०२ पूर्वपक्षत्रयनिरूपणम्

अत्र विष्णोर्जगत्कर्तृत्वादिकं युक्तिविरुद्धमुत नेति चिन्ता

पूर्वपक्षत्रयनिरूपणम्

तात्पर्यचन्द्रिका

अत्र विष्णोर्जगत्कर्तृत्वादिकं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं ब्रह्मासर्वकर्तृजीवाभिन्नमुत नेति । तदर्थं ‘‘परेऽव्यये सर्व एकीभवन्ती’’ति श्रुतिः किं स्वरूपैक्यपरत्वेन मुख्यार्था उत स्थानाद्यैक्यालम्बनत्वेनोपचरितार्थेति । तदर्थं वाक्यशेषे दृष्टान्तितं नदीसमुद्रैक्यं किं स्वरूपैक्यं किं वा स्थानाद्यैक्यमिति । ननु ‘‘न ह्यन्यस्यान्यत्वं युज्यत’’ इति भाष्ये पूर्वं भिन्नस्य पश्चादभिन्नत्वाभावः पूर्वपक्षयुक्तित्वेनोक्तः । ‘‘नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथंचने’’त्यनुव्याख्याने तु सिद्धान्तयुक्तित्वेन । तत्कथमिति चेदुच्यते । अत्र त्रयः पूर्वपक्षाः सम्भवन्ति । तत्र ‘‘एकीभवन्ती’’ति ब्रह्मणस्तावन्मुक्ताभेदः श्रूयते । न च तावतैव ब्रह्मणोऽसर्वकर्तृत्वं सिध्यति । संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षादिविरोधाभावात् । पूर्वमसतोऽपि जीवे सर्वकर्तृत्वस्य मुक्तेरिव ज्ञानेनोदयसम्भवाच्च मुक्ताभिन्नस्यापि ब्रह्मणः कथञ्चित्कारणत्वसम्भवात् । ‘‘जगद्य्वापारवर्ज’’मित्यत्र त्वत्रत्यसिद्धान्तन्यायेन भेदे सिद्धेऽपि मुक्तस्य सत्यकामत्वात्सर्वकर्तृत्वमिति शङ्कानिरासान्नात्रत्यपूर्वपक्षदशायां तत्रत्यसिद्धान्तेन मुक्तस्यासर्वकर्तृत्वसिद्धिः । तस्मादसर्वकर्तृत्वेन प्रत्यक्षसिद्धसंसार्यभेदाद्ब्रह्मणोऽपि तथात्वमिति वक्तुं मुक्तावभेदेन संसारेऽप्यभेदः साध्यः । ‘‘एकीभवन्ती’’त्यभूततद्भावार्थच्विप्रत्ययस्तु ‘‘न ह्यन्यस्ये’’ति युक्तिविरोधाद्भेदभ्रमनिवृत्तेरभूततद्भावाभिप्रायः । ‘‘तत्त्वमसी’’तीदानीमप्यभेदश्रुतेश् च्विप्रत्ययोऽस्वरस इति तु न । भाष्यविरोधात् ‘‘पृथगुपदेशा’’दित्यनेन गतार्थत्वापाताच्चेत्येकः पूर्वः पक्षः । एतं पक्षमाश्रित्य मुक्तावभेदेन पूर्वमभेदं वक्तुं ‘‘न ही’’त्यादि पूर्वपक्षभाष्यं प्रवृत्तम् । द्वितीयस्तु च्विप्रत्ययस्वारस्यात्पूर्वं भेदः । मुक्तौ त्वभेदः । ‘‘न ह्यन्यस्ये’’ति युक्तिस्तु च्विप्रत्ययरूपश्रुतिबाधितेति । एतत्पक्षदूषणाय पूर्वं सिद्धेन भेदेन पश्चादपि भेदं साधयितुं ‘‘नान्यदन्यत्व’’मित्यादिसिद्धान्तानुव्याख्यानं प्रवृत्तमिति न भाष्यानुव्याख्यानयोस्तट्टीकयोर्वा विरोधः । तृतीयस्तु पूर्वं भेदाभेदौ । मुक्तौ तु केवलाभेदः । एवं च च्विप्रत्ययो युक्तः । पूर्वं केवलाभेदाभावात् । ‘‘न ह्यन्यस्ये’’त्यादियुक्तिविरोधश्च न । पूर्वमप्यभेदस्य सत्त्वात् । एतं वा पक्षमाश्रित्य भाष्यानुव्याख्याने प्रवृत्ते । तत्र भाष्ये च्विप्रत्ययेन पूर्वं भेदस्य सिद्धत्वात्पूर्वपक्षानुपयुक्तत्वाच्चाभेद एव साधितः । अनुव्याख्यानेऽपि पूर्वं भिन्नाभिन्नस्यापि पश्चात्केवलाभेदो नास्तीति भावेन ‘‘नान्यदन्यत्व’’मित्युक्तम् । अत्र च पक्षत्रये प्रत्येकं पुनः पक्षत्रयं सम्भवति । एकपदलक्षणयैव विरोधपरिहाराच् चिन्मात्राच्चिन्मात्रस्य भेदाप्रसक्तयैव विरोधपरिहाराच् चिन्मात्राच्चिन्मात्रस्य भेदा प्रसक्तयैक्योपदेशवैयर्थ्याच्चैकपदलक्षणाया एकत्रैव विशिष्टरूपत्यागेन ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्येन वा जीवस्य श्रुतिसिद्धसर्वकर्तृब्रह्मसालक्षण्येन वा मिथ्यावादिरीत्या पदद्वयलक्षणया उभयत्रापि विशिष्टरूपत्यागेन चिन्मात्रैक्येन वेति । तत्राद्ये लक्षणस्यासम्भवः । द्वितीयेऽतिव्याप्तिः । सदापि शुद्धाभेद इति पक्षे संसारिणि मुक्तावेवाभेद इति पक्षे मुक्तेः पूर्वं भेदाभेदाविति पक्षेऽपि मुक्तेऽभेदांशमादाय संसारिणि चातिव्याप्तेः । तृतीयेऽपि सत्यं कर्तृत्वमसम्भवि । असत्यं तु प्रधानादावतिव्याप्तम् । सिद्धान्तिनोऽनिष्टं च । एतदेव पक्षत्रयमभिप्रेत्य टीकायां ‘‘जगत्कारणत्वादीश्वरैकनिष्ठं न सम्भवती’’त्युक्तम् । एवं च ‘‘उभयगतविरुद्धधर्मत्यागेने’’ति टीकावाक्य उपरितनो वा शब्दोऽनुषंजनीयः । (यद्वा तत्राद्यद्वितीययोः ‘‘उभयगतविरुद्धधर्मत्यागेने’’ति टीकायां ब्रह्मणः सर्वकर्तृत्वं जीवस्य तु तन्नेति व्यवस्थात्याग एवाभिप्रेतः । न तु मिथ्यावादिरीत्योभयत्र विशिष्टरूपत्यागः । तृतीये तु ‘‘जीवस्येश्वरसालक्षण्यग्रहणेन वेश्वरस्य जीवसालक्षण्यग्रहणेन वे’’ति टीकायामन्यतरपरिशेषमात्रमभिप्रेतम् । न त्वेकगतधर्मत्यागः ।) पूर्वपक्षोपसंहारटीकायां ‘‘परमार्थत इत्युक्तिरपि तात्विकाभेदेनाव्यवस्था चेत्काल्पनिकभेदेन व्यवस्था किं न स्यादिति शङ्कायां परमार्थतो ब्रह्मैव कारणं न तु जीव इति सिद्धान्तहानिरिति समाधातुम् । न तु मिथ्यावादिप्रक्रियया व्यवहारतो ब्रह्मैव कर्तृ न जीव इति व्यवस्थासिद्धावपि परमार्थतः सा न सिध्यतीति वक्तुम् । प्रस्तुतानुपयोगित्वात् । सुधायां तु प्रत्यक्षस्य प्राबल्याद्ब्रह्मणः प्रत्यक्षसिद्धा सर्वकर्तृजीवसालक्षण्यमेव वक्तव्यमित्यसम्भव एव निर्धारितः ।

प्रकाशिका

विषयसंशयटीकां व्यनक्ति ॥ अत्र विष्णोरिति ॥ इति श्रुतिरिति ॥ गताः कलाः पञ्चदशप्रतिष्ठादेवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति । यथा नद्यस्स्यंदमानास्समुद्रायणास्समुद्रं प्राप्यास्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्य’’मित्याथर्वणश्रुतिरित्यर्थः । यदि स्वरूपैक्यं वाक्यशेषाभिमतं तदा तदनुरोधेन पूर्ववाक्यार्थवर्णनात्तत्सिद्धासर्वकर्तृजीवाभिन्नत्वरूपयुक्तिविरुद्धं विष्णुजगत्कर्तृत्वमिति तत्प्रतिपादकश्रुत्यप्रामाण्यम् । यदि तु स्थानैक्यं तदा तादृशजीवाभेदाभावेन हेतोरसिद्धतया न युक्तिविरुद्धं सर्वकर्तृत्वमिति नाप्रामाण्यमिति भावः । पक्षभेदेन भाष्यटीकां योजयितुं विरोधमुद्घाटयति ॥ नन्विति ॥ तत्कथमिति चेदिति ॥ भाष्यरीत्या प्रागभेदस्यानुमतत्वेन प्रागसिद्धेन भेदेन जीवो नान्यकालेऽपि ब्रह्मणैक्यमापत्स्यते प्राक्ततोऽत्यन्तभिन्नत्वाद् यदेवं तदेवं यथा घटः पटेनेति साधनायोगात्तदनुरोधेन प्राग्भेदेंऽगीकृते तेनैव हेतुना मुक्तावप्यभेदो नेति पूर्वपक्षानुदय इति भावः । ‘‘प्रागभिन्नस्यैव जीवस्य ब्रह्मणैक्यमनेनोच्यत उत भिन्नस्याथ भिन्नाभिन्नस्ये’’ति सुधावाक्यं हृदि कृत्वाऽऽह ॥ अत्र त्रय इति ॥ आद्यं विवृणोति ॥ तत्रेति ॥ मुक्तेति ॥ ‘‘गताः कला’’ इत्युपक्रमात् ‘‘परेऽव्यय’’ इति श्रवणाच्चेति भावः ॥ मुक्तेरिति ॥ आनन्दानुभवरूपायाः प्रागसत्या यथोदय इत्यर्थः । ‘‘बलमानन्द ओजश्च सहोज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥ इत्यादिश्रुत्या परम प्रेमास्पदत्वादिनेदानीमीषदुपलब्धेश्चानन्दादिरूपत्वं जीवस्य सिद्धमपि व्यक्तिर्न सिद्धेति मुक्तेरिवेत्युक्तम् । कारणत्वं तु प्राक्सर्वथा न सिद्धम् । प्रत्युत तदभाव एव सिद्ध इति कथंचिदित्युक्तम् । ननु चतुर्थस्य चतुर्थे पादे नवमेऽधिकरणे मुक्ताः किं सृष्ट्यादिव्यापारवन्त उत नेति सन्देहे ‘‘सर्वान् कामानाप्त्वाऽमृतस्समभव’’दिति श्रुतेस्तेषां सत्यकामत्वेन कामितसर्वप्राप्त्युपपत्त्या सर्वशब्दसङ्कोचायोगान्मुक्तास्सृष्ट्यादिमन्त इति प्राप्ते ‘‘अस्माच्छरीरभेदादुत्क्रम्ये’’ति जीवप्रकरणात्तेषां जगत्सृष्ट्यादेरभावात् ‘‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामस्स्या’’दित्यादिना तेषां तत्र कामनानिषेधेन च सर्वशब्दसङ्कोचोपपत्तेर्न जगद्य्वापारवन्तो मुक्ता इति मुक्तानां विश्वकर्तृत्वस्य निषेत्स्यमानत्वात्कथमेतदित्यत आह ॥ जगदिति ॥ अत्रत्येति ॥ तस्येदानीमनुत्थानात् । स्वर्गकामाधिकरणपूर्वपक्षदशायां भावाधिकरणस्येवेति भावः । उपचारे बीजमाह ॥ न ह्यन्यस्येति ॥ भाष्येति ॥ ‘‘न ह्यन्यस्ये’’ति भाष्ये युक्तेरेवोक्तेरिति भावः । तदुपलक्षणमस्त्वित्यत आह ॥ पृथगिति ॥ तत्र श्रुत्यवष्टंभेनैवाभेदपूर्वपक्षकरणादिति भावः । एतेन ‘‘मुक्तजीवाभिन्नस्यापि कथंचिज्जगत्कारणत्वं निर्वोढुं शक्य’’मित्यादिटीका विवृता । ‘‘द्वितीयेत्विदमुपतिष्ठते । नान्यदिती’’ति सुधावाक्यं हृदि कृत्वाऽऽह ॥ द्वितीयस्त्विति ॥ च्विप्रत्ययेति ॥ अत एव टीकायां ‘‘यो यथा श्रूयते स तथैवेति व्याप्ते’’रित्युक्तमिति भावः । एवं पक्षभेदेनाविरोधमुक्त्वा पक्षैक्येनापि तमाह ॥ तृतीयस्त्विति ॥ एतं वेति ॥ अयं च पक्षः ‘‘द्वितीयनिराकरणेन तृतीयपक्षस्य निरस्तत्वा’’ दिति सुधावाक्यादवगम्यत इति भावः । ‘‘जीवाभेदो ह्युभयगतविरुद्धधर्मत्यागेन जीवस्येश्वरसालक्षण्यग्रहणेन वेश्वरस्य जीवसालक्षण्यग्रहणेन वा सम्भवती’’ति टीकां विवरीतुमाह ॥ अत्र चेति ॥ एकपदेति ॥ जीवपरवाचिपदयोर्मध्ये इत्यर्थः ॥ वैयर्थ्यादिति ॥ भेदभ्रमनिरासार्थत्वात्तस्येति भावः ॥ असत्यं त्विति ॥ तदुक्तं सुधायां ‘‘न च काल्पनिकं लक्षणमस्त्विति वाच्यम् । अनङ्गीकारात् । प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्चे’’ति । उक्तलक्षणदोषेषु टीकाविरोधमाशङ्क्याह ॥ पूर्वपक्षेति ॥ न त्विति ॥

येनोक्तातिव्याप्त्यादिदोषो न युक्तस्स्यादिति भावः ॥ प्रस्तुतेति ॥ ‘‘सर्वथा न जगत्करणत्वादीश्वरैकनिष्ठ’’मिति प्रस्तुतेत्यर्थः । एतेन ‘‘न ब्रह्मणो जगत्कारणत्वं वास्तवं भवती’’ति सुधावाक्यमप्युक्ताभिप्रायमिति भावः ।

ननु तत्र जीवसालक्षण्यमेव भाति । तत्कथमित्यत आह ॥ सुधायां त्विति ॥

चन्द्रिकाविवृतिः

अत्र त्रयः पक्षा इति ॥ इदं च पक्षत्रयं, एवं वदन् पृष्टव्यः ॥ किं जीवेशयोः पूर्वं पश्चाच्चाभेद उत पूर्वं भेदाभेदौ पश्चादभेदः, अथ पूर्वं भेदः पश्चादभेद इति विकल्प्य सुधायामेव सूचितम् । ननु मुक्तजीवस्य जगत्कर्तृत्वं जगद्य्वापारवर्जमित्यादौ निराकृतमित्यत आह ॥ जगद्य्वापारवर्जमित्यत्र त्विति ॥ ननु मुक्तेः पूर्वमपि ऐक्याङ्गीकारे एकाभवन्तीति च्विप्रत्ययविरोध इत्यत आह ॥ एकाभवन्तीति ॥ ननु पूर्वमप्यभेदसिद्धौ अभेदोपदेशवैय्यर्थ्यमित्यत आह ॥ भेदभ्रमेति ॥ भाष्यविरोधान् न ह्यन्यस्येत्यादियुक्तिविरोधप्रतिपादकभाष्यविरोधात् । तथा च च्विप्रत्ययास्वारस्य-श्रुतिविरोधादि भिन्नप्रतिपादनीयमित्यर्थः ॥ पृथगुपदेशेति ॥ तत्रापि तत्त्वमसीत्यादि श्रुतिविचारात् ॥ पूर्वं भिन्नस्य कथमुत्तरत्राभेद इत्यत आह ॥ न ह्यन्यस्येति ॥ आद्यपक्षे न ह्यन्यस्येत्यादिभाष्यस्वारस्यमनुरुध्य च्विप्रत्ययास्वारस्यमङ्गीकृतम् । द्वितीयपक्षे च्विप्रत्ययस्वारस्यमनुरुध्य न ह्यन्यस्येत्यादिभाष्योक्त-युक्तेराभासत्वमङ्गीकृतमिदानीं च्विप्रत्ययभाष्योभयस्वारस्यानुरोधेन पक्षान्तरमाह ॥ तृतीयस्त्विति ॥ केवलभेदाभावादिति ॥ च्विप्रत्ययेन केवाभेद एवोच्यत इति भावः ॥ पूर्वमप्यभेदस्येति ॥ तथा च पूर्वमत्यंतभिन्नस्यैवान्यभावो नास्तीति भाष्याभिप्रायः । न तु भिन्नाभिन्नस्यापि अन्यभावो न भवतीति ॥ ननु पूर्वपक्षे भेदाभेदस्याभिप्रेतत्वे भाष्ये पूर्वं संसारदशायाम् अभेदसाधकयुक्तिवद् भेदसाधकयुक्तिरप्युप-न्यसनीया स्यात् । अनुव्याख्याने च भिन्नत्वेऽभेदो नोपपद्यत इति या युक्तिरुक्ता साप्ययुक्ता स्यादित्यत आह ॥ तत्र भाष्ये च्विप्रत्ययेनेति ॥ तत्राद्य इति ॥ त्रिष्वपि पूर्वपक्षेषु प्रत्येकमपि आद्ये ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्यपक्षे इत्यर्थः । तथा च ब्रह्मणोऽपि सर्वकर्तृत्वाभावप्राप्त्याऽसम्भव इति भावः ॥ एवमुत्तरत्रापि द्वितीये तृतीयेऽपि इति पदयोरपीश्वरसालक्षण्यचिन्मात्रपक्षपरतया योजना कर्तव्या ।

ईश्वरसाक्षण्यं जीवस्येति पक्षे पूर्वपक्षरीतित्रयानुसारेण क्रमेणातिव्याप्तिमुपपादयति ॥ सदापि शुद्धाभेद इत्यादिना ॥ सत्यं कर्तृत्वमिति ॥ चिन्मात्रे तदतिरिक्तं सत्यस्य कर्तृत्वस्याभावादिति भावः । ननु पदद्वयाक्षणयेत्यादिचिन्मात्रविषयः पक्षष् टीकायां नोक्तमतो विरोध इत्यत आह ॥ एवं चोभयगतेति ॥ ननु टीकायां न परमार्थतो जगत्कर्तृत्वं ब्रह्मण इत्युक्तया व्यवहारतः जगत्कर्तृत्वं ब्रह्मण्यङ्गीकृत-मिवाभाति । भवद्भिश्च पक्षत्रयेऽपि जगत्कर्तृत्वस्य ब्रह्मण्यनङ्गीकृतत्वेनान्यत्रातिव्याप्त्या दूषणमुक्तम् । तथा च कथं जगत्कर्तृत्वाङ्गीकारो ब्रह्मणि युक्त इत्यत आह ॥ टीकायां परमार्थत इति ॥ प्रस्तुतेति ॥ जगत्कारणत्वलक्षणेऽतिव्याप्त्यादावनुपयोगादित्यर्थः ॥