पूर्वत्र केवलयुक्तयविरोध उक्तः । अत्र तु दृढयुक्तयविरोध उच्यते
अभिमान्यधिकरणम्
तात्पर्यचन्द्रिका
मृदादिशब्दानामभिमानिदेवतापरत्वसमर्थनम्
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यां ॐ ॥
पूर्वत्र केवलयुक्तयविरोध उक्तः । अत्र तु दृढयुक्तयविरोध उच्यते । तदुक्तमनुव्याख्याने ‘‘दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृश’’ इति । युक्तेर्दार्ढ्यं च न श्रुत्यप्रामाण्यं विनाऽनुपपद्यमानत्वम् । सिद्धान्तदशायामिहाप्यभावात् । पूर्वपक्षदशायां तु पूर्वत्रापि भावात् । किं तु श्रुतिप्रतीतार्थत्यागं विनाऽनुपपद्यमानत्वम् । पूर्वत्र हि कारीर्यादेर्वृष्ट्यादि हेतुत्वरूपप्रतीतार्थात्यागेऽपि विसंवादो वैगुण्यादिनोपपन्नः । इह तु जडस्य मृदादेर्वक्तृत्वादिरूपप्रतीतार्थात्यागे जडत्वादिकमनुपपन्नम् । जडस्य कर्मज्ञानेन्द्रियादिहीनस्य वक्तृत्वकामयितृत्वादेरयोगात् । इन्द्रियाणामपि संवादादिश्रवणात्तेषां चेन्द्रियांतराभावात् । व्याप्तिपक्षधर्मतावत्त्वं दार्ढ्यमिति सुधायामपि श्रुतिप्रतीतार्थाभावेन सह हेतोर्व्याप्त्यादिमत्त्वं विवक्षितम् । न त्वभिप्रेतार्थाभावेन । अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः कारणत्वादिकं न युक्तमुत युक्तमिति चिन्ता । तदर्थं वेदोऽप्रमाणमुत नेति । तदर्थं ‘‘मृदब्रवी’’दित्यादिवेदैकदेशो युक्तिविरुद्ध उत नेति । तदर्थं मृदादिशब्दः किं जडपरः किं वाऽभिमानिचेतनपर इति । तदर्थमभिमन्यमानमृदाद्यनुगतानां विग्रहवतामभिमानिनामनुपलब्धिः किमभावात्किं वाऽन्तर्धानादिति । न च वेदापौरुषेयत्वस्य पूर्वत्र साधितत्वादपौरुषेयस्य चाप्रामाण्यायोगात्पूर्वपक्षानुदय इति वाच्यम् । अपौरुषेयत्वस्य प्रामाण्यं विनेव जडत्वादेर्वक्तृत्वाभावं विनानुपपत्तेर्न वेदप्रामाण्यनिश्चय इति वा पिपीलिकालिपिवदप्रमाणानुकरणशुकादिवाक्यवच्च न पुरुषदोषाभावमात्रेण प्रामाण्यमिति वा युक्तिविरोधादपौरुषेयत्वमेव नेति वेति पूर्वपक्षोदयात् । एवं चास्याधिकरणस्योपाधिमभिदधता ‘‘दृढयुक्ती’’त्यनुव्याख्यानेनास्य पूर्वेण सङ्गतिरगतार्थता चोक्तेति ज्ञेयम् ।
ननु पूर्वत्र कारीर्यादेर्वृष्ट्यादिकं प्रति कारणत्वस्य शक्तिरूपस्यातीन्द्रियत्वान्न तदभावः प्रत्यक्षः । किं तु युक्तिसिद्धः । अत्र तु मृदादीनां वचनक्रियाद्यभावः प्रत्यक्ष इति प्रत्यक्षविरोध एवात्र न तु युक्तिविरोध इति कथं पादसङ्गतिरिति चेन्न । अस्मदाद्यप्रत्यक्षादिकालीनमृदादेरेव वक्तृत्वादिश्रवणात् । न चादिकालीनमृदादेः श्रुत्येकगम्यत्वाद्धर्मिग्राहकश्रुतिबाध इति वाच्यम् । इदानीन्तनमृदादिकारणत्वेनादिकालीनमृदाद्यनुमानात् । परसिद्धमात्रस्य वा पक्षीकरणात् । आदिकालीनमृदादेर्जडत्वं च मृत्त्वादिनाऽनुमेयम् । न चैवं मृत्त्वादिनैवावक्तृत्वाद्यनुमीयतामिति वाच्यम् । वक्तृत्वादिना जडत्वस्येव मृत्त्वादेर्विरोधाप्रतीतेरवक्तृत्वादिना मृत्त्वादेर्व्याप्तेरस्फुटत्वात् । अत एवात्र टीकायां स्फुटव्याप्तिकमस्फुटपक्षधर्मताकं जडत्वं हेतूकृतम् । सुधायां तु स्फुटपक्षधर्मताकमस्फुटव्याप्तिकं मृत्त्वादिकं हेतूकृतम् । सिद्धान्तमाह ॥ सिद्धान्तयदित्यादिना ॥ अयं भावः ।
प्रसिद्धस्य पृथिव्यादेः पक्षत्वे सिद्धसाधनम् ।
देवतायास्तु पक्षत्वे हेत्वसिद्धादिकं भवेत् ॥ १ ॥
न हि प्रसिद्धस्य मृदादेः सिद्धान्तेऽपि वक्तृत्वादिकम् । न च धर्मिग्राहकमानेन वक्तृत्वादिना सिद्धायां देवतायां जडत्वमृत्त्वादिकमस्ति । अभिमानिदेवता तद्विग्रहतदन्तर्धानशक्त्यादिकं, तस्या एव ‘‘मृदब्रवी’’दित्यादौ विवक्षितत्वादिकं चार्थापत्तिसिद्धम् । न च बहुकल्पनातो वेदाप्रामाण्यकल्पनमेव वरमिति वाच्यम् ॥ यतः
प्रमितस्य प्रमात्वस्य सिद्धये बहुकल्पना ।
युक्ता न तु ततो भीत्या प्रमितस्याप्यपह्नवः ॥ १ ॥
वेदस्य प्रामाण्यं हि निर्दोषत्वात्प्रमितम् । किं च भाष्योदाहृतस्मृत्यादि नाऽप्यभिमान्यादिसिद्धिः । न च तत्प्रामाण्ये विवादः । तद्बीजस्य युक्तिविरोधस्य तत्राभावात् । न ह्यभिमान्यादिसत्त्वं जडस्य वक्तृत्ववद्युक्तिविरुद्धम् । ननु ‘‘उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पने’’त्यनुव्याख्यान उक्तत्वादादिकालीनमृदादि वक्तृत्वादौ चोपजीव्यप्रत्यक्षाद्यविरोधस्योक्तत्वाद्युक्तिमात्रस्य च श्रुतितो दुर्बलत्वात्तद्बाधेन प्रसिद्धस्यैव मृदादेर्वक्तृत्वादिकं श्रुत्यर्थोऽस्तु किमर्थान्तरकल्पनयेति चेन्न । जडत्वादियुक्तीनामप्यवक्तृत्वादिकं विनाऽनुपपत्त्या निरवकाशत्वात् । अत एवोक्तमनुव्याख्याने ‘‘दृढयुक्ती’’ति । अभिमानिरूपान्यार्थकल्पनेऽप्यभिमन्यमानगत मृत्त्वादि प्रवृत्तिनिमित्तस्याभिमान्यधीनत्वात् ‘‘तदधीनत्वा’’दिति न्यायेन मृदादिशब्दानामभिमानिषु मृदादिभ्योऽपि मुख्यत्वेनामुख्यार्थत्वाभावाद्युक्तेः श्रुत्यविरोधेन तदबाध्यत्वाच्च ॥
प्रबलैर्बाध्यतायां हि हेतुर्दुर्बलतैव न ।
किन्तु तत्प्रतिकूलत्वविशिष्टाऽत्र च नास्ति सा ॥ १ ॥
महाराजकुमारोऽपि स्वस्वाच्छंद्याविरोधिनः ।
बाधते नैव लोकेऽपि दुर्बलान् भिक्षुकादिकान् ॥ २ ॥
न चात्र युक्तेः श्रौतमुख्यार्थविरोधितारूपा प्रतिकूलतास्ति । मूर्खप्रसिद्धादप्यमुख्यार्थात्तदप्रसिद्धोऽपि प्राज्ञप्रसिद्धो मुख्यार्थः श्रेयान् । प्रयुज्यन्ते हि वेदे बहुषु स्थलेषु तत्तदभिमानिदेवतास्वेव तत्तच्छब्दाः । न च प्रबलस्यापि दुर्बलाबाधेनैव स्वारस्ये सम्भवति तद्बाधकता युक्ता । तदधीनत्वादित्यनेनास्यागतार्थता तु तत्रैवोक्तेति ॥ विग्रहस्य ग्राह्यत्वादिति ॥ अभिमानिनो व्यपदेश इत्येकवचनान्तविग्रहस्येत्यर्थः ॥ न तत्र शक्तिमात्रमिति ॥ तासां सामर्थ्यमिति भाष्येऽप्युत्तरस्मृत्यनुसारेण देवतापि विवक्षितेत्यर्थः । ननु वेदादि प्रामाण्येऽविवादात्तत्त्यागेन देवतादौ योगिप्रत्यक्षोक्तिरयुक्ता । विवादबीजाभावस्योक्तत्वात् । अन्यथा योगिप्रत्यक्षे स्मृतेः प्रमाणीकरणायोगादिति पूर्वत्रारुच्याऽऽह ॥ अथवा विग्रहेति ॥ अत्र पक्षद्वयेऽपि ‘‘विशेषानुगतिभ्या’’मिति हेत्वोः ‘‘न च दर्शनप्रसङ्ग’’ इत्याद्यध्याहृतसाध्यान्वयादरुच्या ‘‘अभिमानिव्यपदेश’’ इति श्रुतसाध्यान्वयेन मतान्तरमाह ॥ अथवा वस्त्वंतरमिति ॥ अनुपलब्धिबाधपरिहाराय सूत्रमिति ॥ योगिभिरप्यनुपलभ्यमानत्वान्नास्त्यभिमानिदेवतेति शङ्कानिरासाय ‘‘दृश्यते चे’’ति सूत्रमित्यर्थः ॥
प्रकाशिका
सङ्गतिटीकादौ युक्तीत्येवोक्तिः पूर्वेणापौनरुक्तयं सङ्गतिं च दर्शयितुं वृत्तवर्तिष्यमाणे वक्ति ॥ पूर्वत्रेति ॥ कैवल्यं नामान्यथोपपत्त्या श्रुतिप्रतीतार्थाप्रमापकत्वम् । सोपानारोहणन्यायेन क्रम इति भावः । भाष्यटीकयोरस्फुटत्वादाह ॥ तदुक्तमिति ॥ सर्वत्रेति ॥ न केवलं ‘‘मृदब्रवी’’दित्यादौ । किं तु सर्वत्रापि वेदवाक्ये दृढयुक्तिविरोधे सति ईदृशो ऽन्यार्थस्वीकारेण विरोधपरिहारे न्यायप्रकारो द्रष्टव्य इत्यर्थः ॥ श्रुतिप्रतीतार्थत्यागं विनेति ॥ अत एव सुधायां ‘‘युक्तिविरोधाः किं प्रत्येकं परिहरणीया’’ इत्यादिना पुनर्युक्तिविरोधपरिहारमाक्षिप्यात्रत्ययुक्तेर् व्याप्त्यादिमत्त्वोपपादनेन निरवकाशतोक्तेति भावः ॥ व्याप्तिपक्षधर्मतेति ॥ प्रमितव्याप्तिपक्षधर्मतावद्युक्ती’’ति सुधावाक्यतात्पर्यानुवादोऽयम् ॥ न त्वभिप्रेतेति ॥ अप्रामाण्येनेत्यर्थः । ‘‘वेदो विषयः । प्रमाणं न वेति संशय’’ इति टीकां फलचिन्तोक्तिपूर्वं व्यनक्ति ॥ अत्र श्रुतीति ॥ युक्तीति ॥ मृन्न वक्त्री जडत्वादित्यादियुक्तीत्यर्थः ॥ विग्रहवतामिति ॥ वचनाद्युपपत्त्यर्थमेतत् । यद्यपि विग्रहादिमद्देवतासत्त्वमात्रेण मृदादिशब्दस्य न तत्परत्वम् । तस्य तात्पर्यनिर्णायकाधीनत्वात् । तथापि वचनादेश्चेतनपरत्वतात्पर्यनिर्णायकस्यात्र व्यक्तत्वाद्बाधपरिहारायाभि मानिसत्त्वासत्त्वोपयुक्तैव चिन्ता प्रदर्शिता ।
तथा चायमर्थः । यद्यभावनिमित्ता तेषामनुपलब्धिस्तदा तेषामभावेन तदभिप्रायेण वचनादेर्नेतुमशक्यत्वाद्युक्तिविरोधेन वेदोऽप्रमाणमिति न तेन जगत्कारणत्वस्यसिद्धिः । अन्यथा तु सिद्धिरिति । ‘‘ननु नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति । मैवम् । व्याप्तिपक्षधर्मतोपेताया युक्तेर्निरवकाशत्वात् । ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्ये’’ति सुधावाक्यं विवृण्वन्नेतदारम्भमाक्षिप्य समाधत्ते ॥ न चेति ॥ निश्चायकत्वाभावेनेत्येतदुपलक्षणमिति भावेनाह ॥ पिपीलिकेति ॥ ‘‘पिपीलिकालिपिश्चापि प्रमाणमविरोधत’’ इत्युक्तेः सापि प्रमाणमेवेत्यनुशयादाह ॥ अप्रमाणेति ॥ ननु तत्रापि मूलपुरुषदोषवत्त्वमस्तीति चेन्न । अनुकरणशब्दस्य शुकोदीरितस्यान्यत्वेन तज्जातीये पुरुषदोषसत्त्वेऽपि तत्र तदभावात् । एतदनुशयाद्वा प्रकारान्तरं युक्तीति ॥ युक्तिविरोधे भ्रांत्यादिमूलत्वावश्यंभावादिति भावः ॥ सङ्गतिरिति ॥ सोपानारोहणरूपाऽऽक्षेपरूपा वेत्यर्थः । ‘‘ननु मृदादिवचनाद्यभिधायकवाक्यस्य प्रत्यक्षविरोध एवे’’त्यादिटीकां व्यनक्ति ॥ नन्विति ॥ युक्तीति ॥ विसंवादरूपयुक्तिसिद्ध इत्यर्थः । तथा च तत्र युक्तिविरोधशङ्का युक्तेति भावः । एतेन टीकायामियं शङ्का पूर्वाधिकरणपूर्वपक्ष एव कुतो न कृतेति चोद्यं निरस्तम् । कारीर्यादेर्वृष्टिहेतुत्वे वाक्यबोध्ये प्रत्यक्षविरोधाप्रसरेण विसंवादरूपयुक्तयैव कारीर्यादेर्वृष्ट्यादिहेतुत्वाभावस्य वाच्यत्वेन युक्तिविरोधस्यैव कारीर्यादिवाक्ये प्रसरादिति । ‘‘तस्मादादिकालीनमृदादिकं पक्ष इति वक्तव्यम् । न च तत्प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्य’’ इत्यादिसुधोक्तशङ्कोत्तरे अत्र टीकायामपि बोध्ये इति भावेन सुधोक्तशङ्कासमाधी व्यनक्ति ॥ न चादिकालीनेति ॥ सुधायां मृत्त्वस्येह टीकायां जडत्वस्य हेतूकरणे तात्पर्यं विवरीतुं शङ्कासमाधी आह ॥ न चैवमिति ॥ अत एवेति ॥ द्वयोस्साध्यत्वादेवेत्यर्थः । टीकायां पूर्ववाद्युक्तेर्दोषोक्तेरस्फुटत्वात्तदनुक्तौ च श्रुत्यप्रामाण्यानिरासादित्यतः ‘‘चेतनपक्षीकारे हेतोरसिद्धे’’रित्यादि सुधोक्तं दूषणं सङ्गृह्याह ॥ अयं भाव इत्यादिना ॥
श्लोकं व्याचष्टे ॥ न हीति ॥ धर्मिग्राहकेत्युक्तम् ॥ तत्कथमित्यतः ‘‘सर्वस्यास्यार्थापत्तितस्सिद्धत्वा’’दित्यादिना सुधायां ‘‘अचेतनानां वचनाद्यदृष्ट्या निर्दोषवाक्यस्याप्रामाण्यादृष्ट्या च तत्कल्पनोपपत्ते’’रिति टीकायां चोक्तमाह ॥ अभिमानीति ॥ आदिपदेन मृदादिशब्दानां तत्र वृत्तिस्तेषामभिमन्यमानव्यापित्वमित्येतद्गृह्यते । अचेतनानां वचनस्य निर्दोषवाक्येऽप्रामाण्यस्य चादर्शनेन तदुभयान्यथानुपपत्तिरूपार्थापत्त्या विग्रहादिमदभिमानिचेतनस्य ‘‘मृदब्रवी’’दित्यादिश्रुत्यर्थत्वेन कल्पनस्यावश्यकत्वात्तेषामभिमन्यमानपृथिव्याद्यव्यापित्वे तदनधिष्ठितदेशवद्देशान्तरावस्थानोपपत्तौ तद्वैयर्थ्येन व्यापित्वे वाच्ये तदनुपलंभबाधपरिहाराय पिशाचादिवदन्तर्धानशक्तयादेः कल्प्यत्वादित्यर्थः । एतेन टीकायां देवतासद्भावेऽपि कुतोऽत्र तद्-व्यपदेशकल्पनेति शङ्कानिवर्तकत्वेनार्थापत्त्युक्तिरुपलक्षणम् । सुधोक्तदिशा उक्त सर्वार्थकल्पकत्वसम्भवादिति सूचितम् । एतेन ‘‘मृदाद्यभिमानिनीनां देवतानामेव तत्र व्यपदेशा’’दिति टीका उपपादिता भवति । टीकायां ‘‘नन्वप्रामाणिकदेवताकल्पनात्तासां च विशिष्टसामर्थ्यकल्पनाद्वरं वेदाप्रामाण्यग्रहणमेव । लाघवा’’दित्याशङ्क्य ‘‘दृश्यते चे’’ति सूत्रोक्तमहत्प्रत्यक्षसिद्धत्वेन समाधिरुक्तः । स तूपलक्षणमिति भावेन वा वक्ष्यमाणदिशा तस्यारुचिग्रस्तत्वाद्वा । परिहारान्तरं विवक्षुरर्थापत्तेरन्यथासिद्धिमाशङ्क्य निराह ॥ न चेति ॥ ‘‘निर्दोषवाक्यस्याप्रामाण्यादृष्ट्या चे’’ति टीकासूचितमेव समाधिमाह ॥ यत इत्यादिना ॥ श्लोकेनान्वयः । प्रमात्वस्य प्रामाण्यस्य । ‘‘तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यत’’ इत्यत्र सुधायां ‘‘उच्यत इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवादिनं दर्शयती’’त्युक्तम् । तद्व्यनक्ति ॥ किञ्चेति ॥ तद्बीजस्येति ॥ पूर्वोक्तरीत्या युक्तिविरोधेतरहेतुकाप्रामाण्याभावमुपेत्य युक्तिविरोधेनैवाप्रामाण्यशङ्कनादत्र च स्मृतौ तदभावात् ॥
युक्तिविरोधविहीनेन स्मृतिवाक्येन साधितम् ।
अभिमान्यादिसत्त्वं तदप्रामाण्यं धुनोति हि ॥ इति समाधेयमिति भावः ॥
न हीति ॥ अनुपलम्भस्तु पिशाचादिवदुपपन्न इति भावः । ‘‘श्रुतियुक्तयोश्श्रुतेरेव प्राबल्या’’दिति टीकोक्तशङ्कां बीजोक्तिपूर्वं सुधारीत्या व्यनक्ति ॥ ननूपजीव्येति ॥ पूर्वाधिकरणानुव्याख्यान इत्यर्थः ॥
उपजीव्यप्रत्यक्षाद्यविरोधस्येति ॥ इदानींतनमृदादिकारणत्वेनादिकालीनमृदाद्यनुमानेऽपि ‘‘मृदब्रवी’’दित्यादिश्रुतिर्न मृदाद्यनुमापकयुक्तिमुपजीव्य प्रवृत्ता । किं त्ववक्तृत्वसाधकजडत्वयुक्तिमेवेत्यर्थः । टीकोक्तं समाधिमुपलक्षणं मत्वा ‘‘व्याप्तिपक्षधर्मतोपेताया युक्तेरप्रामाण्यायोगा’’दिति सुधोक्तं तावदाह ॥ जडत्वादीति ॥ अनुपपत्तेरेव व्याप्तिशब्दार्थत्वेन तर्कताण्डवे व्यवस्थापितत्वादिति भावः । उपजीव्यविरोधे त्वित्येतत्प्राबल्योपलक्षणमिति सुधायामेवोक्तमिति नात्र तस्य गत्युक्तिः । सुधोक्तेर्मूलमाह ॥ अत एवेति ॥ सौत्रतुशब्दसूचितं ‘‘अन्यार्थकल्पने मुख्यार्थलाभा’’दिति टीकोक्तं समाधिं सुधोक्तदिशा विवृणोति ॥ अभिमानीति ॥ अयं च परिहारो युक्तेर्दौर्बल्यमुपेत्येति ध्येयम् ॥ तदबाध्यत्वादिति ॥ भ्रांतिरेव बाध्यते । न तु श्रुत्यर्थ इत्यर्थः । ननु श्रुतिर्दुर्बलां युक्तिमेव बाधतां किमिति तामनुरुंध्यादित्यत आह ॥ प्रबलैरिति ॥ ‘‘अत्र च नास्ति से’’त्येतद्-व्याचष्टे ॥ न चेति ॥ ननु मृदादिशब्दानामचेतनेष्वेव मुख्यतया रूढत्वेन तत्त्यागे कथं न श्रुत्यर्थबाध इत्यतः ‘‘बालरूढिं विनैवापि विद्वद्रूढिसमाश्रया’’दित्यनुव्याख्यानं हृदि कृत्वाऽऽह ॥ मूर्खेति ॥ दुर्गमवाक्यानामक्षरार्थमाह ॥ विग्रहस्येत्यादिना ॥ पक्षद्वयेऽपीति ॥ टीकायां पूर्वमुक्तपक्षद्वयेऽपीत्यर्थः । सूत्रक्रमादिकं टीकायां व्यक्तमिति भावः ॥ छ ॥ अभिमान्यधिकरणम् ॥ ३ ॥
चन्द्रिकाविवृतिः
पूर्वत्रेति ॥ तथा चास्तु पूर्वं केवाफाविसंवादयुक्तेर् वैगुण्यादि-नाऽन्यथासिद्धिः, दृढजडत्वयुक्तेर्नान्यथासिद्धिर्वक्तुं शक्येत्यभिप्रायेणैतदधिकरणप्रवृत्तेरुपजीवसङ्गतिः सूचिता । एतदधिकरणोपाधिरूपदृढयुक्तयविरोधोऽपि सूचित इति ध्येयम् । श्रुत्यप्रामाण्यं विना अनुपपद्यमानत्वरूपं दार्ढ्यं सिद्धान्तदशायां वा पूर्वपक्षदशायां वेति विकल्प्य क्रमेण दूषयति ॥ सिद्धान्तेति ॥ किं तु श्रुतिसिद्धान्तेऽपीति शेषः । पूर्वसङ्गतिमेव स्फुटयति ॥ पूर्वत्र हीति ॥ तेषां चेति ॥ जडेन्द्रियाणामित्यर्थः । ननु व्याप्तिपक्षधर्मतावत्वमेव दार्ढ्यम् इति सुधारीत्या श्रुत्यप्रामाण्यं विना अनुपपद्यमानमेव दार्ढ्यं प्रतीयते । श्रौतार्थाभावेन व्याप्तिपक्षधर्मतावत्वे श्रुतेरप्रमाण्यस्य सिद्धेरित्यत आह ॥ व्याप्तीति ॥ सुधारीत्या पूर्वपक्षानुत्थितिशङ्कासमाधाने दर्शयति ॥ न च वेदेति ॥ स्वयं समाधानद्वयमाह ॥ पिपीािकाािपिवदित्यादिना ॥ अत्र समाधानत्रये उत्तरोत्तरपक्षस्वारस्यं च स्फुटम् ॥ युक्तिसिद्धः विसंवादयुक्तिसिद्धः ॥ धर्मिग्राहके सति आदिकालीनमृदादिग्राहिकया मृदब्रवीदित्यादिरूपया वचनकर्तृकत्वस्यापि सहैव सिद्धेरिति भावः ॥ इदानींतनेति ॥ अनेन कार्यािङ्गेनादि-कालीनमृदनुमानादिति सुधा व्याख्याता भवति ॥ न चैवमिति ॥ जडत्वस्यादिकालींनमृदि विद्यमानत्वज्ञापनार्थं मृत्वािङ्गानुसरणमित्यर्थः विवक्षाविवेकेन सुधाटीकयोः । अन्यथा एकैकमात्र-ग्रहणायोग इत्यभिप्रेत्याह ॥ अत एव टीकायामिति ॥ हेत्वसिध्यादिकमित्यत्रादिशब्देन बाधादिः । प्रसिद्धस्याचेतनस्य ॥ न च धर्मिग्राहकेति ॥ परिदृश्यमानमृदादिकार्येण तत्सजातीयमृदादिकं नानुमातुं शक्यते गोमयादेर्वृश्चिकादिदर्शनादिति भावः ॥ अर्थापत्तिसिद्धिमिति ॥ श्रुतिवचनकर्तृत्वान्यथानुप-पत्तिप्रसूतार्थापत्या सिद्धमित्यर्थः । अर्थापत्तेरेवाप्रयोजकत्वमाशङ्क्य निराकरोति ॥ न चेति ॥ प्रमितस्येति ॥ अपौरुषेयत्वादिपूर्वोक्तरीत्या साधितस्येत्यर्थः । तद्बीजस्य प्रमाण्यविवादबीजस्य । युक्तिमात्रस्यानुपजीव्ययुक्तेः । सुधायां युक्तेरपि निरवकाशत्वादित्यनेन सूचितं समाधानमाह ॥ जडत्वादियुक्तानामिति ॥ टीकोक्तं समाधानमाह ॥ अभिमानिरूपेति ॥ ननु श्रुतेर्भिन्नविषयत्वं कल्पयित्वा जडविषयत्वं स्वीकृत्य युक्तेरविरोधोपपादनं किमर्थं प्रबाश्रुत्या युक्तेरेव दुर्बलत्वात्किं न स्यादित्यत आह ॥ प्रबलैर्बाध्यतायां हीति ॥ स्वस्वाच्छन्द्याविरोधिन इत्यत्र स्वाच्छन्द्यं स्वाधीनत्वं स्वस्वातन्त्र्या-प्रतिकूलानित्यर्थः ॥ ननु कथम् मृदब्रवीदित्यादीनांलोकप्रसिद्धार्थपरित्यागेनाभिमानिदेवतापरत्वस्वीकारो युक्तिविरोधमात्रेणेत्यत आह ॥ मूर्खेति ॥ विवादबीजाभावस्य युक्तिविरोधभावस्य ॥