०१ वैशेषिकमतनिरासः

कारणैकार्थप्रत्यासत्त्यादिनेति

वैशेषिकाधिकरणम्

वैशेषिकमतनिरासः

॥ ॐ महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्याम् ॐ ॥

तात्पर्यचन्द्रिका

कारणैकार्थप्रत्यासत्त्यादिनेति ॥ कार्यगतरूपादिगुणानां कारणगतरूपादयो गुणाः कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणानि । कर्मत्वादिपदोपात्तया कार्यैकार्थप्रत्यासत्त्येति द्रष्टव्यम् ॥ शिष्टषड्गुणायोग्य इति ॥ कर्तृत्वार्थं ज्ञानेच्छाप्रयत्नानामावश्यकत्वे तदितरगुणेषु सङ्खयादिपञ्चकातिरिक्तषड्गुणायोग्य इत्यर्थः ॥ सङ्केतमात्रमिति ॥ परमाणुव्द्यणुकगतपरिमाणमेवाणु । त्र्यणुकादिपरिमाणं तु महदिति सङ्केतोऽप्रामाणिकः । व्द्यणुकवत्र्यणुकेऽप्यापेक्षिकाणुत्वस्य त्र्यणुकवद्द्व्यणुके चापेक्षिकमहत्त्वस्य सम्भवादिति भावः ॥ सङ्ख्यादेर्महत्वारम्भकत्वप्रसङ्गादिति ॥ व्द्यणुकपरिमाणे परमाण्वादिसङ्ख्यायाः कारणत्वे चतुरणुकारम्भकानेकत्र्यणुकगतबहुत्वसङ्ख्याप्रचययोश्चतुरणुकगतमहत्त्वा रम्भकत्वप्रसङ्गादित्यर्थः । ‘‘तदभाव’’ इति सूत्रस्थतच्छब्दस्याप्रकृतपरत्वाशङ्कां निरस्यति ॥ परिमाणाभिधानसन्निधापितमिति ॥ तदिति भाष्यप्रतीकोपादानम् । तस्य व्याख्या तत्रेति । स्वपदस्य व्यख्या समवायेति ॥ तस्येति ॥ रूपिरूपादिनिष्ठविशेषणविशेष्यभावस्येत्यर्थः ॥ विशेषणेऽतिप्रसङ्ग इति ॥ घटाभावभूतलयोर्विशेषणविशेष्यभावे व्यभिचारनिरासाय भावमात्रनिष्ठत्वेन विशेषणे रूपादावपि विशेषणविशेष्यभावस्याभाववदेव सम्बन्धं विनाप्युपपत्त्या प्रयोजकत्वादप्रयोजकेन च साधनेऽतिप्रसङ्क इत्यर्थः ।

यद्वा संयुक्तानिष्ठत्वविशेषितेन विशेषणविशेष्यभावत्वेन भावनिष्ठतद्दृष्टान्तेन सम्बन्धाभावसाधनसम्भवादतिप्रसङ्ग इत्यर्थः ॥ सृगालवाक्यमिति ॥ सृगालरूपेणेंद्रेण तर्कविद्यानुरागस्य सृगालजन्महेतुतोक्तेत्यर्थः ।

प्रकाशिका

ॐ महद्दीर्घवद्वा ॐ ॥ सङ्गतिचिन्ताप्रकारपूर्वपक्षाद्यनुक्तिबीजं प्रागेव व्यक्तम् । अस्पष्टानि कानिचिट्टीकावाक्यानि व्यनक्ति ॥ कारणेति ॥ महदित्येकमिति ॥ महदित्यादिसूत्रमित्यर्थः । ननु यथा बौद्धप्रक्रियानिरासकत्वाविशेषेऽपि ‘‘न भावः नासतः’’ इत्यनयोस्त्वन्मते भेदस्तथा ममापीत्यत आह ॥ विज्ञानेति ॥

चन्द्रिकाविवृतिः

ॐ महद्दीर्घवद्वा ॐ ॥ शिष्टषड्गुणायोग्य इत्यत्र शिष्टत्वमुर्वरितत्वम् । उर्वरिताः षड्गुणाः के, पूर्वोक्ताष्टगुणेष्वेवोर्वरिता वा तदितरगुणेषु उर्वरिता वा । नाद्यः । तदयोग्यत्वासम्भवात् । न द्वितीयः । पूर्वोक्ताष्टगुणेतराणां षोडशत्वेन षट्त्वायोगादित्याशङ्क्य, आत्मगुणाश्चतुर्दश ते च द्विविधाः कर्तृत्वोप-युक्तास् त्रयः ज्ञानेच्छाप्रयत्नास्तदनुपयुक्ताः संख्यादय एकादश । तन्मध्ये संख्यादिपञ्चकमुक्तम् । ततश्चोर्वरिताः षडिति भावेनाह ॥ कर्तृत्वार्थमित्यादिना ॥ उभयोरपि महदित्यादिसूत्रात्मकस्याधिकरणस्य उभयथेत्यादिसूत्रषट्कात्मकस्याधिकरणस्य चेत्यर्थः