यत्तूक्तमुभाभ्याम्
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
यत्तूक्तमुभाभ्याम् । न केवलं ब्रह्म जगतः कर्तृ । किं तु प्रकृतिश्च । उपादानमपि । एवं हि ‘‘येनाश्रुतं श्रुतं भवती’’त्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः ‘‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्या’’दिति दृष्टान्तस्य चानुपरोधो भवतीत्याद्यसूत्रार्थ इति । तन्न । समन्वयस्य प्रधानाशाब्दत्वस्य चेहानुक्तेरध्याये पादे चासङ्गतेः । साङ्ख्याभिमतप्रधान एतत्पादीयाद्याधिकरणत्रयेण निरस्ते तर्हि जगन्निरुपादानं स्यादिति शङ्कानिरासार्थमस्य त्रयानन्तर्यस्यैव युक्तत्वेन ‘‘जगद्वाचित्वाद् वाक्यान्वया’’दिति समन्वयपरानेकाधिकरणव्यवधानायोगाच्च । अस्य सूत्रस्य प्रकृतिशब्दसमन्वयपरत्वत्यागेन प्रकृतित्वव्युत्पादकत्वे ‘‘आकाशस्तल्लिङ्गा’’ दित्यादेरप्याकाशत्वादि व्युत्पादनपरत्वापाताच्च । एकविज्ञानेन सर्वविज्ञानादेरारम्भणाधिकरणे निरसिष्यमाणत्वाच्च । यच्चोक्तं निमित्तत्वे सत्युपादानत्वे सौत्रो हेतुरिति तन्न । उक्ताभ्यां प्रतिज्ञादृष्टान्ताभ्यामुपादानत्वस्य सिद्धावपि निमित्तत्वस्यासिद्धेः ।
ननु यदि ब्रह्म कर्त्रपि न स्यात्तदाऽन्यः कर्ता स्यात् । तथा च ब्रह्मज्ञानेनान्यस्य कर्तुरज्ञानात्प्रतिज्ञा न स्यादिति चेन्न । दृष्टान्तानुसारेण प्रतिज्ञावाक्यस्य कार्यपरत्वेन ब्रह्मज्ञानेन कारणान्तराज्ञानेऽपि प्रतिज्ञोपपत्तेः । किञ्च अनादित्वेनाब्रह्मकार्याणां प्रागभावाविद्यादीनां ब्रह्माभेदाभावेऽप्येकविज्ञानेन सर्वविज्ञानवदुपादानकर्त्रभेदाभावेऽपि तत्किं न स्यात् । न चाविद्यादिकं प्रत्यधिष्ठानत्वरूपमुपादानत्वमस्तीति वाच्यम् । एवं हि कल्पितस्य कर्तुरपि कार्यान्तर्गतत्वात्कार्यमकर्तृकमेव स्यात् । न त्वभिन्नकर्त्रुपादानकम् । न च प्रागभावादिवत्कर्तुरुपादानेन धर्मिसत्तासमानसत्ताकभेदसद्भावेऽपि पारमार्थिकभेदाभावमात्रेणाभिन्ननिमित्तकता । तदा हि गगनादि वद्धटादिकमप्यभिन्ननिमित्तोपादानकं स्यात् । मृत्कुलालयोरपि पारमार्थिकभेदाभावात् । तथा च घटादौ कर्त्रुपादानभेदं स्वीकृत्य गगनादौ तयोरभेदाय प्राक् सृष्टेरद्वितीयमित्यादिश्रुत्या ब्रह्मान्यहेत्वभावव्युत्पादनं व्यर्थं स्यात् । किं च कर्तृकारकस्येव कालादिरूपाणामधिकरणादिकारकाणामपि ब्रह्माभिन्नत्व एकविज्ञानेन सर्वविज्ञानयोगात् ‘‘सदेव सोम्येदमग्र आसी’’दिति कार्योत्पत्तेः प्राग्ब्रह्म वच्छतकालाद्यपि कर्तृवद्ब्रह्माभिन्नं स्यात् ।
प्रकाशिका
यत्तूक्तमुभाभ्यामिति ॥ ब्रह्म किं निमित्तमात्रमुतोपादानमपीति संशये ‘‘स ईक्षांचक्रे सप्राणमसृजते’’तीक्षापूर्वककर्तृत्वात्तस्येश्वरत्वप्रसिद्ध्या सर्वलोकनियंतृत्वान्निर्गन्धरसत्वादिना ब्रह्मणः पृथिव्यादिजगतश्च विसदृशत्वाद्यथाक्रमं कुलालराजाभावा इव घटादिकं प्रति ब्रह्म नोपादानम् । अपि तु निमित्तमेव । यतो वेत्यादिश्रुतयस्तु निमित्तत्वमात्रपराः । एकविज्ञानेन सर्वविज्ञानं च प्राधान्याद्यभिप्रायेण गौणम् । तदुक्तं भामत्याम्
ईक्षापूर्वककर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्हिचित् ॥ इति ।
केषाञ्चित्तु परिणामित्वापरिणामित्वयोश्चेतनत्वाचेतनत्वयोः प्रेर्यत्वप्रेरकत्वयोश्चैकस्मिन् व्याहतत्वादयोग्यं निमित्तोपादानयोरैक्यमिति ब्रह्म निमित्तमेवेति प्राप्ते तन्निरासकतया मतद्वयेऽपि सूत्रार्थमनुवदति ॥ नेति ॥ एवं हीति ॥ उपादानत्वे हीत्यर्थः । एकविज्ञानेन सर्वविज्ञानं चोपादानभाव एव युज्यते । तयोरैक्यात् । उपादानोपादेयदृष्टान्तमहिम्ना चोपादानमिति गम्यते । अन्यथा तद्द्वयमुपरुध्येत । ‘‘न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यत’’ इति भामत्युक्तरीत्या मुख्यार्थतयैव प्रतिज्ञाया नेयत्वादित्यर्थः । इयांस्तु भेदः । परमत उपादानत्वं नाम विवर्ताधिष्ठानत्वम् । यथोक्तं भामत्यां परिणामादित्यत्र ‘‘इयं चोपादानपरिणामादिभाषा न विकाराभिप्राया । अपि तु यथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्य’’मिति । केषाञ्चित्तूपादानशरीरकतया । यथोक्तं तद्भाष्ये ‘‘सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं ब्रह्म कदाचिद्विभक्तनामरूपं कदाचिदविभक्तनामरूप’’मित्यादि । ‘‘अत्र ब्रह्मणः परिणामित्वोक्तिरसङ्गतैव भवती’’त्यादिटीकां विवृण्वन्नाह ॥ समन्वयस्येति ॥ क्रमेणान्वयः । पादे प्रासङ्गिकसङ्गतिमाशङ्क्य निराह ॥ साङ्ख्येति ॥ जगदिति ॥ पररीत्यैतत् ।
ननूक्तं कल्पतरौ ‘‘निर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमानस्य कालातीतत्वमस्तीत्यत्र समन्वयावसानेऽलिखदिदमिती’’ति चेन्न । वेदान्तानां ब्रह्मोपादानत्वे तात्पर्यस्यातः पूर्वमनिर्णयात् । निर्णये वास्यानारम्भप्रसङ्गात् । अत्रैव निर्णये त्रयानन्तर्यस्य वा जन्मादि सूत्रानन्तर्यस्य वा न्याय्यत्वात् । युक्तिविरोधपरिहारस्य युक्तिपाद एव कर्तव्यत्वाच्च । युक्तिविरोधेनोपादानत्वं नेति शङ्कायां वेदान्तानां ब्रह्मोपादानत्वे तात्पर्यनिर्णयायोगेन तैर्युक्तेर्बाधोक्तययोगाच्च । मीमांसानारम्भापाताच्चेति । नन्वथापि साङ्ख्येन प्रधानस्यैव जगदुपादानत्वमीश्वरस्य तु तदनुग्राहकत्वमेवेत्युपेतम् । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम् । तदीयमुपादानत्वमपि ब्रह्मण एवेति वक्तुमिदमत्रारभ्यते । उक्तं च श्रीभाष्ये ‘‘एवं निरीश्वरसाङ्ख्ये निरस्ते सेश्वरसाङ्ख्यः प्रत्यवतिष्ठत’’ इति । श्रुतप्रकाशे च ‘‘पूर्वत्राधिकरणत्रिकद्वयेन विकल्पेन नियमेन च प्रधानकारणत्वे क्रमेण निरस्ते समुच्चयेन कारणत्वमत्र निरस्यत इती’’ति चेन्न । ‘‘अस्य समन्वयपादेऽकर्तव्यत्वादन्यत्रा भावादिति समयपादे करिष्यमाणत्वाच्चे’’ति सुधोक्तदूषणं ध्येयम् । सूत्रार्थं निराह ॥ अस्येति ॥ यथा ‘‘हलोऽनन्तराः संयोगः । मुखनासिकावचनोऽनुनासिक’’ इत्यादौ संयोगादिशब्दानां संज्ञापरत्वं प्रकरणबलात् । तथेहापि समन्वयप्रकरणबलात्प्रकृतिरित्यपि तत्समन्वयपरमेव । अन्यथोपक्रमेऽपि तथात्वं न स्यादित्यर्थः ॥ आरम्भणेति ॥ ‘‘तदनन्यत्वमारम्भणशब्दादिभ्य’’ इत्यत्र युक्तिपादे ॥ यच्चोक्तमिति ॥ उभाभ्यामिति वर्तते । ‘‘अधिष्ठात्रंतराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्य’’ इत्यादिना परभाष्ये ‘‘न च ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेवे’’त्यादिना भामत्यां चाभिधानात् ‘‘येनाश्रुतं श्रुतं भवति येनादेष्ट्राधिष्ठात्राश्रुतेनाश्रुतमपि श्रुतं भवतीति निमित्तोपादान योरैक्यं प्रतीयत’’ इत्यादिना केषाञ्चिद्भाष्ये चोक्तेरिति भावः । तदुक्तप्रकारमाशङ्कते ॥ नन्विति ॥ प्रतिज्ञोपपत्तेरिति ॥ ब्रह्मज्ञानेन तत्कार्यसर्वज्ञानसम्भवादिति भावः । परमते दोषान्तरं वक्तुमाह ॥ किं चेति ॥ अविद्यादिप्रत्यपि पारिभाषिकमुपादानत्वमाशङ्क्याह ॥ न चेति ॥ धर्मीति ॥ तन्मते तस्य व्यावहारिकत्वादिति भावः । निमित्तकता जगत इति वाच्यमिति शेषः । तदेवोपपादयति ॥ मृदिति ॥ प्राक् सृष्टेरिति ॥ परभाष्ये हि ‘‘प्रागुक्तोत्पत्तेरेकमेवाद्वितीय मित्यवधारणा’’दित्यादिनोपपादनाद्ब्रह्मणोऽन्यस्याभावावेदनेन ब्रह्मैवोपादानं निमित्तं चेति व्युत्पादितम् । तदयुक्तमित्यर्थः । ब्रह्माभिन्नं स्यादिति ॥ न चेष्टापत्तिः । अग्र इत्याधारत्वानुपपत्तेरिति भावः ।
पाण्डुरङ्गि
अन्यस्य कर्तुरिति ॥ अन्यस्य कर्तुर्ब्रह्मकार्यत्वेन ब्रह्मज्ञानेन तदभावादिति भावः । किं च कर्त्रुपादानयोर्भिन्नत्वेन तस्य ब्रह्माकार्यत्वेन ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञाऽसिद्ध्यापत्त्या कर्त्रुपादानयोरभेदे अविद्यादेरप्यनादित्वेन ब्रह्माकार्यत्वेन ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञानुपपत्त्याऽविद्यादेरपि ब्रह्माभेदः स्यादित्याह ॥ किञ्चेति ॥ नन्वविद्यादेरनादित्वेन ब्रह्मणि परिणामरूपब्रह्मकार्यत्वाभावेऽपि तद्विवर्तत्वरूपब्रह्मकार्यत्वेन ब्रह्मज्ञानेनाविद्याज्ञानसम्भवेन न तयोरभेद इत्याशङ्कते ॥ न चाविद्यादिकं प्रतीति ॥ कारणीभूतस्याप्यविद्यादेरप्यध्यस्तत्वरूपकार्यत्वेन ब्रह्मज्ञानेन तज्ज्ञाने कर्तृत्वादिविशिष्टस्य कर्तुरप्यध्यस्तत्वरूपकार्यत्वस्यैव सत्त्वेन कर्तृत्वाभावापत्त्या न प्रपञ्चस्याभिन्न निमित्तोपादानकत्वमित्याह ॥ एवं हीति ॥ नन्वविद्याप्रागभावादेरध्यस्तत्वरूपकार्यत्वसत्त्वेऽपि कर्तृत्वोपयुक्तस्य धर्मिसमानसत्ताकभेदस्य सत्त्वेन कर्तृत्वं सम्भवत्येव । न चैवं प्रपञ्चस्य भिन्ननिमित्तोपादानकत्वापत्त्याऽभिन्ननिमित्तोपादानत्वं न सम्भवतीति शङ्क्यम् । अभिन्ननिमित्तोपादानकत्वं हि न निमित्तोपादानयोरभेदो विवक्षितः । येनोक्तदोषः स्यात् । किं नाम निमित्तोपादानयोर्भेदाभाव एव । तथा च कर्त्रुपादानयोर्धर्मिसमानसत्ताकभेदसत्त्वेऽपि पारमार्थिकभेदाभावेन निमित्तोपादानयोर्भेदाभावरूपस्याभिन्न निमित्तोपादानत्वस्याक्षतेरित्याशयवानाशङ्कते ॥ न च प्रागभावादिवदिति ॥