस्य त्रेधार्थ इति तन्न । आद्येऽनभ्युपगमपक्षस्य द्वितीये परमाणुगतत्वपक्षस्य चात्यन्तासम्भवित्वात् । द्वितीयेऽदृष्टस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेरिति त्वदुक्तस्य हेतोरसिद्धेः । अदृष्टमीश्वराधिष्ठितमिति हि तन्मतम् । तृतीये उभयार्थकर्माभाव इति सूत्रणीयम् । मम मत इव सूत्रे हेत्वसूचनान्न्यूनता च । तस्मान्मम रीत्या समवाय्वसमवायिकारणनिरासकसूत्रयोर्मध्यस्थमिदं सूत्रमवश्यनिरसनीयस्य सर्वव्यवस्थापकत्वेन पराभिप्रेतस्येश्वरेच्छानिमित्तत्वस्य निरासकम् । द्वितीयचतुर्थषष्ठानां परकीयाव्याख्यानविरुद्धा । यत्तु अणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वाऽनुभयस्वभावा वा । नाद्यद्वितीयौ । नित्यं प्रवृत्तेर्निवृत्तेर्वा भावप्रसङ्गात् । तृतीये विरोधः । चतुर्थे निमित्तवशात्प्रवृत्तिनिवृत्ती वाच्ये । निमित्तं चादृष्टं नित्यं संनिहितमिति नित्यं प्रवृत्त्यादेर्भावप्रसङ्गादिति तृतीयार्थ इति तन्न । सूत्रे उभयथा चेत्यादाविव विकल्पसूचकाभावात् । अस्य विकल्पस्य स्वाङ्गीकृतब्रह्माविद्यादिकारणेष्वपि साम्याच्च । आद्यसूत्रे मया तार्किकं प्रत्युक्तदोषस्य मम मतेऽप्राप्तिस्तु ‘‘स्वत एव काले विशेषाङ्गीकृतेश्चे’’ति भाष्य एव दर्शिता ।

किञ्च मम रीत्या भाष्योक्तमार्गेण सत्तासमवायो जनिरिति तार्किकैः स्वीकृतत्वात्समवायस्य च नित्यमेव भावात्सर्वं नित्यजातं स्यात् । तथा च सृष्टिप्रलयानुपपत्तिरिति पूर्वसूत्रप्रकृतसमवायस्येहान्वयसम्भवे प्रवृत्तेर्निवृत्तेर्वेत्यध्याहारो भावादित्यस्य प्रसङ्गहेतुता च न युक्ता । यच्चोक्तं वायवीयादिपरमाणवो रूपादिहीनास्तैजसादयस्तु तद्युक्ता इति परामाणुषु गुणोपचयापचयौ स्तो न वा । आद्ये तेषु परिमाणोपचयापचयावपि स्याताम् । तयोस्ताभ्यां व्याप्तेः । द्वितीये तैजसाद्यणुकार्येषु रूपादि न दृश्येतेति पञ्चमार्थ इति तन्न । तन्मत ईश्वरादपि जीवे त्वन्मते चात्मनोऽप्यन्तःकरणे आकाशादपि पृथिव्यादौ च गुणाधिक्येऽपि परिमाणाधिक्यादृष्टेः ॥ केचित्तु अणूनां रूपादिमत्त्वे पूर्वसूत्रेणानित्यत्वदोष उक्तः । अत्र तु रूपादिराहित्ये तत्तत्कार्ये रूपादिर्न स्यादिति दोष उच्यत इत्याहुः । तत्र अन्यथा च दोषादिति सूत्रणीयम् ॥ छ ॥ वैशेषिकाधिकरणम् ॥ ६ ॥

प्रकाशिका

अस्य स्वपक्षदोषोद्धारार्थत्वात्सार्थक्यमित्यतस्सूत्रप्रमेयं चानूद्य निराह ॥ यच्चोक्तमिति ॥ पादासङ्गतिं व्यनक्ति ॥ आद्य इति ॥ नन्वेतदाशङ्क्योक्तं कल्पतरौ ‘‘यदि प्रधानगुणानन्वयाज्जगन्न तत्प्रकृतिकं तर्हि ब्रह्मविशेषगुणानन्वयान्न तदुपादानमित्यवान्तरसङ्गतिलोभादत्र लिखित इती’’ति चेन्न । तथात्वे पादादिसङ्गत्यभावशङ्का क्वापि नोदियात् । सर्वत्राप्येवं सम्भवात् । निर्गुणब्रह्मोपादानकत्वपक्षे चैवं शङ्कानुदयात् । विवर्तोपादानतापक्षे सर्वथैव शङ्कानुत्थितिश्चेति भावः । पुनरुक्तेश्चेत्येतद्-व्यनक्ति ॥ उक्तं चेति ॥ परसिद्धदृष्टान्तोक्तयर्थमिदमित्यत आह ॥ न हीति ॥ सूत्रार्थं च निराह ॥ किञ्चेति ॥ भामत्युक्तमाशङ्कते ॥ नन्विति ॥ पृथिवीत्वादिनेति ॥ परमाणुत्वं विना पृथिवीत्वं घटादौ पृथिवीत्वं विना परमाणुत्वमाप्यपरमाणौ द्वयमपि पृथिवीपरमाणौ सङ्कीर्णमिति भावः ॥ मम तु नेति ॥ स प्रकारष्टीकादौ व्यक्त इति भावः ॥ केचित्त्विति ॥ ‘‘असमञ्जसमिति वर्तते । वाशब्दश्चार्थे । ह्रस्वपरिमण्डलाभ्यां द्य्वणुकपरमाणुभ्यां महद्दीर्घवत्त्र्यणुकोत्पत्तिवादवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसम् । परमाणुभ्यो द्व्यणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदसमञ्जस’’मिति तदीयभाष्यं हृदि कृत्वाऽर्थमनुवदति ॥ परिमण्डलादिति ॥ यद्यपि तद्भाष्यव्याख्याने श्रुतप्रकाशे ‘‘सूत्रे ह्रस्वपरिमण्डलशब्दाभ्यां कारणद्वयमुक्तम् । महद्दीर्घशब्दोऽणुह्रस्वस्य द्व्यणुकस्याप्युपलक्षणम् । द्व्यणुकपरमाणुभ्यां त्र्यणुकद्व्यणुकादिकार्यवदन्यच्चासमञ्जसमित्यर्थ’’ इत्येवोक्तम् । तथापि ‘‘परमाणुभ्यो द्व्यणुकादिक्रमेणे’’त्यादिभाष्यपर्यालोचनयैवमेव सूत्रस्यार्थो युक्त इति भावेन परमाणुतो ह्रस्वस्येति, तस्माच्चेति, ह्रस्वशब्दस्य षष्ठ्यन्तत्वं पञ्चम्यंतत्वमावृत्तिं चाश्रित्यार्थोऽनूदित इति ज्ञेयम् । श्रुतप्रकाशोक्तमाह ॥ गगननित्यत्वादिकमिति ॥ षष्ठ्यन्तताया इति ॥ महद्दीर्घशब्दस्य द्व्यणुकोपलक्षकत्वेऽपि लक्षणादोषो व्यक्तः । त्र्यणुकद्य्वणुकवद्वेति निर्देशापाताच्चेति व्यक्तम् । महादीर्घवदिति वाच्ये महद्दीर्घवदिति क्लिष्टं च । दोषान्तरं चाह ॥ किञ्चेति ॥ न केवलं निरर्थकमयुक्तं चेदं सूत्रमित्याह ॥ किञ्चेति ॥ मदीयेति ॥ युक्तिरित्यन्वयः । परिमाणपरत्वे महत्त्वदीर्घत्वेत्यादिनिर्देशस्स्यादित्यतस्सुधोक्तमेव समाधिमाह ॥ मम पक्ष इति ॥ ‘‘कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च मह’’दिति कणादसूत्रेत्यर्थः । ‘‘उभयथापि न कर्मातस्तदभाव’’ इति सूत्रार्थं त्रेधा भामत्युक्तमनूद्य निराह ॥ यच्चेति ॥ हेत्वभ्युपगमे कुतो न कर्मेत्यत आह ॥ कर्महेतोरिति ॥ ‘‘उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्ते’’रिति भामत्युक्त एव हेतुरस्मिन्पक्षे तृतीयपक्षे च ध्येयः ॥ त्रेधेति ॥ ‘‘सूत्रमादौ त्रेधा योजयती’’ति कल्पतरूक्तेरिति भावः । अतः कर्माभावात् । तदभावः द्व्यणुकादिक्रमेण कार्याभावः । इति शेषार्थो न विरुद्ध इति नानूदितः ॥ इति हि तन्मतमिति ॥ एतेन निमित्तकारणतामात्रेणेश्वरस्याधिष्ठातृत्वं ‘‘पत्यु’’रित्यत्र निराकरिष्यत इति भामत्युक्तं प्रत्युक्तम् । आपाद्यदोषत्वेऽपि तन्मताननुसारित्वेनान्यतरासिद्धेरवर्जनीयत्वात् । एतेन ‘‘परमाणुगतं कर्म स्वगतादृष्टकारितमात्मगतादृष्टकारितं वा । उभयथापि न सम्भवति । क्षेत्रज्ञपुण्यपापानुष्ठानजन्यस्यादृष्टस्य परमाणुगतत्वासम्भवा’’दिति केषाञ्चिदर्थोऽपि निरस्तः । परमाणुगतत्वपक्षस्यात्यन्तासम्भावितत्वेन विकल्पकोटेरेवानुत्थितेः ॥ मम मत इवेति ॥ ईश्वरेच्छाया अनित्यत्वे नित्यत्वे चोभयथापीत्युक्तया नित्यत्वपक्षे प्रलये कर्मानुत्पादेन कार्यव्यभिचाररूपहेतोरनित्यत्वे भगवदिच्छारूपकारणाभावरूपस्य हेतोः परमाणुकर्म नेत्युक्तसाध्ये सूचनमस्ति । न त्वन्मते । बहिरेव हेतोरुक्तत्वादिति भावः ॥ निरासकमिति ॥ निरासप्रकारष्टीकादौ व्यक्त इति भावः ॥ द्वितीयेति ॥ पररीत्यैतत् । ‘‘समवायाभ्युपगमाच्च साम्यादनवस्थितेः । रूपादिमत्त्वाच्च विपर्ययोदर्शनात् । अपरिग्रहाच्चात्यंतमनपेक्षे’’ति सूत्रत्रयव्याख्येत्यर्थः । ‘‘नित्यमेव च भावा’’दित्यस्यार्थं परभाष्योक्तमनूद्य प्रत्याह ॥ यत्त्विति ॥ प्रमेयास्वारस्यं चाह ॥ अस्य विकल्पस्येति ॥ आद्यसूत्र इति ॥ ‘‘उभयथापि न कर्मातस्तदभाव’’ इत्यत्र । तथा च तवैव स्वव्याहतिर्नास्मत्पक्ष इति भावः ॥ नित्यजातमिति ॥ नित्यं जनिमदित्यर्थः ॥ अध्याहार इति ॥ एतेन समवायस्य नित्यसम्बन्धत्वे सम्बन्धिनो जगतो नित्यमेव भावात्सम्बन्धिजगन्नित्यत्वं स्यादिति केषाञ्चिदर्थोऽपि निरस्तम् । अनेकाध्याहारात् । भावादित्यस्य भावप्रसङ्गादित्यर्थस्यायोगादापाद्यदोषस्य क्लेशेनोपपादनीयत्वाच्चेति । ‘‘उभयथा च दोषा’’दित्येतदर्थं परभाष्याद्युक्तमनूद्य निराह ॥ यच्चेति ॥ पृथिव्यादिभूतचतुष्टये हि रूपादिस्पर्शान्तैर्गुणैः पूर्वपूर्वभूतस्याधिक्यमुत्तरोत्तरस्य न्यूनत्वम् । तेनैव गुणाधिक्येन पृथिव्यादिपूर्वपूर्वभूतस्य परिमाणतः स्थूलत्वमुत्तरोत्तरभूतस्य च न्यूनगुणकत्वेन परिमाणतस्सूक्ष्मसूक्ष्मतरत्वादिकमुपलब्धमिति पृथिव्यादिपरमाणुष्वपि क्वचिद्रूपरसगन्धस्पर्शाः । आप्याणुषु रूपरसस्पर्शाः । तैजसाणुषु रूपस्पर्शौ । वायवीयाणुषु स्पर्श एवेति गुणाधिक्यन्यूनत्वे विद्येते न वा । आद्ये पार्थिवाणुषु परिमाणाधिक्यम् आप्याणुषु पृथिवीपरमाणुतो न्यूनपरिमाणत्वं ततोऽपि तैजसाणुषु न्यूनपरिमाणत्वं ततोऽपि वायवीयाणुष्वित्येवं पूर्वपूर्वभूतपरमाणूनां परिमाणाधिक्यशब्दितपरिमाणोपचयः, उत्तरोत्तरभूतपरमाणुषु न्यूनपरिमाणत्वशब्दितपरिमाणापचयश्च स्यादित्यर्थः । तयोः रूपादिगुणोपचयापचययोः । ताभ्यां परिमाणोपचयापचयाभ्याम् । व्याप्तेरित्यर्थः । पृथिव्यादि भूतचतुष्टये दर्शनादिति भावः । तन्मते वैशेषिकमते । जीवेश्वरयोर्विभुत्वेन तुल्यपरिमाणत्वादिति भावः ॥ त्वन्मते चेति ॥ आत्मनो निर्गुणाज् ज्ञानानन्दादिगुणात्मकाद्वा ‘‘कामः सङ्कल्पो विचिकित्साश्रीह्रीर्भीर्धीरित्येतत्सर्वं मन एवे’’ति श्रुत्या कामाद्यनेकगुणकस्य मनसो मध्यमपरिमाणत्वेनापरिच्छिन्नात्मापेक्षया परिमाणाधिक्याभावादित्यर्थः । मतद्वयेऽपि व्यभिचारस्थलमाह ॥ आकाशादपीति ॥ शब्दमात्रगुणकादिति भावः ॥ केचित्त्विति ॥ अणूनां रूपादिमत्त्वे तद्राहित्ये चोभयथा च दोषादिति सूत्रार्थः कथं पक्षद्वये दोष इत्यतस्तद्भाष्योक्तमाह ॥ रूपादिमत्त्व इति ॥ अन्यथा चेति ॥ रूपादिमत्त्वे पूर्वत्रैव दोषोक्तेरन्यथा रूपादिराहित्ये दोषादित्येव सूत्रव्याख्यानसम्भवादिति भावः । ननु श्रुतप्रकाश एवैतदाशङ्क्य समाहितं ‘‘अन्यथा चेति नोक्तम् । अपि तूभयथेत्युक्तम् । अत्र शिरोंतरं नास्तीत्यभिप्राय’’ इतीति चेन्न । कोट्यन्तराभावस्य स्फुटत्वेन तस्यासूचनीयत्वात् । सूचनेन फलातिशयाभावाच्च ॥ शब्दप्रतिपत्त्योर्गौरवाच्चेति भावः ॥ वैशेषिकाधिकरणम् ॥ ६ ॥

चन्द्रिकाविवृतिः

॥ ननु भवद्भिरपि बौद्धमतनिरासकत्वाविशेषेऽपि न भावोऽनुपाब्धेर् नासतो दृष्टत्वादिति सूत्रद्वयस्य यथा एकाधिकरणत्वमङ्गीकृत्याधिकरणभेद एवाश्रितस्तथा मयाप्यत्राधिकरणभेदाश्रयणमनुचितं न भवत्येवेत्यत आह ॥ विज्ञानशून्यवादयोरिवेति ॥ इदानीं परकायसूत्रार्थं दूषयितुमनुवदति ॥ यच्चोक्तमिति ॥ पादासङ्गतिमुपपादयति ॥ आद्ये पाद इति ॥ पुनरुक्तिमुपपादयति ॥ उक्तं च न विाक्षणत्वादित्यत्रेति ॥ ननु न विाक्षणत्वादित्यत्र दृष्टान्तमुखेनोपा-दानोपादेयभावस्य चेतनाचेतनयोरुक्तत्वेऽप्यत्र विशेषशङ्कानिरासार्थं दृष्टान्तांतरव्युत्पादनमारब्धमित्यत आह ॥ न हीति ॥ तदनिर्वत्याशङ्का एतद्दृष्टान्तेन न निवर्तते । पूर्वदृष्टान्तापेक्षया अस्य प्रयोजकत्त्वादिति भावः ॥ परिमण्डाशब्दस्य वाशब्दोपात्तद्-व्यणुकाभिधापरिमण्डोनान्वयः ॥ अतो न वैय्यर्थ्यमित्यभिप्रेत्य शङ्कते ॥ नन्विति ॥ अत्र विजातीययोरपि कार्यकारणभावोऽस्तीत्यत्र कथं परमाणुद्य्वणुकादिदृष्टान्तः किं परमाणुत्वजातिमादाय द्य्वणुकापेक्षया परमाणोर्वैजात्यमभ्युपेत्य वा अथवा परमाणुद्य्वणुकादिगतपरि-माणगतवैजात्यमभ्युपेत्य वा ॥ नाद्य इत्याह ॥ न हि परमाणुत्वादिकमिति ॥ न द्वितीय इत्याह ॥ यद्यपि परमाणुद्य्वणुकादीति ॥ व्याप्यवृत्तित्व इति ॥ परमाण्ववच्छेदेनापि इतरपरमाणुसंयोगाङ्गीकारे परमाणुद्वयमपि एकपरमाणुसममेव जातमिति भावः ॥ अन्यत्त्विति ॥ महद्दीर्घवदित्यादिकं व्यर्थं द्य्वणुकानां संयोगेन महदादित्र्यणुकोत्पत्तेर्वक्तुं शक्यत्वात् । द्य्वणुकानां सावयवत्वेनैतत्संयोगस्यैकदेशवृत्ति-त्वोक्तिसम्भवेनोक्तदोषाभावादिति भावः ॥ ननु भवत्पक्षे महदादिपदानां महत्वादिपरिमाणपरत्वाङ्गीकारो दोष इत्यत आह ॥ मम पक्षे सूत्र इति ॥ उभयथापि न कर्मातस्तदभाव इति सूत्रार्थं परोक्तं दर्शयति ॥ यच्चोक्तं परैरिति ॥ अत्राभ्युपगमेऽनभ्युपगमे चेत्यादिविकल्पेषु दोषः परकायभाष्यादिभिरवगन्तव्यः ॥ द्वितीयेऽदृष्टस्यागुणतत्त्वात्मगतत्वपक्षे नैय्यायिकरीत्यैवासिद्धिमुपपादयति ॥ अदृष्टमीश्वराधिष्ठितमिति ॥ मम मत इवेति ॥ मम मते नित्यत्त्वेऽनित्यत्वे चेत्युक्तयैव निराकरणहेतुरपि सूचित इति भावः ॥ द्वितीयचतुर्थषष्ठानामित्यादि तु अधिकरणान्तरविवक्षयैव द्रष्टव्यम् ॥ ननु भवर्द्भिर्यथा उभयथापीति सूत्रेण पराभिप्रेतेश्वरेच्छानिमित्तत्वनिराकरणादिदोषाणां भवत्पक्षे साम्येऽपि परमात्रदूषणं कृतं तद्वन्मयापि क्रियत इत्यत आह ॥ आद्यसूत्रे मयेति ॥ गुणोपचयापचयैर्गुणाधिक्यन्यूनते । तेषु परमाणुषु न्यूनाधिक-परमाणवत्त्वं स्यादित्यर्थः ॥ तयोर्गुणोपचयापचययोः । ताभ्यां परिमाणन्यूनत्वाधिकत्वाभ्याम् । परोक्तनियमे व्यभिचारमाह ॥ तन्मत इत्यादिना ॥ उभयथा च दोष इति सूत्रार्थमाह ॥ केचित्त्विति ॥ उभयथा परमाणूनां रूपवत्त्वे नीरूपवत्त्वे चेत्यर्थः ॥ तथा चाद्ये पक्षे पूर्वसूत्रेणैव दोष उक्तः ॥ रूपादिमत्त्वाच्च विपर्ययोर्दर्शनादिति द्वितीये तूच्यते उभयथापीति ॥ स्वरूपादिराहित्ये कार्ये रूपं नोपाभ्यत इत्यर्थः ॥ अन्यथा दोष इति रूपवत्त्वे दोषस्योक्तत्वात् । अन्यथा च दोषादित्येव सूत्रं कर्तव्यम् ॥ रूपराहित्याङ्गीकारे कार्यरूपराहित्याख्यदोष इत्यर्थोऽपि भवतीति भावः ॥