०६ उभयमतपरीक्षा

अन्येतु

उभयमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ॥ ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपा’’ इति श्वेताश्वतरवाक्यस्था प्रजास्रष्टृत्वेनोक्ताऽजा साङ्ख्याभिमता त्रिगुणा प्रकृतिरिति प्राप्ते इयमजा साङ्ख्याभिमतेति न निश्चेतुं शक्यम् । अजात्वादेः सर्वत्रापि कथंचित्सुसम्पादत्वात् । विशेषहेतोश्चाभावात् । यथा ‘‘एषह्यर्वाग्बिलश्चमस’’ इत्यत्रायं नामासौ चमस इति निश्चेतुमशक्यम् । अर्वाग्बिलत्वादेः सर्वत्रापि कथंचित्सुसम्पादत्वात् । विशेषहेतोश्चाभावादिति चमससूत्रेणोक्त्वा ज्योतिःसूत्रेण प्रत्युतेयमजा ज्योतिरुपक्रमैव तेजआदिरूपैव । न तु साङ्ख्याभिमता । ‘‘यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये’’ति श्रुत्यन्तरे तेजोबन्नानामेव लोहितशुक्लकृष्णरूपवत्त्वेनाधीतत्वात् । प्रकृतिपक्षे लोहितादिशब्दानां रजआदौ गौणत्वापत्तेश्चेति समाहितम् । चमससूत्रं च ज्योतिरधिकरणशेष इत्याहुः ॥ तन्न ॥ ‘‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस’’ इत्यत्र शिरोरूपविशेषपरत्वस्य स्फुटत्वेनाविशेषे दृष्टान्तत्वायोगात् । ब्रह्मलक्षणस्य कारणत्वस्य प्रधानेनातिव्याप्तिः किं तु तेजोबन्नेष्विति समर्थनस्य निष्फलत्वाच्च । किञ्च

अजा चेज्ज्योतिरादिः स्यादजैकत्वाद्यसम्भवः ।

अविद्येति तु पक्षे स्याल्लोहितत्वाद्यसम्भवः ॥ १ ॥

इयमजा सिद्धान्ते किं तेजोबन्नरूपा किं वाऽविद्यारूपा । नाद्यः । तेषां जनिमत्त्वादनेकत्वाच्च ‘‘अजामेका’’ मित्याद्ययोगात् । न च त्रिवृत्करणादेकत्वम् । ‘‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणी’’ति प्रत्येकं त्रिवृत्करणश्रवणेन त्रिवृत्कृतसमुदायानामपि त्रित्वात् । नन्वेतत् ‘‘कल्पने’’ति सूत्रेणैव परिहृतम् । यथा ‘‘आदित्योवा देवतामध्वि’’त्यादावादित्ये मधुत्वं कल्प्यते तथा तेजोबन्नेष्वजात्वं छागीत्वं कल्प्यत इत्यस्यार्थ इति चेत् कल्पनाऽऽरोपोवा गौणीवृत्तिर्वा । नाद्यः । पामरमनोरञ्जनार्थं काव्यादाविव श्रुतिषु कल्पनोपदेशे फलाभावात् । अन्यथा साङ्ख्याभिमतप्रकृतावेव लोहितत्वाद्यारोप इति स्यात् । देवमध्वित्यादिकं तु मधुशब्दवाच्यत्वपरमित्युक्तम् । न चाजाशब्दोऽनन्यगतिकः योगस्य सम्भवात् । ‘‘शरीरं रथमेव च गौरनाद्यंतवती’’त्यादौ तु शरीरप्रकृत्यादौ रथगवादिशब्दा गौणाः । नत्वारोपनिमित्तकाः । न द्वितीयः । योगेन मुख्यत्वसम्भवे गौणत्वायोगात् । लोहितादिविशेषणशब्दानामेव प्रकृतौ गौणत्वस्यन्याय्यत्वेन विशेष्यतया प्रधानभूताजाशब्दे तस्यान्याय्यत्वाच्च । किञ्च ‘‘गौरनाद्यन्तवती भूतभाविनी सिताऽसिताच रक्ताचे’’ति श्रुत्यन्तरोक्तैवेह प्रत्यभिज्ञायते । साचानाद्यंतवतीत्वान्न तेजोबन्नरूपा । लोहितादिशब्दानां रूपपरत्वं चायुक्तम् । ‘‘देवात्मशक्तिं स्वगुणैर्निगूढा’’मिति वाक्यशेषे सत्त्वादिषु प्रसिद्धगुणशब्दश्रवणात् । स्वीकृताच त्वयापि शक्तिवाक्यस्याविद्यापरता ।

नाप्यविद्येति द्वितीयः । तत्र लोहितादिरूपाभावात् । कार्यावस्थायां रूपाश्रयत्वं तु प्रकृतावपि युक्तम् । ज्योतिरित्यादिसूत्रद्वयविरोधश्च । तस्य अजा तेजोबन्नरूपेत्येवंपरत्वेन त्वया व्याख्यातत्वात् । किं च त्रिगुणमनादिभावरूपं प्रकृत्यादिसंज्ञं जगदुपादानं त्वयाऽपि स्वीकृतम् । साङ्ख्याभिमतं तु स्वातन्त्र्यं द्वितीये साङ्ख्यप्रक्रियायां निरसिष्यते । निराकृतं च ‘‘तदधीनत्वा’’दित्यत्रेति व्यर्थमिदमधिकरणम् । तदुक्तमनुव्याख्याने

तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ।

अनाद्येवापराधः कः प्रधानमिति चोदितः ॥ इति ।

ज्योतिःसूत्रे उपक्रमेत्यपपाठाश्रयणे ह्यजापदमध्याहार्यम् । तेजसस्तद्रूपमिति श्रुत्यनुगमाय च लाघवाय च तेजआदिरिति च सूत्र्येत । कल्पनेति सूत्रेऽनुपपत्तिस्तूक्तेति ॥ केचित्तु ॥ चमससूत्रस्य परोक्त एवार्थः । ज्योतिस्सूत्रस्य ज्योतिर्ब्रह्म । इयमजा ज्योतिरुपक्रमा ब्रह्मकारणिका । तैत्तिरीयशाखायां ‘‘अणोरणीया’’नित्यादिना ब्रह्मोक्त्वा ‘‘सप्तप्राणाः प्रभवन्ति तस्मा’’दित्यादिना ततः सृष्टिं चोक्त्वा ‘‘अजामेका’’मिति मन्त्रे ब्रह्मकार्या ह्यजाऽधीयत इत्यर्थ इत्याहुः । तन्न । अजामिति मन्त्रेऽजाया ब्रह्मकार्यत्वाप्रतीतेः । ननु यथा ‘‘समिधोयजती’’ त्यादावंगत्वाश्रयणेपि दर्शपूर्णमासप्रकरणात्तदङ्गता तथाऽत्रापि सृष्टिप्रकरणेपि तदाकाङ्क्षितोपादानत्वेनाप्यजाया उक्तिसम्भवेन सृज्यत्वासिद्धेः । समिदादिस्त्वङ्गत्वेनैव दर्शाद्याकाङ्क्षित इति वैषम्यम् । किञ्च प्रकृतेः कार्यत्वे ‘‘गौरनाद्यंतवती प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपी’’त्यादिश्रुतिस्मृतिविरोधः । अजात्वविरोधश्च । ननु प्रकृतेः कारणात्मनाऽजात्वम् । तत्र कल्पनाशब्दस्य ‘‘यथा पूर्वमकल्पय’’ दित्यादाविव सृष्टिपरत्वादिति चेन्न । अजात्वलोहितादित्वयोः स्वतःप्राप्तैकविषयत्वत्यागेनावस्थाभेदेन विभिन्नविषयत्वायोगात् । अजां सृजमानामिति कारणावस्थायामेव लोहितत्वादिप्रतीतेश्च । किञ्च प्रकृतिस्वरूपं त्वयापि स्वीकृतम् । साङ्ख्याभिमतं तु स्वातन्त्र्यं ‘‘तदधीनत्वा’’दित्यत्र निरस्तम् । एवं चाजायाः प्रकृते ‘‘ज्योति’’रितिसूत्रे ब्रह्मकार्यत्वमनुपयुक्तमेवोक्त्वा तन्निर्वाहाय ‘‘कल्पने’’ति सूत्रेऽजात्वकार्यत्वयोराकारभेदेनाविरोधसमर्थनं व्यर्थमेवेति ॥

टीकाक्षरार्थस्तु ॥ अधिकारिनियोज्ययजमानेति ॥ अधिकारित्वं फलस्वामित्वावस्था । नियोज्यत्वं विधिप्रेर्यत्वावस्था । यजमानत्वं कर्तृत्वावस्था ॥ ज्योतिष्टोमादिशब्दव्युत्पत्तिरिति ॥ यद्यपि ज्योतिःशब्द एव सूत्र उपात्तः । अनुव्याख्याने च तस्यैव व्युत्पत्तिर्दर्शिता । तथापि ज्योतिष्टोमशब्दोऽपीहोदाहरणमिति दर्शयितुं ज्योतिःशब्दोपि ज्योतिष्टोमवाचीति दर्शयितुं च टीकायां ज्योतिष्टोमशब्दस्य व्युत्पत्तिर्दर्शिता ॥

प्रकाशिका

मतद्वयेपि ‘‘चमसव’’दित्यादित्रिसूत्र्येकमधिकरणम् । तत्राद्वैतिमतमनुवदति ॥ अन्येत्विति ॥ श्वेताश्वतरेति ॥ अजाशब्दस्य छाग्यां रूढत्वात्कः प्रधानादिचिन्ताप्रसङ्ग इत्यतोऽध्यात्मविद्याप्रकरणस्थत्वान्न रूढेरत्र ग्रहणमिति सूचयितुमेतत् । तदुक्तं भाष्ये‘‘विद्याप्रकरणा’’दिति । भामत्यां च ‘‘आत्मविद्याधिकारान्न च तत्र वर्तितुमर्हती’’ति । रूढित्यागे हेत्वन्तरम् ॥ प्रजेति ॥ छाग्यां प्रजासृष्टेरयोगात् । अविशेषादिति सूत्रखण्डार्थमाह ॥ इयमिति ॥ चमसवदित्यंशस्यार्थमाह ॥ यथेति ॥ अर्वाग्बिल इत्येतन्नामकैवंरूपं चमसस्य यथा निर्णेतुमशक्यं तथेत्यर्थः । ‘‘ननु तत्र तु इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वब्रुध्न’’ इति वाक्यशेषाच्चमसविशेषप्रतीतिर्भविष्यति । इह पुनः केयमजेत्यतो ब्रूम’’ इत्यवतार्य भाष्येऽभिहितं ज्योतिस्सूत्रार्थमनुवदति ॥ प्रत्युतेति ॥ प्रधानभिन्नैवाजा निर्णेतुं शक्यत इत्यर्थः । उपक्रमशब्दः प्रभृतिवाचीति मत्वाह ॥ तेजआदिरूपैवेति ॥ तेजोबन्नलक्षणभूतत्रयरूपैवेयमजान गुणत्रयलक्षणेत्यर्थः । तथाहीत्यादिसूत्रांशार्थमाह ॥ यदिति ॥ श्रुत्यन्तरे छान्दोग्ये । प्रकृतिपक्षे साङ्ख्याभिमतप्रधानपक्षे । रजःप्रभृतिषु लौहित्यादिवर्णानामभावेन ‘‘लोहितं कुसुम्भादि रञ्जयति रजोपि रञ्जयतीति लोहितम् । प्रसन्नं पाथः शुक्लम् । आवरकं मेघादि कृष्णं तमोप्यावरक’’मिति भामत्युक्तरीत्या गौणत्वापत्तेरित्यर्थः । तृतीयसूत्रार्थं स्वयमेवाग्रे वक्ष्यति । आद्यसूत्रार्थोऽयुक्त इत्याह ॥ इदमिति ॥ ज्योतिस्सूत्रार्थमपि निराह ॥ ब्रह्मेति ॥ चिन्ताया अतिव्याप्तिनिरासः फलम् । यथोक्तं ‘‘त्रिपाद्यामसम्भवनिरासः । चतुर्थेऽतिव्याप्तिनिरास’’ इति । प्रधाननिरासेपि तेजोबन्नानीत्युक्तयाऽतिव्याप्तिसमर्थनमेव फलितम् । तच्च व्यर्थमित्यर्थः । अतो ब्रह्मपरमित्येव वाच्यमन्यद्वोदाहार्यमिति भावः । तदुक्तमनुव्याख्याने

अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।

को दोषस्सर्वथैवास्ति परिणामि जडं यदि ॥ इति ।

अतिव्याप्तिनिरासस्योभयत्राप्यभावादिति भावः । न केवलं निष्फलम् । अयुक्तं च तेजोबन्नपरत्वसमर्थनमिति भावेन ‘‘किं च तेजोबन्नेषु न तावदजाशब्दो रूढ’’ इत्यादिसुधावाक्यं विवृण्वन्दोषान्तरमाह ॥ किञ्चेति ॥ श्लोकं व्याचष्टे ॥ इयमिति ॥ किन्तेज इति ॥ मायाऽविद्याशब्दितपरमप्रकृतिजन्यावांतरप्रकृतिरूपेत्यर्थः ॥ अविद्येति ॥ तत्कारणपरमप्रकृतिरूपेत्यर्थः ॥ जनिमत्त्वादिति ॥ एतेनाजैकत्वेत्यत्राजात्वैकत्वेति व्याख्यातम् ॥ छागीत्वमिति ॥ अजाशब्दस्य छाग्यां रूढत्वेन तदाकारस्य तेजोबन्नेष्वभावादिति भावः । छागीति ‘‘जातेरस्त्रीविषयादयोपधा’’दितीकारांतं साधु । आहचामरोपि ‘‘अजा छागी शुभच्छागबस्तच्छगलका अज’’ इति । सुधायां च ‘‘अजाशब्देन रूढत्वाच्छागी स्वीकर्तुमुचिते’’ति प्रयुक्तम् । एवं च परभाष्ये भामत्यां च ‘‘छागायां रूढ’’ इति ‘‘छागातोपकृष्टस्ये’’ति कल्पतरौ चाकारान्तप्रयोगोऽपभ्रंश इति सूचितम् । कल्पनेत्यनुवादः। आरोपो गौणीवृत्तिर्वेति तस्य व्याख्यानविकल्पः । सुधोक्तदोषमाह ॥ पामरेति ॥ कथं तर्हि सौत्रदृष्टान्त इत्यत आह ॥ देवेति ॥ इत्युक्तमिति ॥ ‘‘उपजीव्यं प्रसिद्धार्थ’’मित्यादिना पूर्वत्रैवोक्तमित्यर्थः । अन्यथा ‘‘पामरजनमनोरञ्जने’’त्यादिनोक्तदोषस्याप्यत्रापातादिति भावः । अनन्यगत्यैवमाश्रीयत इत्यत आह ॥ न चेति ॥ योगस्येति ॥ तत्सम्भवश्च वक्ष्यत इति भावः । श्रुतिषु कथमेवं कल्पनेत्यत आह ॥ शरीरमिति ॥ ननु प्रधानपक्षे लोहितादिशब्दानां गौणत्वं दोष इत्यत आह ॥ लोहितेति ॥ अजैकत्वादीत्यादिपदार्थं विवृण्वन्समाख्यानासम्भवं चाह ॥ किञ्चेति ॥ श्रुत्यन्तरेति ॥ आथर्वणोपनिषद्गतश्रुत्यन्तरेत्यर्थः । अत एवोक्तं सुधायां ‘‘गौरनाद्यंतवती सा जनित्री भूतभाविनी । सितासिताच रक्ता च सर्वकामदुघा विभोरित्यादिश्रुतिसमाख्यया निर्णयोपपत्तेरिती’’ति भावः । गौरपि तेजोबन्नरूपैवास्त्वित्यत आह ॥ साचेति ॥

अनाद्यन्तवतीत्वादिति ॥ तेजोबन्नस्य जनिमत्त्वेनातथात्वादिति भावः । नन्वनाद्यंतवत्त्वादिति भवितव्यम् । कथमनाद्यंतवतीत्वादिति । ‘‘त्वतलोर्गुणवचनस्ये’’ति पुंवद्भावोक्तेरिति चेदुच्यते । अनुक्रियमाणरूपविनाशप्रसङ्गात् ‘‘खलर्थतृना’’मितिवदेवमुक्तम् । यद्वा गुणवचनग्रहस्य जातिव्यावृत्तिपरत्वेनाभियुक्तैर्व्याख्यानादनुकरणशब्दस्य चानुक्रियमाणशब्दगतजातिनिमित्तकत्वादेवागुणशब्दत्वेनापुंवद्भावादनाद्यंतवतीत्वादिति साधु । उक्तं च कैयटे ‘‘ऋलृ’’गिति सूत्रे ‘‘अनुक्रियमाणशब्दे या जातिस्समवेता तत्सम्बद्धमनुकार्यमनुकरणं प्रत्याययती’’ति । यदपि गौणत्वापत्तिरिति तदपि नेत्याह ॥ लोहितेति ॥ ‘‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढा’’मिति श्वेताश्वतर एव पूर्वं श्रवणादिति भावः । अविद्येत्याद्युत्तरार्धं व्यनक्ति ॥ नापीति ॥ द्वितीयपक्षे दोषान्तरमाह ॥ ज्योतिरिति ॥ तस्य सूत्रद्वयस्य । किं सिद्धान्ते प्रधानस्वरूपस्यैव निरास उत स्वातन्त्र्यस्येति विकल्प्य क्रमेण निराह ॥ किञ्चेति ॥ साङ्ख्येति ॥ समयचरण इत्यर्थः । एतेन ‘‘किं चे’’त्यादिना ‘‘तेजोबन्नानि परमेश्वराधीनानि । अतो नातिव्याप्तिरिति चे’’दिति सुधावाक्यं विवृतं भवतीति ध्येयम् ॥ तदुक्तमिति ॥ एतेनोक्तं सुधावाक्यं तन्मूलमिति सूचितम् ।

चमससूत्रार्थः प्रागेव निरस्त इति ज्योतिस्सूत्रार्थानुपपत्तिमाह ॥ ज्योतिरिति ॥ उक्तेति ॥ कल्पनाऽऽरोप इत्यादिग्रन्थ इत्यर्थः ॥ केचित्त्विति ॥ अजामेकामित्यादिमन्त्रोक्ताऽजा किं स्वतन्त्रप्रकृतिरुत ब्रह्माधीनप्रकृतिरिति संशये अजेत्यकार्यत्वश्रवणात्सृजमानामिति स्वतन्त्राख्यकर्तृशानचा परतन्त्रसृष्टिप्रतीतेश्च केवलप्रकृतिरिति प्राप्ते तन्निरासकतया चमससूत्रार्थः पररीत्यैवोक्त इत्यर्थः । एतेन सुधायां ‘‘कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्ट’’ इत्यादिना रामानुजमते ज्योतिस्सूत्रार्थमात्रानुवाददूषणयोरुक्तिश्चमससूत्रार्थस्य प्रागुक्ताद्वैतिमतदोषेण दुष्टत्वाशयेति सूचितम् । तदधीनग्रहणे को हेतुरित्यतो द्वितीयसूत्रार्थमन्वाह ॥ ज्योतिरिति ॥ इति मन्त्रे तैत्तिरीयगते । श्रुतप्रकाशोक्तमाशङ्कते ॥ नन्विति ॥ प्रकरणादिति ॥ इतिकर्तव्यताकाङ्क्षारूपप्रकरणादित्यर्थः ॥ सृष्टिप्रकरणादिति ॥ बह्वीः प्रजा जनयन्तीमित्युत्तरत्र सृष्टिश्रवणात्सर्वं सृष्टिप्रकरणमेवेति ज्ञायत इत्यर्थः ॥ अङ्गत्वेनैवेति ॥ तृतीयाध्यायस्य तृतीयपादे ‘‘असंयुक्तं प्रकरणादिति कर्तव्यतार्थित्वा’’दिति चतुर्थाधिकरणसूत्रोक्तेतिकर्तव्यतापदप्रयोगाद् भाष्ये च ‘‘यदिति कर्तव्यताकाङ्क्षिणस्सन्निधौ परिपूरणसमर्थमुपनिपतति वचनं तत्तेन प्रकृतेन सहैकवाक्यतां याती’’त्युक्तेरङ्गत्वेनैव समिदादीनामाकाङ्क्षितत्वादिह तूपादानत्वेनैवाकाङ्क्षितत्वमिति भावः ।

यथाहि परसिद्धान्ते प्रधाननिरासः श्रुत्यादिविरुद्ध इति दर्शयितुं त्वद्भाष्ये यच्छत्याद्युदाहृतं तद्विरोधादेव त्वत्सिद्धान्तोप्ययुक्त इत्याह ॥ किं चेति ॥ सुधोक्तं दोषान्तरमाह ॥ किञ्चेति ॥ एतेन प्रायो रामानुजरीतिमनुसरतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं ध्येयम् । तथाहि । किमजा स्वतन्त्रा शिवाधीना वेति सन्देहे जननाभावादिना साङ्ख्याभिमतेति प्राप्ते तन्निरासकतया यथा चमसशब्दस्य चम्यतेऽनेनेति योगेन भक्षणसाधनमात्रपरस्य शिरःपरत्वे यथा विशेषकमस्ति ‘‘इदं तच्छिर’’ इति तत्प्रकरणे वाक्यम् एवमत्र प्रधानग्रहणे विशेषहेतुर्नेति चमससूत्रार्थमुक्त्वा ज्योतिरादिसूत्रस्य रामानुजोक्तमेवाभिधेयमुक्तम् । तदयुक्तम् । गौरनाद्यंतवतीति श्रुत्यन्तरोक्तप्रत्यभिज्ञानस्यैव विशेषहेतोस्सत्वात् । न च प्रकरणे स नास्तीति वाच्यम् । प्राकरणिकेनैव तेन भाव्यमित्यत्र नियामकाभावात् । द्वितीयार्थोप्ययुक्तः । ‘‘अणोरणीया’’नित्यत्रोक्ताजायाः कार्यत्वाप्रतीतेस्समिदादिवैषम्यस्य मूलग्रन्थ एव स्फुटत्वात् । यदत्रोक्तं शिवार्कमणिदीपिकायां यथा दर्शपूर्णमासप्रकरणे पठितं ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमास्ये प्रायच्छ’’दिति वाक्यमिन्द्रवृत्तान्तमात्रविषयतया प्रतीयमानमपि प्रकरणानुरोधादिन्द्रेणाग्नीषोमाभ्यां दत्ततयोच्यमानस्यैकादश कपालपुरोडाशद्रव्यकयागस्यानुष्ठेयत्वेन प्रतिपादकमुपेयते तथेहापि पूर्वोत्तरपरामर्शात्सृज्यत्वेनोपेयत इति तन्न । ताभ्यामिति वाक्योक्तयागस्याप्राप्तत्वादिनाऽनुष्ठेयत्वोपगमेन

प्रकरणेन तथात्वोपगमाभावात् । प्रकरणस्याङ्गाङ्गिभाव एव प्रमाणत्वात् । अन्यथा यदाग्नेयादिवाक्येष्वपि यागस्याप्रत्यक्षत्वात्प्रकरणानुसरणं तत्रापि स्यात् । किं च सृष्टिप्रकरणेष्वपि तदुपादानत्वेनाप्युक्तिसम्भवेन सृज्यत्वासिद्धेः । सुधोक्तदिशाऽनेनैव चारितार्थ्येनाद्यसूत्रवैयर्थ्याच्च । कार्यत्वेपि शिवकार्यत्वस्य सर्वथासिद्धेश्च । ‘‘धातुःप्रसादान्महिमानमीश’’मितीशशब्दस्य प्रागुक्तदिशा विष्णुपरत्वात् । ‘‘किं च प्रकृते’’रित्यादिमूलोक्तदोषानुद्धाराच्चेति । अधिकार्यादिपदानां भिन्नार्थत्वमस्फुटत्वादाह ॥ अधिकारीति ॥ शब्दान्तरव्युत्पत्त्युक्तेर्भावमाह ॥ ज्योतिष्टोमेति ॥ ज्योतिरुपक्रमाधिकरणम् ॥ २ ॥

चन्द्रिकाबिन्दुः

विशेषहेतोरिति ॥ स्वस्याभिमतत्रिगुणात्मकप्रकृतिपरत्व इति शेषः । अजाशब्देन तेजोऽबन्नग्रहणे कथं लोहितशुक्लकृष्णत्वादिकमित्यत आह ॥ अग्ने रोहितमिति ॥ अविशेष इति ॥ मन्त्रवर्णस्थस्य एष ह्यर्वाग्बिलश्चमस इत्यादिवाक्यस्य शिरःपदार्थविशेषपरत्वे निश्चायकस्य ब्राह्मणस्य सत्त्वेन विशेषो नास्तीति भावः ॥ अविद्येति ॥ यद्यपीयमजा तेजोऽबन्नादिरुपैवेति ज्योतिस्सूत्रेण सिद्धान्तितत्वाद् इयमजा अविद्या वा इति विकल्पोऽनुचितः । तथापि परेण देवात्मशक्तिमित्यादितत्प्रकरणस्थवाक्यशेषेऽविद्यापरत्वाङ्गीकारात् तदेकवाक्यतापन्नतया अजामेकामित्यादिवाक्यमपि किमविद्यापरमिति विकल्पस्यावकाशः । अत एव वक्ष्यति स्वीकृता च त्वया शक्तिवाक्यस्याविद्यापरतेति ।

न च त्रिवृत्करणं दोषः । तथापि बहुत्वानिर्धारणादिति सुधावाक्यार्थमाह ॥ न च त्रिवृत्करणादेकत्वमिति ॥ त्रिवृत्कृतसमुदायानामिति ॥ त्रिवृत्कृतस् तेजस्समुदायकस् त्रिवृत्कृतोऽप्समुदायकस् त्रिवृत्कृतः पृथिवीसमुदायकः । एवं च पुनस्तेजोऽबन्नानां बहुत्वाद् अजामित्येकवचनेनानुपपत्तिरिति तथापि बहुत्वानिर्धारणादिति सुधावाक्यार्थः ॥ नन्वेतदिति आत्मत्वादिति उपपत्तिरूपबाधकमित्यर्थः । अन्यथा अविद्यमानारोपणसिद्धान्तकरणे ॥ अनन्यगतिक इति ॥ तेजोऽबन्नादिपरत्वं विनेति शेषः ॥ योगस्येति ॥ पूर्वपक्ष्यभिमतप्रकृताविति शेषः ॥ योगेन मुख्यत्वसम्भव इति ॥ पूर्वपक्ष्यभिमतप्रकृतावेवेति शेषः । ननु अजावशब्दस्य प्रकृतिपरत्वे कथं तत्र लोहितशुक्लकृष्णत्वादिकमुपपादनीयमित्यत आह ॥ लोहितादिविशेषेणेति ॥ ‘गुणे त्वन्याय्यकल्पना’ इति न्यायेन विशेषणपद एव गौणार्थकल्पनमुचितमिति भावः । कार्यावस्थायां तेजोऽबन्नादिकार्यावस्थायाम् ॥ इयमजेति ॥ श्वेताश्वतरोपनिषदि श्रुता अजा ब्रह्मकारणिका तैत्तिरीयशाखास्थब्रह्मकारणिकाज्जया प्रत्यभिज्ञानादिति भावः ॥ अजामिति ॥ मन्त्र इति ॥ तैत्तिरीयशाखामन्त्रे । तदाकाङ्क्षितेति । सृष्ट्याकाङ्क्षितेत्यर्थः ॥ स्वतः प्राप्तेति ॥ स्वरसतः प्राप्तैकावस्थाविषयत्वपरित्यागेनेत्यर्थः । तन्निर्वाहाय ज्योतिस्सूत्रोक्तब्रह्मकार्यनिर्वाहाय ॥

पाण्डुरङ्गि

नन्वजाशब्दस्य प्रकारान्तरासम्भवादजात्वारोपोऽभ्युपगम्यत इत्यत आह ॥ न चेति ॥ ननु प्रकृतिपक्षे लोहितादिशब्दानां रजआदौ गौणत्वापत्तिरित्यत आह ॥ लोहितादिविशेषणशब्दानामिति ॥

उक्तेति ॥ कल्पनारोपो गौणीवृत्तिर्वेत्यादिनोक्तेत्यर्थः । अधिकारिनियोज्ययजमानशब्दानामेकार्थत्वेन पृथग्ग्रहणमनुपपन्नमित्यतो व्याख्याति ॥ अधिकारित्वमिति ॥ ज्योतिरुपक्रमाधिकरणम् ॥ २ ॥