०१ पूर्वपक्षनिरूपणम्

अत्र श्रुत्यनुभवसंवादियुक्तयविरोध उच्यते

इतरव्यपदेशाधिकरणम्

तात्पर्यचन्द्रिका

पूर्वपक्षनिरूपणम्

ॐ इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्तिः ॐ ॥

अत्र श्रुत्यनुभवसंवादियुक्तयविरोध उच्यते ॥ जीवकर्तृत्वसाधकचेतनत्वादियुक्तिर्हि ‘‘जीवाद्भवंति भूतानी’’त्यादिश्रुत्या जीवकर्तृत्वानुभवेन च संवादिनी । अत्र जन्मादिसूत्रे विवक्षितं ब्रह्मण एव स्वतन्त्रकर्तृत्वं युक्तिविरुद्धं न वेति चिन्ता । तदर्थं जीवस्य स्वतन्त्रकर्तृत्वसाधकचेतनत्वादियुक्तिः श्रुतिसंवादिनी नवेति । तदर्थं ‘‘जीवाद्भवन्ती’’त्यादिश्रुतिः किं प्रत्यक्षानुसारात् (विग्रहादिमतः कर्तुर्ब्रह्मणोऽनुपलब्धिबाधितत्वाच्च) जीवविषयोत (अप्राकृतविग्रहादिमत्यपि ब्रह्मण्यंतर्धानशक्तियोगात्पिशाचादेरिवानुपलब्धिबाधाद्यभावात्) प्रत्यक्षाप्राप्तब्रह्मपरेति । यद्यपि समयप्राप्तं जीवकर्तृत्वं द्वितीयपादे ‘‘अन्यथानुमितौ चे’’त्यत्र निषेत्स्यते । यद्यपि च श्रुतिसंवादियुक्तिप्राप्तं जीवादिकर्तृत्वं ‘‘एतेन शिष्टा’’ इत्यत्र निषिद्धम् । तथापीह ‘‘यथाप्राणादि’’रिति पूर्वाधिकरणोक्तं प्राणादिजीवानामस्वतन्त्रत्वमयुक्तम् । जीवकर्तृत्वस्यानुभवादित्यनुभवसंवादेनाधिकहेतुना पुनर्जीवमात्रविषयायां शङ्कायामनुभवस्य गतिं हिताकरणादिदोषान्तरं च वक्तुमिदमिति न पुनरुक्तिः । अत एव सिद्धान्ते ‘‘इतरव्यपदेशा’’दिति सूत्रे पूर्वपक्ष्यभिप्रेता श्रुतिः, ‘‘उपसंहारदर्शना’’ दित्यत्रानुभवः, ‘‘अश्मादिव’’दित्यत्र युक्तिश्च निरस्ता । अत्र घटादेर्जीवैककर्तृकत्वे तद्दृष्टान्तेन महदाद्यपि तथेत्येकः पूर्वः पक्षः ।

द्वितीयस्तु महदादिरीशकर्तृको घटादिस्तु जीवैककर्तृक इति । अत्र च पक्षद्वये ‘‘जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघव’’मिति पूर्वपक्षहेतुपरं यन्न्यायविवरणं तस्य ‘‘तथाही’’त्यादिटीकायामाद्यपक्षमाश्रित्य ईश्वरोऽयोग्यश्चेत्कदापि प्रत्यक्षो न स्यात् । योग्यश्चेत्सदा सर्वत्र सत्त्वादिहेदानीमुपलभ्येत । न चाभिमानिदेवतासाम्यम् । ईश्वरस्याव्यक्तस्वभावाङ्गीकारात् । तस्मादप्रामाणिक ईश्वरस्तस्य घटादौ महदादौ च कर्तृत्वं कल्प्यम् । जीवस्य त्वदृष्टद्वारा महदादावपि कर्तृत्वं क्लृप्तम् । युक्तं चोपादानाद्यपरोक्षज्ञप्तिरहितस्यापि जीवस्य महदादिकर्तृत्वम् । चैत्रःशब्दं करोतीत्यादौ दर्शनादिति तात्पर्यमुक्तम् । यत्तु सुधायां ‘‘न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्य शङ्कित’’मित्युक्तं तत्राद्ये जीवस्य महदादिकर्तृत्वपक्षेऽनुभवविरोधः । न तु द्वितीये । किं तु तदानुकूल्यमेवेत्याद्येऽपरितोषमात्रमभिप्रेतम् । अत एवात्रापि टीकायामाद्येऽपरितोषात् ‘‘यद्वे’’त्यादिनाऽधिकरणान्ते द्वितीय उक्तम् । नत्वाद्यः सुधायां सर्वथा नाभिप्रेतः । तथात्वे ‘‘देवादी’’त्युत्तरसूत्र ईश्वरस्यादृश्यत्वोक्तययोगात् । अत्र चाद्ये आरम्भणशब्दादिभ्य ईशस्य स्वतन्त्रकर्तृत्वं चेन् न जीवात्कारणं पर’’मित्यादिशब्दाज्जीवस्यापि तदस्तु । उक्तरीत्येशस्यैवाभावान्न जीवशब्दस्तत्पर इति पूर्वपक्षोत्थानात्सङ्गतिः । द्वितीये तु पूर्वत्र कर्त्रंतररहिते महदादावीशस्य स्वतन्त्रकर्तृत्वमुक्तमत्र तु कर्त्रंतरसहितेऽपि घटादौ तदुच्यत इति सङ्गतिः ।

प्रकाशिका

टीकायामस्फुटत्वादेतदुपाधिमाह ॥ अत्रेति ॥ एतन्मूलं त्वग्रे व्यक्तम् । अनन्तरसङ्गतिं त्वग्रे पूर्वपक्षनिष्कर्षकरणाद्व्यक्तीकरिष्याम इति भावेन विषयसंशयटीकां विवृण्वंश्चिंतामाह ॥ अत्रेति ॥ वक्ष्यमाणपूर्वपक्षद्वयाभिप्रायेणोक्तं विवक्षितमित्यादि ॥ घटादिस्वस्वकार्यांशे जीवस्स्वातन्त्र्येण कर्ता । चेतनत्वान्महदादावीश्वरवत् । जीवः कर्ता चेतनत्वाद्य्वतिरेकेण घटादिवदित्यादियुक्तिविरुद्धं नवेत्यर्थः ॥ प्रत्यक्षेति ॥ जीवकर्तृत्वानुभवेत्यर्थः । अत्राद्यचिन्ता ‘‘अश्मादिवच्चे’’ति सूत्रसूचिता । द्वितीया तु ‘‘इतरव्यपदेशा’’दित्येतत्सूचिता । तृतीया ‘‘उपसंहारदर्शना’’दित्येतत्सूचिता । हेतुहेतुमद्भावोत्र व्यक्तः । ‘‘अन्यथानुमितौ चे’’त्यादिटीकां व्यञ्जयन्गतार्थतामनुवदति ॥ यद्यपीति ॥ नन्वधिकहेतुना पुनरारम्भे ‘‘एतेन शिष्टा’’ इत्येतदानन्तर्यमेव स्यादित्यतः ‘‘अत्र यथाप्राणादिरित्युक्ते पुनराशङ्कोदया’’दिति टीकोक्तसमाधिं व्यनक्ति ॥ यथा प्राणादिरिति ॥ अधिकहेतुनेत्यादिना ग्रन्थेन ‘‘विस्तरान्निराक्रियत’’ इति भाष्यटीकयोः प्रयुक्तविस्तरशब्दार्थो विवृतो ज्ञेयः ॥ अत एवेति ॥ चेतनत्वयुक्तेरनुभवसंवादिश्रुतिमूलकत्वरूपाधिकहेतुना शङ्कोदयादेवेत्यर्थः । पूर्वोत्तरप्रस्थानयोः पक्षभेदेनाविरोधं विवक्षुः पूर्वपक्षं निष्कृष्याह ॥ अत्रेति ॥ टीकायामिति तात्पर्यमुक्तमित्यन्वयः । एतेन ‘‘तथा ही’’त्यादिटीका न्यायविवरणमूलेत्युक्तं भवति । टीकां तात्पर्यतो व्यनक्ति ॥ ईश्वर इत्यादिना ॥ अव्यक्तेति ॥ ‘‘तदव्यक्तमाहही’’त्यत्र तृतीये तथाऽभिधास्यमानत्वादिति भावः ॥ अदृष्टद्वारेति ॥ कार्यमात्रस्य यथायथं जीवोपभोग्यतया जीवादृष्टजन्यत्वादिति भावः ॥ शब्दमिति ॥ शब्दस्याकाशगुणतया शब्दोपादानाकाशापरोक्षहीनस्यापि चैत्रस्य शब्दकर्तृत्वदर्शनादित्यर्थः । न च द्रव्यकर्तृत्व एवायं नियमः । अप्रयोजकत्वादिति भावः ॥ इतीति ॥ इत्यभिप्रेत्येत्यर्थः ॥ इति तात्पर्यमिति ॥ तस्य न्यायविवरणस्येति वर्तते । नन्वेवमाद्यकल्पः कथं सुधायां दूषित इत्यत आह ॥ यत्त्विति ॥ तथात्वे देवादिवदपि लोक इति सूत्रव्यावर्त्यस्यानभिमतत्व इत्यर्थः । एवं पक्षभेदेन पूर्वपक्षं व्यवस्थाप्योभयत्रावांतरसङ्गतिमाह ॥ अत्र चेति ॥

चन्द्रिकाविवृतिः

ॐ इतरव्यपदेशात् ॐ ॥ अश्मादिवच्चेति सूत्रावतारिकाटीकोक्तां जीवकर्तृत्वसाधकां युक्तिं दर्शयन् तस्याः श्रुत्यनुभवसंवादित्वं चोपपादयति ॥ जीवकर्तृत्वसाधिकेति ॥ अतः प्रत्यक्षाप्राप्तेत्यनेन ब्रह्मपरत्वेऽपूर्वतां सूचयति । यथा प्राणादिरित्युक्ते शङ्कोदयादिति टीकावाक्योक्तार्थकथनपूर्व-कमेवागतार्थतामाह ॥ तथापीह यथा प्राणादिरिति ॥ अत्र चाद्ये आरम्भणेत्यादिना सङ्गतिं सुधापक्षटीकापक्षानुसारेण दर्शयितुं पूर्वपक्षविभागमाह ॥ अत्र घटादेरित्यादिना ॥ अत्रोभयविधपूर्वपक्षेऽपि साधारणं न्यायविवरणमेव मूलमित्यभिप्रेत्य टीकासुधयोः रचितौ पूर्वपक्षौ दर्शयन् तयोर्विरोधं च परिहरति ॥ अत्र च पक्षद्वये जीवस्यैवेति ॥ तस्य साधारणन्यायविवरणस्य । टीकायामिति तात्पर्यमुक्तम् । सुधायामिति । तात्पर्यमुक्तमिति योजना ॥ न चाभिमानिदेवतेति ॥ ईश्वरस्यांतर्धानशक्तयादिनेति शेषः ॥ तथा च न सर्वत्र सर्वदा प्रत्यक्षः किं तु यदा अपेक्षितस् तदानीमेव प्रत्यक्ष इति भावः ॥ चैत्रः शब्दं करोतीति ॥ शब्दोपादानाकाशगोचरापरोक्षज्ञानचिकार्षाकृतिरहितस्यापि शब्दकर्तृत्वमनुभूयत इति भावः ॥ तथात्व इति ॥ आद्ये पूर्वपक्षस्य सर्वथाऽनभिप्रेतत्वे ईश्वरस्य पूर्वपक्षिणाऽनङ्गीकृतत्त्वाभावात् ॥ तेनेश्वरोऽस्ति चेद् उपाभ्येतेत्यनुक्तेस् तं प्रत्यदृश्यत्वादिशक्तिवर्णनमनुचितमिति भावः ॥ यदर्थं पूर्वपक्षभेदः प्रदर्शितस्तदिदानीमाह ॥ अत्र चाद्ये आरम्भणेत्यादिना तत्पर इत्यन्तेन । पूर्वपक्षोत्थानादिति ॥ पूर्वाधिकरणसिद्धान्तन्यायेनेति शेषः ॥