०४ परमतनिराकरणम्

यदुक्तं परैः

परमतनिराकरणम्

तात्पर्यचन्द्रिका

यदुक्तं परैर् ब्रह्मण उपादानत्वे भोक्तुः शरीरस्य भोग्यत्वापत्तेर्भोग्यस्य च शब्दादेर्भोक्तृत्वापत्तेस्तयोरविभागः स्यात् । द्वयोरपि परमकारणब्रह्मणोऽनन्यत्वादिति प्राप्ते मैवम् एकसमुद्रकार्याणां फेनतरङ्गादीनामिव विभागोपपत्तेरिति सिद्धान्त इति ॥ तन्न ॥ विवर्तसिद्धान्ते साङ्कर्यशङ्कानुदयात् । किञ्च पूर्वपक्षिणा किं कार्याणां चेतनाचेतनत्वरूपेण विभागो न स्यादित्यापाद्यते किं वा येन केनचिद्रूपेण । नाद्यः । चेतनस्यानादित्वेन कार्ये तद्विभागाभावेनेष्टापत्तेः ।

ननु चेतनस्यानादित्वेऽपि ब्रह्माभेदाद्ब्रह्मकार्यत्वेन ब्रह्माभिन्नं यज्जडं तद्रूपत्वापत्तिरिति चेन्न । ‘‘दृश्यते’’त्वित्यतीताधिकरणस्थसूत्रेणैव जडोपादानत्वेऽपि ब्रह्मणश्चेतनत्वाहानेरुक्तत्वेन ब्रह्माभेदेन जीवस्य जडत्वाप्राप्तेः । नांत्यः । एकमहासुवर्णपिण्डकार्याणां कटकमकुटाद्यवस्थानां भेदस्यैव दर्शनेन ब्रह्मकार्याणामप्याकाशवाय्वादीनां भेदसम्भवात् । सुवर्णपिण्डं सावयवं ब्रह्म तु निरवयवमिति चेत्तर्हि त्वन्मते ‘‘कृत्स्नप्रसक्ति’’रिति सूत्र इव निरवयवस्य ब्रह्मणो युगपदनेकद्रव्योपादानत्वं न युक्तमिति पूर्वपक्षयितव्यम् । न तु कार्याणां विभागो न युक्त इति । तस्मान्न पूर्वपक्षोदयः । सिद्धान्तोऽप्ययुक्तः । विवर्तवादे फेनतरङ्गादिदृष्टान्तोक्तययुक्तेः । फेनतरङ्गादीनां भिन्नानेकजलावयवोपादान कत्वेनैकोपादानकत्वाभावाच्च । केचित्तु ब्रह्मणः शरीरित्वे जीववद्दुःखादि भोक्तृत्वापत्तेरविभागः स्यादिति शङ्कानिरासार्थमिदं सूत्रमित्याहुः । तन्न । अस्मद्रीत्या भोक्तुर्जीवस्य ब्रह्मत्वापत्तेरित्यल्पाध्याहारेणोपपत्तौ ब्रह्मणः शरीरित्व इत्यापादकाध्याहारस्य आपाद्येऽपि दुःखादि पदाध्याहारस्य भोक्तृशब्दे भावप्रधानतायाश्च कल्प्यत्वात् । अस्याः शङ्कायाः ‘‘सम्भोगप्राप्ति’’रित्यत्रैव निरस्तत्वाच्च । ननु तत्र शरीरान्तरावस्थानमात्रप्रयुक्तभोक्तृत्वाशङ्काया निरासः । इह तु शरीरस्वामित्वप्रयुक्ताया इति चेन्न । तथापि त्वया तत्र ‘‘न हि शरीरान्तरवर्तित्वमेव सुखदुःखहेतुः । अपि तु पुण्यपापरूपकर्मवशत्वम् । तत्त्वपहतपाप्मनः परमात्मनो न सम्भवती’’त्युक्तत्वात् । अत्र च ‘‘न हि जीवस्य शरीरधातुसाम्यवैषम्यनिमित्तसुखदुःखभोक्तृत्वं सशरीरत्वकृतम् । अपि तु पुण्यपापरूपकर्मकृतम् । अपहतपाप्मनस्तु परमात्मनः स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसम्बन्धगन्धो नास्ती’’त्युक्तत्वात् परिहारभेदाभावात् । अतिदेशत्वे तु तदानन्तर्यं स्यात् । नन्वत्रोक्तं सुखदुःखादेः कर्मोपाधिकत्वं स्वीकृत्य सुखदुःखादिरहितस्यापीशस्य सन्निधानप्रयुक्ताया जीवगतदुःखादिभोक्तृताशङ्कायास्तत्र निरास इति चेत् तत्र शङ्कितं भोक्तृत्वं किं स्वगतत्वेनान्यगतदुःखाद्यनुसन्धातृत्वं किं वा तत्साक्षात्कारित्वमात्रम् । नाद्यः । जीवस्याप्यन्यगतदुःखादौ स्वगतत्वभ्रान्तेरभावेन तदापादनायोगात् । नांत्यः । इष्टापत्तेरिति ॥ छ ॥ भोक्त्रधिकरणम् ॥ ५ ॥

प्रकाशिका

सुधोक्तं विवृण्वन् परमतमनूद्य निराह ॥ ब्रह्मण इति ॥ विवर्तेति ॥ ब्रह्मतादात्म्यरूपशङ्काबीजाभावादिति भावः । ‘‘भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राहे’’त्यनुव्याख्यानोक्तिरुपलक्षणम् । पूर्वोत्तरपक्षदोषोक्तेरिति भावः । परिणामपक्षेऽपि दोषमाह ॥ किञ्चेति ॥ कार्य इति ॥ कार्यप्रपञ्चे चेतनाचेतनविभागाभावेनेत्यर्थः । ननु सुवर्णस्यैकैकभागेन कटकादिजनकतया भिन्नावयवोपादानतया कार्यभेदो युक्तः । नैवं ब्रह्मणीत्यन्योपादानस्यैवान्यं प्रत्युपादानत्वात्साङ्कर्यशङ्केत्याशङ्क्य निरस्यति ॥ सुवर्णेति ॥ इति पूर्वपक्षयितव्यमिति ॥ तत्सिद्ध्युत्तरकालीनत्वादेतद्विचारस्येति भावः । सुधायामद्वैतिमते यथानुव्याख्यानं सूत्राक्षरास्वारस्यमुक्त्वा ‘‘ये तु व्याचक्षते चिदचिद्वस्तु शरीरत्वे ब्रह्मणो जीववद्दुःखादिभोक्तृत्वापत्ते’’रित्यादिना रामानुजमतमप्यनूद्य सम्भोगसूत्रेण गतार्थत्वादिना दूषितम् ।

तत्सूत्राक्षरास्वरस्यस्याप्युपलक्षणमिति भावेन तन्मते सूत्रार्थमनूद्य निराह ॥ केचित्त्विति ॥ स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य कार्यकारणरूपत्वात्स्वभावविभाग उपपद्यत इत्युक्तम् । तन्न युक्तम् । ब्रह्मणः शरीरित्वे तस्य जीववच्छरीरधातुसाम्यवैषम्यनिमित्तसुखदुःखादिभोक्तृत्वापत्तेस्स्वभावविभागो न स्यादिति चेन्न । यथा कान्तारनिपतितस्यापि नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादित्याहुरित्यर्थः ॥ भावेति ॥ अयं च दोषः प्राचीनपक्षेऽपि योज्यः ॥ सम्भोगेति ॥ ननु तद्भाष्य एतदेवाशङ्क्य तत्र ह्युपास्यतया हृदयायतने सन्निधानस्य शरीरान्तर्वर्तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम् । इह तु जीववद्ब्रह्मणोऽपि शरीरित्वे तद्वदेव सुखदुःखयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यत इत्यनेन समाहितमित्यतस्तदाशङ्क्य निराह ॥ नन्विति ॥ इष्टापत्तेरिति ॥ सर्वज्ञत्वादीश्वरस्य सुखदुःखादिसाक्षात्कारस्य त्वयापि स्वीकृतत्वादिति भावः ॥ छ ॥ भोक्त्राधिकरणम् ॥ ५ ॥

चन्द्रिकाविवृतिः

परमकारणेति ॥ अवान्तरकारणभेदेऽपि भोक्तृभोग्यवर्गयोर् ब्रह्मोपादानकत्वेनाभेदः प्राप्त इति भावः ॥ एकसमुद्रकार्याणाम् ॥ एकसमुद्रोपादानकार्याणाम् ॥ विवर्तसिद्धान्त इति ॥ न हि शुक्तौ विवर्तयो रजतरङ्गयोर्भेदशङ्का प्रसरति । अतस्तद्वति तद्भावस्यैव विवरणरूपत्वादिति भावः ॥ चेतनस्यानादित्वेनेति ॥ कार्ये चेतनाचेतनत्व-विभागोऽदुष्ट एव । सर्वकार्यस्य जडत्वात् । चेतनस्त्वकार्य एव अतो न दोष इति भावः ॥ ननु चेतनस्येति । जडोपादानत्वेन ब्रह्मणोऽपि जडत्वमेव तदभेदाज्जीवस्यापि जडत्वं न तु कार्यत्वात् । तथा च सर्वस्यापि जडत्वापत्या भोक्तृभोग्यव्यवस्था न स्यादिति भावः ॥ भेदसम्भवात् ॥ आकाशत्वादिरूपेणैवेति शेषः ॥ कृत्स्नप्रसक्तिरिति ॥ निरवयवस्य ब्रह्मणः कृत्स्नैकदेशाभ्यामुपादानत्वं नास्तीति यथा तत्रोक्तं तद्वदत्रापि निरवयवस्य ब्रह्मणो युगपदनेकद्रव्योपादानत्वमेव न सम्भवतीति पूर्वपक्षानवकाश इति भावः ॥ ननु ब्रह्मणः शरीरित्वप्रयुक्तदुःखित्वादिशङ्काया अपि परिहरणीयत्वादत्र सूत्रे अध्याहारादिदोषोऽपि सोढव्यः । एवमेव सूत्रार्थो वक्तव्य इत्यत आह ॥ अस्याः शङ्काया इति ॥ तथापीति ॥ शङ्काविशेषेपि परिहाराविशेषेण गतार्थत्वशङ्का तदवस्थेति भावः ॥ जीवस्यापीति ॥ जीवसाम्येन खलु ईश्वरस्यापि शरीरित्वे नान्यगतसुखादीनां स्वगतत्वेनानुसन्धानं वक्तव्यम् । यदा जीव एव तदनुसंधानं नास्ति किं तु जीवेऽपि सुखादिकमुत्पद्यते तदा किमु वक्तव्यम् ईश्वरे तादृशमनु-सन्धानं नास्तीति ।