पूर्वेणोक्ते समन्वयेऽनेन विरोधः परिह्रियत ..
प्रथमोऽध्यायः समाप्तः
अथ द्वितीयाध्यायः
प्रथमः पादः
स्मृत्यधिकरणम्
तात्पर्यचन्द्रिका
द्वितीयाध्यायपादविषयनिरूपणम्
पूर्वेणोक्ते समन्वयेऽनेन विरोधः परिह्रियत इत्यध्याययोर्हेतुहेतुमद्भाव लक्षणा सङ्गतिः । पूर्वो ह्येतन्निरसनीयविरोधशङ्काविषयभूतसमन्वयोपस्थापकतयाऽस्य हेतुः । अयं वा विरोधनिरासेन समन्वयस्थैर्यसाधकत्वात्तस्य हेतुः । तथा च समन्वयाक्षेपसमाधानार्थत्वादस्य तदनन्तरता युक्ता ॥
युक्तिभिः समयैः शुद्धवेदैर्युक्तयुपबृंहितैः ।
वेदैश्चाप्यविरोधोऽत्र क्रमात्पादेषु कीर्त्यते ॥ १ ॥
अत्राद्यपादे युक्तयविरोधः । द्वितीयेऽलौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसन्दर्भरूपसमयाविरोधः । तृतीये केवलश्रुत्यविरोधः । चतुर्थे सयुक्तिकश्रुत्यविरोधः । इति विरोधिनां युक्तयादीनां चातुर्विध्यात्तन्निरूप्याविरोधोऽपि चतुर्विध इति तत्प्रतिपादकपादभेदः । यद्यपि तृतीयेऽपि क्वचिद्विरोधिन्यः श्रुतयः सयुक्तिकाः । तथापि चतुर्थे विरोधिन्यः श्रुतयः श्रुत्याद्युक्तयुक्तिसहिता इति भेदः । तत्क्रमस्तु
पदात्पादिषु भग्नेषु गजाश्वादिप्रवृत्तिवत् ।
युक्तयादिषु निरस्तेषु समयादिप्रवृत्तितः ॥ १ ॥
अनुमानमात्रस्य कामचारित्वेनाऽतिदुर्बलत्वात् समयानां च वेदवदकामचारित्वेऽप्यति दार्ढ्येन बहुजनपरिगृहीतत्वेऽपि पौरुषेयतया शङ्कितदोषत्वेन दुर्बलत्वात् श्रुतिमात्रस्य च समयाद्बलवत्त्वेऽपि सोपपत्तिकश्रुतिवत्प्रबलत्वाभावात् पदात्पादिभङ्गानन्तरमेवाश्वादिवदनुमानादिनिरासानन्तरमेव विरोधिसमयादेः प्रवृत्तेः पादक्रमः । यद्वा
बहिरङ्गैर्विरोधोहि खडित्येव प्रतीयते ।
अन्तरङ्गैः स्वगौत्रैस्तु विलम्बेन प्रतीयते ॥ १ ॥
अनुमानस्याशब्दत्वेन विजातीयतयाऽतिबहिरङ्गत्वम् । समयानान्तु शब्दत्वेऽपि श्रुतित्वाभावाद्बहिरङ्गत्वम् । श्रुतेस्तु सिद्धान्त्यभिमतसयुक्तिकश्रुत्याऽन्तरङ्गत्वम् । सयुक्तिकश्रुतेस्तु तयाऽत्यन्तांतरङ्गत्वम् । लोके चातिबहिरङ्गादिविरोधज्ञानानन्तरमेव बहिरङ्गादिविरोधधीरिति निरसनीयविरोधधीक्रमात्तत्क्रमः ।
यद्वा विरोधादेर्युक्तयधीनत्वात्, मीमांसाया युक्तिपुरस्कारेण प्रवृत्तेः, समयानामपि युक्तिमूलत्वात्, वेदोऽप्रमाणमाप्ताप्रणीतत्वादिति साक्षात्कृत्स्नवेदाप्रामाण्यसाधकत्वात्, एकस्य समयिनः समयान्तर इव युक्तावनादराभावाच्च युक्तिविरोधः समयविरोधादपि प्रबलः । समयानां तु अनादिकालतोऽविच्छेदेन बहुजनपरिग्रहेण वेदतुल्यत्वेऽपि वेदवन्निर्मूलत्वाभावादत्यन्तभ्रमहेतुतया तत्वज्ञानस्यातिविरोधित्वात् । तथा श्रुतिविरोधवत्समयविरोधस्य प्रातीतिकमात्रत्वाभावाच्च श्रुतिविरोधात्समयविरोधः प्रबलः । एवं च महामल्लभङ्गन्यायेन पादक्रमः । इममेव च क्रममभिप्रेत्य टीकायां ‘‘तत्र सर्वविरोधानां युक्तिमूलत्वेने’’ त्यादि । द्वितीये पादे च ‘‘इतर विरोधत्रयेऽनादिकालानुवृत्तसमयविरोधस्यैव प्रबलत्वा’’ दित्युक्तम् । अयं च महामल्लभङ्गन्यायः पादत्रय एवाभिप्रेतः । चतुर्थपादस्य तु युक्तिश्रुत्युभया विरोधपरत्वाद्वा मुमुक्षूणामन्ते जिज्ञास्याध्यात्मविषयत्वाद्वांऽत्यतेति द्रष्टव्यम् । यद्वा उक्तरीत्या युक्तेः प्रबलत्वादादौ तदविरोधः । अथ ‘‘इतरेषां चानुपलब्धे’’ रित्याद्यपादोक्तहेतुप्रपञ्चनरूपत्वात्समयाविरोधः । अनन्तरं यदि ‘‘विप्रतिषेधाच्चे’’ति द्वितीयान्त्यन्यायेन श्रुति विरोधात्परस्परविरोधाच्च मतान्तराप्रामाण्यं तर्हि तत एव परस्परविरोधाच्छतीनामप्रामाण्यमिति शङ्कोदयाच्छत्यविरोधः । पश्चाद्यदि ‘‘यावद्विकारं तु विभागो लोकव’’दिति युक्तयनुगृहीतयाऽऽकाशादेरुत्पत्तिश्रुत्याऽनुत्पत्ति श्रुतिर्गौणी तर्ह्युपादानाऽभावादियुक्तिसहितया प्रमाणानामनुत्पत्त्यादिश्रुत्या तदनित्यत्वादिश्रुतिर्गौणीति शङ्कोदयात्सयुक्तिकश्रुत्यविरोधः । इति पादक्रमः । तदुक्तमनुव्याख्याने ‘‘उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते । चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृते’’रिति ॥
प्रकाशिका
आम्रायोदितकल्याणगुणं श्रीरमणं भजे ।
यं द्रष्टुं नेशतेऽपाङ्गवीक्षयापि कुबुद्धयः ॥ १ ॥
‘‘पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं दर्शयती’’त्यादिटीकार्थं सङ्गृह्याह ॥ पूर्वेणेति ॥ टीकायां ‘‘उक्तेऽर्थ’’ इति भाष्यानुरोधात्समन्वयलब्धार्थपर्यन्तोपन्यासेऽपि ‘‘उक्तस्समन्वयस्साक्षादविरोधोऽत्र साध्यत’’ इत्यनुभाष्योक्तदिशा समन्वय इत्येवोक्तम् । हरिरेव जगज्जन्मादिकर्तेत्याद्यर्थे शक्तितात्पर्यावधारणं समन्वयः प्रागुपक्रमादिन्यायैरुपपादितः । तस्मिन् विरोधो निरस्यत इत्यर्थः । तथा च विरोधपरिहाररूपैकार्थ्यादेकवाक्यत्वं स्वस्मिन्नस्योक्तं भवति । यथोक्तं ‘‘अर्थैकत्वादेकं वाक्य’’मिति । तां सङ्गतिं सुधोक्तरीत्या द्वेधा व्यनक्ति ॥ पूर्वो हीति ॥ एतेन सङ्गतिपरटीकापि द्वेधा व्याख्याता ज्ञेया । एतेनैव ‘‘न ह्यनुपन्यस्ते समन्वये विरोधस्स्फुरती’’त्यादिना सन्न्यायरत्नावल्यां पूर्वस्य हेतुत्वमुक्तम् । तत्वप्रदीपे च ‘‘यावन्न विरोधपरिहारस्तावन्न पुरुषार्थपर्यवसायित्वं शास्त्रस्ये’’त्यादिनाऽस्य हेतुत्वमुक्तमिति तयोर्विरोध इति निरस्तम् । सुधारीत्योभयोरनुमतत्वादिति । विरोधरूपैकार्थ्ये नास्याध्यायस्यैकवाक्यत्वे पादभेदः किं निमित्त इत्यतोऽवान्तरप्रमेयभेदादिति भावेन ‘‘उक्तेऽर्थे विरोधश्चतुर्विधस्स्फुरती’’त्यादिटीकार्थं सङ्गृह्याह ॥ युक्तिभिरिति ॥ तृतीयान्तानामविरोध इत्यत्रोपसर्जनीभूतविरोधपदेनान्वय इति भावेन श्लोकं व्याचष्टे ॥ अत्राद्यपाद इति ॥ तन्निरूप्येति ॥ तन्निरूप्यविरोधप्रतियोगिक इत्यर्थः । एतेन कथमभावे चातुर्विध्यमिति निरस्तम् । उक्तं च सुधायां ‘‘चतुर्विधा हि विरोधिन्यो युक्तयादयः । तदुपधानाद्विरोधोऽपि चतुर्विधोऽभिधीयते । ततस्तत्प्रतियोगिकोऽभावोऽपि चतुर्विध’’ इति । अंत्योपांत्ययोर्भेदमाक्षिप्य तत्रत्यटीकोक्तमेव समाधिमाह ॥ यद्यपीति ॥ एवं पादभेदमुक्त्वा ‘‘सर्वविरोधानां युक्तिमूलत्वेने’’ति टीकोपलक्षणमिति भावेन चतुर्धा तत्क्रममाह ॥ पदात्पादिष्वित्यादिना ॥ इति पादक्रम इत्यन्तेन ॥ श्लोकस्थपञ्चम्यंतस्य ‘‘पादक्रमस्त्विति साध्येनान्वय इति भावेन श्लोकं व्याचष्टे ॥ अनुमानेति ॥ अकामचारित्वेऽपीति ॥ नियतैकार्थप्रतिपादकत्वेऽपीत्यर्थः ॥ अतिदार्ढ्येनेति ॥ वेदवदित्यत्राप्यनुषज्यते ॥ बलवत्त्वेऽपीति ॥ अपौरुषेयतया नाशंकितदोषत्वेनेति भावः ॥ अश्वादिवदिति ॥ अश्वादेरिव समयादेः प्रवृत्तेरित्यर्थः । अनतिप्रयत्नसाध्यतन्निरासक्रमात्सोपानारोहणन्यायेनायं क्रम इत्यर्थः ।
निरसनीयविरोधप्रतीतिक्रमात्पादक्रम इत्याह ॥ यद्वेति ॥ तथा प्रतीतौ बीजं वदन् श्लोकं व्याचष्टे ॥ अनुमानस्येति ॥ टीकोक्तपक्षं विवृणोति ॥ यद्वा विरोधादेरिति ॥ युक्ताविति ॥ चार्वाकस्य तत्रानादरेऽपि तदन्यसर्वसमयिभिस्तत्र प्रामाण्याङ्गीकारादिति भावः । यद्वा समयान्तर इव युक्तौ तेनाप्यनादरो न कृतः । सम्भावनाहेतुत्वेन युक्तीनां स्वग्रन्थेऽप्युपन्यासादिति भावः ॥ अविच्छेदेनेति ॥ प्रवाहत इति भावः ॥ निर्मूलत्वेति ॥ तदीयप्रत्यक्षादिमूलत्वादिति भावः ॥ प्रबल इति ॥ श्रुतिविरोधस्तु प्रातीतिकत्वात्ततो दुर्बल इति तदानन्तरिक इत्यर्थः ॥ इममेवेति ॥ प्राचीनपक्षद्वयं तु सूत्रभाष्यादौ तत्र तत्र युक्तयादेर्दुबलत्वाद्युक्तया सूचितमिति भावः ॥ हेत्विति ॥ फलव्यभिचारित्वरूपेत्यर्थः । अत एव तत्र भाष्यं ‘‘इतरेषां चानुपलब्धेरिति सामान्यतो निराकरण’’मित्यादीति भावः ॥ युक्तीति ॥ वियदुत्पत्तिमद् विभक्तत्वादल्पशक्तित्वाद्घटवदित्यादियुक्तयनुगृहीतया ‘‘आकाशस्सम्भूत’’ इत्यादिश्रुत्या ‘‘अनादिर्वा अयमाकाश’’ इति श्रुतिर्गौणीत्यर्थः ॥ क्रम इति ॥ निरसनीयशङ्काक्रमात्क्रम इत्यर्थः । भाष्यानुभाष्ययोरैकार्थ्यं दर्शयितुं टीकोक्तेर्मूलमाह ॥ तदुक्तमिति ॥ ‘‘पूर्वेणोक्त’’ इत्यादिनोक्तं प्रमेयमित्यर्थः । चतुर्विधस्येति निर्धारणे षष्ठी । यौक्तः युक्तिनिरूप्यविरोधप्रतियोगिक इत्यर्थः । तथापि प्रथमपादेऽपि । स्मृतेर् अविरोधस्साध्यत इत्यर्थः । अत्र श्लोके त्रिपादीमात्रोपयोगेऽपि तुरीयस्तूपयोक्ष्यत इति भावेनोपात्तः । यद्यप्यत्राध्यायाद्यभिधेयमध्याययोस्सङ्गतिश्चेत्येतावदेव भाति । न तु पादक्रमे बीजमपि । न च तन्मात्र एवोदाहरणम् । तथात्वे क्रमोक्तेः प्रागेवोदाहरणत्वप्रसङ्गात् । तथापि चतुर्विधविरोधमध्ये आदौ यौक्त इत्युक्तया क्रमोऽपि सूचित इति भावः ।
श्रीसत्यानन्दतीर्थविरचिता चन्द्रिकाविवृतिः
द्वितीयाध्यायस्य प्रथमः पादः
चन्द्रिकाविवृतिः
स्मृत्यधिकरणं
हेतुहेतुमद्भावमुपपादयति ॥ पूर्वो हीति ॥ समन्वयानुक्तौ विषयाभावेन विरोधशङ्कैव नोदेतीति भावः । नन्वस्य अध्यायस्य समन्वयस्थितिहेतुत्त्वे समन्वयाध्यायात्पूर्वं निवेशः स्यादुत्पत्तिहेतुवत्स्थितिहेतोरप्युपजीव्यत्वादित्यत आह ॥ तथा चेति ॥ आक्षेपविषयत्वेन पूर्वसमन्वयनिरूपणमावश्यकम् । अन्यथा कुत्राक्षेपः स्यादिति भावः ॥ केवाश्रुतिविरोध इति ॥ श्रुत्यविरोधित्वस्य न्यायोपेतश्रुत्यविरोधेऽपि सत्वात्केवोति विशेषणम् । तृतीये क्वचिदिति । अंशो नाना पृथिव्यधिकारेत्यनिर्णयाय पूर्वपक्षेऽधिकरणद्वयमात्रव्यावृत्यर्थं क्वचिदिति विशेषणम् । पादप्रवृत्तिक्रमे दौर्बल्यं क्रमनिमित्तमाह ॥ पत्त्यादिष्विति ॥ अकामचारत्वेऽपीत्यनेन युक्तयपेक्षयाप्राबल्यं किञ्चिद्वेदसाम्यं च सूचितम् । प्रवृत्तिक्रमेण पादक्रमं दर्शयित्वा उपस्थितक्रमेणापि पादक्रमं दर्शयति ॥ यद्वा बहिरङ्गैरिति ॥ टीकोक्तं प्राबल्यक्रमं व्युत्पादयितुं सर्वापेक्षया युक्तेः प्राबल्यमनेकयुक्तिभिरुपपादयति ॥ यद्वा विरोधादेरिति ॥ आदिपदेनाविरोधस्वसिद्धान्तस्थापनादीनां ग्रहणं साक्षान्नतु विरोधादिद्वारा प्रातीतिकमात्रेपि ॥ श्रुतिविरोधो हि आपातप्रतीतार्थावाम्बनेन प्रवृत्त इति भावः ॥ पादक्रमः ॥ पादत्रय प्रवृत्तिक्रमः ॥ इतरविरोधत्रयेति ॥ यद्यपि समयविरोधस्योक्तरीत्या श्रुतिविरोधापेक्षया प्राबल्येऽपि न्यायोपेतश्रुतितो न प्राबल्यम् । यावता न्यायापेक्षयैव समयो दुरबलः । तथापि सा युक्तिर्निर्मूलश्रुत्युक्तैवेति कृत्वा अप्रयोजिकेति भावः ॥ युक्तिश्रुत्युभयेति ॥ पूर्वपादैर्युक्तिश्रुतिविरोधे क्रमेण परिहृते उभयविरोधोऽपि एकस्मिन्नेव पादे परिह्रियत इति भावः । अन्यथा द्वितीये परपक्षदुष्टत्वोक्तिः स्वपक्षविरोधनिरासपरत्वाभावे । तत्रापि द्वितीयपादेऽपि ॥