०३ परमतव्याख्याननिरासः

अत्र यदुक्तमुभाभ्यां ‘‘रचनानुपपत्ते’’रित्यादि..

परमतव्याख्याननिरासः

तात्पर्यचन्द्रिका

अत्र यदुक्तमुभाभ्यां ‘‘रचनानुपपत्ते’’रित्यादि ‘‘विप्रतिषेधा’’दित्यन्तं सूत्रदशकमेकमधिकरणं चेतनानधिष्ठितस्य प्रधानस्य जगद्रचयितृत्वनिरासकमिति । तन्न । मम रीत्या निरीश्वरसाङ्ख्यविंध्यादिमते केवलाचेतनकर्तृत्वमतस्य सेश्वरसाङ्ख्यपातंजलादिमतस्य पुनरपि निरीश्वरसाङ्ख्ये पुरुषोपसर्जनप्रकृतिकर्तृत्वमतस्य प्रकृत्युपसर्जनपुरुषकर्तृत्वमतस्य च पूर्वपूर्वदोषोद्धारेणोत्थितस्याऽवश्यनिरसनीयस्य च क्रमेण निरासायाधिकरणपञ्चकसंभवे तदनिरासेनैकीकरणायोगात् । किं च तृतीयाध्यायस्य तृतीयपादे ‘‘एक आत्मनः शरीरे भावा’’दित्यधिकरणं त्वया चार्वाकमतनिरासकत्वेन व्याख्यातम् । ततो वरमत्रैव मतान्तरनिरसावसरे तन्निरासः । किं च चिन्मात्रस्यापि कर्तृत्वभ्रान्तत्वभ्रामयितृत्वानि न युक्तानीत्युक्तम् । भ्रमाधिष्ठानत्वं त्वचेतनस्यापि युक्तम् । विकारस्त्वचेतनस्यैव युक्तः । कर्तृत्वेतरपक्षेषु सौत्ररचनाशब्दास्वारस्यं च । यदि च चिन्मात्र आरोपितं वाऽविद्यान्तःकरणादिविशिष्टे तात्विकं वा कर्तृत्वं तर्हि प्रधानेऽपि पुरुषभेदाग्रहादारोपितं वा पुरुषविशिष्टे तात्विकं वा चेतनत्वकर्तृत्वादिकमस्तु । यत्तु परैरुक्तमचेतनस्य प्रवृत्तेरप्यनुपपत्तेरिति द्वितीयार्थ इति तन्न । उदासीनस्वभावस्य चेतनस्यापि न प्रवृत्तिरित्यवश्यपरिहार्यसाङ्ख्यशङ्काया अहं करोमीत्याद्यनुभवबलेन निरासार्थं ‘‘पयोंबुवच्चे’’दित्युत्तरसूत्रेऽनुषङ्गार्थं ‘‘रचनानुपपत्ते’’रित्यनेनापौनरुक्तयर्थं च द्वितीयस्थस्य प्रवृत्तिपदस्य चेतनप्रवृत्तिपरताया एव न्याय्यत्वात् । तव पूर्वसूत्रे निर्दिष्टस्यानुपपत्तेरित्यस्येहानुषङ्गः । मम तु नानुमानम् । किन्तु चेतन एवेति पूर्वसूत्र एव प्रकृतस्य चेतनस्य । साङ्ख्यशङ्काया अवश्यपरिहार्यत्वादेव हि त्वयापि ‘‘ननु चेतनस्यापि न प्रवृत्ति’’रिति चोद्यपूर्वकं ‘‘सत्यमेवम् । तथापी’’त्यादिना सा सूत्राद्बहिरेव परिहृता ।

प्रकाशिका

भाष्यादावदूषणे बीजमाह ॥ भाष्यकारेणेति ॥ ननु चार्वाकमतमतितुच्छत्वान्न दूष्यमित्यत आह ॥ किं चेति ॥ ‘‘देहव्यतिरक्तात्मनस्सद्भावस्समर्थ्यत’’ इति ‘‘एके लोकायतिका’’ इति च परभाष्योक्तेरिति भावः । एतच्चाद्वैतिमते । रामानुजमते तु ‘‘उपासकश्चात्मा ज्ञातृत्वकर्तृत्वाद्याकारतयैव नानुसन्धेयः । किं त्वपहतपाप्मत्वाद्याकारतयापी’’त्येवंपरतया व्याख्यानात् । औतमते दोषान्तरमाह ॥ किञ्चेति ॥ उक्तमिति ॥ इतरव्यपदेशादित्यादौ ॥ कर्तृत्वेतरेति ॥ उक्तेषु चतुर्षु पक्षेष्वित्यर्थः । ‘‘प्रवृत्तेश्चे’’ति सूत्रार्थं प्रत्याचष्टे ॥ यत्त्विति ॥ रामानुजमते ‘‘प्राज्ञाधिष्ठिताचेतनस्यैव कार्यारम्भप्रवृत्तेर्दर्शना’’दिति व्याख्यानात्परैरित्युक्तिः । टीकोक्तमनुभवमाह ॥ अहमिति ॥ अनुषङ्गार्थमिति ॥ ‘‘अपिपदं चेतनप्रवृत्तेराकर्षणार्थ’’मिति टीकोक्तेस्त्वयापि ‘‘तत्रापीत्यस्य पयोंऽबुनोश्चैतन्याधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमह’’ इति भाषणादिति भावः ॥ नानुमानमिति ॥ न प्रधानं स्वतः प्रवृत्तिमत् । किं तु चेतन एव तथेत्यर्थसिद्धये प्रकृतस्येत्यर्थः ॥ चेतनस्येति ॥ अनुषङ्ग इत्यन्वयः । त्वयापि भाष्यकृतेत्यर्थः ।

चन्द्रिकाविवृतिः

। विंध्यादिमते विंध्यादिमतानां समुदायेषु । अधिकरणपञ्चकसम्भव इति ॥ स्वमतेऽनेकदुर्मत-निराकरणादधिकलाभ इत्याशयः ॥ ननु सांख्यपरीक्षामध्ये भवद्भिरपि चार्वाकमतनिराकरणार्थ-मेकमधिकरणमङ्गीकृतमिति प्रक्रियाभङ्गो दोष इत्याशङ्क्य किमेवं वदतः सांख्यमतं न निराकर्तव्यमित्यभिप्राय उतात्र पादे किमर्थं निराकर्तव्यमित्यभिप्रायः। नाद्य इत्याह ॥ किं च तृतीयाध्यायस्येति ॥ न द्वितीय इत्याह ॥ ततो वरमत्रैवेति ॥ किं नाम तवाभिप्रेतं रचयितृत्वं यद्ब्रह्मण्येव सम्भवति न संभवति च प्रधाने इत्यभिप्रेत्य परोक्तं दूषयति ॥ किं च चिन्मात्रस्यापीति ॥ किं नाम रचयितृत्वं, कर्तृत्त्वं वा भ्रान्तत्वं वा भ्रामयितृत्वं वा भ्रमाधिष्टानत्वं वा विकारित्वं वेति विकल्पानामत्र क्रमेण दूषणानि द्रष्टव्यानि ॥ आरोपितं प्रातिभासिकं तात्विकं व्यावहारिकं कर्तृत्वादिकमस्त्विति । तथा च ब्रह्मणीव प्रधानेऽपि न रचनाख्यकर्तृत्वानुपपत्तिरिति भावः ॥ प्रवृत्तेरप्यनुपपत्तेरिति ॥ रचनानुप-पत्तेरित्यत अनुपपत्तेरिति पदमनुषञ्जनीयमिति भावः ॥ उदासीनस्वभावस्येति ॥ क्रियावेशादिशून्य-शुद्धस्येत्यर्थः ॥ उत्तरसूत्रेष्वनुषङ्गार्थमिति ॥ पयोम्बुवच्चेत्तत्रापीत्युत्तरसूत्रे अनुषङ्गार्थमिति । पयोऽम्बुवच्चेत्तत्रापीति सिद्धान्तांशे पयोम्ब्वादिस्थोऽपि कार्यं चेतनप्रवृत्तेरेवेति वक्तव्यत्त्वादिति भावः