यदुक्तमुभाभ्याम् ईश्वरः सस्ये पर्जन्य इव साधारणकारणम्
परमतपरीक्षा
तात्पर्यचन्द्रिका
यदुक्तमुभाभ्याम् ईश्वरः सस्ये पर्जन्य इव साधारणकारणम् । कर्माणि तु बीजानीवासाधारणकारणानि । बीजशक्तिवैचित्र्याद्धि व्रीहियवादिसस्यवैचित्र्यम् । तस्मान्नेश्वरस्य वैषम्यादीत्याद्यसूत्रार्थ इति । तन्न । असाधारणकारणस्यापि कर्मणः ‘‘एष ह्येव साधुकर्म कारयती’’त्यादि श्रुत्या ‘‘पुण्यपापादिकं विष्णुः कारये’’दित्यादिस्मृत्या चेश्वरकारितत्वेन वैषम्याद्यनिस्तारात् । न चाबाध उपचरितार्थत्वं बहुश्रुत्यादेर्युक्तम् । उक्तं हि ‘‘परात्तु तच्छते’’रित्यत्र भामत्यामपि ‘‘एष ह्येव साधुकर्म कारयतीत्येवमादयस्तावच्छतयः सर्वव्यापारेषु जन्तूनामीश्वरपरतन्त्र तामाहुः । तदसति बाधकेन प्रशंसामात्रपरतया व्याख्यातुमुचित’’मिति ।
एतेन यत्कैश्चिदुक्तं ‘‘जीव ईश्वरदत्तया साधारण्या स्वातन्त्र्यशक्तया स्वयमेव शुभाशुभयोः प्रवर्तते । ईशस्त्वशुभ उपेक्षते । शुभे त्वनुमन्यत इति न वैषम्यादि । तदुक्तम्
आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्तया स्वयं
तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते ।
तत्रोपेक्ष्य ततोऽनुमन्य विदधत्तन्निग्रहानुग्रहौ
तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ॥
इतीति । तन्न । शुभाशुभप्रवृत्तिहेतुस्वातन्त्र्यदानप्रयुक्तवैषम्याद्यनिस्तारात् । ‘‘य आत्मानमन्तरो यमयति एष ह्येव साधुकर्म कारयति न ऋते त्वत्क्रियते किं च नारे’’ इत्यादिश्रुत्या
यथा दारुमयीं योषां नरः स्थिरसमाहितः ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
इत्यादिस्मृत्या च विरोधाच्च । ईशप्रेरणं विना प्रवृत्तौ च कथं जीवस्येश्वरशरीरत्वम् । कथं च जीवस्य स्वाहिते स्वयमेव प्रवृत्तिः । हितभ्रांत्या चेद्भ्रांतेरपीश्वरकर्तृकत्वेन वैषम्यादि दुर्वारम् । किञ्चेश्वरस्य शक्तस्याप्युपेक्षायां निर्घृणत्वादि दुर्वारम् । अशक्तत्वे तु ‘‘आत्मनि चैवं विचित्राश्च हि सर्वोपेता च तद्दर्शना’’दित्यादिसूत्रैः ‘‘परास्य शक्ति’’रित्यादिश्रुतिभिश्च विरोधः । एतेनैवेश्वरेच्छा अस्त्वित्येवं सामान्याकारा । न तु विशेषाकारा ततो न वैषम्यादीति तार्किककल्पनाप्यपास्ता । यस्य कस्यापि यत्किञ्चिदस्त्वित्येवमाकारत्वे हि कदाचिदीश्वरस्य दुःखं सुकृतादिमतो नरकादिकं च स्यात् । नापि मदिष्टमस्त्वित्येवमाकारा । तदिच्छास्वरूपस्याद्याप्यनिरूपणात् । तस्य तस्य तत्तत्कर्मानुसारेण सुखाद्यस्त्वित्येवमाकारत्वे च कर्मण ईशानधीनत्वे श्रुत्यादिविरोधः । अधीनत्वे च वैषम्यादि दुर्वारम् । तस्मादनादियोग्यतानङ्गीकारे वैषम्यादि दुर्वारम् ।
यच्चोक्तमुभाभ्याम् आदिसृष्टौ कर्मैव नेति न शङ्क्यम् । अनादित्वात्संसारस्येति द्वितीयार्थ इति । तन्न । मम रीत्या सुप्रसिद्धां संसारानादितामुपेत्यापेक्षितं कर्मापीशकारितमित्यवश्यपरिहर्तव्यप्रबलशङ्कापरिहारपरत्वस्य ‘अनादित्वात्कर्मणश्चे’ति भाष्योदाहृतस्मृत्यनुसारिणः सम्भवेऽन्यपरत्वायोगात् । तृतीयस्यापि मम रीत्या न च कर्मसापेक्षत्वे स्वातन्त्र्यानुपपत्तिः । कर्मणामीशाधीनत्वेन तदुपपत्तेः । न चैवं पुनर्वैषम्याद्यापत्तिः । स्वाधीनकर्मापेक्ष्य विचित्रफलप्रदत्वस्य श्रुत्यादिषूपलभ्यमानत्वेनेष्टापत्तेरित्यवश्यपरिहार्यशङ्काद्वयनिरासकत्वसम्भवे परोक्तसंसारानादित्वोपपत्त्यादि परत्वमयुक्तम् । न हि संसारानादित्वेऽनुपपत्तिशङ्कास्ति । यद्यप्याद्यसूत्रे वैषम्यनैर्घृण्ये द्विवचननिर्दिष्टे । तथापि ‘‘स कारयेत्पुण्यमथापि पाप’’मिति विषयवाक्य उभयकारयितृत्वस्यैकवचनेन निर्देशात्तदनुसारेणेह सूत्र ‘‘उपलभ्यते चे’’त्येकवचनं यथा ‘‘आत्मनी’’ति पूर्वसूत्रे पुंल्लिङ्गेनात्मशब्देन निर्देशेऽपि ‘‘सर्वोपेते’’ति सूत्रे विषयवाक्यस्थदेवताशब्दानुसारेण स्त्रीलिङ्गं तद्वत् । परेषां त्विदमधिकरणमत्यन्तासङ्गतम् । भ्रांतत्वेन वा भ्रमाधिष्ठानत्वेन वा वैषम्यादिशङ्कानुदयात् । न हि स्वप्नेऽयं सुखयन् दुःखीति भ्रांतिमतस्तद्विषयस्य वा वैषम्याद्यस्ति । मायावित्वे चेश्वरस्य स्वमायाकल्पितकर्मादिज्ञानायोगेन तत्सापेक्षत्वोक्तययोगात् । अत एव भामत्यां ‘‘अभ्युपेत्य च सृष्टेस्तात्विकत्वमिदमुक्तम् । अनिर्वाच्या तु सृष्टि’’रित्यस्याधिकरणस्य स्वमतप्रतिकूलतोक्ता ॥ छ ॥ वैषम्यनैर्घृण्याधिकरणम् ॥ १० ॥
प्रकाशिका
सूत्राक्षरार्थोऽतिरोहित इति तात्पर्यार्थमनुवदति ॥ ईश्वर इति ॥ यद्यपीदं परभाष्य एवोक्तम् । तथापि
निमित्तमात्र एवासौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥
इत्यादिपराशरस्मृतिमुदाहृत्य ‘‘सृज्यानां देवादीनां कर्मशक्तिरेव देवादिवैचित्र्यहेतु’’ रित्यादि वदतो रामानुजभाष्यकृतोऽप्यनुमतत्वादुभाभ्यामुक्तमित्युक्तम् । उपचरितार्थत्वं प्रशंसार्थत्वम् । ननु भामत्यामेतदाशङ्क्य ‘‘जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यते पुन’’रित्याद्युदाहृत्य कर्मानादित्वेन समाहितमिति चेन्न । पूर्वकर्मणोऽप्यन्यथाकरणशक्तिमत्त्वेन ‘‘स्वभावमन्यथाकर्तुं यश्शक्तोऽप्यनुवर्तत’’ इत्यादिनाऽस्मदुक्तसमाधेरेवानुसर्तव्यत्वादिति भावः ॥ साधारण्येति ॥ सदसत्प्रवृत्तिसाधारण्येत्यर्थः । एतच्च ‘‘कर्ता शास्त्रार्थवत्त्वा’’दित्यत्र विवरिष्यते । एतेनेत्युक्तमेव व्यनक्ति ॥ शुभाशुभप्रवृत्तीति ॥ स्मृत्या चेति ॥ श्रुतौ स्मृतौ च सर्वत्र पारतन्त्र्यस्यैव जीवे प्रतीतेरिति भावः । यदप्यशुभ उपेक्षत इति तदपि नेत्याह ॥ किं चेति ॥ ‘‘न कर्माविभागा’’दिति सूत्रार्थं प्रत्याचष्टे ॥ यच्चेति ॥ सृष्टेः प्राक्कर्म न विद्यते । कुतः । अविभागात् । ‘‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय’’मित्यविभागश्रवणात् । सृष्टेरूर्ध्वमीश्वरः कर्मापेक्षः प्रवर्तताम् । प्राक्त्वविभागादेकरूपैव सृष्टिस्स्यादिति शङ्कार्थः ॥ तृतीयस्यापीति ॥ परमत एव तृतीयत्वम् । मतान्तरे तु पूर्वेणैकयोगत्वात् । अनादित्वं कथमित्यवतार्य ‘‘उपपद्यते संसारानादित्वम् । अन्यथा कृतहानाकृताभ्यागमप्रसङ्गात् । उपलभ्यते च तदनादित्वं धाता यथापूर्वमित्यादा’’वित्युक्तं परैः । तत्प्रत्याख्याति ॥ ममेति ॥ परोक्तेति ॥ मायावाद्युक्तेत्यर्थः ॥ ज्ञानायोगेनेति ॥ मायाविनो मायिकादर्शनादिति भावः ॥ छ ॥ वैषम्यनैर्घृण्याधिकरणम् ॥ १० ॥
चन्द्रिकाविवृतिः
उपचरितार्थत्वमिति ॥ विष्णोः कर्मकारयितृत्वाभावेऽपि तदुक्तिः केवलं विष्णुप्रशंसामात्रपरेत्येवंरूपेणेति शेषः ॥ शुभाशुभप्रवृत्तीति ॥ शुभाशुभप्रवृत्तिहेतुभूतं यत्स्वातन्त्र्यं तद्दानेत्यर्थः ॥ ईश्वरस्य तत्तजीवकर्तृककर्मण्यपि कर्तृत्त्वानङ्गीकारो हि पूर्वपक्षिणा कृतस्तत्र दूषणमाह ॥ यमात्मानमन्तरो यमयतीत्यादिना ॥ कथं जीवस्येति ॥ ईश्वरदत्तस्वातन्त्र्यवत्त्वे जीवस्यस्वाहितप्रवृत्तिर्न स्यात् ॥ न ह्यन्यदत्तस्वातन्त्र्योऽपि पुमान् पराधीनस्वातन्त्र्यवत्स्वाहिते प्रवर्तते इति युज्यत इति भावः ॥ तदिच्छास्वरूपस्येति ॥ इच्छाविषयो हीष्टः । अद्यापीच्छाप्रकार एव न निरूपित इति मदिष्टमस्त्वित्यादि-प्रकारा इच्छेति वक्तुं न युक्तमिति भावः ॥ भ्रान्तत्वेनेति ॥ ब्रह्मणीति शेषः ॥ तद्विषयस्य भ्रमाधिष्ठानस्य ॥ अत एव मायाविन ईश्वरस्य मायिककर्मादिज्ञानयोगेन तत्सापेक्षत्त्वोक्त्ययोगादेवेत्यर्थः ॥