०४ पूर्वपक्षनिरूपणम्

पूर्वपक्षमाह

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षमाह ॥ न विष्णोरित्यादिना ॥ अयं भावः । न श्रुतिसमन्वयेन विष्णोः कारणत्वं शिवादेः कारणत्वप्रतिपादकशैवादिस्मृतिविरोधात् । न च षोडशिग्रहणाग्रहणवव्द्यवस्थितविकल्पो वा व्रीहियववदव्यवस्थितविकल्पो वा युक्तः । पुंतन्त्रेऽनुष्ठेये विकल्पसंभवेऽपि तदतन्त्रे सिद्धे वस्तुनि तदयोगात् । न हीदमेवमनेवं वा कर्तव्यमितिवदिदमेवमनेवंवा भवतीति संभवति । समुच्चयश्चसापेक्षयोरेव । प्रकृते च श्रुतौ स्मृतौ च निरपेक्षस्यैव विष्णोः शिवस्य च हेतुतोच्यते । ‘‘अजया क्रीणाति हिरण्येन क्रीणाति वाससा क्रीणाति’’ इत्यत्र सोमक्रये प्रत्येकं तृतीयाश्रुत्या निरपेक्षत्वेन प्रतीतानामप्यजादीनां विक्रेत्रानतिरूपद्वारभेदात्सापेक्षाणामेव समुच्चय उक्तः । न च देशकालकार्यभेदादविरोधः । श्रुतौ स्मृतौ च विष्णोः शिवस्य च सदा सर्वत्र सर्वकार्यहेतुत्वोक्तेः । श्रुतौ शिवस्य स्मृतौ च विष्णोः कारणताया निषेधाच्च । न च विरोधाधिकरणन्यायेन स्मृतेरेवाप्रमाण्यम् । वाक्यप्रामाण्यं प्रत्याप्तेर्मूलत्वात् । शैवादिस्मृतीनां च सर्वज्ञत्वादिना प्रसिद्धशिवादिप्रणीतत्वेन समूलत्वात् । श्रुतीनां च पौरुषेयत्वेन निर्मूलत्वात् । समूलानुसारेण च निर्मूलस्य नेयत्वात् । विरोधाधिकरणे तु श्रुतिमूलत्वेनाभिमतायाः सर्ववेष्टनादिस्मृतेः स्पर्शनश्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपमर्थान्तरमुक्तं भाट्टैः । प्राभाकरैस्त्वप्रामाण्यम् । पाशुपतादिस्मृतिस्तु शिवादिप्रत्यक्षमूला ।

एतेन सुन्दोपसुन्दन्यायेन श्रुतिस्मृत्योः परस्परव्याघातादुभयाप्रामाण्यमिति निरस्तम् । स्मृतेः प्रबलत्वादिति । सुधायां तु ‘‘स्मृतयो विस्पष्टवादिन्यः । प्रणेतृव्याख्यानसम्प्रदाययुक्ताश्च । श्रुतयस्त्वस्फुटविक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानंता परिपूर्णवाक्यरूपा नार्थविशेषनिष्ठाः प्रणेतृव्याख्यानसम्प्रदायहीनाश्च न स्वतोऽर्थबोधकाः । किन्तु सहजसिद्धेन योगर्द्धिलब्धेन वा प्रत्यक्षेणाशेषार्थदर्शिनामाप्तानां वचनानुसारेण नेया इति न स्मृतिबाधिकाः । स्वातन्त्र्यदशायामबोधकत्वात् । पारतन्त्र्यदशायां तूपजीव्यविरोधा’’दित्युक्तम् । तत्र यद्यप्युपक्रमादिभिरेव तात्पर्यनिर्णय इति समन्वयसूत्र एवोक्तम् । शाखानामनन्तत्वेऽप्यविरोध इति तु ‘‘गतिसामान्या’’दित्यत्रोक्तम् । पदार्थनिर्णयस्तु व्याकरणनिरुक्तादिभिरेव सुलभः । साकाङ्क्षवाक्यपूरणं चाध्याहारादिनेति लोकत एव सिद्धम् । तथापि समूलस्मृतिविरोधे निर्मूलश्रुतिप्रामाण्यायोगात्स्मृत्यनुसारेण श्रुतिर्नेयेति श्रुतिप्रामाण्येन पूर्वः पक्षः । अत एव सूत्रे शङ्काभागे प्रसङ्गशब्दः । भाष्ये च ‘‘अप्रामाण्यमेव स्या’’दिति स्याच्छब्दः । ‘‘श्रुतेरप्रामाण्याख्यदोषप्रसङ्गा’’दिति टीका च । येषां तु कणादादीनां मते पौरुषेयत्वप्रामाण्ये त इह न पूर्वपक्षिणः । स्वतः सर्वज्ञेशकृता श्रुतिः कणादादिस्मृत्यनुसारेण नेयेत्यत्र बीजाभावात् । अत एवेह टीकायां सुधायां च कणादादिशब्दाप्रयोगः । यद्वा कणादादिस्मृतेः स्पष्टार्थत्वं सयुक्तिकत्वं च तत्र बीजमिति तेऽपि पूर्वपक्षिणः । अस्मिंश्च पक्षे सुधास्थादिशब्दः कणादादिपरः । बौद्धादिमते तु आप्तप्रणीतबौद्धाद्यागमविरोधादाप्ताप्रणीतो वेदोऽप्रमाणमित्येव पूर्वः पक्षः । अत एव सुधायां ‘‘पाशुपतसाङ्ख्यबौद्धार्हतादी’’ति बौद्धादिशब्दः । सौत्रस्य शङ्काभागस्य त्वेतट्टीकायामिव साङ्ख्यादिस्मृतेरनवकाशत्वेन श्रुतेरप्रामाण्याख्यदोषप्रसङ्ग इति नार्थः । नापि परिहारभागस्य पाञ्चरात्रादिस्मृतेरनवकाशत्वेन शैवादिस्मृतेरप्रामाण्याख्यदोषप्रसङ्गादित्यर्थः । किं तूभयत्रापि तासां स्मृतीनामेवानवकाशत्वेनाप्रामाण्यदोषप्रसङ्ग इत्यर्थ इति सुधायां तत्वप्रदीपे चोक्तम् । तत्र साङ्ख्यशैवादिस्मृतिभिरेव पूर्वपक्षश्चतुर्विधविरोधात्मको न तु बौद्धार्हतादिस्मृतिभिरिति ज्ञेयम् । अत्र चाप्रामाण्येन पूर्वपक्षे सर्वथा श्रुतेः स्मृतिविरोधः । प्रामाण्येन पूर्वपक्षे तु सिद्धान्त्यभिमते श्रुत्यर्थे । ततो नाध्यायासङ्गतिः ।

प्रकाशिका

अप्रतीतेराह ॥ पूर्वपक्षमाहेति ॥ ‘‘न च विरोधेऽप्यप्रामाण्याभावः । वस्तुनि विकल्पप्रसङ्गा’’दिति टीकां व्यनक्ति ॥ व्यवस्थितेति ॥ व्यक्तमेतदधिकरणशरीरं समन्वयसूत्रे । फलभूयस्त्वाय ग्रहणानुष्ठानमन्यथा तु नेति व्यवस्थितत्वं ध्येयम् ॥ व्रीहीति ॥ द्वादशस्य तृतीये पादे ‘‘एकार्थास्तु विकल्पेरन्समुच्चये त्वावृत्तिस्स्यात्प्रधानस्ये’’ति चतुर्थेऽधिकरणे ‘‘व्रीहिभिर्यजेत यवैर्यजेते’’त्यादिषु सर्वाङ्गोपसंहारिप्रयोगवचनानुग्रहायाष्टदोषनिदानविकल्पपरिहाराय च समुच्चय इति प्राप्ते एकार्थानामेकस्मिन्नुपकारेऽन्योन्यनिरपेक्षतया विनियुक्तानां विकल्प इत्युक्तं फलविशेषाद्यभावादव्यवस्थितत्वम् । तथेत्यर्थः ॥ अजयेति ॥ विवृतमेतदधिकरणशरीरं ‘‘पत्यादिशब्देभ्य’’ इति सूत्रे । आनतिरावर्जनम् । एतेन टीकोपलक्षणं समुच्चयनिरासस्येत्युक्तं भवति । ‘‘न च देशकाले’’त्यादि टीकार्थमाह ॥ न चेति ॥ यद्यप्यत्र श्रुत्यादौ ‘‘स इदं सर्वमसृजते’’ति विष्ण्वादेस्सर्वकरणत्वोक्तिस्तत्तत्कालसृज्याभिप्राया सर्वस्रष्टृत्वयोग्यताभिप्राया वा । अन्यथाऽऽगामिन्यसृजतेत्यादेरयोगात् । श्रुतौ शिवस्य स्मृतौ विष्णोः कारणतानिषेधस्तु यथोदितहोमादिनिन्दाऽनुदितहोमादिस्तुतिपरा तथा विष्ण्वादेः कारणताविधिपर इति सुवचम् । तथापि स्मृतेर्वक्ष्यमाणदिशा प्राबल्यात्तदनुरोधेन श्रुतिर्नेयेत्यत्र तात्पर्यम् । अत एव सुधायां विकल्पादिपक्षमनुक्त्वा स्मृत्या श्रुतिबाधपूर्वपक्ष एवोक्तः । यद्येवं तर्हि शैवादिस्मृतिविरोधान्न श्रुतिः कारणत्वे मानमित्युक्त्वा न च विरोधाधिकरणेत्यादिग्रन्थ एव वक्तव्यः । मध्ये विकल्पशङ्कापरिहारौ व्यर्थाविति चेत्तुल्यबलतामुपेत्य टीकायां सन्न्यायरत्नावल्यां च विकल्पादेराशङ्कनात्तदनुरोधेनात्रापि तथोक्तः । व्यक्तमेतदाकर एव शास्त्रयोनिसूत्रे ।

यद्वा कणादादिमते श्रुतेरप्याप्तिमूलत्वेन द्वयोस्तुल्यबलत्वाच्छत्यादावन्यकारणता निषेधस्यान्यकारणताविधिपरत्वे लक्षणापत्तेः ‘‘असृजते’’त्यादेर्भूतार्थे तात्पर्याभावादिति कणादादिमतानुरोधेन विकल्पावतारः । तन्मते स्मृत्यनुसारेण श्रुतेर्नयने बीजं वक्ष्यते । ‘‘न च वाच्य’’मित्यादिटीकार्थमाह ॥ न च विरोधेति ॥ आद्यस्य तृतीये पादे ‘‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमान’’मिति द्वितीयेऽधिकरणे ‘‘औदुम्बरीं स्पृष्ट्वोद्गाये’’दिति श्रुतिविरुद्धा ‘‘औदुम्बरी सर्वा वेष्टयितव्ये’’ति स्मृतिर्मानमुत नेति विशये मूलश्रुत्यनुमानसम्भवेन व्रीहियववद्विकल्पेनोभयं मानमिति प्राप्ते शीघ्रप्रवृत्तप्रत्यक्षश्रुत्या स्मृतिमूलश्रुत्यनुमानप्रतिबन्धादप्रमाणं विरुद्धस्मृतिजातमित्युक्तम् । तन्न्यायेनेत्यर्थः । स्मृतिप्राबल्येन तद्वैषम्योक्तिपरटीकां व्यनक्ति ॥ वाक्येति ॥ ‘‘क्वचिच्छति विरोधेन स्मृतेरर्थान्तरकल्पनादी’’ति टीकां व्यनक्ति ॥ विरोधाधिकरणे त्विति ॥ आदिपदार्थोक्तिः प्राभाकरैरिति ॥ तत्र प्रतीतानुपपत्तिं निरसितुमनुवदति ॥ सुधायां त्विति ॥ स्वातन्त्र्येत्यादि त्वभिप्रायविवरणम् ॥ पूर्वपक्षिणो भाव इति ॥ एतदनुसारेण श्रुत्यर्थस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति सिद्धान्तभागस्यापि यदि स्मृत्यनुसारेण श्रौतोपक्रमादिकं नेयमित्युच्यते तर्हि स्मृतावप्युपक्रमादिनैवार्थनिर्णयात्तत्रापि स्मृत्यंतरानुसरणेऽनवस्था स्यात् । यदि तु स्मृतावुपक्रमादिकं स्वत एव निर्णायकं तर्हि श्रुतावपि तथा स्यादित्याशय ऊह्य इति भावः । ननु श्रौतोपक्रमादिकं नेयमित्ययुक्तम् । कैश्चिच्छतेरपौरुषेयत्वानभ्युपगमेनाप्तोक्ततयोभयोस्तु ल्यबलत्वात् । कैश्चित्प्रामाण्यस्यैवानभ्युपगमादित्यतो विवेकमाह ॥ अत्र चेति ॥ तत्वप्रदीपे स्पष्टं कणादादिशब्दप्रयोगात्तदनुरोधेनाह ॥ यद्वेति ॥ सुधास्थेति ॥ ‘‘पाशुपतबौद्धार्हतादी’’त्यत्रत्यादिशब्द इत्यर्थः । अस्मिंश्च पक्षे टीकाविरोधं निराह ॥ सौत्रस्येति ॥ एवं च सूत्रस्य वृत्त्यंतरं व्यवस्थितमित्युक्तं भवति । ‘‘तस्याश्चतुस्स्वरूपत्वा’’दित्येतदपि व्यवस्थितमित्याह ॥ तत्रेति ॥ तथा च न प्राक्तनग्रन्थविरोध इति भावः ॥ तत इति ॥ पक्षद्वयेऽप्यप्रामाण्येन पूर्वपक्षस्य प्राप्तत्वादित्यर्थः ।

चन्द्रिकाविवृतिः

व्यवस्थितविकल्प इति ॥ फाविशेषकामनातदभावग्रहणाग्रहणे व्यवस्थिते । विष्णुर्न कारणमिति वाक्यानुसारेण प्रथमदृष्टान्तः । शिवः कारणमिति वाक्यानुसारेण द्वितीयः । ननु निरपेक्षाणामपि अजहिरण्यादीनां यथाक्रमे समुच्चयः । एवं विष्णुशिवयोरप्येकस्मिन् जगति समुच्चयोऽस्त्वित्यत आह ॥ अजया क्राणातीति ॥ विक्रेत्रानतिरूपद्वारेति ॥ विक्रेता यः पुरुषस् तद्वशीकरणरूपद्वारेत्यर्थः । एवं च विक्रेतुर् अत्यानतिसम्पादनार्थं साधनानां परस्परापेक्षाऽस्तीति भावः । सर्ववेष्टनपाशुपतादिस्मृतेः स्मृत्यपेक्षया श्रुत्यपेक्षया च प्राबल्ये हेतुं कथयति ॥ वाक्यप्रामाण्यं प्रतीति ॥ श्रुतिमत्वेनेति ॥ अनेन विरोधाधिकरणस्मृतिः श्रुत्युपजीव्येति भावः ॥ प्रणेतृव्याख्यानेति ॥ तत्तत्स्मृतिप्रणेता यः पुरुषस्तेन शिष्यान् प्रति कृतं यद्य्वाख्यानं तन्म•सम्प्रदाययुक्ताः स्मृतयः । श्रुतेस्तु प्रणेतैव नास्तीति भावः ।

स्वातन्त्र्यदशायां स्मृत्यादिसहकार्यनपेक्षदशायम् । अस्फुटेत्येतद्विघटयति ॥ यद्यप्युपक्रमादिभिरेवेति ॥ एवमुत्तरत्रापि श्रुतिविशेषणत्वेन पूर्वोपात्तधर्मविघटनपरतया योज्यम् । अत एव श्रुतिप्रामाण्य-स्याभिमतत्वादेव स्मृत्यनवकाशे न दोषप्रसङ्गः श्रुतेरप्रामाण्यादन्यदोषप्रसङ्गः । अप्रामाण्यवादिनामेव पूर्वपक्षित्वे तु अप्रामाण्यस्य सिद्धत्वात्प्रसङ्गशब्दो व्यर्थ इति भावः ॥ बीजाभावादिति ॥ श्रुतिस्मृत्योरुभयोरपि सर्वज्ञप्रणीतत्वेन प्रामाण्यस्य सिद्धत्वादिति पूर्वपक्षिण आशयः । ननु यदा बौद्धार्हतादिस्मृतिभिः पूर्वपक्षस्तदा तैः श्रुत्यादिप्रामाण्यानङ्गीकारात् । तदीयस्मृत्या च स्मृतियुक्तयोः संवादित्वेनाग्रहणात् स्मृतिविरोधः । न चतुर्भिर्विरोध इत्यत आह ॥ तत्र साङ्ख्येति ॥ ननु प्रामाण्याङ्गीकारेणापि पूर्वपक्षे विरोधाप्रसक्तयाऽविरोधाध्यायासङ्गतिरित्यत आह ॥ अत्र चाप्रामाण्येनेति ॥