०२ अद्वैतमतपरीक्षा

अन्येतु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु । वेदान्तेषु क्वचिदाकाशादिका सृष्टिरुच्यते ‘‘आत्मन आकाशः सम्भूत’’ इति । क्वचित्तेजआदिका ‘‘तत्तेजोसृजते’’ति । तथाच वेदान्तानां विरोध इति प्राप्ते कार्येष्वाकाशादिष्वेव सृष्टिक्रमादिद्वारकं विगानम् । कारणत्वे तु न विगानम् । कुतः । यथा व्यपदिष्टोक्तेः । यथा ह्येकस्मिन् वेदान्ते चेतनः कारणत्वेन व्यपदिष्टः ‘‘सोकामयत बहुःस्या’’मिति तथैव ‘‘तदैक्षत तत्तेजोऽसृजते’’ति वेदान्तांतरेष्वप्युक्त इति सिद्धान्तः । एवं च सूत्रे कारणत्वेनेत्येतद्विच्छिद्य सप्तम्यंतत्वेन अविच्छिद्य तृतीयांतत्वेन च व्याख्येयमित्याहुः । तन्न । सौत्रचशब्दे तुशब्दार्थत्वस्य कारणत्वेनेत्यस्य विच्छेदाविच्छेदाभ्यामुभयपरस्य च क्लिष्टत्वात् । आकाशादिष्वित्यस्यान्वयार्थं सृष्टिक्रमादिद्वारकविगानशब्दस्याप्यध्याहार्यत्वाच्च ।

अध्यायसङ्गतेः पादसङ्गतेरप्यभावतः ।

पूर्वपक्षानुत्थितेश्च सिद्धान्तस्याप्ययोगतः ॥ १ ॥

विरोधनिरासोहि द्वितीय एव सङ्गतः । ननु तत्र वेदानां मानान्तराविरोधो व्युत्पाद्यः । अत्र तु परस्परमिति चेन्न । अविरोधे ह्यवान्तरभेदस्तस्मिन्नध्याये पादादिभेदे हेतुर्न तु तस्माद्बहिर्भावे । अन्यथा समन्वयादिभेदाद्वितीयादौ व्युत्पाद्याः स्युः । किं च द्वितीयेऽपि ‘‘न वियदश्रुते’’ रित्यादिपादद्वयं वेदान्तानां परस्पराविरोधपरमिति तेऽपि मतम् । ननु मानान्तराविरोध एव द्वितीये व्युत्पाद्यः । परस्पराविरोधस्तु प्रासङ्गिकः । विप्रतिषेधात्परपक्षाणामप्रामाण्य उक्ते तर्हि वेदान्तानामपि विप्रतिषेधात्तदिति शङ्कायां तन्निरासादिति चेन्न । पादद्वयव्युत्पाद्यत्वादविरोधत्वोपहितत्वाच्च साक्षात्सङ्गतिसम्भवे प्रासङ्गिकत्वायोगात् । अन्यथा वैपरीत्यापातात् । समं हि मानान्तर विरोधपरस्परविरोधयोरप्रामाण्यादिपर्यन्तत्वम् । किं चायमप्यविरोधः प्रसङ्गात्तत्रैवोच्यताम् । तस्मान्नाध्यायसङ्गतिः । नापि पादसङ्गतिः । पादार्थस्य प्रधानाशाब्दत्वस्येहाव्युत्पादनात् । किं चात्र न पूर्वपक्षस्योत्थानम् । ‘‘तत्तेजोऽसृजते’’त्यत्र ह्याकाशसृष्टिमनुक्त्वा तेजस्सृष्टिमात्रमुक्तम् । न त्वाकाशात्पूर्वं तत्सृष्टिः । येन ‘‘आत्मन आकाशः सम्भूत’’ इत्येतद्विरोधः शङ्क्येत । न हि तत्रोक्तानुक्तिमात्रेण तद्विरोधः । यद्यपि ‘‘तत्तेजोऽसृजत वायोरग्नि’’रित्यनयोर्विरोधो भाति । तथापि न तस्येह सिद्धान्ते निरासः । किन्तु वियत्पादे ‘‘तेजोतस्तथा ह्याहे’’त्यत्रैवेति त्वन्मतम् । सिद्धान्तोऽप्ययुक्तः । ‘‘सत्यं ज्ञानमनन्तं ब्रह्मे’’ति ‘‘एकमेवाद्वितीय’’मिति च प्रकृते शुद्धे ब्रह्मणि कामयितृत्वादेर्विरोधात् । ‘‘सदेव सोम्येदमग्र आसीद् असद्वा इदमग्र आसी’’दित्यादौ कारणेऽपि विगानदर्शनात् । शङ्कितस्य कार्ये विगानस्यानुद्धृतत्वाच्च । यदि च कल्पिते कार्ये श्रुतेरतात्पर्यादनुद्धारस्तर्हि वियत्पादादौ तदुद्धारोऽनुपपन्नः स्यात् । कामयितृत्वादिविशिष्टस्यापि कल्पितत्वेन तदविरोधोऽप्यत्र न व्युत्पाद्यः स्यात् । केचित्तु । ‘‘तद्धेदं तर्ह्यव्याकृतमासीद् असद्वा इदमग्र आसी’’दित्यादिवाक्यानां प्रधान परत्वे प्राप्ते ब्रह्मपरत्वेन सिद्धान्त इत्याहुः । तन्न । पूर्वपक्षानुत्थानात् । तथा हि । अव्याकृतासदादिशब्दानां न तावत्प्रधाने रूढिरस्ति । योगो गौणी वा वृत्तिस्तु प्रधान इव ब्रह्मण्यपि सम्भवति । न च निरवकाशं प्रधानलिङ्गादिकमस्ति । प्रत्युत ईक्षत्यधिकरणन्यायेन चेतनस्यैव कारणत्वनिर्णयादसदादिशब्दानां चेतनपरतैवन्याय्या । पादासङ्गतिस्तु स्फुटैव । ‘‘तध्द्येदं तर्ह्यव्याकृतमासी’’दित्यादिवाक्यस्य ‘‘महतः परमव्यक्त’’मित्यादिवत्प्रधानप्रतिपाद नच्छायानुसारित्वाभावात् । टीकायां ‘‘वाक्ययोजनानुपपत्ते’’रित्यस्यायमर्थः । ब्रह्मण एवात्मकाशादिशब्दार्थत्वे तस्यैकत्वेन क्रमाभावात् ‘‘आत्मन आकाश आकाशाद्वायु’’रित्यादिक्रमप्रतिपादकवाक्ययोजनानुपपत्तेरिति ॥छ॥ आकाशाधिकरणम् ॥ ४ ॥

प्रकाशिका

मतद्वयेऽपि ‘‘कारणत्वेने’’त्यादिसूत्रद्वयमेकमधिकरणम् । तत्र कारणवाक्यानि ब्रह्मणि प्रमाणं न वेति कल्पतरूक्तदिशा सन्देहे

वाक्यानां कारणे कार्ये परस्परविरोधतः ।

समन्वयो जगद्योनौ न सिध्यति परात्मनि ॥

इति भामत्युक्तं हृदि कृत्वा प्रथमसूत्रनिरस्यं कार्यविषयवाक्यविरोधमात्र मनुवदति ॥ आकाशादिकेति ॥ विरोध इति ॥ तथा च कर्तृत्वप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति भावः । तन्निरासकतयाऽऽद्यसूत्रार्थमनुवदति ॥ कार्येष्विति ॥ चशब्दस्तुशब्दार्थः कारणत्व इति सप्तम्यन्तेनान्वेतीति भावेनाह ॥ कारणत्वे त्विति ॥ उक्तं च भामत्यां ‘‘सर्गक्रमविवादेऽपि न स स्रष्टरिविद्यत’’ इति । कारणत्वेनेति तृतीयान्तपक्षेऽन्वयदर्शनमेतत् ॥ विच्छिद्येति ॥ कारणत्व इत्येकं पदम् । नेत्यपरमित्यर्थः । अध्यायसङ्गतेरभावत इत्यादेः पञ्चम्यंतस्य तन्नेत्यनेनान्वयः । अध्यायासङ्गतिं तावद्य्वनक्ति ॥ विरोधेति ॥ ‘‘इदानीं स्मृतिन्यायविरोधपरिहार’’ इत्यादिना त्वद्भाष्ये द्वितीयस्य विरोधनिरासकत्वाभ्युपगमादिति भावः । नन्वेतदेवाशङ्क्य भामत्यां ‘‘प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्राप्तप्रामाण्यस्थापनमविरोधलक्षणस्यार्थः । इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्परं विरोधे ब्रह्मणि जगद्योनौ न समन्वयस्सोढुमर्हती’’त्यादिना समाहितमित्यतस्तदनुवादेन निराह ॥ नन्विति ॥ तेऽपि मतमिति ॥ ‘‘सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यत’’ इत्यादिना वियदधिकरणे त्वया भाषितत्वादिति भावः । तथा च परस्परविरोधपरिहारपरत्वेऽपि तत्रैव निवेशस्स्यादिति भावः । नन्वेतदप्याशङ्क्योक्तं भामत्यां ‘‘प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्पराविरोधप्रतिपादनम् । न तु लक्षणार्थ’’ इति । कल्पतरौ च

‘‘परैरुद्भावितो दोष उद्धर्तव्यः स्वदर्शने ।

इति शिक्षार्थमत्रत्यचिन्तां तत्राकरोन्मुनी’’

इत्युक्तमित्यतस्तदाशङ्क्याह ॥ नन्विति ॥ अविरोधत्वोपहितत्वादिति ॥ अविरोधत्वरूपाध्यायोपाधिग्रस्तत्वादित्यर्थः ॥ वैपरीत्येति ॥ परस्पराविरोधस्तत्र साक्षात्सङ्गतः । मानान्तराविरोधस्तु प्रासङ्गिक इति स्यात् । विनिगमनाभावादित्यर्थः । तमेव व्यनक्ति ॥ सममिति ॥ पादसङ्गतेरप्यभावत इत्येतद्-व्यनक्ति ॥ नापीति ॥ तृतीयपादं व्याचष्टे ॥ किञ्चेति ॥ न त्विति ॥ अत एव भामत्यां ‘‘यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति वदेद्भवेद्विरोधः । न चैवमस्ती’’त्यादिना तथैव सिद्धान्तितमिति भावः । न च विरोधभ्रांत्या पूर्वपक्षः । तस्या निर्बीजाया अनुपपत्तेः । एवमेवोत्पत्तावतिप्रसङ्गात् । ननु ‘‘अभ्युपेत्य तु विगानमुच्यत’’ इति भामत्युक्तेः कृत्वा चिन्तेयमिति चेन्न । व्यर्थत्वात् । मदुक्तदिशा सङ्गतिसम्भवाच्चेति भावः । चतुर्थपादं व्याख्याति ॥ सिद्धान्तोऽपीति ॥ कामयितृत्वेति ॥ ‘‘सोकामयत बहुःस्या’’मिति वाक्योक्तकामयितृत्वेत्यर्थः । यापि सूत्रार्थोक्तिः कार्येष्वेव विगानं कारणत्वे तु नेति सापि नेत्याह ॥ सदेवेति ॥ ननु कारणविगानं ‘‘समाकर्षा’’दिति द्वितीयसूत्रे निरसिष्यत इति चेन्न । तथापि कारणत्वे तु विगानं नेत्युक्तेरयुक्तत्वापरिहारात् । वक्ष्यमाणाभिप्रायेण तदुक्तिरिति चेन्न । वैयर्थ्यात् । न च ‘‘सृष्ट्युक्तेस्सृष्टज्ञानार्थतया तत्र च विवादाभावाद्गुणे त्वन्याय्यकल्पनेति न्यायात्तदनुगुणतया सृष्टिवाक्यं व्याख्येय’’मिति भामत्युक्तदिशा कार्यविगानपरिहारार्थत्वेन तदुक्तिरिति वाच्यम् । साक्षात्तत्परिहारसम्भवे कुसृष्टेरनादरणीयत्वात् । अत एव ‘‘शङ्कितस्य कार्ये विगानस्यानुद्धृतत्वा’’दित्युक्तम् । ‘‘समाकर्षा’’दिति सूत्रार्थस्याग्रे निरसिष्यमाणत्वाच्च । तदविरोधोऽपि कारणाविरोधोऽपि । अत्र समाकर्षसूत्र इत्यर्थः ॥ केचित्त्विति ॥ जगत्कारणवादीनि वेदान्तवाक्यानि प्रधानपराणि ब्रह्मपराणि वेति संशये ‘‘तद्धेदं तर्ह्यव्याकृतमासीन्नाम रूपाभ्यां व्याक्रियत’’ इत्यव्याकृतपूर्वकसृष्ट्याम्नानादव्याकृतशब्दस्य चाव्यक्तपर्यायत्वात्प्रधानमेवाव्याकृतमिति ‘‘असद्वा इदमग्र आसीत्’’ ‘‘सदेव सोम्येदमग्र आसीत्’’ ‘‘आत्मन आकाशस्सम्भूत’’ इत्यादावप्यसदादिशब्देन तस्यैव ग्रहणादात्मादिशब्दस्य व्याप्तत्वादिना प्रधानेऽप्युपपत्तेः प्रधानपराण्येव सर्वकारणवाक्यानीति प्राप्ते । आकाशादिषु आकाशादिपदचिह्नितेषु । विपरिणामेनाकाशादीनामिति वा । यथा व्यपदिष्टस्य सार्वज्ञादिमत्तया जन्माधिकरणे व्यपदिष्टस्य ब्रह्मण एव । कारणत्वेनोक्तेः ‘‘सत्यं ज्ञान’’मिति प्रागुक्तसर्वज्ञस्यैवात्मशब्देनोपादानाच्च । एवं तत्र तत्रेति सर्वाणि ब्रह्मपराणीति सिद्धान्त इत्याहुरित्यर्थः ॥ प्रत्युतेति ॥ अव्याकृतवाक्ये ‘‘पश्यंश्चक्षुश्शृण्वञ्श्रोत्र’’मिति दर्शनादेः ‘‘सदेवे’’ति वाक्ये ‘‘तदैक्षते’’तीक्षणस्य श्रवणात् ‘‘ईक्षतेर्नाशब्द’’मित्यधिकरणे च त्वया ‘‘सदेवे’’त्यादिवाक्ये प्रधानपरत्वमाशङ्क्येक्षणेन ब्रह्मपरत्वस्य सिद्धान्तितत्वात्तेन न्यायेनाव्याकृतादिशब्दानां चेतनपरत्वे सिद्धे सर्वशाखाप्रत्ययन्यायेनासदादिशब्दानामव्याकृतशब्दतुल्यार्थत्वाच्चेतनपरतैव न्याय्येत्यर्थः । एतेन यदुक्तं श्रुतप्रकाशे ‘‘अव्याकृतशब्देन प्रथमत एवाचेतनस्य प्रतिपन्नतया पश्चादवगतं पश्यंश्चक्षुरित्यादिवाक्योक्तं चेतयितृत्वं चक्षुराद्युत्पादनौन्मुख्याभिप्राय’’मित्यादि तन्निरस्तम् । रूढ्यादेः प्रधानप्रापकस्याभावेनाचेतनप्रतिपत्तेरेवाभावात् । दर्शनादेर्बहुत्वाच्च । बह्वनुसारेणाल्पनयनस्य त्वयैव पूर्वत्रोक्तत्वाच्च । एतेन ‘‘ईक्षत्यधिकरणाक्षेपः फलित’’ इति श्रुतप्रकाशोक्तं प्रत्युक्तम् । आक्षेपकाभावस्योक्तत्वात् । अत एव चेतनपरतयैवेत्यवधारणमुक्तम् । स्फुटैवेत्युक्तं व्यनक्ति ॥ तद्धेदमिति ॥ ‘‘स्पष्टजीवादिलिङ्गप्रतिपादनच्छायानुसारीणि वाक्यानि चतुर्थे विचार्यन्त’’ इति त्वया भाषितत्वात् । अत्र च तत्प्रापकस्य कस्याप्यभावादिति भावः । यत्कश्चिच्छैव आह व्यपदिष्टस्य ‘‘आत्मा वा इदमेक एवाग्र आसी’’दित्यादिविशेषवाक्यनिर्दिष्टस्यात्मशब्दितस्य ब्रह्मण एव आकाशादिषु ‘‘आत्मन आकाशस्सम्भूत’’ इति श्रुताकाशादिषु कार्येषु कारणत्वेनोक्तेर्यथा कारणवाक्येषु न तान्त्रिकाव्याकृतग्रहणं तथात्रापि वाक्यशेषरूपविशेषवाक्यनिर्दिष्टानामिन्द्रियाणामेवोक्तेर्न तान्त्रिकतत्वग्रहणं पञ्चजनशब्देनेत्याद्यर्थपरतयैतत्सूत्रं च पूर्वशेषो नाधिकरणान्तरमिति तन्न । दृष्टान्तोक्तया पूर्वशेषत्वे विशेषाभावात् । सूत्रे पञ्चम्यन्वयसिद्ध्यर्थं न तान्त्रिकप्रधानग्रहणमित्यध्याहाराच्च । यथा व्यपदिष्टोक्तिस्तथा प्राणादयो ग्राह्या इति प्रथमान्तोक्तेरेव स्वारस्याच्च । चशब्दानर्थक्याच्च । आत्मनो ब्रह्मत्वस्य साङ्ख्यं प्रत्यसिद्धेश्चेति यत्किञ्चिदेतत् । दुर्गमं टीकावाक्यं व्यनक्ति ॥ वाक्येति ॥ आकाशाधिकरणम् ॥ ४ ॥

चन्द्रिकाबिन्दुः

अन्वयार्थमिति । अन्यथा आकाशादिष्वित्यस्यान्वय एव नास्ती ति भावः ।

अत्र त्विति । अस्मिन्नधिकरणे श्रुत्योः परस्परविरोध इत्यर्थः । किञ्च द्वितीयेऽपीति । तथा चैतदधिकरणस्य तत्र निवेशः स्यादिति भावः । उत्तरपादद्वयस्य प्रासंगिकत्वमेव व्युत्पादयति ॥ विप्रतिषेधादिति ॥ पादद्वयव्युत्पाद्यस्य न प्रासंगिकत्वम् । अन्यथा पूर्वपादद्वयस्यैव प्रासङ्गिकत्वं स्यादित्यभिप्रेत्य दूषणमाह ॥ पादद्वयेत्यादिना । तत्रेजोऽसृजतेति वाक्ये आकाशादिसृष्ट्यनुक्तेरविरोधकत्वात् पूर्वपक्षानुत्थितिरित्याह ॥ किं चात्रेति ॥ तत्सृष्टिस् तेजःसृष्टिर् येन विरोधः स्यादिति भावः । यद्यपीति ॥ वायोरग्निरिति वाक्यम् । विषयः । सूत्रे आकाशशब्दग्रहणं तु प्रतीकत्वाभिप्रायेणेति भावः । यदि चेति ॥ कल्पिते विरोधस्यापरिहार्यत्वादिति ह्रदयम् । पादासंगतिरिति ॥ आपाततः प्रधानप्रतिपादनछायानुगुणवाक्यविचारो हि पादे सङ्गतः । महतः परमित्यादिवाक्यं तु तादृशं न तदुदाह्रतवाक्यमिति भावः ।

पाण्डुरङ्गि

प्रासङ्गिकत्वमुपपादयति ॥ विप्रतिषेधादिति ॥ अन्यथेति ॥ साक्षात्सङ्गतिसम्भवेऽपि प्रासङ्गिकोक्तौ ॥ वैपरीत्येति ॥ परस्पराविरोध एव प्रतिपाद्यः । मानांतराविरोधस्तु प्रासङ्गिक इति वैपरीत्यापातादिति भावः ॥ आकाशाधिकरणम् ॥ ४ ॥