०१ पूर्वपक्षनिरूपणम्

पूर्वत्र प्रसिद्धस्य ..

न सङ्ख्योपसङ्ग्रहाधिकरणम्

पूर्वपक्षनिरूपणम्

॥ ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥

पूर्वत्र प्रसिद्धस्य ज्योतिरादिशब्दनिमित्तस्यासत्त्वेऽपि ब्रह्मणि योगलभ्यमप्रसिद्धं निमित्तमस्तीत्युक्तम् । अत्र तु पञ्चादिशब्दानां प्रसिद्धमेव निमित्तं ब्रह्मण्यस्तीत्युच्यत इत्यवान्तरसङ्गतिः । अत्र पञ्चजनादिशब्दाः किमन्यपराः किं वा ब्रह्मपरा इति चिन्ता । तदर्थं पञ्चत्वसङ्ख्याधाराधेयत्वादेर्भिन्ननिष्ठत्वमिति सामान्यन्यायस्यापवादकं नास्त्युतास्तीति । तदर्थं ‘‘प्राणस्य प्राण’’मित्यादिवाक्यशेषस्थषष्ठीनिर्दिष्टाः प्राणादयः पञ्चजनशब्देनोच्यन्ते किं वा द्वितीयानिर्दिष्टा इति ।

पूर्वपक्षस्तु । ‘‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित’’ इति बृहदारण्यकवाक्यस्थपञ्चजनादिशब्दवाच्यो न विष्णुः । तेषां बहुत्वविशिष्टवाचित्वात् । बहुत्वस्य चाद्वितीये ब्रह्मण्ययोगात् । नन्वन्यगतबहुत्वस्य ब्रह्माधीनत्वात् ‘‘तदधीनत्वा’’ दित्युक्तन्यायेन तत्र शब्दवृत्तिरस्तु । न च वशीकृतबहुजनेपि राजनि बहुत्ववाचिशब्दवृत्तिर्न दृष्टेति वाच्यम् । तत्र बहुत्वस्य राजानधीनत्वात् । अवरादिशब्दवदन्यत्रादर्शनेपि ब्रह्मणि वृत्तिसम्भवाच्च । न चावरादिषु ‘‘सोवरयती’’ति विशेषश्रुतिरस्ति । नत्विह सेति वाच्यम् । ‘‘तदधीनत्वा’’दित्यत्र शब्दमात्रे स्वातन्त्र्यं निमित्तमित्युक्तेः । अन्यथाऽव्यक्तादिशब्देषु विशेषश्रुत्यभावेन स्वातन्त्र्यं निमित्तं न स्यात् । न च राजाजयीत्यादौ तद्गतत्वस्यासम्भवादेव स्वातन्त्र्यस्य ग्रहणम् । इह तु ‘‘पञ्चजना’’ इत्यस्याब्रह्मपरत्वे तद्गतत्वं सम्भवतीति वाच्यम् । स्वातन्त्र्यस्य मुख्यत्वात् । न च मुख्यसम्भव एवामुख्यग्रहणं युक्तम् । सम्भवति चात्राप्यव्यक्तादिशब्देष्विव ज्ञेयत्वावचनादिहेतुभिर्ब्रह्मपरत्वाध्यवसायः । तस्मान्न पूर्वपक्षोदय इति चेन्न । यथा ‘‘ज्योतिरुपक्रमा’’दिति पूर्वोक्तपदसमन्वये स्थित एवेह वाक्यसमन्वयः सम्भवति न वेति विचारः यथा वा ‘‘ज्योति’’रित्यत्र तदधीनत्वन्याये स्थित एव गुणपूर्त्यर्थं पदसमन्वयविचारस् तथा तदधीनत्वन्याये स्थित एव तमाच्छाद्य ब्रह्मणि बहुत्वाद्यस्ति न वेतीह विचारात् । अन्यथेन्द्रादिशब्दानामपि तदधीनत्वादेव वृत्तावैश्वर्यादिगुणासिद्धिः । अवरत्वादौ तु सर्वथा तद्गतत्वासम्भवात्तदधीनत्वन्याय उक्तः । टीकायामिह तदधीनत्वन्यायासम्भवोक्तिरप्येतदभिप्राया । यद्वा बहुत्ववाचिशब्देषु स्वातन्त्र्यस्य निमित्तत्वे बद्धादिशब्दवदमङ्गलत्वाभावाद्वशीकृतबहुजने राज्ञि तत्प्रयोगापत्तेर्न तन्निमित्तमित्यभिप्राया । अत एव भाष्ये ‘‘एतेन सर्वे व्याख्याता’’ इत्यत्रैव तदधीनत्वन्याय उक्तः । शून्यादिशब्दानां स्वातन्त्र्यनिमित्तकत्वेप्यमङ्गलत्वेन राज्ञ्यप्रयोगोपपत्तेः । न तु ‘‘न सङ्ख्योपसङ्ग्रहा’’ दित्यादौ । एवमुत्तरत्र ‘‘सम्भूत’’इत्यादिशब्देषु टीकायां स्वातन्त्र्यस्यानिमित्तत्वोक्तिरपि द्वेधा व्याख्येया ।

प्रकाशिका

ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ प्रसिद्धस्येति ॥ कर्मस्वरूपादिरूपस्येत्यर्थः । अप्रसिद्धं जातमित्यादिनोक्तं जगद्धेतुत्वादिरूपमित्यर्थः ॥ प्रसिद्धमेवेति ॥ बहुत्वादिरूपम् ॥ सङ्गतिरिति ॥ महामल्लभङ्गन्यायेनेयं सङ्गतिरित्यर्थः । ननु नात्र पञ्चपदप्रवृत्तिनिमित्तबहुत्वसङ्ख्या प्रतिपाद्यते । गुहामित्यत्र तस्य सिद्धत्वात् । यद्वक्ष्यति ‘‘साधितं च गुहामित्यत्रे’’त्यादि । किन्तु स्वस्यैव स्वाश्रयत्वम् । तथा चास्तु नाम ज्योतिरादिशब्दानां कथंचिद्ब्रह्मणि वृत्तिः । न तु पञ्चजनादिशब्दानाम् । आधाराधेयभावविरोधादित्यादिरूपैव सा वाच्या । न च सूत्रे ‘‘सङ्ख्योपसङ्ग्रहा’’ दिति विरुध्यत इति वाच्यम् । अभ्युच्चययुक्तित्वेन गुहानये प्रागेवोक्तत्वादिति चेद् अस्तुवा तावदेवम् । इयमपि ग्रन्थोक्ता युक्तैव । अनेकत्वं भिन्ननिष्ठमित्यस्येहापवादकं नेति प्राप्ते तत्प्रदर्शनेनेह तस्य स्थापनाभिप्रायेणैवमुक्तिसम्भवात् । तत्र कर्मफलभोक्तृत्वमेवोच्यते । इहैवानेकत्वं व्युत्पाद्यत इति पक्षान्तरानुसारेण वैवमुक्तिः । ‘‘समन्वयसूत्र’’ इत्यादिटीकातु फलाभिप्रायेति भावः । यद्यपि पञ्चादिशब्दानां पूर्वत्राप्युदाहरणत्वात्पूर्ववदेवाप्रसिद्धनिमित्तेन वृत्तिरस्ति । तथापीह वाक्यविधयैव चिन्त्यत्वात्तत्पक्षे प्रसिद्धमेव निमित्तं व्युत्पाद्यमिति भावः । ‘‘तत्पञ्चजनशब्दवाच्यं विषय’’ इत्यादिविषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ बृहदारण्यके षष्टेऽध्याये चतुर्थे शारीरब्राह्मणे श्रूयते ‘‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् । यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । तमेवं (व) मन्य आत्मानं विद्वान्ब्रह्मा मृतोऽमृतम् । प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् मनसोमनो ये विदुस्ते निचिक्युर्ब्रह्म पुराणमग्य्र’’मित्यादि । तत्रत्यपञ्चशब्दसमभिव्याहृतजनशब्द आकाशशब्दश्चोदाहरणमित्यर्थः । अत्र बहुत्वविशिष्टार्थप्रतिपादकाश्शब्दाश्चिन्त्यन्त इति विषयोपाधिः प्रागोवाक्तः । पञ्चजना इति न समस्तम् । किन्तु पञ्च पञ्चेति वीप्सा सर्वशरीरेषु पञ्चानां जनानामनुवृत्तिसूचनार्थेति । पञ्चशब्दजनशब्दाकाशादिशब्दा इत्यर्थः । तत्वप्रदीपे ‘‘पञ्च पञ्चेति वीप्से’’ त्युक्तेः । सुधायां समासस्य खंडितत्वाच्च । एतेन यत्परभाष्ये ‘‘पञ्चशब्दो जनशब्देन समस्तः । स्वरेणैकपद्यनिश्चयात् । ‘‘पञ्चानां त्वापञ्चजनाना’’मिति प्रयोगदर्शनाच्च । समस्तत्वाच्च न वीप्से’’त्युक्तं तन्निरस्तम् । अन्यत्र तथात्वेपीह स्वरानिर्णयेनैकपदत्वनिश्चायकाभावात् । सुधोक्तदिशैकपदत्वायोगाच्च ॥ अन्येति ॥ प्राणादिपरा इत्यर्थः । परममुख्यवृत्त्येति भावः । मुख्यवृत्त्याऽन्यपरत्वस्य सिद्धान्तेऽपि स्वीकारात् ॥

आधारेति ॥ सप्तमीप्रथमाभ्यां प्रतीताधाराधेयत्वाधारोर्ध्वत्वादेरित्यर्थः । यदि वक्ष्यमाणदिशा षष्ठीनिर्दिष्टा एव पञ्चजनाकाशशब्दाभ्यामुच्यन्ते तदा द्वितीयानिर्दिष्टप्राणादिशब्दैकार्थकयस्मिन्निति निर्दिष्टब्रह्माश्रितानां प्राणादीनां भिन्नत्वेन वाक्यशेषस्यानपवादकत्वात् पञ्चजनशब्दार्थोऽन्य इति पूर्वपक्षे फलम् । यदितु ‘‘प्राण’’मित्यादिना पञ्चजनशब्दस्यैकार्थ्यं तदा वाक्यशेषस्यैवापवादकतयाऽभेदेप्याधाराधेयत्वादेर्वाच्यतया बाधकाभावाद्ब्रह्म पञ्चजनपदार्थ इति सिद्धान्ते फलमिति भावः । अत्राद्यचिन्ताऽऽद्यसूत्रसूचिता । द्वितीयतृतीये तु द्वितीयसूत्रसूचिते । अत्र पञ्चजनादिशब्दा ब्रह्मतदितरपरत्वेन निर्णेतुमशक्या उत शक्याः । तदर्थं वाक्यशेषस्थप्राणादिपरत्वं तेषां न युक्तमुत युक्तमिति तृतीयसूत्रसूचितचिन्ताऽपि ध्येया । ‘‘न पञ्चजनादिशब्दवाच्यो विष्णु’’रित्यादिपूर्वपक्षटीकां व्यनक्ति ॥ यस्मिन्पञ्च पञ्चेति ॥ बृहदारण्यकेति ॥ एतच्च ‘‘ज्योतिरेकेषा’’मिति सूत्रार्थव्यक्तयेऽभिहितम् । ‘‘न च स्वस्य बहुत्वाभावेपी’’त्यादिटीकोक्तशङ्कां व्यनक्ति ॥ नन्वित्यादिना ॥ ‘‘वशीकृते’’ति टीकोक्तसमाधिं च निराह ॥ न च वशीकृतेति ॥ व्यभिचारान्न स्वातन्त्र्यं निमित्तमिति भावः । व्यभिचारं निराह ॥ तत्रेति ॥ अपेक्षाबुद्धिजन्यत्वात्तस्येति भावः । एवं तर्हि यदपेक्षाबुद्धिजन्यं तस्मिन्बहुशब्दप्रयोगस्स्यादिति चेन्न । तस्यापि कारणान्तरवन्निमित्तमात्रत्वेन बहुत्वं प्रति स्वातन्त्र्याभावात् । शब्दप्रवृत्तिहेतुत्वेन प्राग्विवक्षितनिरुक्तस्वातन्त्र्यस्याभावाच्च । एवमादिशब्दानां धेन्वादिशब्ददृष्टान्तेन व्यभिचारोद्धारस्य प्रागेव कृतत्वाच्चेति भावः । अभ्युपेत्यापि लोके व्यभिचारं ‘‘अवरादिशब्दव’’दिति टीकोक्तमाह ॥ अवरेति ॥ टीकोक्तं समाधिमपि विवृण्वन्नेवाशङ्क्य निराह ॥ न चेति ॥ इत्युक्तेरिति ॥ नन्वस्तु पञ्चजनादिशब्दप्रवृत्तिनिमित्तं बहुत्वादि प्रति स्वातन्त्र्यं तद्वृत्तौ निमित्तम् । न तावता तच्छब्दस्येहेश्वरे प्रयोगः । तत्र प्रमाणभावात् । ‘‘प्रयोगे सति निमित्तानुसरणं न तु निमित्तमस्तीति प्रयोग’’ इति न्यायात् । न च ‘‘अव्यक्तात्पुरुषः पर’’ इत्यादौ स्वातन्त्र्यरूपनिमित्तमात्रेण हरौ प्रयोगस्साधित इति वाच्यम् । तत्र ‘‘अव्यक्तमचलं शान्तं निष्कल’’मित्यादौ हरौ प्रयोगान्निमित्ताभावाच्च ‘‘अव्यक्ता’’दित्यत्रेश्वरे वृत्तिरुक्ता । न चेह पञ्चादिशब्दानामीश्वरे प्रयोगश्श्रुत्यंतरसिद्ध इति चेन्न । अन्यत्र पञ्चादिशब्दानां हरावप्रयोगेऽपीह निमित्तसद्भावमात्रेण हरौ पञ्चजनादिशब्दवृत्तिनिर्णयसम्भवात् । ‘प्रयोगे सती’’ति न्यायस्य सुधायां ‘‘अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री । किं तु तदेकदेशः । मुख्यप्रयोगे तु निमित्तमेव सामग्री । न हि सिंहशब्दस्य शार्दूले प्रयोगाभाववदुपगोरपत्येऽप्यौपगवशब्दस्य प्रयोगाभावो भवती’’त्यानुमानिकनयेऽमुख्यविषयत्वाभिधानात् । ‘‘इन्द्रियेभ्य’’ इत्यादौ हरावन्यत्र प्रयोगादर्शनेपि स्वातन्त्र्यरूपनिमित्तमात्रेण पूर्वत्र हराविन्द्रियादिशब्दवृत्तेरनुमतत्वाच्च । तत्र त्रिपादीन्यायेन वाक्यान्तरे हरौ प्रयोगस्य सिद्धत्वे त्विहापि तथा । अवरत्वादिप्रबललिङ्गेनेन्द्रियादिशब्दानामुभयत्र प्रसिद्धिनिरासेनान्यत्रैव प्रसिद्धत्वसम्पादनवदिहापि पूर्वपक्षेऽस्मिन्वाक्ये बहुत्वादिलिङ्गेन तथात्वसम्पादनसम्भवादिति भावः । अनन्यगतिस्थल एव स्वातन्त्र्याश्रयणं न तु सत्यां गतावित्येतदाशङ्क्य निराह ॥ न च राजेति ॥ मुख्यत्वादिति ॥ ‘‘स्वातन्त्र्यं तत्र मुख्यं स्या’’दित्युक्तेराश्रितं प्रत्याश्रयेपि स्वातन्त्र्यस्योक्तेश्चेति भावः । एवं च मुख्यस्वातन्त्र्यरूपनिमित्तमपहायाऽमुख्यं तद्गतत्वमादाय तद्ब्रह्मणि न युक्तमन्यत्र युक्तमिति पूर्वपक्षो न युक्त इति भावेनाह ॥ न च मुख्येति ॥ ननु सति शब्दस्य तत्परत्वे स्वातन्त्र्यनिमित्तानुसरणम् । तदेव नेत्याह ॥ सम्भवति चेति ॥ ‘‘तमेवैकं जानथे’’ति ब्रह्मण एव मुमुक्षुज्ञेयत्ववचनादन्यस्य तदवचनादिति द्वौ हेतू । आदिपदेन ‘‘अविशेषा’’ दित्युक्त ‘‘नामानि सर्वाणी’’ति श्रुतिरूपहेतुः । ‘‘अधीयत एक’’ इत्याद्युक्तहेतवश्च ग्राह्याः । एतेन ‘‘न च सर्वे वेदा इति श्रुतिर्नियामिका । तस्यास्सङ्कोचसम्भवा’’दिति टीकोक्तं न युक्तम् । बाधकाभावादित्युक्तं भवति ॥ तस्मादिति ॥ उक्तरीत्याऽव्यभिचारेण विशेषश्रुत्यभावस्याप्रयोजकत्वेन मुख्यत्वेन तात्पर्यनिर्णायकभावेन च स्वातन्त्र्यरूपनिमित्तेन पञ्चजनादिशब्दवृत्तेर्हरौ सम्भवादिति भावः ॥ इह वाक्येति ॥ अन्यथाऽऽधाराधेयत्वादेरप्रतीतेरिति भावः ॥ यथावेति ॥ यथा चैतत्तथा मूलएव प्राक् पूर्वपक्षावसरेऽभिहितम् । तमाच्छाद्य तमतन्त्रीकृत्य तमवज्ञायेति वा । यथा पूर्वतन्त्रे द्वितीयाद्यपादे ‘‘व्रीहीनवहन्ती’’ त्यत्र ‘‘धर्ममात्रे तु कर्म स्या’’दिति चतुर्थाधिकरणरीत्या शेषित्वबोधकद्वितीयायां सत्यामपि तामाच्छाद्य भावार्थस्य शेषित्वं व्रीहीणां शेषत्वमुत विपरीतमिति चिन्ता कृता ‘‘तानि द्वैधं गुणप्रधानभूतानी’’ति चतुर्थेऽधिकरणे तथेति भावः । तर्हि स न्यायो व्यर्थ इत्यत आह ॥ अवरत्वेति ॥ टीकाविरोधमाशङ्क्याह ॥ टीकायामिति ॥ एतदिति ॥ तदाच्छादनाभिप्रायेत्यर्थः ॥ तत्प्रयोगापत्तेरिति ॥ एतच्चाभ्युपेत्यवादेन । धेनूदं च नकारादिशब्ददृष्टान्तेनैवमादिशब्देष्वपि लोकेऽप्रयोगस्योपपादितत्वादिति बोध्यम् । अत्र सर्वत्र तदधीनत्वाच्छादनेन वा तस्यानिमित्तत्वाभ्युपगमाद्वा पूर्वपक्ष इत्यत्र संवादमाह ॥ अत एवेति ॥ द्वेधेति ॥ आच्छादनाभिप्रायेण वा व्यभिचारात्स्वातन्त्र्यनिमित्तत्वाक्षेपाभिप्रायेण वेत्यर्थः ।

चन्द्रिकाबिन्दुः

तदर्थं प्राणस्य प्राणमित्यादीति ॥ यदि षष्ठीनिर्दिष्टा एव प्राणदयः पञ्चजनशब्दार्थास् तदा पञ्चजनशब्देषु प्राणनियामकलक्षणं लिङ्गं नास्तीति कृत्वा पञ्चत्वसङ्ख्याधारत्वाधेयत्वादेर् भिन्ननिष्ठत्वमिति सामान्यन्यायस्य बाधकं नास्ति । अन्यदीयत्वस्य वेति फलफलिभाव ऊह्यः । टीकोक्तसमाधानमन्यथयितुमाह ॥ न च वशीकृतेति ॥ अन्यत्रादर्शनेऽपीति ॥ लोक एकस्मिन् बहुत्वादर्शनेऽपीत्यर्थः ॥ न च मुख्यसम्भव एवेति ॥ तद्गतत्वस्वातन्त्र्ययोर्मध्ये तद्गतत्वममुख्यं, स्वातन्त्र्यमेव मुख्यम् । तथा च पञ्चजनादिशब्दानां ब्रह्मपरत्वाङ्गीकारेण मुख्यतद्गतत्वपक्षमनुसृत्य मुख्यार्थत्वं नाङ्गीकर्तव्यमिति शङ्का न युक्ता । न ह्यमुख्यार्थासम्भव एव मुख्यार्थाश्रयणं प्रत्युत विपरीतमेवेति भावः । प्रकृतोपयुक्ते तदधीनत्वन्यायाच्छादनेन पूर्वपक्ष इत्यत्र दृष्टान्तमाह ॥ यथा वेति ॥ अन्यथेति ॥ तदधीनत्वन्यायानाच्छादनेन पूर्वपक्षसिद्धान्तप्रवृत्त्यनङ्गीकारे इन्द्रादिशब्दानामपि भगवति समन्वयस्य तेनैव न्यायेन सिद्धेर् गुणासिद्धिरिति भावः । अस्मिन् पक्षे टीकायां बहुस्वारस्यमिति मत्वा प्रकृते तदधीनत्वन्यायविषयत्वेमव दर्शयति ॥ यद्वेति ॥ यस्य स्वातन्त्र्येण निमित्तेन भगवति वृत्त्यङ्गीकारे राज्ञ्यपि तन्न्यायेन यच्छब्दापादने अमङ्गलत्वं नास्ति स शब्दोऽत्र विषयः । पञ्चजनशब्दस्य तदधीनत्वन्यायेन ब्रह्मणि प्रवृत्त्यङ्गीकारे वशीकृतबहुजनेऽपि राज्ञि तत्प्रयोगः स्यादित्यापादयितुं शक्यते । बहुत्ववाचिशब्दस्य राज्ञि अमङ्गलत्वानापादकत्वात् । एवं चैतादृशशब्दस्थले तदधीनत्वन्यायो न प्रवर्तत इति । अथ पञ्चजनशब्दस् तदधीनत्वन्यायविषय उत्तराधिकरणस्थसम्भूतादिशब्दोऽपि तादृश एवेति भावः ॥

पाण्डुरङ्गि

ॐ न सङ्ख्योपसङ्गहात् ॐ ॥ टीकायामवरादिशब्दवदन्यत्रादृष्टत्वेऽपि वृत्तिः किं न स्यादित्यत्रात्रेति न प्रतीयते । सन्निधानाच्चान्यत्रैवेति प्रतीयते । ततश्च विरुद्धतेत्यतः शेषं सम्पूर्य व्याख्याति ॥ अवरादिशब्दवदिति ॥ तत्र हेत्वन्तरेण सिद्धायां वृत्तावित्यादिटीकायां किं तद्धेत्वंतरमिति न प्रतीयते । अतस्तत्प्रदर्शनपूर्वकं व्याचष्टे ॥ न चावरादिष्विति ॥ अन्यथेति ॥ हेत्वन्तरेण सिद्धायां वृत्तौ तदधीनत्वनिमित्तमात्राश्रयणादित्यर्थः । ननु भृत्यगतस्य जयस्य राजगतत्वाभावेन राज्ञि जयशब्दवृत्तौ तद्गतत्वस्य निमित्तत्वासम्भवेन तत्र स्वातन्त्र्यस्य निमित्तत्वकल्पनेऽपि प्रकृते पञ्चजनादिशब्दप्रवृत्तिनिमित्तस्यान्यगतत्वेनान्यत्र पञ्चजनादिशब्दप्रवृत्तौ तद्गतत्वस्यैव निमित्तत्वसम्भवेन स्वातन्त्र्यस्यानिमित्तत्वान्न पञ्चजनादिशब्दानां ब्रह्मपरत्वमित्याशङ्कते ॥ न चेति ॥ तथा च मुख्यामुख्यन्यायविरोध इति भावः । मुख्यसम्भवे ह्यमुख्यग्रहणे मुख्यामुख्यन्यायविरोधः । न तु तदसम्भवेपि । प्रकृते मुख्यासम्भवादेवामुख्यार्थोऽभ्युपगम्यत इत्यत आह ॥ सम्भवति चेति ॥ समन्वये स्थित एव जगत्स्रष्टृत्वसर्वशब्दवाच्यत्वादिगुणपूर्त्यर्थमिति शेषः । ननु तदधीनत्वेनैव शब्दानां ब्रह्मपरत्वोपपत्तौ किं तत्तच्छब्दप्रवृत्तिनिमित्तस्य तद्गतत्वव्युत्पादनेन । वैयर्थ्यादित्यत आह ॥ अन्यथेति ॥ नन्वेवमवरादिशब्देष्वपि तदधीनत्वन्यायेन ब्रह्मपरत्वोक्तिरयुक्तेत्यत आह ॥ अवरत्वादाविति ॥ नन्वेवं तदधीनत्वन्यायमभ्युपेत्यापि पूर्वपक्षश्चेत्तर्हि टीकाविरोधः । तत्र हेत्वन्तरेण सिद्धायां वृत्तौ निमित्तमात्राश्रयणादित्यादिना तदधीनत्वन्यायासम्भवाभिधानादित्यत आह ॥ टीकायामिति ॥ एतदभिप्रायेति ॥ तदधीनत्वन्यायेन ब्रह्मपरत्वे स्थितेऽपि तमाच्छाद्य पञ्चजनादिशब्दप्रवृत्तिनिमित्तबहुत्वाद्यपि ब्रह्मण्यस्तीतीह विचारः क्रियत इत्यभिप्रायेत्यर्थः । टीकास्वारस्यार्थं पक्षान्तरमाह ॥ यद्वेति ॥ द्वेधा व्याख्येयेति ॥ तदधीनत्वन्यायमाच्छाद्येत्युक्तप्रकारद्वयपरतयेत्यर्थः ।