केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु सूक्ष्माव्यक्तादिविशिष्टस्य कारणस्य ब्रह्मणः स्थूलमहदादिविशिष्टेन कार्येण ब्रह्मणाऽनन्यत्वमत्रोच्यत इत्याहुः । तन्न । शुद्धाचेतनात्मकस्य विशिष्टरूपकार्यगतस्य विशेषणांशस्य महदादेर्विशिष्टचेतनकार्यत्वाभावेन विशिष्टब्रह्माभेदाभावात् ‘‘इदं सर्वं यदयमात्मा सर्वं खल्विदं ब्रह्मे’’त्यादि श्रुत्यनिर्वाहात् । तर्वान्तर्यामित्वादिनैव तन्निर्वाहे च किं विशिष्टाभेदव्युत्पादनेन । किञ्च विशिष्टस्य कार्यत्वे ‘‘तत्सृष्ट्वा तदेवानुप्राविश’’दित्याद्ययुक्तम् । स्वविशिष्टे स्वानुप्रवेशायोगात् । यच्चेक्तं श्रुतौ ‘‘वाचारम्भण’’मित्यत्रारभ्यते आलभ्यते स्पृश्यते इत्यारम्भणम् इति व्यस्तं पदम् । तथा च विकारो घटादिनामधेयं च वाचा वाक्पूर्वकजलाहरणादिव्यवहाराय मृद्द्रव्येण स्पृश्यते । एवं च मृद्द्रव्यमेव व्यवहाराय विकारादिभाग्भवतीति श्रुत्यर्थ इति तन्न । श्रुतौ वाक्प्रातिपदिके लक्षणायास् तृतीयाविभक्तौ चतुर्थ्यर्थताया आरम्भणशब्दे रलयोरभेदेनालम्भनार्थताया नामधेयमित्यत्र चशब्दाध्याहारस्य मृद्द्रव्येणेत्यस्याध्याहारस्य चायोगात् । मृद्द्रव्येण घटादेः स्पृश्यमानत्वोक्तया तयोर्भेदस्यैवापाताच्च । यच्चोक्तम् ॥ यद्यपि द्वितीये तृतीये च कार्यकारणाभेद इदं कुण्डलं हिरण्यमिति प्रतीतिरेव प्रमाणीक्रियते । न तु तृतीयं ब्रह्मजगद्विषयम् । तथापि द्वितीये सोयमिति प्रत्यभिज्ञोक्ता । तृतीये त्वयं स इत्यभिज्ञेति वा द्वितीय ऐक्यप्रतीतिरुक्ता । तृतीये त्वैक्यव्यवहार इति वा भेद इति । तन्न । उद्देश्यविधेयविनिमयादिमात्रेण सूत्रभेदेऽतिप्रसङ्गात् । सूत्राक्षरास्वारस्याच्च । न हि ‘‘भावे चोपलब्धे’’रित्यादिशब्दात्प्रत्यभिज्ञादिर्भाति । किं च मद्रीत्या सूत्राणां साक्षाद्ब्रह्मविषयत्वे सम्भवत्युभाभ्यामुक्तं लौकिककुण्डलहिरण्यादिमात्रविषयत्वं न युक्तमिति ॥ छ ॥ आरम्भणाधिकरणम् ॥ ६ ॥
प्रकाशिका
द्वितीयादिसूत्रार्थमपि सुधोक्तं विवृण्वन्ननूद्य निराह ॥ यच्चेति ॥ परोक्तमेव कृत्यमाह ॥ प्रभेति ॥ विभक्तीति ॥ भावशब्दे पञ्चम्यंतत्वस्योपलब्धिशब्दे सप्तम्यंतत्वस्य वाच्यत्वादिति भावः । एतेन ‘‘सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियता’’मिति सुधा विवृता । शुद्धस्य विशिष्टस्येति भामतीभाष्ययोर्मतभेदेनोक्तमाह ॥ यच्चेति ॥ भावाच्चेति ॥ कारणस्य कार्यादनन्यत्वमिति योज्यम् । ‘‘सत्त्वाच्चावरस्ये’’त्येतदर्थं प्रत्याह ॥ यच्चेति ॥ तत्वप्रदीपोक्तदोषमाह ॥ अनृतत्वेति ॥ न च व्यतिरेकेणानृतत्वमिति वाच्यम् । ‘‘नेहनाने’’त्यादिबोधितस्वरूपानृतत्वानापत्तेरिति भावः । यद्वा प्राक् सत्त्वे त्वदभिप्रेतसदसद्विलक्षणत्वरूपानृतत्वायोगादित्यर्थः । स्वयमाह ॥ चशब्देति ॥ मम तु ‘‘तदधीनस्य साधनस्य सत्त्वादेवाद्भ्य इत्यादिवचनम् । न तु स्वतन्त्रस्ये’’ति तत्वप्रदीपोक्तरीत्याऽवधारणार्थत्वमिति भावः । त्वन्मतेऽपि तदर्थत्वे कृत्यं नास्ति । ‘‘इतश्च कारणात्कार्यस्यानन्यत्व’’मित्यादिना त्वद्भाष्ये समुच्चयत्वेन व्याख्यानाच्चेति भावः ॥ अद्यापीति ॥ अन्यथाऽन्योन्याश्रयादिति भावः । ‘‘असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषा’’दित्येतदर्थमनूद्य निराह ॥ यच्चेति ॥ व्यक्तत्वरूपधर्मान्तरेणैवासत्त्वम् । न स्वतः । प्रागसत्त्वेन निर्दिष्टस्यैव पुनस्तत्सदासीदिति वाक्यशेषे सत्त्वेन निर्देशादिति निरस्यत इत्यर्थः ॥ अस्यापीति ॥ अत्र पूर्वत्र वाक्ये च ‘‘इद’’मिति षष्ठ्यर्थे द्वितीया । अस्याग्र इत्येवार्थ इति भावः ॥ शङ्कायोगादिति ॥ अन्योन्याश्रयापत्तेरिति भावः । ‘‘युक्तेश्शब्दान्तराच्चे’’त्येतदर्थं निराह ॥ यच्चेति ॥ असदकरणादीति ॥ असन्नोत्पद्यते । असतःकरणायोगात् । सदेव घटादिकं मृदादित उत्पद्यते । कारणकार्ययोस्समवायाभावेन तादात्म्यावश्यंभावाच्चेत्यादिरादिपदार्थः । प्रागुक्तासद्य्वपदेशादन्यस्मात् ‘‘सदेव सोम्ये’’त्येवंरूपशब्दान्तराच्चेति भावः ॥ षष्ठेति ॥ ‘‘संवेष्टितप्रसारित पटन्यायेनेदं कारणात्कार्यस्यानन्यत्वं प्रागुत्पत्तेस्सत्त्वं च बोध्यम् । प्राणायामेन निरुद्धाः प्राणादयो यथा तथावेतित्वया व्याख्यानादिति भावः ॥ ममेति ॥ प्रागेवैतद्-व्यक्तीकृतमिति भावः । तस्मात्परमकारणाद्ब्रह्मणोऽनन्यत्वं जगत आरम्भणशब्दादिभ्यस्तदुपपादयद्य्भोऽवगम्यत’’ इत्यादि रामानुजभाष्यं हृदि निधायाह ॥ सूक्ष्माव्यक्तादीति ॥ शुद्धेति ॥ चिदमिश्रेत्यर्थः ॥ विशिष्टेति ॥ सूक्ष्माव्यक्तादिविशिष्टेत्यर्थः ॥ इत्याद्ययुक्तमिति ॥ लक्षणया तत्र विशेषणमात्रपरत्वं तु पूर्वपादान्तेऽभिहितरीत्या निरसनीयमिति भावः । प्रतिज्ञाभागं निरस्य हेतुभागं निरसितुं ‘‘आरभ्यते आलभ्यत इत्यारम्भण’’मित्यादि तदीयभाष्योक्तमनुवदति ॥ यच्चोक्तमिति ॥ वाचेत्यस्य चतुर्थ्यंततामाश्रित्यार्थमाह ॥ वागिति ॥ स्पृश्यत इत्यस्य तात्पर्यमाह ॥ एवं चेति ॥ प्रातिपदिकेति ॥ वाक्पूर्वकेत्यस्य लक्ष्यत्वादिति भावः ॥ चतुर्थ्यर्थताया इति ॥ यद्यपि तद्भाष्ये ‘‘वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थ’’ इत्युक्तम् । तथापि ‘‘तस्य व्यवहारस्य सिद्धय’’ इत्युत्तरतद्भाष्यानुरोधादेवमाश्रीयत इति भावः । सूत्र आरम्भणादिशब्देभ्य इति स्यादिति प्राचीनदूषणमत्रापि ध्येयम् । ‘‘ऐतदात्म्यमिदं सर्व’’मित्यादिशब्दस्यादि पदार्थत्वेन भाषणात् । रामानुजभाष्ये हि कार्यस्य कारणानन्यत्वे कथं कारणापेक्षया कार्ये शब्दान्तरव्यवहार इत्याशङ्क्य तदुत्तरत्वेन ‘‘भावेचोपलब्धेः । सत्त्वाच्चावरस्ये’’ति सूत्रद्वयमवतार्य ‘‘कुण्डलादिकार्यभावे च कारणभूतहिरण्यस्योपलब्धेः । इदं कुण्डलं हिरण्यमिति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थः । अवरकार्यस्य कारणे सत्त्वाच्च । लोके सर्वमिदं घटशरावादिकं पूर्वाह्ने मृत्तिकैवासीदिति वेदेच ‘‘सदेव सोम्येद’’मिति व्यपदिश्यते । अतः कारणात्कार्यस्यानन्यत्वम् । कारणमेवावस्थान्तरमापन्नं कार्यमिति गीयत इति तन्निबन्धनः शब्दान्तरव्यवहारो न कारणात्कार्यस्यान्यत्वनिमित्तक’’ इति सूत्रद्वयस्यार्थ उक्तः । तत्र द्वयोरैकार्थ्येनैकस्य वैयर्थ्यमाशङ्क्य सूत्रयोर्भेदस्तद्-व्याख्याने साधितः । तत्प्रकारमनूद्य निराह ॥ यच्चेति ॥ न तु तृतीयमिति ॥ परमत इवेत्यर्थः । तथात्वे ह्यर्थभेदेन द्वयमर्थवत्स्यादिति भावः । अनन्यगत्यैवमाश्रीयत इत्यत आह ॥ किञ्च मद्रीत्येति ॥ सूत्रान्तराणि पूर्ववन्निरसनीयानीति भावः ॥छ॥ आरम्भणाधिकरणम् ॥६ ॥
चन्द्रिकाविवृतिः
विशिष्टचेतनकार्यत्त्वाभावेनेति ॥ चेतनस्याचेतनमहदादिकं प्रत्युपादानत्वायोगादेवेति भावः ॥ एवं विशेषणे सर्वत्रापि विशिष्टचेतनत्वोपादानकत्वानुपपत्त्या सर्वस्यापि ब्रह्मानन्यत्वप्रतिपादकेदंसर्वं यदयमात्मेत्यादिश्रुतिनिर्वाहो न कृतः स्यादिति भावः ॥ वाक्पूर्वकजोति । गवादिजलाहरणादि-व्यवहारेत्यर्थः ॥ तथापीति ॥ प्रत्यभिज्ञाभिज्ञयोर्भेदस्त्वित्थम् । स इति तच्छब्देन विप्रकृष्टमनूद्यायमिति-पदेन पुरोवर्त्यभेद उच्यते ॥ सोऽयमिति ॥ तत्र स्थले प्रत्यभिज्ञा अन्यथा त्वभिज्ञाऽयं स इति द्रष्टव्या ॥