०३ अद्वैतमतपरीक्षा

अन्ये तु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु पूर्वत्राभ्युपेत्य व्यावहारिकं भेदं ‘‘स्याल्लोकव’’दित्युक्तम् । अत्र तु तत्वतः कार्यस्य विश्वस्य कारणब्रह्मणो नान्यत्वं ‘‘वाचारम्भणं विकारो नामधेयम् । इदं सर्वं यदयमात्मे’’त्यादिश्रुतेरित्युच्यत इत्याहुः । तत्र न तावद्ब्रह्माभेदस्तदनन्यत्वम् । अनृतस्य विश्वस्य सत्यब्रह्माभेदायोगात् । अनङ्गीकाराच्च । अज्ञानविशिष्टेनोपादानेनाभेदोस्तीति चेन्न । मुमुक्षुज्ञेयशुद्धब्रह्मज्ञानादेव सर्वविज्ञानार्थं शुद्धेनैवाभेदस्य वक्तव्यत्वात् । अन्यथाऽविद्यापि ‘‘येनाश्रुतं श्रुत’’मित्यादि वाक्योक्तज्ञेयकोटिनिविष्टा स्यात् । नापि ‘‘न खल्वनन्यत्वमित्यभेदं ब्रूमः । किन्तु भेदं व्यासेधाम’’ इति भामत्युक्तरीत्या ततो भेदाभावमात्रं तदनन्यत्वम् । भेदाभावेऽभेदध्रौव्यात् । भेदाभावे सत्यानृतव्यवस्थायोगाच्च । अभेदाभावेन व्यवस्थायां तेनैवैकविज्ञानेन सर्वविज्ञानाभावोपि स्यात् ।

यदि चैकविज्ञानेन सर्वविज्ञानानुपपत्त्या भेदाभावो व्यवस्थानुपपत्त्या चाभेदाभावः कल्प्येत तर्हि तदुभयानुपपत्त्या लाघवाय तथा ‘‘इदं सर्वं यदयमात्मा नेति नेती’’त्यादिसामानाधिकरण्यश्रुतिभेदश्रुत्योर्मृत्पिण्डादिदृष्टान्तस्य च स्वारस्याय भेदाभेदावेव किं न कल्प्येते । ब्रह्मण एकरसत्वश्रुतिरप्यनेकरसात्प्रपञ्चाद्भेदाभावेप्यभेदाभावमात्रेणेवाऽभेदेपि भेदेनैवोपपन्नास्तु । यथा च सत्यस्यानृताभेदो न युक्तस्तथा ततो भेदाभावापि । नापि ब्रह्मव्यतिरेकेणासत्त्वं तदनन्यत्वम् । विशेषनिषेधस्य शेषाभ्यनुज्ञानार्थत्वे नानन्दादिवज्जीवचैतन्यवच्च ब्रह्मात्मकत्वापातात् । ब्रह्मण्यारोपितत्वं तु न तदनन्यत्वशब्दार्थः । शुक्तयारोपिते रूप्ये तदनन्यशब्दाप्रयोगात् । प्रातिभासिकव्यावहारिकयोर्व्यावहारिकपारमार्थिकाभ्यामन्यत्वाभावेऽनिर्वाच्यत्वासिद्धेश्च (रूप्यमिदं नेति तदन्यशब्दस्यैव प्रयोगाच्च) एकविज्ञानेन सर्वविज्ञानायोगाच्च । मृत्पिण्डादिदृष्टान्तानुपपत्तेश्च ॥

कथं हि ब्रह्मविज्ञानाद्विज्ञातं सकलं भवेत् ।

न हि शुक्तिस्वरूपस्य विज्ञानाद्रजतज्ञता ॥ १ ॥

प्रत्युत

शुक्तितत्वापरिज्ञानाद्यथैव रजतज्ञता ।

ब्रह्मतत्वापरिज्ञानात्तथा सर्वज्ञतोचिता ॥ १ ॥

अत्रोक्तं भामत्यां रज्ज्वां ज्ञातायां भुजङ्गतत्वं ज्ञातं भवति । सा हि तस्य तत्वम् । एवं च ब्रह्मज्ञानात्सर्वं तत्वतो ज्ञातं भवतीति । तन्न । एवं हि ब्रह्मज्ञानेन ब्रह्मैव ज्ञातं भवतीत्यर्थः स्यात् । तच्चायुक्तम् । स्वस्य स्वहेतुत्वायोगात् । ‘‘येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञात’’मिति श्रुतिगताश्रुतादिपदायोगाच्च । किं चासाधारणं स्वरूपमसाधारणधर्मो वा तत्वम् । न तु भ्रमाधिष्ठानम् । तथात्वे चानन्दो ब्रह्मणो रज्जुत्वं च रज्जोस्तत्वं न स्यात् । न च रज्जू रज्जुज्ञाननिवर्त्यस्य सर्पस्य स्वरूपं धर्मो वा । न च परस्परभिन्नानेकारोप्यानुगतमधिष्ठानमेकैकस्यारोपितस्यासाधारणम् । न चानारोपितमित्येतावता ततोऽन्यत्तस्य तत्त्वं भवति । स्वीकृतं च त्वयापि सर्पस्य रज्जुव्यतिरेकेणासत्त्वेन ततोऽन्यत्वाभावेपि रज्जोः सर्पव्यतिरेकेण सत्त्वेन ततोन्यत्वम् । (किं च यदि रज्जुः सर्पस्य तत्वं तर्हि रज्जुज्ञः सर्पतत्वज्ञ इत्युच्येत) किं चैवं रज्ज्वामयं सर्प इति धीरानंदे ब्रह्मधीरिव च प्रमा स्यात् । तत्त्वत्वे तद्धीत्वात् । रज्जुज्ञानेन सर्पभ्रमनिवृत्तिस्त्वधिष्ठानतत्वज्ञानस्य तदज्ञाननिमित्तकभ्रमविरोधित्वात् । न च घटादेर्मृदादावारोपितत्वात्तद्दृष्टान्तो युक्त इति वाच्यम् । मृत्तत्वज्ञानेपि घटाद्यनिवृत्तेः । यद्यपि तार्किकमत इव मृदारब्धं द्रव्यांतरं नास्ति । तथापि कारकव्यापारसाध्यो जलाहरणादिसमर्थो व्यावहारिको मृदादितुल्योऽवस्थाविशेषरूपो घटशब्दार्थस्त्वन्मतेप्यस्ति ।

प्रकाशिका

‘‘न चान्यत्र प्रमाणमस्ती’’त्यादिना पराभिमतं तदनन्यत्वमप्रामाणिकं प्रमाणविरुद्धं चेति भाष्यटीकयोरुक्तं ‘‘कथं च तदनन्यता । जगतस्त्वविकारित्व उक्तन्यायेन साधित’’ इत्यनुव्याख्यानसुधयोः प्रपञ्चितम् । तद्-व्यक्तीकर्तुं परभाष्योक्तं सङ्ग्रहेणानुवदति ॥ पूर्वत्रेति ॥ सौत्रादिपदोपात्तश्रुतिमाह ॥ इदं सर्वमिति ॥ किं मुख्याभेदोत्राभिमत उत भेदाभावमात्रं यद्वा ब्रह्मव्यतिरेकेणासत्त्वमथ तत्रारोपितत्वमिति विकल्पान्हृदिकृत्वाऽऽद्यं निराह ॥ तत्र नतावदिति ॥ अनङ्गीकाराच्चेति ॥ ‘‘कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणा भावः कार्यस्यावगन्तव्य’’ इति तद्भाष्योक्तेरिति भावः ।

विवरणरीत्या शङ्कते ॥ अज्ञानेति ॥ विशिष्टे शुद्धं प्रविष्टमित्यत आह ॥ अन्यथेति ॥ द्वितीयमाशङ्क्य निराह ॥ नापि न खल्विति ॥ अभेदेति ॥ परस्परविरुद्धयोरेकस्याभावेऽपरस्य सत्त्वनियमादिति भावः । विरोधे विप्रतिपत्तावाह ॥ भेदेति ॥ लाघवायेति ॥ अभावापेक्षया भावस्य लघुत्वादिति भावः । ‘‘एकधेवानुद्रष्ट’’ व्यमित्यादिश्रुतिविरोधभयादेवमाश्रीयत इत्यत आह ॥ ब्रह्मण इति ॥ अनृततादात्म्यं सत्यब्रह्मणो न युक्तमित्यत आह ॥ यथाचेति ॥ ननु यथा तुच्छस्य निस्स्वरूपत्वेन तत्र सत्यभेदो नास्ति अत एव भेदाभावेऽभेदध्रौव्यादित्यपि व्यभिचारि तथा च तत्र भेदाभेदयोरभावेपि यथा व्यवस्था तथाऽत्रापि स्यादिति चेन्न । तुच्छेऽसत्यभेदाभावेपि सत्ये तुच्छभेदस्य सत्त्वात् । यथोक्तं ‘‘सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनते’’त्यादौ । अत एव ततोऽनृतादित्युक्तमत्रापि निस्स्वरूपस्यापि प्रतियोगित्वं धर्मिसत्तानिरपेक्षधर्मत्वाद्युक्तमित्यन्यत्र व्यक्तमिति भावः । तृतीयं कल्पं परभाष्योक्तमाशङ्क्याह ॥ नापीति ॥ विशेषेति ॥ अन्यथा ‘‘व्यतिरेकेणे’’ति विशेषणवैयर्थ्यापत्तिरिति भावः ॥ आनन्देति ॥ तयोरपि ब्रह्मातिरेकेणासत्त्वात्तयोरप्यनृतत्वापत्तिरिति भावः । चतुर्थं निराह ॥ ब्रह्मणीति ॥

नन्वभिन्ने यथा तदन्यत्वं नास्त्येवमधिष्ठानाध्यस्तयोरन्यत्वं नेति गौण्या वृत्त्या तदनन्यत्वपदेनारोपाधिष्ठानतोच्यत इत्यत आह ॥ प्रातिभासिकेति ॥ शुक्तिरूप्यप्रपञ्चयोश्शुक्तिब्रह्मभ्यामित्यर्थः ॥ अनिर्वाच्यत्वेति ॥ त्वदभिमतद्विरूपेत्यर्थः ॥ एकेति ॥ अधिष्ठानज्ञानेनाध्यस्तज्ञानादर्शनादिति भावः । एकविज्ञानेनेत्युक्तं प्रमेयं ‘‘न हि सत्यज्ञानेन मिथ्याज्ञानं भवति । न हि शुक्तिज्ञो रजतज्ञ इत्युच्यत’’ इत्यादितत्वनिर्णय तट्टीकयोरुक्तरीत्या व्यनक्ति ॥ कथं हीति ॥ नन्वधिष्ठानज्ञानमन्वयव्यतिरेकाभ्यामध्यस्तज्ञानहेतुः । तथा चाधिष्ठानब्रह्मज्ञाने सत्येवाध्यस्तप्रपञ्चज्ञानं नान्यथेत्यत उक्तम् ॥ विज्ञानादिति ॥ सत्यमेवम् ॥ तथापि प्रकृते ब्रह्मज्ञानं न यादृशतादृशम् । मुमुक्षुं प्रत्युपदिश्यमानत्वात् ।

किं तु ब्रह्मतत्वज्ञानम् । ब्रह्मणोऽधिष्ठानत्वे तन्न स्यात् । शुक्तितत्वज्ञानादत्राध्यस्तरूप्यज्ञानादर्शनात् । अत एव ‘‘शुक्तिस्वरूपस्ये’’त्युक्तमिति भावः । किं चारोपितत्वाङ्गीकार एकविज्ञानप्रतिकूल इत्याह ॥ प्रत्युतेति ॥ ब्रह्मतत्वेति ॥ इह च तत्तत्वज्ञानेन सर्वज्ञतोच्यमाना न युक्तेति भावः ॥ अश्रुतादिपदेति ॥ द्वयोरप्येकमेव तत्वं चेच्छतस्यैव श्रुतत्वं प्राप्तमिति भावः । असाधारणं सर्वतो व्यावृत्तम् । किमतो यद्येवमित्यत आह ॥ न चेति ॥ नन्वनारोपितं तत्वमधिष्ठानं चानारोपितमिति तत्वं स्यादित्यत आह ॥ न चानारोपितमिति ॥ तत आरोपितत्वादित्यर्थः । ननु यद्यधिष्ठानमध्यस्तस्य तत्वं न स्यात्तर्हि तज्ज्ञानात्तद्भ्रमनिवृत्तिर्न स्यात् । तद्भ्रमस्य तत्तत्वज्ञाननिवर्त्यत्वादित्यत आह ॥ रज्जुज्ञानेनेति ॥ एकज्ञानेन सर्वज्ञानायोगमुपपाद्य मृत्पिण्डादीत्युक्तमुपपादयति ॥ न च घटादेरिति ॥ तत्वतोऽवस्थाविशेषो नास्तीत्यत आह ॥ तत्वत इति ॥ तथाच तद्दृष्टान्तोऽयुक्त इति भावः ।

चन्द्रिकाविवृतिः

कारणब्रह्मण इति पञ्चमी । आदिशब्दगृहीतां श्रुतिं पठति ॥ इदं सर्वमिति ॥ जगतो ब्रह्मानन्यत्वं किं ब्रह्माभेदः, किं वा ब्रह्मभेदाभावः किं वा ब्रह्मसत्ताव्यतिरेकेण सत्ताशून्यत्वं, किं वा ब्रह्मण्यध्यस्तत्वमिति चत्वारो विकल्पाः । तत्राद्यं दूषयति ॥ न तावद्ब्रह्माभेद इत्यादिना ॥ अज्ञानविशिष्टेनेति ॥ विशिष्टस्य चानृतत्त्वेनानृतविश्वाभेदो विरुद्ध इति भावः । ननु विशिष्टस्योपादानत्वेऽपि येनाश्रुतमित्याद्युपादान-परवाक्योक्तं मुमुक्षुज्ञेयत्वं विशेष्यभूतशुद्धेऽपि प्राप्तमित्यत आह ॥ अन्यथेति ॥ अन्यथा विशिष्टान्तर्गतत्त्वेन मुमुक्षुज्ञेयत्त्वाङ्गीकार इत्यर्थः ॥ द्वितीयं पक्षं भामतीकारसंमतिप्रदर्शनपूर्वकमाशङ्कते ॥ नापि न खल्वनन्यत्वमित्यादिना ॥ अभेदध्रौव्यादिति ॥ तथा चाभेदपक्षोक्तदोषापात इति भावः ॥ तेनैवाभेदाभावेनैव । ब्रह्मप्रपञ्चयोरभेदे सत्येव ब्रह्मणि ज्ञाते जगज्ज्ञातं भवतीति भावः ॥ एकविज्ञानेन सर्वविज्ञानार्थं ब्रह्मजगतोर्भेदाभावः सत्यानृतव्यवस्थार्थमभेदाभावश्चोच्यते ॥ अनिर्वचनवादिनामनुप-पत्त्यभावादित्याशङ्क्याह ॥ यदि चैकविज्ञानेनेति ॥लाघवायेति ॥ भावाभावयोर्भेदाभेदयोरेव प्रयोजकत्वकल्पने लाघवमिति भावः । अभेदे भेदे च श्रुतिसिद्धत्वमस्तीति दर्शयितुं क्रमेण श्रुतिद्वयं पठति ॥ तथा इदं सर्वमिति ॥ मृत्पिण्डादीति ॥ मृत्पिण्डमृन्मययोर्भेदाभेदस्यैव सद्भावादिति भावः ॥ नन्वभेदांशाभ्युपगमे विरोध एकरसस्य ब्रह्मणो ऽनेकरसप्रपञ्चाभेदस्य विरुद्धत्वादित्याशङ्क्य, कथं तर्हि त्वन्मतेऽपि एकरसस्य ब्रह्मणो ऽनेकरसप्रपञ्चेन भेदाभावो ऽनेकरसप्रपञ्चभेदाभावे ब्रह्मणोऽप्यनेकर-सत्त्वापत्तेः साम्यात् ॥ यद्यभेदाभावेनानेकरसत्त्वापत्तिपरिहारस्तर्हि मायाभेदेनानेकरसत्त्वापत्तिपरिहारः कर्तुं शक्य इत्यभिप्रेत्य परिहरति ॥ ब्रह्मण एकरसत्त्वश्रुतिरपीति ॥ तृतीयमाशङ्कते ॥ नापि ब्रह्मव्यतिरेकेणेति ॥ विशेषनिषेधस्य जगदसदिति निषेधमकृत्वा ब्रह्मव्यतिरेकेणासदिति विशेषनिषेधस्य ॥ आनन्दादिवदिति ॥ आनन्दो ब्रह्मव्यतिरेकेणासदिति निषेधस्थो जीवचैतन्यं च ब्रह्मव्यतिरेकेणासदिति स्थो आद्यं केवास्वरूपाभिप्रायेण । द्वितीयं तु कार्यांशाभिप्रायेण ॥ चतुर्थमाशंकते ॥ ब्रह्मण्यारोपितत्त्वं त्विति ॥ आरोपितत्वं किं तदनन्यत्वशब्दार्थः किं वा तदन्यत्वे सत्येवारोपितत्वनियम

इत्यभिप्रायः ॥ नाद्य इत्याह ॥ शुक्तयारोपित इति ॥ प्रत्युत आरोपिते रूप्ये शुक्तिर्नेति तदन्यशब्द

एव प्रयुज्यते इति भावः ॥

न द्वितीय इत्याह ॥ प्रातिभासिकेति ॥ तथा च सद्विाक्षणत्वघटितानिर्वाच्यत्वान्यथानुपपत्त्या ब्रह्मण्यारोपितस्यापि तदन्यत्वमेवाङ्गीकर्तव्यमिति भावः ॥ स्वस्येति ॥ ब्रह्मज्ञानस्यैव ब्रह्मज्ञानहेतु-त्वायोगादिति भावः ॥ अश्रुतादिपदायोगाच्चेति ॥ अश्रुतमपि प्रपञ्चतत्त्वं श्रुतमिति वक्तव्यं प्रपञ्चतत्त्वं च ब्रह्मैव । एवं चैकस्मिन्नेवाश्रुतश्रुतादिपदानां विरोध इति भावः ॥ तथात्त्वे भ्रमाधिष्ठानस्यैव तत्वरूपाङ्गीकारे । अधिष्ठानमारोप्यतत्त्वमित्यत्र दूषणमाह ॥ न च रज्जुरिति ॥ ननु ब्रह्म प्रपञ्चं प्रति असाधारणस्वरूपमिति तत्तत्त्वं भवत्वित्यत आह ॥ न च परस्परभिन्नानेकेति ॥ प्रत्येकमेव घटादीनामारोपो न तत्त्वेनेति भावः ॥ ननु रज्जुः सर्पस्य तत्वं भवत्येव तस्यानारोपितत्वात् सर्पस्य च तत्रारोपितत्वादित्यत आह ॥ न चानारोपितमित्येतावतेति ॥ ततोन्यद् आरोपादन्यत् ॥ तस्यारोपस्य भेदादेवेति भावः । ननु रज्जोः सर्पादन्यत्वे भवतु तस्याः सर्पतत्त्वरूपत्वाभावः । तदेव मया नाङ्गीक्रियत इत्यत आह ॥ स्वीकृतं चेति ॥ ननु रज्जोः सर्पतत्त्वरूपत्त्वानङ्गीकारे कथं रज्जुज्ञानेन सर्पभ्रमनिवृत्तिः । तत्तत्त्वज्ञानस्यैव तद्भ्रमनिवर्तकत्वादित्यत आह ॥ रज्जुज्ञानेनेति ॥ मृत्पिण्डादिदृष्टान्तानुपपत्तेश्चेति द्वितीयप्रतिज्ञायाम् अनुपपत्तिशब्देन मृत्पिण्डे मृन्मयस्यानारोपितत्वेनानुपपत्तिरभिप्रेता । तां प्रतिज्ञां व्युत्पादयितुमाह ॥ न च घटादेर्मृदादावित्यादिना ॥ ननु मृद्य्वतिरेकेण घटस्याभावादेव मृदि घट आरोपितप्रातिभासिक इत्यङ्गीकर्तव्यमित्याशङ्क्य निराकरोति ॥ यद्यपि तार्किकमत इवेत्यादिना ॥