अन्ये तु
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु ‘‘असद्वा इदमग्र आसी’’दित्यत्रासत्कारणत्वेनोच्यत इति प्राप्ते ‘‘अस्ति ब्रह्मेति चेद्वेदे’’ति पूर्वप्रकृतं ब्रह्मैव ‘‘असद्वा’’ इत्यत्र समाकृष्यत इति ‘‘समाकर्षा’’दिति सूत्रार्थः । इदं च सूत्रं ‘‘कारणत्वेने’’त्यधिकरणशेष इत्याहुः । तन्न । तथात्वेऽस्य सूत्रस्य ब्रह्मण्यसच्छब्दसमन्वयसाधकत्वेन समन्वयपरत्रिपाद्यामेव सङ्गतत्वेन प्रधानाशाब्दत्वनिरासके चतुर्थपादे विगाननिरासके ‘‘कारणत्वेने’’ त्यधिकरणे चासङ्गतेः । असद्वाक्यस्य ‘‘सदेव सौम्ये’’ति वाक्येन विगानमपि समाकर्षसूत्रेऽर्थान्निरस्तं चेत्तर्हि ‘‘आकाशादेव समुत्पद्यन्त’’ इत्यादिवाक्यानां ‘‘यतो वा इमानी’’त्यादि वाक्यैर्विगानमपि ‘‘आकाशस्तल्लिङ्गा’’दित्यादिसूत्रेष्वर्थान्निरस्तमिति तेषामपि समन्वयपरत्वं न स्यात् । यच्चोक्तमुभाभ्यां ‘‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वेदितव्य’’ इति कौषीतकि ब्राह्मणे वेदितव्यत्वेनोक्तो जीवः स्यात् । ‘‘यस्य चैतत्कर्मे’’ति धर्माधर्माख्यजीवलिङ्गात् । मुख्यप्राणो वा । उत्तरवाक्ये ‘‘प्राण एवैकधा भवती’’ति प्राणशब्दादेरिति प्राप्ते ‘‘एतत्कर्मे’’त्यत्रैतच्छब्दस्य प्रत्यक्षादिसिद्धजगद्वाचित्वात्कर्मशब्दस्य च क्रियत इति व्युत्पत्त्या क्रियमाणवाचित्वाज्जगत्कर्तृत्वस्य च जीवादावयोगाद्ब्रह्मैवेति सिद्धान्त इति । तन्न । अतीतपादत्रये समन्वयमेतत्पादीयानुमानिकाद्यधिकरणत्रये च प्रधानस्याशाब्दत्वं ‘‘कारणत्वेने’’त्यधिकरणे श्रुतीनामविगानं चोक्त्वा पुनरिह समन्वयोक्तेरसङ्गतत्वात् । अस्माकं रीत्या ‘‘समाकर्षा’’दित्यत्रान्वितानां शब्दानामेवात्रापि सूत्रेऽन्वयसम्भवएतच्छब्दस्येत्यध्याहारायोगाच्च । यच्चोक्तमुभाभ्याम् इह जीवोक्तिर्ब्रह्मप्रतिपत्त्यर्थेति ‘‘अन्यार्थं तु जैमिनि’’रिति सूत्रार्थः । ‘‘जगद्वाचित्वा’’ दित्यारभ्यैतदन्तं सूत्रत्रयमेकमधिकरणमिति । तन्न । ‘‘यस्य चैतत्कर्मे’’त्यत्र सिद्धान्ते जीवोक्तेरभावेन तस्यान्यार्थत्वोक्तययोगात् । मतान्तरस्याभावेन जैमिनिपदवैयर्थ्याच्च । आश्मरथ्यौडुलोमिकाशकृत्स्नमतानां विकल्पप्रतीतेर्मतचतुष्टयप्रतिपादकसूत्राणां वैश्वानराधिकरणस्थानां ‘‘अभिव्यक्ते’’रित्यादिसूत्राणामिवैकाधिकरणत्वस्यैव न्याय्यत्वाच्च । यच्चोक्तमुभाभ्यां ‘‘आत्मा वा ओ द्रष्टव्य’’ इत्यादिकं जीवपरम् । ‘‘न वा ओ पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय सर्वं प्रियं भवती’’त्यादि पूर्ववाक्ये प्रिययुक्तस्य भोक्तुर्जीवस्योपक्रमादिति प्राप्ते ब्रह्मपरमिदम् । कुतः । वाक्यान्वयात् । न हि ‘‘आत्मनो वा ओ दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदित’’मित्येकविज्ञानेन सर्वविज्ञानादिवाक्यं जीवपक्षेऽन्वेतीति सिद्धान्त इति । तन्न । समन्वेतव्यविशेषानुक्तयाऽस्य पूर्वशेषत्वस्यैव स्वरसत्वात् । यच्चोक्तं परैः । ब्रह्मपरे द्रष्टव्यादिवाक्ये जीवोपक्रमो जीवब्रह्माभेदाभिप्रायेण । तत्र च मतत्रयम् । जीवो ब्रह्मविकारतया भिन्नाभिन्नः । अभिन्नत्वं चैकविज्ञानेन सर्वविज्ञान प्रतिज्ञासिद्धेर्लिङ्गम् । न हि जीवस्य ब्रह्मणात्यंतभेदे तज्ज्ञानेन जीवज्ञानमित्याश्मरथ्यमतम् । संसारे भिन्नस्य जीवस्योत्क्रान्त्यनंतरं मुक्तावेवं भावो ब्रह्मभावः । तथा च कालभेदेन भेदाभेदावित्यौडुलोमिमतम् । बिम्बस्य प्रतिबिम्बत्वेनेव ब्रह्मण एव जीवत्वेनावस्थितेः । तथा च भेदः काल्पनिकोऽभेदस्तु सत्य इति काशकृत्स्नमतम् । इति प्रतिज्ञासिद्धेरित्यादिसूत्रत्रयस्यार्थः । तत्र चाद्यं मतद्वयं सूत्रकृदनभिप्रेतम् । श्रुत्यादिविरोधात् । तृतीयं त्वभिप्रेतमिति । तन्न । जीवोपक्रमस्यैवाभावात् । श्रुतौ हि ‘‘कामाये’’ति चतुर्थीव्यत्ययेन तृतीयार्थे । अस्मिन्नेव प्रकरणे ‘‘जायायै’’ इति चतुर्थ्या व्यत्ययदर्शनात् । एवं च पत्यादीनां भार्यादीन् प्रति अहं प्रियः स्यामितीच्छया तान् प्रति न प्रियत्वम् । किन्तु परमात्मन इच्छयैवेत्यर्थः । द्युभ्वाद्यधिकरणन्यायेनात्मशब्दस्य परमात्मनि मुख्यत्वात् परमात्मपरोपसंहारानुसारेणैवोपक्रमस्य व्याख्येयत्वात् ।
पतिर्जायाप्रियो नैव स्वेच्छया तु भविष्यति ।
विष्णोरिच्छावशेनैव स्वयं च स्वप्रियो भवेत् ।
विष्णोरिच्छावशेनैव हंति ह्यात्मानमात्मना ।
स्वात्मानमप्रियं कृत्वा निरये पातयत्यपि ।
तदैव प्रीतये भूत्वा पुनर्दुःखाय जायते ॥
इत्यादिवचनाच्च परमात्मेच्छाभावे सुभगे सुरूपेऽपि पत्यादौ जायादीनामप्रीतिदर्शनाच्च । अन्यथा पत्यादीनां स्वीयत्वेनैव प्रियत्वात्स्वयमेव निरुपाधिकप्रिय इति परोक्ताङ्गीकारे दुःखादेरपि स्वीयत्वेनैवाप्रियत्वात्स्वयं निरुपाधिकाप्रिय इति स्यात् ।
प्रकाशिका
॥ अन्ये त्विति ॥ ‘‘आत्मन आकाशस्सम्भूतस् तत्तेजोऽसृजते’’ति कार्ये तथा ‘‘असद्वा इदमग्र आसीत्,सदेव सौम्येदमग्र आसी’’दिति कारणेऽपि विगानमाशंक्य पूर्वसूत्रे कार्यविगानं परिहृतमिह तु कारणविगानं निरस्यत इत्युक्तम् । तत्र व्यावर्त्यपूर्वं सूत्रार्थमनुवदति ॥ असद्वा इति ॥ विगानेति ॥ सृष्टिवाक्यविरोधनिरासक इत्यर्थः ॥ अर्थादिति ॥ आकाशशब्दस्य ब्रह्मपरत्वे यतो वेत्यस्यानेन विरोधनिरासादिति भावः । उपलक्षणमेतत् । पूर्वोक्तदिशा समाकर्षपदास्वारस्याद्यपि ध्येयम् । परमतद्वये ‘‘जगद्वाचित्वा’’दित्यारभ्य त्रिसूत्रि एकमधिकरणम् । वाक्यान्वया’’दित्यादि चतुस्सूत्रि अधिकरणान्तरम् । तत्राद्यमनुवदति ॥ यच्चेति ॥ कौषीतकिब्राह्मणाख्योपनिषदि चतुर्थेऽध्यायेऽजातशत्रुबालाकिसंवादे श्रूयते ‘‘सहोवाच यो वै बालाक’’ इत्यादि । अत्र वेदितव्यत्वेनोक्तो जीवः प्राणो वा परमात्मा वेति संशये पूर्वपक्षमनुवदति ॥ जीवः स्यादिति ॥ धर्मेति ॥ कर्मशब्दस्य रूढ्या पुण्यपापवाचित्वादिति भावः ॥ मुख्यप्राणो वेति ॥ यद्यपि रामानुजभाष्ये जीव इत्येव पूर्वपक्षः कृतः श्रुतप्रकाशे च वेदितव्यतया निर्दिष्टस्य प्राणनामभिरामं प्राणश्रवणादिना मुख्यप्राणवैलक्षण्यादिशिरस्को विचार उपपन्नः । प्राणशब्दश्च प्राणभृत्त्वनिमित्तको जीवे लाक्षणिकः । सूत्रे मुख्यप्राणलिङ्गशङ्का तु जीवोपलक्षणावगमरूपजीवसाधकोक्तयर्था । प्राणस्य जीवोपकरणत्वादित्युक्तम् । तथापि परमते नेदं ध्येयम् । यद्वा एतन्मते द्वितीय सूत्रास्वारस्यापत्त्या मुख्यप्राणपूर्वपक्षस्यावश्यमुपपादनीयत्वाभिप्रायेणैवमुक्तमिति ध्येयम् । आदिपदेन ‘‘यस्य चैतत्कर्मे’’त्युक्तकर्मशब्दित परिस्पन्दनाख्यं लिङ्गं ग्राह्यम् । सूत्रार्थं वदन्नेव सिद्धान्तमन्वाह ॥ एतदिति ॥ एतत् प्रत्यक्षादिसिद्धं जगत् । यस्य कर्म यस्य कार्यं स वेदितव्य इत्यर्थः ॥ अशाब्दत्वमिति ॥ परमतेऽव्यक्ताजशब्दयोस्तेजो बन्नादिपरत्वेन पञ्चजनशब्दस्य च प्राणादिपरत्वेन प्रधानपरत्वनिरासादशाब्दत्वम् । केषाञ्चिन्मते तु स्वातन्त्र्येण प्रधानपरत्वनिरासात् ॥ अविगानमिति ॥ एतच्च परमते स्पष्टम् । मतान्तरे तु विरुद्ध श्रुत्योदाहरणाज्जगतो ब्रह्मैककारणत्वं न निश्चेतुं शक्यमित्युक्तया चावसीयत इति भावः । सूत्रार्थं च प्रत्याह ॥ अस्माकमिति ॥ इत्यत्रान्वितानामिति ॥ न च तत्रैवाध्याहारो दोषः । तत्र प्रकरणादिनैव सिद्धेः । तत्र पञ्चम्यन्वययोग्यस्य कस्यचिदवश्यं वाच्यतया तस्यैवात्राप्यन्वयसम्भवेऽत्राध्याहारो न युक्त इति भावः । द्वितीयसूत्रं तु नातीव विरुद्धम् । केषाञ्चिन्मते प्राणपूर्वपक्षाभावात्प्राणलिङ्गोपन्यासस्यास्वारस्यं स्पष्टमिति त्यक्त्वा तृतीयार्थमनूद्य निराह ॥ यच्चेति ॥ सूत्रार्थः सूत्रैकदेशार्थः । एतेन कस्यचिदपि शैवस्य मतं प्रत्युक्तं बोध्यम् । द्वितीयाधिकरणमनूद्य निराह ॥ यच्चेति ॥ बृहदारण्यके चतुर्थेऽध्याये मैत्रेयीब्राह्मणे ‘‘न वा ओ पत्युः कामाय पतिः प्रियो भवती’’त्युपक्रम्य ‘‘न वा ओ सर्वस्य कामाय सर्वं प्रियं भवति । आत्मा वा ओ द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो दर्शनेन श्रवणेन मत्या विज्ञातेन सर्वं विज्ञात’’मित्यत्र द्रष्टव्य इत्यादिवाक्यं जीवपरं ब्रह्मपरं वेति संशयः । पूर्वपक्षाद्याह ॥ आत्मेति ॥ सूत्रार्थमेव व्यतिरेकमुखेनाह ॥ न हीति ॥ मतद्वयेऽप्याद्यस्याधिकरणान्तरत्वं निरस्य तच्छेषतया प्रतिज्ञादिसूत्रत्रयवर्णनं कृतमुभाभ्याम् । तत्रातीव विरुद्धत्वात्परमतमनूद्य निराह ॥ यच्चेति ॥ जीवोपक्रमः ‘‘न वा ओ पत्युः कामाये’’त्यादिः । यथा वह्नेर्विकारा व्युच्चरंति विस्फुलिङ्गानवह्नेरत्यन्तं भिद्यन्ते । तद्रूपनिरूपणत्वात् । नापि ततोऽत्यन्तमभिन्नाः । वह्नेरपि परस्परं व्यावृत्त्यभावप्रसङ्गात् । तथा जीवात्मानो ब्रह्मविकारानब्रह्मणोऽत्यन्तं भिद्यन्ते । चिद्रूपत्वाभावप्रसङ्गात् । नाप्यत्यन्तं न भिद्यन्ते । परस्परमव्यावृत्तिप्रसङ्गात् । तस्मात्कथंचिज्जीवात्मनां भेदोऽभेदश्च । तत्र जीवात्मपरमात्मनोरभेदमुपादाय परमात्मनिदर्शयितव्यो जीवात्मनोपक्रम इत्यर्थः । ‘‘उत्क्रमिष्यत’’ इत्यस्यार्थमन्वाह ॥ संसार इति ॥ भेदाभेदाविति ॥ तथा च भविष्यंतमभेदमुपादाय भेदकालेऽप्यभेदेन जीवोपक्रम इत्यर्थः ॥ ब्रह्मण एव जीवत्वेनावस्थितेरित्यर्थ इति ॥ आत्मैवाविद्योपधानकल्पितावच्छेद आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनोपक्रमः परमात्मनैवोपक्रमः । तस्य ततोऽभेदादित्यर्थः ॥ श्रुत्यादीति ॥ तत्त्वमसीत्यादिनात्यन्ताभेदस्यैव श्रवणात् । ब्रह्मविकारत्वे जीवस्य प्रलयप्रसङ्गेन कृतहानादिप्रसङ्गाच्छति युक्तिविरोधादित्यर्थः । परमात्मोपक्रम एवायमित्युपपादयति ॥ श्रुतौ हीति ॥ उपसंहारेति ॥ ‘‘आत्मा वा ओ द्रष्टव्य’’ इत्याद्यनुसारेणेत्यर्थः । उपसंहारस्य व्याख्यानरूपतया बलवत्त्वं प्रागेवोक्तमिति भावः । ‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहये’’दिति वचनात्स्मृत्युक्त एवार्थो ग्राह्य इति भावेन बृहदारण्यकभाष्योक्तां स्मृतिं पठति ॥ पतिरिति ॥ रामानुजभाष्ये हि ‘‘परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रति नियतदेशकालस्वरूप परिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति । न तु तत्तद्वस्तु स्वरूपेण प्रियमप्रियं वा । यथोक्त’’मित्युक्त्वा काचित्स्मृतिरुदाहृता । तामप्युक्तार्थे संवादितयाऽऽह ॥ तदैवेति ॥
तदैव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदैव कोपाय यतः प्रसादाय च जायते ।
तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ॥ इति स्मृतिशेषः ।
प्रीतये सुखाय । अन्यथेत्युक्तमेवाह ॥ पत्यादीनामिति ॥
चन्द्रिकाबिन्दुः
बालाक इति ॥ अजातशत्रुकर्तृकं बालाकं प्रति समाधानम् ॥ प्राणशब्दादेरिति ॥ आदिपदेन यस्य चैतत्कर्मेति वाक्योक्तसर्वज्ञगतचेष्टकत्वं मुख्यप्राणलिङ्गं ग्राह्यम् । तच्च परभाष्ये उपन्यस्तम् ॥ जगत्कर्तृत्वस्य चेति ॥ यस्य चैतत्कर्मेत्यस्य यस्य परमात्मन एतज्जगत्कार्यमित्यर्थः । तथा च जगत्कर्तृत्वमीश्वरस्येति भावः ॥ अस्माकं रीत्येति ॥ स्वमते क्लृप्ताध्याहारः । परमते अपूर्वाध्याहार इति भावः ॥ जीवोक्तिर् ब्रह्मप्रतिपत्त्यर्थेति ॥ जीवैक्यजीवनियामकत्वाभ्यां ब्रह्मप्रतिपत्तिं सम्पादयेदिति भावः । यद्यप्यत्र जगद्वाचित्वादिति पूर्वसूत्रे जीवलिङ्गस्य विघटितत्वाज् जीवोक्तिरेव न सम्भवति तथापि तत्प्रकरणस्थत्वभोक्तृत्वादिलिङ्गैर् जीवोक्तिरपि सम्भवतीति तैस्तत्प्रकरणे जीवोक्तिरप्यस्तीत्युक्तमिति कृत्वा तथानुवादः कृत इति न दोषः । स्पष्टं चैतत् परभाष्ये ॥ जीवोक्तेरभावेनेति ॥ भोक्तृत्वादिलिङ्गस्यापि अस्मद्रीत्या ब्रह्मणि सावकाशत्वादिति भावः ॥
॥ वाक्यान्वयादिति ॥ आत्मा वाऽरे इत्यादिवाक्यस्य ब्रह्मपरत्वे इति शेषः ॥ अभिन्नत्वं चेति ॥ जीवस्य ब्रह्माभेद एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः सिद्धिहेतुः । जीवस्य तद्भिन्नत्वेन ब्रह्मज्ञानेन जीवाज्ञानात् प्रतिज्ञैव न स्यादिति भावः । न वारे पत्त्युर् इति वाक्यस्य स्वमतानुसारेणार्थं प्रदर्श्य पराभिप्रेतमर्थं दूषयति ॥ अन्यथेति ॥ उक्तार्थानङ्गीकारे परोक्तार्थस्वीकारे पत्यादीनां स्वीयत्वेन स्वोपयोगित्वेन प्रियत्वमिति कृत्वा, स्वात्मनो निरुपाधिकप्रियत्वस्य स्वीकारेऽन्यगतदुःखस्य स्वात्मानं प्रत्यप्रियत्वाभावाद् दुःखमपि स्वकीयत्वेन प्रियमिति वक्तव्यम् । तथा च स्वसम्बन्धेन दुःखादौ अनिष्टत्वप्राप्तेः स्वयं निरुपाधिकानिष्टोऽपि स्यादित्यर्थः ॥
पाण्डुरङ्गि
अधिकरणासङ्गतिं परिहर्तुं शङ्कते ॥ असद्वाक्यस्येति ॥ प्राणशब्दादेरित्यत्रादिपदेन परिस्पन्दरूपकर्मलक्षणप्राणलिङ्गपरिग्रहः ॥ तन्नेति ॥ एतच्छब्दस्यैतत्परामर्शकतायाः कर्मशब्दस्य क्रियमाणपरताया अयोगादित्यर्थः । किं चात्मनस्तु कामाय सर्वं प्रियं भवतीत्यनेनात्मनो निरुपाधिकप्रियत्वस्योक्तत्वेन न वा ओ पत्युरित्यादिपूर्ववाक्ये प्रियत्वं नास्ति । अपि त्वन्यार्थप्रियत्वमिति तन्निषेधात्पूर्वोत्तरव्याघातात् । न च न वा ओ पत्युः कामाय पतिः प्रियो भवतीत्यत्र पत्युरिच्छार्थं पतिः प्रियो न भवतीत्येवोच्यते । न तु स्वार्थं प्रियो न भवतीति । तथा वचनविरोध इति वाच्यम् । आत्मनस्तु कामाय सर्वं प्रियं भवतीत्यत्र स्वार्थं सर्वं प्रियमिति व्याख्यातवता त्वया न वा ओ पत्युः कामायेत्यत्रापि पत्यर्थं पतिः प्रियो भवतीत्येव व्याख्यानं कर्तव्यम् । एकस्मिन्नेव प्रकरण आत्मनस्तु कामाय सर्वं प्रियमित्यत्र कामशब्दस्यान्यपरत्वस्य न वा ओ पत्युः कामायेत्यत्रान्यपरत्वस्य कल्पयितुमशक्यत्वात् ।