०३ अद्वैतमतपरीक्षा

अत्र चाद्ये सूत्रे पूर्वाधिकरणोक्तसाधकैरेवेहापि..

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अत्र चाद्ये सूत्रे पूर्वाधिकरणोक्तसाधकैरेवेहापि ब्रह्मपरत्वसिद्धेर्बाधकमात्रमुद्धृतम् । तत्र च ‘‘सङ्ख्योपसङ्ग्रहा’’ दित्यनेनोक्ताया बहुत्वानुपपत्तेः ‘‘नानाभावा’’दित्यनेन निरासः । अपिशब्दसमुच्चितायास्त्वाधारत्वाद्यनुपपत्तेः । ‘‘अतिरेकाच्चे’’त्यनेन । द्वितीये के ते पञ्चत्वाश्रयभगवद्रूपविशेषा इति शङ्कायां तेषां मुखत उक्तिः । सिद्धान्तसाधकोक्तिस्त्वर्थात् । तृतीये तु शाखान्तरेपि पञ्चत्वसम्पादनमिति सूत्रक्रमः । अत्र ‘‘यस्मिन्पञ्च पञ्चजना’’ इति मन्त्रस्य शाखाद्वयेप्येकपञ्चकपरत्वाय ज्योतिरन्नशब्दयोरेकार्थत्वं वा तयोर्भिन्नार्थत्वाय शाखाभेदेन पञ्चकद्वयं वेति द्रष्टव्यम् ।

अन्येतु । ‘‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित’’ इति वाक्ये समस्तेन पञ्चजनशब्देनोक्तानां समाहाराणामसमस्तेनान्येन पञ्चशब्देन पञ्चत्वसङ्ख्यान्वयः प्रतीयते । एवं च पञ्च पञ्चकानि पञ्चविंशतिः सम्पद्यते । यथा पञ्चपञ्चपूल्य इत्यत्र पञ्चविंशति पूल्यः । पञ्चजना इति पुल्लिङ्गं तु छान्दसम् । तस्मात्पञ्चविंशतितत्वानामुपसङ्ग्रहात्प्रधानादीनां श्रुतिमत्त्वमिति प्राप्ते सिद्धान्तः न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वम् । कस्मात् । नानाभावात् । नाना ह्येतानि पञ्चविंशति तत्वानि । नैषां पञ्चशः पञ्चशः साधारणधर्मोस्ति । येन पञ्चविंशतेरन्तराले पञ्चपञ्च सङ्ख्या निवेशेरन् । नह्येकं निबन्धनं विना नानाभूतेषु द्वित्वादिका सङ्ख्याऽस्ति । अतिरेकाच्च । अतिरेकोऽपि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्य तु पृथगुक्तिविरोध इत्याहुः । तत्र ब्रूमः ।

पञ्चविंशतितत्वानि श्रुतिस्मृतिसमाजतः ।

प्रमितान्यपलप्यन्ते कथं वैदिकमानिना ॥ १ ॥

किं पञ्चविंशति तत्वान्येवाप्रामाणिकानि किं वैतद्वाक्यं न तत्परम् । नाद्यः । ‘‘तं षडि्वंशमिति प्राहु’’रिति ‘‘तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति महानव्यक्ते लीयत’’ इति ‘‘यस्याहंकारः शरीरं यस्य बुद्धिः शरीरं यस्याव्यक्तं शरीर’’मित्यादिश्रुतिभिः, पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु’’रिति ‘‘त्रिविधोयमहंकारो महत्तत्वादजायते’’त्यादिस्मृतिभिश्च पञ्चविंशतितत्वानां प्रमितत्वात् । नांत्यः । अस्माकमविरोधात् । तावता तेषामशब्दत्वासिद्धेश्च । यच्चोक्तं नानाभावादिति तन्न । पृथिव्यादिषु भूतत्वस्य शब्दादिषु तन्मात्रात्वस्य घ्राणादिषु बाह्यज्ञानेन्द्रियत्वस्य वागादिषु कर्मेन्द्रियत्वस्य महदहंकारमनःप्रकृतिपुरुषेषूक्तविंशत्यन्यत्वस्य चोपसङ्ग्राहकस्य सत्त्वात् । अन्यथा ‘‘पञ्चभि’’रित्यादिस्मार्तनिर्देशस्याप्ययोगात् ।

प्रकाशिका

अत्र चाद्य इति ॥ ग्रन्थस्य वादकथारूपेण प्रवृत्तत्वादादौ स्वपक्षसाधकोक्तया भाव्यम् । पश्चाद्बाधकनिरासेन । तथैवानन्दमयनयादिषु पूर्वत्र त्रिपाद्यामुक्तेर्द्वितीयस्यादौ निवेश आद्यस्य पश्चादित्यतो वा न्यूनत्वाशङ्कया वाह ॥ पूर्वेति ॥ ‘‘ज्ञेयत्वावचनात् । महद्वच्च । चमसवदविशेषात् । तथाह्यधीयत एक’’ इत्युक्तहेतुभिरित्यर्थः । तथाच वक्ष्यत्युत्तराधिकरणटीकायां टीकाकारः ‘‘नामानि सर्वाणीत्याद्युक्तरीत्या सिद्धेऽखिलशब्दसमन्वये तत्र प्रतीतविरोधाभासनिरासेनैव सूत्रकृतश्चरितार्थत्वात् । यत्तु विशेषं च वक्ति स त्वधिको लाभ’’ इतीति भावः । अपिशब्देति ॥ यद्यपि टीकायां ‘‘अपिपदेन पूर्वसूत्राद्विरोधपदाकर्षण’’मित्युक्तम् । तथापि तत्वप्रदीपे ‘‘तेषां बहुसङ्ख्यानां न विष्णुत्वमिति न मन्तव्य’’मित्युक्तया तदनुवृत्त्यर्थत्वाप्रतीतेस्तदनुरोधेन वा अपिपदस्य विरोधपदाकर्षण सूचकत्वेप्यन्यार्थसमुच्चायकत्वमविरुद्धमिति भावेन वैतदुक्तम् । तथाचोक्तं ग्रन्थकृतैव ‘‘प्राणभृच्चे’’त्यत्र ‘‘चशब्दो न केवलं टीकोक्तरीत्या पूर्वोक्तहेतूनां नञश्चानुकर्षणार्थः । किं तु वायुसमुच्चयार्थोपीति द्रष्टव्य’’मिति । एतेन अत्र विरोधपदानुवृत्तौ नेत्यवक्तुं शक्यम् । पूर्वसूत्रादविरोधपदस्यैवाक्लेशेनानुवर्तनसम्भवादिति निरस्तम् । सङ्ख्योपसङ्ग्रहादपि न षष्ठीनिर्दिष्टप्राणादयः पञ्चजनश्दार्थः । तेषां प्रत्येकं नानाभावादिति प्रागुक्तरीत्याऽर्थान्तरस्याप्यभिमतत्वात् । अविरोधपदाकर्षे ‘‘सङ्ख्योपसङ्ग्रहा’’दिति पञ्चम्यंतस्य समासे गुणभूतविरोधपदेनान्वयासामर्थ्याच्चेति ॥ इति शङ्कायामिति ॥ तथा च तस्य द्वितीयत्वं युक्तमिति भावः । ननु टीकायां ‘‘यदि पञ्चजनादीनां विष्णुत्वे भवेद्विशेषहेतु’’ रित्यवतारितत्वात्कथमेवमित्यत आह ॥ सिद्धान्तेति ॥ प्राणप्राणदत्वादिरूपसिद्धान्तसाधकोक्तिरित्यर्थः ॥ तृतीय इति ॥ माध्यन्दिनशाखायामन्नेन सह पञ्चत्वोक्तावपि काण्वशाखायां चतुर्णामेवोक्तया न वाक्यशेषोक्तप्राणादीनां पञ्चजनत्वमित्याशङ्क्य एकेषामन्ने अन्नस्यान्नत्वप्रदातृरूपे । असत्यपि ‘‘तद्देवा ज्योतिषां ज्योति’’रिति पूर्ववाक्योक्तज्योतिषां पञ्चत्वसम्भवादित्युक्तेरिति भावः । ‘‘अत्र ज्योतिरन्नशब्दयोरेकार्थत्वं पृथक्पञ्चकं वेत्युपपन्न’’मिति टीकां व्यनक्ति ॥ अत्रेति ॥ शाखेति ॥ तत्तच्छाखिभिस्तथा तथोपासनं कार्यमिति व्यवस्थितविकल्पेन तदुक्तिरित्यर्थः । यदत्र केनचिद्रामानुजीयेनोक्तं यस्मिन्निति मन्त्रपदानामपि ज्योतिर्नयन्यायेनावयवव्युत्पत्या ब्रह्मपरत्वसम्भवान्न समन्वयसूत्राक्षेपः पूर्वपक्षे युक्तः । सिद्धान्ते च पञ्चजनशब्दस्य द्वितीयांतनिर्दिष्टप्राणादिपरत्वोक्तिरयुक्ता । आधेयतयोपसर्जनपरस्य पञ्चजनशब्दस्योपसर्जनीभूतविशेष्याकाङ्क्षस्य नियम्यत्वेनोपसर्जनप्राणादिपरत्वस्यैव युक्तत्वात् । न सङ्ख्येति सूत्रेच नेति व्यर्थम् । अविरोधपदस्यैवानुवृत्तिसम्भवादिति । तत्तु ग्रन्थतात्पर्याज्ञानविजृम्भितमित्ययुक्तम् । ज्योतिर्नयन्यायेन पदसमन्वयसम्भवेऽपि तदनधिकार्यपेक्षितवाक्यमर्यादापक्षमुपेत्यैवेह पूर्वपक्षे समन्वयसूत्राक्षेपात् । आधेयतया निर्देशमात्रेणोपसर्जनत्वे भूमप्रकरणे ‘‘स एवाधस्तात्स एवोपरिष्टा’’दित्यादिना भूम्नोऽप्याधेयत्वश्रवणाद् आथर्वणे च ‘‘ब्रह्मदक्षिणतो ब्रह्मोत्तरत’’ इत्यादिना ब्रह्मण आधेयत्वश्रवणादुपसर्जनत्वं स्यात् । ‘‘यः पृथिव्यां तिष्ठन्योप्सुतिष्ठ’’न्नित्यादिनांतर्यामिणोऽप्याधेयत्वोक्तेस्तथात्वं स्यात् । नियम्यतयाऽऽधेयत्वं च नात्र श्रुतम् । वाक्यशेषस्य पञ्चजनस्वरूपविवेचनार्थं वृत्तत्वेन षष्ठ्यन्तनिर्दिष्टानामेव पञ्चजनत्वे ‘‘प्राणं चक्षुश्श्रोत्रमन्नं मन’’ इत्युक्तयैव पूर्तौ वाक्यशेषे ‘‘प्राणस्य प्राण’’मित्याद्युक्तिर्व्यर्था । अस्मन्मते तु पञ्चजनशब्देन शरीररूपकविन्यस्तेति न्यायेन प्राणादिषु नियामकतया स्थितभगवद्रूपाणामेव गृहीतत्वेन तद्विवेचनाय सार्थक्यम् । षष्ठ्यन्तनिर्दिष्टप्राणादेः पञ्चजनत्वे तृतीयसूत्रस्थैकवचननिर्देशविरोधो ग्रन्थ एवाग्रे स्पष्टः । सूत्रे सङ्ख्योपसङ्ग्रहादपि न षष्ठ्यन्तोक्तप्राणादयः पञ्चजनाः । तेषां प्रत्येकं नानात्वात्पञ्चत्वानुपपत्तेरित्याद्यर्थान्तरस्याप्यनुमतत्वेन नञस्सार्थक्यमुक्तमेवेति ॥

अन्येत्विति ॥ एवं परिहृतेप्यजामन्त्रे पुनरप्यन्यस्मान्मन्त्रात्साङ्ख्यप्रत्यवस्थाने तन्निरासार्थमिदमित्युक्त्वा ‘‘यस्मिन्पञ्च पञ्चजना’’ इति मन्त्रः किं साङ्ख्याभिमत प्रधानादितत्वपरोऽथार्थान्तरपर इति सन्दिह्य पूर्वोत्तरपक्षावुक्तौ । तौ सुधां विवृण्वन्ननुवदति ॥ यस्मिन्निति ॥ समस्तेन समासं प्राप्तेन । नायं पञ्चजनशब्दः ‘‘दिक्सङ्ख्ये संज्ञाया’’मिति समासविधानात् ‘‘स्युः पुमांसः पञ्चजना’’ इत्यमरोक्तेश्च रूढ्या मनुष्यवाची । यस्मिन्पञ्चमनुष्या आकाशश्च प्रतिष्ठित इति वदतो वाक्यस्य निस्तात्पर्यप्रसङ्गात् । सर्वस्यैवात्मनि प्रतिष्ठितत्वात् । किं तु रूढित्यागेन जायन्त इति जना इति कल्पतरूक्तयोगेन जनशब्दस्तत्वपरः । तथापि पञ्चानां जनानां समाहारः पञ्चजना इति समस्तेन पञ्चजनशब्देन पञ्चसङ्ख्याकास्तत्वसमुदायाः प्रतीयन्ते । ते कतीत्याकाङ्क्षायामसमस्तेन पृथक्स्थितेन पञ्चेत्यनेनान्वयः प्रतीयत इत्यर्थः ॥ यथेति ॥ पञ्चानां पूलानां समाहारः पञ्चपूली । पञ्चपूल्यः पञ्चेत्युक्ते पञ्चविंशतिः प्रतीयते यथा तथेत्यर्थः । ननु समाहारपक्षे ‘‘सङ्ख्यापूर्वोद्विगु’’रिति द्विगुसंज्ञायां ‘‘द्विगो’’रिति ङीपि सति पञ्चजनीति स्यादित्यत आह ॥ पुल्लिङ्गं त्विति ॥ उपसङ्ग्रहादिति ॥ श्रुतिसिद्धया सङ्ख्यया तेषां स्मृतिसिद्धानामुपसङ्ग्रहादित्यर्थः । श्रुतिमत्त्वमिति ॥ तथा च प्रागुक्तमशब्दत्वमयुक्तमित्यर्थः। सूत्रशेषस्यार्थमाह ॥ अतिरेकाच्चेति ॥ आत्माकाशौ हित्वैव वक्ष्यमाणदिशा पञ्चविंशतिसङ्ख्यापूर्तेरिति भावः ॥ आत्मान इति ॥ आकाशस्य चेत्यपि ग्राह्यम् । एतेन ‘‘तथाही’’त्यादिपरमतानुवादसुधाग्रन्थो विवृतः । सुधोक्तं दूषणं सङ्गृह्याह ॥ पञ्चेति ॥ सुधोक्तदिशा विकल्पपूर्वं श्लोकं व्याचष्टे ॥ किमिति ॥ ‘‘तं षडि्वंशकमित्याहुः सप्तविंशमथापरे । पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदु’’रित्याथर्वणिकानां श्रुतिः । तन्मात्राणीति शब्दादीनि । भूतानामादिर्भूतादिरहंकारः ॥ यस्येति ॥ ‘‘यस्याहंकारः शरीरं योऽहंकारमन्तरे सञ्चरन्यमहंकारो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे सञ्चरन्यं बुद्धिर्नवेद । यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन्यं चित्तं न वेद । यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन्यमव्यक्तं न वेदे’’त्यादिसुबालोपनिषच्छतिः ॥ पञ्चभिरिति ॥ इदं चात्रैवानुव्याख्यानोदाहृतभागवतवाक्यं कापिलेयगतम् । पञ्चभिर्महाभूतैः पञ्चभिस्तन्मात्राभिर्महदहंकारमनोबुद्धिभिर्दशभिरिन्द्रियैश्च ब्रह्मपूरितमेतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुरिति सुधोक्तार्थः । ‘‘सात्विको राजसश्चैव तामसश्च त्रिधा महान्’’ । त्रिविधोयमिति पूर्वशेषः ॥ तावतेति ॥ ‘‘यस्मि’’न्निति वाक्याप्रतिपाद्यत्वमात्रेणेत्यर्थः । सूत्रार्थमपि सुधोक्तविवरणेन निराह ॥ यच्चेत्यादिना ॥ अन्यथेति ॥ एवं क्रोडीकारकधर्मानिरूपणे सूत्रकारस्याप्येवमन्यत्र निरूपणं न स्यात् । व्याहतिप्रसङ्गादित्यर्थः । एतेन ‘‘न हि तन्त्रसिद्धेषु तत्वेषु पञ्चसु पञ्चस्वनुगतसङ्ख्यानिवेशनिमित्तं जात्याद्यस्ती’’ति रामानुजभाष्योक्तं प्रत्युक्तम् ।

चन्द्रिकाबिन्दुः

पूर्वाधिकरणोक्तसाधकैरिति ॥ ज्ञेयत्वावचनादिसाधकैरित्यर्थः ॥ सिद्धान्तसाधकोक्तिस्त्वर्थादिति ॥ प्राणप्राणदत्वलक्षणसिद्धान्तयुक्तिस्तु अर्थाल्लभ्यते सूत्रेण । अतो न पूर्वभावः । एतस्य साधकार्थं प्रवृत्तसूत्रत्वेन पूर्वभावो दुर्वार इति भावः । अत्र ज्योतिरन्नशब्दयोरेकार्थत्वं वा पृथक् पञ्चकं वेति टीकावाक्यार्थमाह ॥ अत्र यस्मिन्निति ॥ एकपञ्चकपरत्वायेत्यनेन ज्योतिरन्नशब्दयोरेकार्थत्व कथनस्य प्रयोजनमुक्तं भवति ॥ समस्तेन पञ्चजनशब्देनेति ॥ ननु पञ्चजना इत्यत्र असमासेनौपपत्तौ समासज्ञापकं किमस्तीति चेत् शतपथब्राह्मणे अन्तानुदात्ताद्युदात्तशब्दस्य समासत्वमिति निर्णयः । पञ्चजना इति शब्दश्च अन्तानुदात्त आद्युदात्तव्यञ्जनत्रयगताकारवान् । ततश्च समासः । इदं च न प्रसिद्धव्याकरणरीत्या इत्यादिकं शाङ्करभाष्य एवोक्तम् । तत एव सम्यगनुसन्धेयम् । ‘अकारान्तो द्विगुः स्त्रियामिष्ट’ इति वचनात् कथं पञ्चजना इति पुंलिङ्गमित्यत आह ॥ पुंलिङ्गं त्विति ॥ अस्मत्सिद्धान्ते पञ्चपञ्चेति वीप्सा । एवं च प्रतिशरीरं प्राणादिनियामकानि प्राणादिरूपाणि लभ्यन्ते । शङ्करभाष्योक्तसमासाश्रयणं तु तत्प्रागेव विद्यमानेऽपि प्रकृते छान्दसत्वादिना समाधेयं यथा पुंलिङ्गमित्यादि स्वामिनः ॥

अतिरेकोऽपि भवतीति ॥ पञ्चविंशतिसङ्ख्याया इति षष्ठी । तस्या अतिरेको नामाधिक्यम् । अयं भावः । यस्मिन् पञ्चपञ्चजना इति वाक्ये आत्माकाशौ पृथगेव गृहीतौ । तद्व्यतिरिक्तानि च तत्वानि, पञ्चविंशतिरित्येव स्यात् । पञ्चजनशब्देन च पञ्चपञ्चकानि पञ्चविंशतितत्वानि प्रतिपाद्यानि । एवं पञ्चविंशतितत्वग्रहणं न पञ्चपञ्चजनशब्देन कर्तुं शक्यते आधिक्यप्रसङ्गादिति । एवमेव सुधाया अभिप्रायः । ननु पञ्चपञ्चजना इत्यनेनैवात्माकाशयोरपि ग्रहणमङ्गीक्रियते । अतो न सङ्ख्याधिक्यमित्यत आह ॥ आत्मनो हि पञ्चविंशताविति ॥ विरोध आत्मन आत्माधारत्वांशे । तेषां प्रधानादितत्वानाम् ॥ बाह्यज्ञानेन्द्रियत्वस्येति ॥ एवं च सुधास्थज्ञानेन्द्रियपदं बाह्यज्ञानेन्द्रियत्वपरतया व्याख्येयम् । अन्यथा मनसः पृथगनुक्तिप्रसङ्ग इति सूचितम् ।

पाण्डुरङ्गि

ननु साधकोक्तयनन्तरमेव बाधकोद्धारः सङ्गतः । तत्कथं साधकमनुक्त्वैव बाधकमेव प्रथममुद्धृतमित्यत आह ॥ अत्र चेति ॥ ननु टीकायां द्वितीयं सूत्रं साधकोक्तिपरतया व्याख्यातम् । तत्कथं प्रकारान्तरेण व्याख्यायत इत्यत आह ॥ द्वितीय इति ॥ ननु पञ्चजना इत्ययुक्तम् । समाहारस्यैकत्वादेकवचने क्लीबताचेति क्लीबत्वे च पञ्चजनमिति भवितव्यम् । न चाकारान्तोत्तरपदो द्विगुःस्त्रियामिष्ट इति स्त्रीलिङ्गप्राप्त्या कथं नपुंसकत्वमापाद्यत इति वाच्यम् । पात्रादौ निषेधेन स्त्रीलिङ्गबाधात् । तथा चापवादापवादात्पुनरुत्सर्गस्योत्थितिरिति न्यायेन नपुंसकत्वं स्यादित्यत आह ॥ पञ्चजना इति पुल्लिङ्गं त्विति ॥ अस्माकमिति ॥ अस्माभिर्यस्मिन्पञ्चजना इति वाक्ये पञ्चविंशतितत्वानां प्रतिपाद्यत्वानभ्युपगमात् ॥ तावतेति ॥ यस्मिन्पञ्चजना इति वाक्याप्रतिपाद्यत्वेऽपीत्यर्थः । वाक्यान्तरप्रतिपाद्यत्वाभावाभावादिति भावः ।