अन्ये तु एतेन प्रधानकारणवादनिरासन्यायेन
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु एतेन प्रधानकारणवादनिरासन्यायेन । परमाण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता इति सूत्रार्थ इत्याहुः । तन्न । प्रधानपरमाण्वादिकारणवादानां समयपादे निरसिष्यमाणत्वात् । तेषां श्रौतत्वमिह निरस्यत इति चेन्न । येषां श्रौतकारणवाक्यानां ब्रह्मपरत्वं निर्णीतं तेष्वण्वादिपरत्वशङ्कानुदयात् । येषां तु तन्न निर्णीतं तेषां ब्रह्मपरत्वमेवातिदेष्टव्यम् । तेन विनाऽण्वादिपरत्वनिरासासिद्धेः । किं चाध्यायोपसंहारस्थेनैतेनेति शब्देनाध्यायादावुपक्रान्तस्य मध्ये चोक्तस्य समन्वयन्यायस्य परामर्शसम्भवेऽनेवंविधस्य प्रधाननिरासन्यायस्य परामर्शो न युक्तः । सर्व इत्यस्याप्यध्यायार्थत्वेन प्रकृतसमन्वेतव्यशब्दजातीयपरत्वे सम्भवति नाण्वादिवादपरता युक्ता । व्याख्याता इत्यस्य निरस्ता इत्यर्थश्च न स्वरसः । यच्चोक्तमन्यैर् अभ्यासोऽध्यायसमाप्तिप्रदर्शनार्थ इति । तन्न । पादभेदस्येव प्रमेयवैजात्यादेवाध्यायभेदस्य सुज्ञानत्वात् । अन्यथा पादान्तेऽपि स स्यात् ।
केचित्तु ब्रह्मकाण्ड एकैकविद्याविशेषादेव मुमुक्षोरिष्टसिद्धेर्ज्ञातव्यान्तरं नास्तीति दर्शयितुं तत्तद्विद्यावसाने ‘‘न च पुनरावर्तते न च पुनरावर्तत’’ इत्यादिरभ्यासः । कर्मकाण्डे त्वेकैकमात्रेण रागिण इष्टासिद्धिरिति दर्शयितुं तत्तत्कर्मावसाने तदभावः । तथा च निर्णेतव्यानुरोधाद् ब्रह्ममीमांसायामध्यायांतेऽभ्यासः कर्ममीमांसायां तु नेत्याहुः । तन्न । तथात्वे प्रत्यधिकरणमेकैकविद्यानिर्णायकत्वेनाभ्यासा पातात् । आद्याध्यायेऽभ्यासेन ज्ञातव्यान्तरं नेति सूचितत्वेन द्वितीयाध्यायानां वैयर्थ्यापाताच्च । छान्दोग्याद्युपनिषत्समाप्तावभ्यासेऽपि बृहदारण्यकादिसमाप्तौ तदभावाच्च । ‘‘सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेती’’त्यादौ पश्वादिफलकविद्यावसानेऽप्यभ्यासदर्शनाच्च । कर्मकाण्डेऽप्यृग्वेदब्राह्मणादौ प्रत्यध्यायमन्तेऽभ्यासदर्शनाच्च । यच्चोक्तम् अर्थसमाप्त्याऽनाध्याय समाप्तिनिश्चयः । काष्ठैः स्थाल्यामित्यादौ वाक्यासमाप्तौ वाक्यार्थस्ये वाध्यायासमाप्तावध्यायार्थस्याप्यसमाप्तेः । तस्मादभ्यासेनैवाध्यायभेदो ज्ञेय इति । तन्न । पादान्तेऽप्यभ्यासापत्तेरुक्तत्वात् । काष्ठैः स्थाल्यामितिवदिह साकाङ्क्षत्वाभावाच्च । पादचतुष्टयन्यायागोचरस्य समन्वेतव्यशब्दस्याभावाच्च । समन्वयाविरोधयोर्भेदस्य स्फुटत्वाच्च । अन्यथा अर्थैकत्वनयेऽर्थभेदाभेदाभ्यां वाक्यभेदाभेदोक्तिरयुक्ता स्यात् । तस्मात् ‘‘अवधारणार्थं सर्वस्ये’’ति भाष्योदाहृतस्मृत्युक्तमेव द्विरुक्तेः प्रयोजनम् । अत्र चाध्याये पादचतुष्टयेन यथाक्रमम् ।
नामानि लिङ्गान्यपि चेतरत्र प्रसिद्धियुक्तानि तथोभयत्र ।
प्रसिद्धिभांज्यन्यपदार्थ एव प्रसिद्धियुक्तानि समन्वितानि ।
तत्राप्यन्यत्रैव प्रसिद्धेषु वाक्यस्यान्यत्रावान्तरतात्पर्ये सत्येव ‘‘ब्रह्मण्यपि तदधीनत्वा’’दिति न्यायेन प्रवृत्तिनिमित्तानुरोधेन वा ‘‘ज्योतिरुपक्रमा’’दिति न्यायेन श्रुत्युक्तयोगेन वा पदसमन्वयः । वाक्यान्वयादिति न्यायेन ब्रह्मपरवाक्यैकवाक्यतारूपवाक्यसमन्वयो वा । उभयत्रप्रसिद्धेष्वन्यत्रप्रसिद्धेषु च तत्तद्वाक्यस्यापि ब्रह्मैकपरत्वम् । तत्राप्युभयत्रप्रसिद्धेषु द्युभ्वाद्यायतनादिशब्देषु वाक्यान्तरे ब्रह्मपरत्वेऽपि विषयवाक्ये तत्परत्वं नेति प्राप्ते तन्निरासः । अन्यत्रप्रसिद्धेषु तु क्वापि ब्रह्मपरत्वं नेति प्राप्ते तन्निरासः । एवं च यथा कामिनियोज्यसमभिव्याहारेण स्थायिकार्थस्य लिङर्थत्वे निश्चिते लोके क्रियाकार्ये प्रथमव्युत्पन्नेऽपि लक्षणा, यथा वा ‘‘सुखं स्वर्गपदास्पद’’मिति श्रुतेरलौकिकसुखस्य स्वर्गपदार्थत्वे निश्चिते लोके चन्दनादौ प्रथमव्युत्पन्नेऽपि लक्षणा, यथा वा सिंहस्य सिंहशब्दार्थत्वे निश्चिते चित्रलिखितसिंहे प्रथमव्युत्पन्नेऽपि लक्षणा, तथोक्तरीत्या चरमवैदिकव्युत्पत्तितो ब्रह्मणो मुख्यार्थत्वे निश्चिते प्रथमव्युत्पन्नोऽपि लौकिकार्थो न तथा मुख्यः । तदुक्तमनुव्याख्याने
‘‘विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद्यत्र सव्यर्थः पूर्वारोहो भ्रमो यथा’’ ॥ इति ।
तस्माद्
अपर्यायानन्तशब्दैर्यौगिकैर्गुणवाचकैः ।
वाच्यत्वाद्ब्रह्मणः सिद्धा समस्तगुणपूर्णता ॥ १ ॥
प्रकाशिका
अन्ये त्विति ॥ छान्दोग्ये षष्ठेऽध्याये श्वेतकेतूद्दालकसंवादे श्रुतं ‘‘न्यग्रोधफलमत आहरेति । इदं भगवति भिन्धीति । भिन्नं भगव इति । किमत्र पश्यसीति । अण्व्य इवेमाधाना भगव इति । आसामङ्गैकां भिन्धीति । भिन्ना भगव इति । किमत्र पश्यसीति ॥ न किंचन भगव इति । तं होवाच यं वै सौम्यैतमणिमानं न निभालयसे अस्य सोम्यैषोऽणिम्न एव महान्न्यग्रोधस्तिष्ठती’’ति । तत्र ‘‘अण्व्य’’ इति परमाणूनां ‘‘न किञ्चने’’त्युक्तया शून्यादीनां कारणत्वप्रतीतेर्न ब्रह्म जगदुपादानमिति प्राप्ते एकविज्ञानेन सर्वविज्ञानादेः परमाण्वादिकारणत्वपक्षेऽनुपपत्तेः ‘‘अण्व्य’’ इत्यादेश्च सूक्ष्मत्वादिपरत्वेनोपपत्तेर्ब्रह्मैवोपादानमिति सिद्धान्तितम् । तदुक्तं कल्पतरौ
मृदादयो हि दृष्टान्ताः प्रतिज्ञामनुरुन्धते ।
धानास्तामुपरुन्धाना भक्तिमार्गं प्रपेदिरे ॥ इति ।
तत्र सूत्रार्थमनूद्य निराह ॥ एतेनेति ॥ ननु तत्र समयप्राप्ततयाऽत्र तु श्रुतिप्राप्ततयेत्याशङ्कते ॥ तेषामिति ॥ अधिकरणप्रमेयं निरस्य सूत्रार्थं प्रत्याचष्टे ॥ किञ्चेति ॥ सर्व इत्यस्येति ॥ एतेन यत्कैश्चिदुक्तम् एतेन पादचतुष्टयोक्तन्यायकलापेन । सर्वे जगत्कारणत्वपरा वाक्यविशेषा ब्रह्मप्रतिपादनपरा व्याख्याता इत्यर्थ इति । तन्निरस्तम् । सर्व इत्यस्य तादृशशब्दजातीयपरत्वस्यैव मन्मतरीत्या न्याय्यत्वात् । कारणवाक्यपरत्वे सर्वाणीत्युक्तेरेव स्वरसत्वाच्च । आचार्योक्तमभ्यासकृत्यमग्रे विवक्षुः परोक्तं तावदनूद्य निराह ॥ यच्चेति ॥ मतान्तरे सूत्रार्थमुक्तरीत्या दूषितप्रायमिति मत्वा द्विरुक्तिकृत्यमेव तदुक्तमनूद्य निराह ॥ केचित्त्विति ॥ बृहदारण्यकेति ॥ तथा च निर्णेतव्यानुसरणेऽभ्यासाभावप्रसङ्ग इति भावः । यदपि कर्मकाण्ड इत्यादि तदपि नेत्याह ॥ सन्धीयत इति ॥ ‘‘अध्यायसमाप्तेरर्थभेदेनैव ज्ञातुं शक्यत्वा’’ दिति टीकां समर्थयितुमाह ॥ यच्चोक्तमिति ॥ असमाप्तेरिति ॥ तथा चान्योन्याश्रयान्निर्णयदर्शनं दुश्शकमापद्यत इति भावः । दृष्टान्तवैषम्यमाह ॥ काष्ठैरिति ॥ अर्थसमाप्तिज्ञानमध्यायसमाप्तिज्ञानं विना सुकरमित्याह ॥ पादेति ॥ अर्थैकत्वनय इति ॥ द्वितीयस्याद्यपादे ‘‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या’’दित्यधिकरणे ‘‘देवस्य त्वा सवितुः प्रसव’’ इति वाक्यमुदाहृत्य यावदेकप्रयोजनं विभागे च साकाङ्क्षं पदजातं तावदेकवाक्यम् । ततोऽन्यद्वाक्यान्तरम् । अत्र च सर्वाणि पदानि निर्वापप्रकाशनार्थानि विभागे च साकाङ्क्षाणीति ‘‘निर्वपामी’’त्यन्तमेकं वाक्यमित्युक्तम् । अन्यथा तत्राप्यन्योन्याश्रयस्स्यादित्यर्थः । तर्हि कोऽर्थस्तस्येत्यत आह ॥ तस्मादिति ॥ पादचतुष्टयार्थं सङ्गृह्य बुद्ध्यारोहार्थमाह ॥ अत्र चेति ॥ पादेष्ववान्तरप्रमेयमप्याह ॥ तत्रापीति ॥ वाक्यैकवाक्यतेति ॥ यथा प्रयाजादिवाक्यानां क्रत्वपेक्षितोपकाराधायकप्रयाजादिबोधकतया क्रतुवाक्यैकवाक्यता तथा ‘‘विविदिषंति यज्ञेन दानेने’’त्यादेरन्तःकरणशुद्धिद्वारा ब्रह्मज्ञानाङ्गकर्मादिबोधकतया ब्रह्मपरवाक्यैकवाक्यतारूपेत्यर्थः । विवृतश्चैतत्प्रकारस्तत्वनिर्णयटीका(कां) सिद्धार्थेषु व्युत्पत्त्युक्तिप्रस्तावे । ननु ब्रह्मपरत्वं मुख्यवृत्त्याऽथामुख्यवृत्त्या । नाद्यः । अन्यत्र गृहीतप्रथमव्युत्पत्तेर्बलवत्तया त्यागायोगात् । नांत्यः । ‘‘पूर्णाशेषगुणात्मक’’ इत्यनुव्याख्यानोपसंहृताध्यायार्थानुपपत्तिप्रसङ्गादित्यत आद्यपक्षमुपेत्य तत्रोक्तदोषं दृष्टान्तोक्तयोद्धरति ॥ एवं चेति ॥ प्राभाकरमते हि ‘‘स्वर्गकामो यजेते’’त्यादौ स्वर्गकामं नियोज्यं प्रति लिङ्शब्देन क्रियाकार्यतया बोधयितुमशक्या । कामी हि काम्यादन्यत्काम्या व्यवहितं साधनमेव कार्यतयाऽवैति । न तु व्यवहितसाधनम् । क्रिया चास्थायित्वेन काम्यव्यवहितत्वान्न कामिनियोज्यान्वययोग्येति फलपर्यंतस्थाय्यपूर्वमेव लिङा कार्यत्वेन बोध्यमिति स्थायिकार्यस्य लिङर्थत्वे निश्चितेऽपि चैत्र जलमाहरेत्यादौ लौकिक आहरणादिक्रियारूपकार्ये प्रथमतो गृहीतामपि व्युत्पत्तिं त्यक्त्वा लिङस्तत्र लक्षणोपेता । भट्टमते चाह ॥ यथा वेति ॥
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥ इति श्रुतेरित्यर्थः ।
यथा वा सिंहस्येति लौकिको दृष्टान्तः ॥ न तथेति ॥ परममुख्यः । समाकर्षादित्यत्र तथा समर्थनादिति भावः ॥ तदुक्तमिति ॥ चतुर्थपादे । पूर्वं बुद्ध्युपारूढत्वं बाधकाभावे स्वीकारस्य कारणम् । यत्र सा विपरीतप्रमा भवेत् तत्र पूर्वारोहो व्यर्थः । स्वीकारे कारणं न भवतीत्यर्थः ॥ भ्रमो यथेति ॥ प्रसिद्धशुक्तिकारजतभ्रमो यथेत्यर्थः । पादार्थानभिधायाध्यायार्थमुपसंहरति ॥ तस्मादिति ॥ यौगिकैरिति ॥ रूढत्वे गुणासिद्धेरिति भावः ।
चन्द्रिकाबिन्दुः
तेषां परमाण्वादिवादानां शङ्कानुदयादिति । तथा च तेषु वाक्येषु प्रधानकारणतानिरासकन्यायातिदेशो व्यर्थ इति भावः ॥ तेन विनेति ॥ ब्रह्मपरत्वातिदेशं विना प्रधानपरत्वनिरासकातिदेशमात्रेण परमाण्वादिपरत्वनिरासासिद्धेरित्यर्थः । अन्यथा पादान्तरेऽप्यभ्यासः स्यादित्यर्थः ॥ स इति ॥ उपनिषत्सु मध्ये विद्यावसानेऽभ्यासः । तन्निर्णायकत्वादत्राप्यभ्यास इति भावः । आद्याध्याये उपनिषद्गताद्याध्याये । अध्यायभेदो ज्ञेय इति । तेन च तदर्थसमाप्तिरपि ज्ञायत इति भावः ॥ पादचतुष्टयेति ॥ त्वद्रीत्येति शेषः । अन्यथा वाक्यसमाप्त्यैव वाक्यार्थसमाप्त्यवगमे । अध्यायादिप्रतिपाद्यार्थशेषं दर्शयति ॥ अत्र चेत्यादिना ॥ समन्वयाध्यायेन न ब्रह्मणः सर्वशब्दवाच्यत्वसिद्धिरित्यन्येषां मतम् । तद् दूषयितुमनुवदति ॥ अन्यत्र त्विति ॥
पाण्डुरङ्गि
ननु समयपादे समयप्राप्तानां कारणवादानां निरासो ऽत्र श्रुतिप्राप्तानामिति न पौनरुक्तयमिति शङ्कते ॥ तेषामिति ॥ अनेवं विधस्येति ॥ अध्यायादावनुपक्रान्तस्य मध्ये चानुक्तस्येत्यर्थः । भाष्यटीकयोरुक्तमभ्यासस्याध्यायावधारणार्थत्वमुपपादयितुं परोक्तं पक्षमनूद्य दूषयति ॥ यच्चेत्यादिना ॥ अन्यथेति ॥ प्रमेयवैजात्यस्याध्यायभेदज्ञापकाभावे । सो ऽभ्यासः ॥ द्वितीयाध्यायानामिति ॥ उपनिषदीति शेषः । ननु चाभ्यासोऽध्यायसमाप्तिप्रदर्शनार्थ एवास्थेयः । न चात्रोक्तं प्रमेयवैजात्यादेवाध्यायभेदः सुज्ञान इतीति । तदनुपपन्नमिति भावेन परेषां मतमुत्थापयति ॥ यच्चेति ॥ अध्यायभेदो ज्ञेय इति ॥ न च तदर्थपरिसमाप्तिरिति ज्ञायत इति भावः ॥ पादचतुष्टयेति ॥ त्वद्रीत्येति शेषः । अन्यथा वाक्यसमाप्त्यैव वाक्यार्थसमाप्त्यवगमे । उपसंहारव्याजेन पादचतुष्टयार्थं सङ्गृह्याह ॥ अत्र चेति ॥ पूर्वं प्रतिपादितमप्यन्यत्रप्रसिद्धोभयत्र प्रसिद्धान्यत्रैवप्रसिद्धानां भेदं शिष्यावधानाय पुनः स्मारयति ॥ तत्रापीति ॥ नन्विन्द्रादि शब्दानामन्यत्र व्युत्पत्तेर्गृहीतत्वाद्ब्रह्मश्रुतितल्लिङ्गतत्प्रकरणादि भिर्ब्रह्मपरतायाः प्रथमं गृहीतव्युत्पत्तित्यागः स्यात् । स चायुक्तः । ततश्च कथं ब्रह्मपरतेत्यत आह ॥ एवं चेति ॥ कामी चासौ नियोज्यश्चेति विग्रहः ॥ प्रथमव्युत्पन्न इति ॥ क्रियार्थ इति योज्यम् । उत्तर ग्रन्थोपक्षेपायाह ॥ तस्मादिति ॥