०१ अधिकरणविषयनिरूपणम्

अत्र सुधायां पूर्वं श्रुतिसंवादितया..

**भोक्त्रापत्यधिकरणम् **

तात्पर्यचन्द्रिका

अधिकरणविषयनिरूपणम्

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥

अत्र सुधायां पूर्वं श्रुतिसंवादितया प्रबलयुक्तयविरोध उक्तोऽत्र तु बहुश्रुतिसिद्धतया प्रबलयुक्तयविरोध उच्यत इत्युक्तम् । तत्रासदादिशब्दानां पूर्वसिद्धान्तरीत्या ब्रह्मपरत्वेऽपि मुख्यार्थत्वादसत्कारणत्वे पूर्वपक्ष्युक्तश्रुतिसंवादाभावात्तत्प्रयुक्तप्राबल्यस्याप्यभावः । अत्र तु ‘‘एकीभवन्ती’’त्यादीनामत्रत्यसिद्धान्तरीत्या स्थानैक्यादिपरत्वे मुख्यार्थहानेरैक्यश्रुतिसिद्धत्वस्य भावान्न तत्प्रयुक्तप्राबल्याभावः । तथा च पूर्वत्र श्रुतिसंवादियुक्तिविरोधे परिहृतेऽपीह बहुश्रुतिसिद्धतया प्रबलयुक्तिविरोधाशङ्का युक्ता । यद्यपि भावत्वादिका पूर्वाधिकरणयुक्तिरपि श्रुतिसिद्धा । तथापि सा प्रलयेऽसत्त्वरूपसाध्यं विनाप्युपपन्ना । अत्रत्या जीवाभिन्नत्वादिका युक्तिस्त्वसर्वकर्तृत्वरूपसाध्यं विनाऽनुपपन्नेति पूर्वपक्षोत्थानात्सङ्गति रगतार्थताऽधिकरणोपाधिश्च सिद्धा इति भावः ।

यद्वा ‘‘न विलक्षणत्वा’’दित्यत्र कारीर्यादिविधिवाक्यस्य युक्तिविरोधेनाप्रामाण्ये ‘‘तत्सामान्यादितरेषु तथात्व’’मिति न्यायाद्ब्रह्मकारणवाक्यमप्यप्रामाणमिति शङ्का निरस्ता । ‘‘अभिमानी’’त्यत्र तु सिद्धार्थस्य कारीर्यादिविधिवाक्यवद्वैगुण्यादिभिरसमाधेया प्रामाण्यस्य मृदादिवाक्यस्य युक्तिविरोधेनाप्रामाण्ये तत्सामान्यात्सिद्धब्रह्मकारणवाक्यमप्यप्रमाणमिति शङ्का निरस्ता । ‘‘अस’’दित्यत्र प्रलये ब्रह्मण एवाभावान्न तस्य कर्तृत्वम् । किन्तु प्रागभावस्यैवेति यः साक्षाद्ब्रह्मकर्तृत्वस्य युक्तिविरोधः स निरस्तः । अत्र तु प्रलये ब्रह्मणः सत्त्वेऽपि सिद्धान्त्यभिमतस्य ब्रह्मैव कर्तृ न जीव इत्यस्य यः साक्षाद्युक्तिविरोधः स निरस्यत इत्यवान्तरसङ्गतिः । पृथगित्यत्र भेदश्रुतेः ‘‘तत्त्वमसी’’त्याद्यभेदश्रुतिविरोधो निरसिष्यते । अत्र तु सर्वकर्तृत्वस्य श्रुतिसिद्धाभेदरूपयुक्तयविरोध उच्यत इति भेदः । अत एवेह ब्रह्मणो मुक्ताभेदमात्रे न पूर्वपक्षपर्यवसानम् । किन्तु तदभेदरूपयुक्तया सर्वकर्तृत्वं विरुद्धमितीयं चिन्तेहैव पादे सङ्गता । न तु फलाध्याय इति भाष्य एवोक्तम् ।

प्रकाशिका

अत्र टीकायामधिकरणोपाधेरस्फुटत्वादन्यत्रोक्तमनुपपत्तिनिरासेन स्थापयितुं स्मारयति ॥ अत्रेति ॥ बहुश्रुतीति ॥ यद्यपि ‘‘श्रुतिसिद्धलिङ्गत्वेन प्रबलये’’त्येव तत्र पाठः । तथापि ‘‘स्मृतियुक्तिश्रुतिगुणे’’त्युपाधिसङ्ग्रहानुसारेण बह्विति तात्पर्योक्तिः । सङ्ग्रहाभिप्रायस्य तथैवाग्रेऽभिधास्यमानत्वादिति भावः ॥ न तत्प्रयुक्तेति ॥ श्रुत्यसिद्धत्वप्रयुक्तो यः प्राबल्याभावः स नास्ति । मुख्यार्थत्यागे हि स स्यात् । इह च पूर्वपक्षे मुख्यार्थस्यैव ग्रहणादिति भावः ॥ भावत्वादिकेति ॥ विमता भावाः प्रलयेऽसन्तो भावत्वादित्यादिका ‘‘असदेवेदमग्र आसी’’दित्यादिश्रुतिसिद्धेत्यर्थः । सङ्गतिः प्रत्युदाहरणरूपेत्यर्थः ॥ इति भाव इति ॥ सुधोक्तेरिति योज्यम् । स्वयं सङ्गत्यंतरमाह ॥ यद्वेति ॥ इति न्यायादिति ॥ आद्यस्य द्वितीयपादे विधिवन्निगदाधिकरणे ‘‘विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्व’’मिति गुणसूत्रोक्तन्यायादित्यर्थः । तत्र हि ‘‘अप्सुयोनिर्वा अश्वोऽप्सुजो वेतसः । वेतसशाखया चावकाभिश्च विकर्षती’’ति । ‘‘आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयती’’त्येवंजातीयकेषु विधित्वमेव । नार्थवादत्वमिति प्राप्ते अप्सुयोनिरश्वः कर्तव्य इत्यादि विधिरशक्यत्वादनर्थकः । तस्मात्स्तुतिः प्रतीयेत शमयित्रीभिरद्भिरश्वस्य वेतसशाखानां च सम्बन्धो यजमानस्य कष्टं शमयतीति । तस्मात्सामान्याद्विध्यसम्भवात्स्तुतिसम्भवाच्चेतरेषु ‘‘ऊर्ग्वा उदुम्बर’’ इत्यादिषु । तथात्वं स्तावकतयार्थवादत्वमित्युक्तम् । तथा चास्यापि तत्तुल्यन्यायत्वात् ‘‘इति न्याया’’दित्युक्तम् ॥ इत्यवान्तरेति ॥ बहिरङ्गशङ्कानिरासानन्तरमन्तरङ्गशङ्कानिरासस्यावसरप्राप्तत्वादवसर सङ्गतिरित्यर्थः । पौनरुक्तयशङ्कां निराह ॥ पृथगिति ॥ अत एवेति ॥ सर्वकर्तृत्वस्य युक्त्यविरोधकथनादेवेत्यर्थः । ‘‘फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्त’’मित्युक्तमित्यर्थः । एतेन ‘‘मुक्तेश्वरयोर्भेद समर्थनं फलाध्यायसङ्गतमतो नैतत्सूत्रार्थ’’ इति टीकोक्तशङ्का निरस्ता ध्येया ।

चन्द्रिकाविवृतिः

अत्र त्वेकाभवन्तीत्यादि ॥ ऐक्ये श्रुतिसिद्धत्वस्य भावात् । तत्प्रयुक्तप्राबल्याभावो न सिद्धान्तरीत्या स्थानैक्यपरत्वे मुख्यार्थहानेरिति योजना ॥ तथा च मुख्यार्थलाभाय स्थानैक्यपरत्वं परित्यज्य स्वरूपैक्यपरत्वमेवाङ्गीकर्तव्यमिति भावः ॥ ननु श्रुत्यनुसारियुक्तिविरोधस्य पूर्वाधिकरण एव परिहृतत्वाद् गतार्थतेत्यत आह ॥ तथा च पूर्वत्रेति ॥ अधिकरणोपाधिरिति ॥ बहुश्रुतिसिद्धयुक्त्यविरोधत्वम् उपाधिरिति भावः ॥ सुधायाः स्वयमधिकरणपूर्वपक्षाणां जगत्कारणत्वाक्षेपविषये अन्तरङ्गक्रमं निमित्तं दर्शयति ॥ यद्वेति ॥ अत एव युक्तयविरोध एव पर्यवसानादेव ॥