यत्तूक्तमुभाभ्यां
परमतपरीक्षा
तात्पर्यचन्द्रिका
यत्तूक्तमुभाभ्याम् ईक्षत्यधिकरणोक्तं प्रधानस्याशाब्दत्वमयुक्तम् । महतः परमव्यक्तमिति वाक्ये प्रधानोक्तेरिति प्राप्ते तन्निरासेनेह सिद्धान्त इति । तत्र न तावत्प्रधानस्य शाब्दत्वमात्रमिह निरस्यम् । त्वन्मते समन्वयसूत्रे सर्वसमन्वयस्याप्रतिज्ञातत्वेन प्रधानस्याव्यक्तादिश(ब्दमुख्यार्थ)ब्दार्थत्वेऽप्यविरोधेन तन्मात्रनिरसनस्य निष्फलत्वात् । प्रधानादितत्वानां श्रुत्यादिसिद्धताया वक्ष्यमाणत्वेनाशक्यत्वाच्च । ईक्षतिसूत्रेऽपि निष्फलत्वाशक्यत्वाभ्यां शाब्दत्वमात्राभावोक्तययोगाच्च । नापकारणत्वेन शाब्दत्वं निरस्यम् । इह कारणत्वाभावात् । न च ‘‘महतःपर’’मिति परशब्देन तद्भानम् । ‘‘अव्यक्तात्पुरुषःपर’’ इत्यादाविव तेन तत उत्तमत्वस्यैव प्रतीतेः । तस्मान्नपूर्वपक्षोदयः ।
किं च अव्यक्तशब्दार्थः किं ब्रह्मेति सिद्धांत्यते किं वाऽविद्यादिकमिति । नाद्यः । अनङ्गीकृतेः । नान्त्यः । ब्रह्मणि समन्वयानुक्तयाध्यायासङ्गतेः । प्रधाने ब्रह्मलक्षणस्यातिव्याप्तिपरिहारेऽप्यविद्यादौ तदपरिहाराच्च ।
कारणत्वं प्रधानस्य निरस्य स्थापितं यदि ।
अविद्यादेस्तदा कोनु लाभोऽस्ति ब्रह्मवादिनः ॥ १ ॥
वृकेणापहृतं मेषमादायातिप्रयत्नतः ।
स चेद्य्वाघ्राय दीयेत कोलाभस्तेन सिध्यति ॥ २ ॥
ननु परशब्दस्योत्कर्षार्थत्वादिह कारणत्वधीरेव नेति सिद्धान्त्यते । एवंचा विद्यादेरव्यक्तशब्दार्थत्वेपि न दोष इति चेत्तर्हि प्रधानस्य तदर्थत्वेपि न दोष इति न तन्निरासः फलम् । अन्यथा ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परंमन’’ इत्यादावर्थादिशब्दानां साङ्ख्याभिमतेश्वरानधीनशब्दस्पर्शाद्यर्थत्वं, ‘‘आकाशाद्वायु’’ रित्यादावाकाशादिशब्दानां च तदभिमतेश्वरानधीनाकाशाद्यर्थत्वं च निरस्यं स्यात् । जगदुपादानस्य गुणत्रयात्मकस्यानादिभावस्याव्यक्तशब्दार्थस्य ‘‘मायां तु प्रकृतिं विद्याद् दैवात्मशक्तिं स्वगुणैर्निगूढां गौरनाद्यंतवती यस्याव्यक्तं शरीर’’मित्यादिश्रुतिभिः, ‘‘सत्वंरजस्तम इति गुणाः प्रकृतिसम्भवा यत्तत्त्रिगुणमव्यक्त’’ मित्यादिस्मृतिभिश्च त्वयापि स्वीकृतत्वात् । नाममात्रे च विवादायोगात् । ईशानधीनत्वसत्यत्वादेश्चाकाशादेश्चाकाशादेरप्यभावात् । यच्चोक्तं पूर्ववाक्ये रथरूपकविन्यस्तशरीरस्यैवेहाव्यक्तशब्देन गृहीतिः । तथाहि । शरीरादीना रथादिरूपक्लृप्तिं दर्शयति शरीरं रथमेवेत्यादिपूर्ववाक्यमिति प्रथमसूत्रस्थपरिहारभागस्यार्थ इति । तन्न । शरीरगृहीतेरित्येतावतैव पूर्णत्वेन रूपकविन्यस्तपदवैयर्थ्यात् । रूपकविन्यस्तपदस्य शरीरविशेषणत्वेन पूर्वनिपातप्रसङ्गाच्च । रूपकविन्यस्तपदेनैव शरीरस्य रथरूपविन्यासस्योक्तत्वेन तथाहि दर्शयतीत्यस्य वैयर्थ्याच्च ।
यच्चोक्तं शरीरस्य स्थूलत्वादव्यक्तशब्दार्थत्वं न युक्तमिति न शङ्क्यम् । शरीरकारणस्यानभिव्यक्तनामरूपस्य प्रागवस्थारूपस्य बीजस्य सूक्ष्मत्वेनाव्यक्तशब्दार्हतया शरीरस्याप्यमुख्यवृत्त्याऽव्यक्तशब्दार्थत्वादिति द्वितीयार्थ इति तन्न । यस्य कारणस्य सूक्ष्मत्वं तस्यैव मुख्याव्यक्तस्य महतः परमित्यत्र ग्रहणे सम्भवति ‘‘शरीरं रथमेव चे’’ति पूर्वत्र प्रकृतत्वेऽपि महत्परत्वरहितस्यामुख्याव्यक्तस्य शरीरस्य ग्रहणायोगात् ।
ननु तर्हि भाष्यानुरोधादविद्यैवाव्यक्तशब्दस्यार्थ इति चेन्न । सौत्रशरीरशब्दविरोधात् । प्रकृतशरीरत्यागेनाप्रकृताविद्यापरत्वे साङ्ख्याभिमतप्रधानपरत्वानिवारणाच्च । किं चाविद्यायाः सदा साक्षिसिद्धत्वेन व्यक्तत्वान्नाव्यक्तत्वम् । न वा तत्प्रयोजकं सूक्ष्मत्वम् । यच्चोक्तं यदि बीजात्मकं प्रागवस्थारूपमव्याकृतमव्यक्तशब्दार्हं स्वीकृतं तर्हि साङ्ख्यमतापत्तिः । जगतः प्रागवस्थाया एव साङ्ख्यैः प्रधानत्वाभ्युपगमादिति न शङ्क्यम् । अस्माभिः स्वीकृतायाः प्रागवस्थायाः परमेश्वराधीनत्वेन स्वतन्त्रप्रधानवादिसाङ्ख्यमतानापत्तेः । अर्थवच्च तद्बीजात्मकम् । तेन विनेश्वरस्य स्रष्टृत्वासिद्धेरिति तृतीयार्थ इति तन्न । त्वन्मते पूर्वस्मिन्सूत्रद्वय ईश्वरस्याप्रकृतत्वेन तच्छब्दस्याप्रकृतपरत्वापातात् । तदधीनत्वादिति हेतोः श्रुतार्थवत्त्वरूपसाध्यत्यागेन साङ्ख्यमतापत्तिर्नेत्यध्याहृतसाध्यान्वयायोगाच्च । ‘‘यस्याव्यक्तं शरीर’’मित्यादिश्रुत्या प्रधानस्वातन्त्र्यस्यैव निराकर्तव्यतया तस्याव्यक्तशब्दार्थत्वनिरासायोगाच्च ।
यच्चोक्तं गुणपुरुषांतरज्ञानान्मोक्ष इति वदद्भिः साङ्ख्यैः प्रधानस्य ज्ञेयत्वाभ्युपगमादिह चाव्यक्तस्य ज्ञेयत्वावचनान्नेदमव्यक्तं प्रधानमिति चतुर्थोऽर्थ इति तन्न । ज्ञेयमित्यनुक्तावपि ‘‘महतः परमव्यक्त’’मिति ज्ञापनेनैव ज्ञेयत्वसिद्धेः । ‘‘अव्यक्तात्पुरुषःपर’’ इति प्रकृतिपुरुषयोरन्तरस्य ज्ञापनाच्च । अनृतविविक्तत्वेन ब्रह्मज्ञानार्थं त्वयाप्यविद्याया ज्ञेयत्वाभ्युपगमाच्च । त्वदभिप्रेताविद्यास्वभावस्यानिर्वाच्यत्वादेरपीहावचनाच्च ।
प्रकाशिका
उभाभ्यामिति ॥ तत्रान्येषां मतमेवम् । ‘‘महतः परमव्यक्तमव्यक्तात्पुरुषः पर’’ इति वाक्योक्तमव्यक्तं प्रधानमुत शरीरमिति विशये साङ्ख्यस्मृतावव्यक्तशब्दस्य प्रधाने रूढत्वान्न व्यक्तमव्यक्तमिति रूपादिहीने तस्मिन्नेवावयवव्युत्पत्तिसम्भवाच्चेदमव्यक्तं प्रधानमेवेतीक्षत्यधिकरणोक्तं प्रधानस्याशब्दत्वमुयक्तमिति प्राप्ते नेदमव्यक्तं प्रधानं किन्तु शरीरमेव । अव्यक्तशब्दस्यालौकिके प्रधाने लौकिकप्रसिद्ध्यभावात्साङ्ख्यप्रसिद्धेश्च पौरुषेयतया गुणवृद्ध्यादिप्रसिद्ध्यादिवद्वेदार्थानिर्णायकत्वाद्योगस्य च शरीरेऽपि सम्भवात्प्रकरणपरिशेषाभ्यां च शरीरस्यैव ग्राह्यत्वाच्चेति सिद्धान्त इति । प्रकरणपरिशेषौ तद्भाष्य एव व्यक्तौ । केषांचित्तु प्राग्वत्सन्देहे इदमव्यक्तं साङ्ख्यसिद्धं प्रधानमेव । साङ्ख्यतन्त्रप्रत्यभिज्ञानात् । महदव्यक्तपुरुषाः साङ्ख्यतन्त्रे परापरभावेन यथा प्रसिद्धास्तथैव श्रुतौ प्रत्यभिज्ञानात् । ‘‘पुरुषान्न परं किञ्चि’’दिति पञ्चविंशकपुरुषातिरिक्ततत्वनिषेधाच्चेति प्राप्ते शरीरमेवाव्यक्तम् । पूर्वत्र ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव चे’’त्यादिनोपासनानिर्वृतये वश्येन्द्रियत्वापादनायात्मशरीरबुद्धिमनइन्द्रियविषया रथरथिसारथिप्रग्रहहयगोचरत्वेन रूपिताः । त एवेह ‘‘इन्द्रियेभ्यः पराह्यर्था’’ इति प्रत्यभिज्ञायन्ते । श्रौतप्रत्यभिज्ञानं तु प्रत्यासन्नत्वात्स्मार्तप्रत्यभिज्ञानादपि प्रबलमिति रथत्वेन रूपितं शरीरमेवेहाव्यक्तपरिणामित्वादव्यक्तपदेन गृह्यते । ‘‘अव्यक्तात्पुरुषःपर’’ इत्युक्तः पुरुषो न पञ्चविंशको जीवः । किं तु प्राप्यः परमात्मैवेह वशीकार्यकाष्ठात्वेनोक्त इति सिद्धान्त इति । तत्र सिद्धान्ते किं प्रधानस्य शब्दप्रतिपाद्यत्वमेव निरस्यतेऽथ कारणत्वेनेति हृदि विकल्प्य ‘‘न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यत’’ इत्यनुव्याख्यानसुधयोरुक्तदोषेणाद्यं निराह ॥ तत्रेति ॥ त्वन्मत इति ॥ उभयमतेपीत्यर्थः । ‘‘सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहा’’दित्यनुव्याख्यानसुधयोरुक्तमाह ॥ प्रधानादीति ॥ वक्ष्यमाणत्वेनेति ॥ अत्रैवाग्र इति भावः ।
‘‘न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते । सर्ववेदेतिहासेष्वि’’ति श्लोकेऽत्रेत्यनेन बुद्धिस्थमीक्षत्यधिकरणमुच्यत इत्यर्थान्तरमभिप्रेत्येक्षत्यधिकरणोक्तमित्येतदपि निराह ॥ ईक्षतीति ॥ निष्फलत्वेति ॥ उक्तरीत्येति भावः । कारणत्वेन शब्दवाच्यता नैवात्र निषिध्यत इत्यर्थांतरमभिप्रेत्य द्वितीयं निराह ॥ नापीति ॥ ननु भामत्यां ‘‘न ह्येते प्रधानकारणत्वं जगत आहुः । अपि तु प्रधानसद्भावमात्रम् । न च तत्सद्भावमात्रेण जन्माद्यस्य यत इत्युक्तब्रह्मलक्षणस्य किंचिद्धीयत’’ इति कारणत्वाभावमेवाशङ्क्य ‘‘महतः परमव्यक्तमित्यत्र हि परशब्दो विप्रकृष्टपूर्वकालतामाह । तथाच कारणत्व’’मिति समाहितम् । कल्पतरौ च ‘‘अर्वाचीनमहत्तत्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह । तथाच कारणत्वसिद्धिः । नियतप्राक्सत्वं हि तदित्यर्थ’’ इत्युक्तम् । अत एव सुधायां ‘‘कश्चिदाहेत्यादिनैतदेवानूदितमिति भावेन शङ्कते ॥ न चेति ॥ स्यादेवं यदि परशब्दादत्राव्यक्तस्य कालाविप्रकर्षधीः । न चैवमित्याह ॥ इत्यादाविवेति ॥ पुरुषस्याव्यक्ताजनकत्वेन तत्र श्रुतपरशब्दस्य कालाविप्रकर्षार्थत्वाभावेनोत्तमत्वार्थतया तत्प्रायपाठेन पूर्वत्रापि तदर्थत्वस्यैव प्रतीतेरित्यर्थः । इत्यादावित्यादिपदेन ‘‘इन्द्रियेभ्यः पराह्यर्था’’ इत्यादिपूर्ववाक्यपरिग्रहः । यदत्रोक्तं कल्पतरुपरिमे ‘‘अत्र परशब्दश्श्रैष्ठ्यवचनः । इन्द्रियेभ्यः पराह्यर्था इत्यादिपूर्ववाक्येषु श्रुतस्य तथात्वात् । साङ्ख्यैरप्यव्यक्तात्पुरुषः पर इत्यत्र श्रुतस्य तथैव व्याख्येयत्वात् । प्रधानस्य कार्यत्वात् । इन्द्रियेभ्यः परं मनो मनसस्सत्वमुत्तमम् । सत्वादधिमहानात्मा महतोऽव्यक्तमुत्तममिति मन्त्रांतरे परशब्दस्थान उत्तमशब्ददर्शना’’दित्याशङ्क्य ‘‘सत्यमिह पूर्वपूर्वस्मादुत्तरोत्तरस्य श्रैष्ठ्यमुच्यमानम् । यस्य यथा सम्भवति तस्य तथैवोपपादनीयम् । अतस्स्मार्तक्रमप्रत्यभिज्ञानादिह महदादिपदानां स्मार्तमहदादितत्वत्रयपरत्वस्थितौ महत्त्वात्प्रधानस्य श्रैष्ठ्यं कारणत्वेनैव भवतीति पर्यवसितार्थकथनमिदं परशब्दः कारणत्वमाहेती’’ति । तन्न । पूर्वोत्तरमन्त्रान्तराविरोधेनात्राप्युत्कर्षार्थत्वस्य महत्तत्वापेक्षया व्याप्त्याधिक्येनानादिनित्यत्वादिना वोपपत्त्या कारणत्वापर्यवसानात् । ‘‘परशब्दोऽविप्रकृष्टपूर्वकालतामाहे’’ति भामत्याद्युक्तिविरोधाच्च । तत उत्तमत्वस्यैव प्रतीतेरित्युपलक्षणम् । ‘‘किं परशब्दोक्तकालविप्रकर्ष एव कारणत्वमुत तेनानुमेयमथवा सम्भाव्यम् । न प्रथमद्वितीयौ । कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः । सम्भावनामात्रस्येयंतं सूत्रसन्दर्भं प्रति योजकत्वायोगा’’दिति सुधोक्तं दूषणान्तरं च ध्येयम् ।
ननु ‘‘महतःपर’’मिति वाक्ये कारणत्वाप्रतीतावपि ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयंतीं सरूपा’’मित्यत्र तत्प्रतीतिरस्तीति चेत्तर्ह्यव्यक्तशब्दे तद्विचारो न स्यात् । अजावाक्यस्याप्युपलक्षणं तदिति चेदस्त्वेवं कथंचित्पूर्वपक्षोदय इत्यभ्युपेत्य ‘‘तत्किंब्रह्म परं करिष्यते । तेजोबन्नविषयं हि तद्-व्याख्यातं भवता । तथा च लौकिकमाभाणकं नातिवर्तते व्याघ्रेणोरणे नीते का हानिर्वृकेण नीते कोलाभ इतीति सुधोक्तं विवृण्वन्सिद्धान्तं निराह ॥ किञ्चेति ॥ अव्यक्तेत्युपलक्षणम् । अव्यक्ताजादिशब्दार्थ इत्यर्थः ॥ अनङ्गीकृतेरिति ॥ ‘‘शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते । प्रकरणात् । परिशेषा’’दिति त्वद्भाष्योक्तेरिति भावः । महतः परमित्यत्र कारणत्वविवक्षास्ति न वेति विकल्पं हृदि कृत्वाऽऽद्य आह ॥ प्रधान इति ॥ द्वितीयं शङ्कते ॥ नन्विति ॥
तेजोबन्नात्मकं वाऽपि यद्युपादानमिष्यते ।
अनाद्येवापराधः कः प्रधानमिति चोदितः ॥
इत्यनुभाष्यसुधयोरुक्तं विवृण्वन्विचारवैयर्थ्येन दूषयति ॥ तर्हीत्यादिना ॥ ननु न प्रधानं स्वरूपेण निषिध्यते । किं त्वीश्वरानधीनतया । तथा च स्वतन्त्रं प्रधानमव्यक्तशब्दमिति प्राप्ते ईश्वरशरीरत्वेन तदधीनमव्यक्तशब्दमिति सिद्धांत्यते । परभाष्यद्वयेऽपि तदधीनत्वसूत्रे तथैवोक्तेरिति चेत्तर्ह्येवंविधविचारस्येन्द्रियादिष्वपि सम्भवेन विशिष्याव्यक्तवाक्य एव तद्विचारो निष्फलस्स्यादित्याह ॥ अन्यथेति ॥ स्वतन्त्रप्रधानपरत्वनिरासेन साफल्य इत्यर्थः । आकाशादिसाम्यं व्यनक्ति ॥ जगदिति ॥ एवं च तत्र यथाऽऽकाशादिस्वरूपाङ्गीकारेण न विचारस्तथात्रापि प्रधानस्वरूपांगीकारादन्यस्योभयत्राप्यनङ्गीकारादिदमपि वाक्यं न विचार्यमित्येतदपि नारभ्यमिति भावः । ‘‘सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहा’’दित्यनुव्याख्यानं हृदि कृत्वाऽऽह ॥ मायामिति ॥ ‘‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमि’’ति श्वेताश्वतरश्रुतिः ॥ दैवेति ॥ ‘‘ते ध्यानयोगानुगता अपश्यन्दैवे’’ति श्वेताश्वतरश्रुतिः ॥ गौरिति ॥ इयमग्रे व्यक्ता । ‘‘यस्याव्यक्त’’मिति वाजसनेयेंऽतर्यामिब्राह्मणे । ‘‘सत्वं रजस्तम’’ इति गीतायां चतुर्दशेऽध्याये । ‘‘यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मक’’ मित्यनुव्याख्यानोक्तं भागवतवाक्यम् । अविद्यादिरेव मायाव्यक्तादिशब्दैरुच्यत इत्यत आह ॥ नामेति ॥ आकाशादेरप्यभावादिति ॥ तस्य तद्भावे ह्यव्यक्तेन भावेन तदुक्तयर्थमिदमर्थवत्स्यादिति भावः ।
एवं मतद्वयेऽधिकरणशरीरं निरस्य सूत्रार्थानपि दूषयति ॥ यच्चेत्यादिना ॥ उभाभ्यामित्यस्ति । आनुमानिकमपि सत्वरजस्तमोगुणात्मकजगल्लक्षणकार्यलिङ्गकानुमानसिद्धं त्रिगुणात्मकं प्रधानमपि एकेषां काठकानां शाखायां महतः परमव्यक्तमित्याम्नायते । अत ईक्षत्यधिकरणोक्तं प्रधानस्याशब्दत्वमयुक्तमिति चेन्न । पूर्ववाक्ये शरीरं रथमेव चेति यच्छरीरं रथरूपकतया विन्यस्तं तस्यैवेहाव्यक्तशब्देन गृहीतेर्दर्शयति च शरीरादीनां रथादिरूपकविन्यासं शरीरं रथमेवचेत्यादिवाक्यमित्यन्येषामाद्यसूत्रस्यार्थः । केषाञ्चित्तु साङ्ख्यानुमानकल्पितं प्रधानं महतः परमव्यक्तमित्याम्नायत इति चेन्न । पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथरूपकविन्यस्तशरीरस्याव्यक्तशब्देन गृहीतेः । दर्शयति चेममर्थमिन्द्रियादीनां नियमनप्रकारं दर्शयन् यच्छेद्वाङ्मनसी इत्यादिवाक्यशेष इति । तत्र दूष्यभागार्थमनूद्य निराह ॥ पूर्वेति ॥ सुधोक्तमपि दोषमाह ॥ रूपकविन्यस्तपदस्येति ॥ ‘‘विशेषणं विशेष्येण बहुल’’मिति सूत्रे विशेषणशब्दस्य प्रथमांतनिर्दिष्टतया ‘‘प्रथमानिर्दिष्टं समास उपसर्जन’’मिति सूत्रेणोपसर्जनसंज्ञायां ‘‘उपसर्जनं पूर्व’’मित्युपसर्जनस्य पूर्वनिपातविधानादिति भावः । नन्वेतदेवाशङ्क्य समाहितं श्रुतप्रकाशे अस्मिन्वाक्ये रूपकविन्यस्तं वस्तु प्राधान्येन विवक्षितम् । विशेषणापेक्षया विशेष्यं प्रधानम् । रूपकविन्यस्तपदं विशेष्यसमर्पकम् । कीदृशं तदित्यपेक्षायां शरीराख्यं रूपकविन्यस्तमिति शरीरशब्देन तद्विशेष्यते । अतो न दोष इति चेन्न । गत्यन्तरे सति क्लेशायोगादिति भावः । ‘‘सूक्ष्मं तु तदर्हत्वा’’दिति सूत्रार्थं निराह ॥ यच्चेति ॥ यद्यपीदं शरीरं स्थूलत्वाद्य्वक्तम् । तथाप्यस्य यन्मूलमुपादानकारणं तेजोबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम् । अनादेस्तस्य सूक्ष्मस्याव्यक्ततार्हत्वात् । कार्यकारणशब्दानां च ‘‘गोभिश्श्रिणीतमत्सर’’मित्यादौ सांकर्यदर्शनात् । कारणस्याव्यक्तशब्दार्थतया कार्यं शरीरमप्यमुख्यवृत्त्याऽव्यक्तमुच्यत इत्यर्थः । ननु प्रकृतपरित्यागभयाच्छरीरं ग्राह्यमित्यत आह ॥ शरीरमिति ॥ महत्परत्वलिङ्गेन मुख्यार्थत्वलाभेन च प्रकरणबाधोपपत्तेरिति भावः । ननूभयानुगुण्यादविद्यैवाव्यक्तशब्दार्थोस्तु । तदधीनसूत्रे ‘‘अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्ये’’ति परभाष्योक्तेरित्याशङ्क्य निराह ॥ नन्विति ॥ प्रधानेति ॥ तस्य महत्परत्वमुख्याव्यक्तत्वयोस्सम्भवादिति भावः । तदुक्तमनुव्याख्याने ‘‘अपराधःकः प्रधानमिति चोदित’’ इति । तत्प्रयोजकम् अव्यक्तताप्रयोजकम् । तदधीनत्वसूत्रार्थं प्रत्याचष्टे ॥ यच्चेति ॥ मन्मते प्राक्प्रकृतत्वान्न दोष इति भावेनाह ॥ त्वन्मत इति ॥ यदत्रोक्तं शास्त्रमात्रे ब्रह्मणो बुद्धिस्थत्वादाद्यसूत्रेऽपिपदेन समुच्चेतव्यतया प्रकृतत्वात्तच्छब्दस्य ब्रह्मनामत्वाद्वा तच्छब्देन परमपुरुषपरामर्शसम्भव इति तन्न । ब्रह्मणो बुद्धिस्थत्वे ‘‘अर्भकौकस्त्वात्तद्-व्यपदेशात् तद्दर्शना’’दित्यादावपि ब्रह्मपरामर्शापत्तेः । आद्यसूत्रे ‘‘न केवलं ब्रह्माव्यक्तम् । किं त्वानुमानिकमपीत्युक्तेरव्यक्तशब्दस्यार्थद्वयानभ्युपगमेनापि नाब्रह्मसमुच्चयायोगात् । यथा यतो वा इमानीत्यदौ ब्रह्म तथाऽव्यक्तपदेन कारणतया प्रधानमपीत्युक्तावपीह कारणत्वाप्रतीत्या तेन रूपेणापि ब्रह्मसमुच्चयायोगात् । एवमपि प्राधान्येन मन्मत इव त्वन्मतेऽप्रकृतत्वात् । तच्छब्दस्य ब्रह्मनामत्वेन तद्ग्रहेतु ‘‘तेन रक्तं रागात् । तद्-व्यपदेशा’’दित्यादावपि तद्ग्रहप्रसङ्गादिति ध्येयम् ।
‘‘ज्ञेयत्वावचनाच्चे’’ति सूत्रार्थं निराह ॥ यच्चेति ॥ गुणेति ॥ सत्वादिगुणात्मकप्रकृतिजीवभेदज्ञानादित्यर्थः । ‘‘ज्ञेयं ब्रह्मसनातन’’मित्यादाविव ज्ञेयं प्रधानमिति साक्षादुक्तिर्नेति उतार्थादपि तस्यात्र ज्ञेयत्वोक्तिर्नेति अथ पुरुषविविक्ततया ज्ञेयत्वोक्तिर्नेतीति हृदि विकल्प्याद्यमप्रयोजकमिति वदन् द्वितीयमसिद्धमित्याह ॥ ज्ञेयमिति ॥ महत्परत्वरूपप्रधानधर्मोक्तयैव तस्य ज्ञेयत्वसिद्धेः । अन्यथा धूमोक्तेर्वह्नेर्ज्ञेयत्वाभावापातादिति भावः । तृतीयमप्यसिद्धमित्याह ॥ अव्यक्तादिति ॥ पञ्चमीप्रथमाभ्यामित्यर्थः । किञ्च ज्ञेयत्वावचनयुक्तया प्रधानापाकरणं स्वव्याहतम् । ज्ञेयतया त्वदभ्युपगताया अविद्याया इह ज्ञेयतया वचनाभावेन तस्या अप्यव्यक्तशब्दार्थत्वनिरासापातादित्याह ॥ अनृतेति ॥ अविद्याया अप्यनृतत्वादिति भावः । इहाव्यक्तशब्देन तदुक्तिरस्तीत्यत उक्तं त्वदभिप्रेतेति ॥ इदं चाद्वैतिमते । रामानुजमते तु सकलहेयप्रत्यनीकतया ब्रह्मज्ञानार्थं प्रधानस्य ज्ञेयत्वाभ्युपगमात् । त्वदभिप्रेतप्रधानस्वभावस्य भगवच्छरीरकत्वादेश्चेहावचनाच्चेति ध्येयम् ।
चन्द्रिकाबिन्दुः
ननु ईक्षतिसूत्र एव प्रधानस्य शाब्दत्वमात्राभावः प्रतिज्ञातः । तदुपपादनार्थं चात्र शाब्दत्वमात्रनिराकरणं क्रियत इत्यत आह ॥ ईक्षतिसूत्रेऽपीति ॥ इहेति ॥ महतः परमव्यक्तमित्यादिवाक्ये कारणत्वात्तत्रानेनास्य कारणवाक्यत्वाभावादिति भावः ॥ परशब्देनेति ॥ परमपरमित्यादौ कारणत्व कार्यत्वाद्यभिप्रायेणापशब्दप्रयोगादिति भावः ॥ तस्मान्न पूर्वपक्षोदय इति ॥ पूर्वपक्षिनिरसनीयस्याशब्दस्य प्रकृते न केनापि रूपेणाप्रसक्तेरिति भावः । ननु अस्मन्मतेऽयं पादो न समन्वयार्थः किन्तु जन्मादिसूत्रोक्तलक्षणातिव्याप्तिपरिहारार्थः । तथा च प्रधाने लक्षणातिव्याप्तिपरिहारः प्रयोजनमित्यत आह ॥ प्रधाने ब्रह्मलक्षणस्येति ॥ अव्यक्तशब्देन त्वया अविवक्षित इति भावः । पूर्वोक्तसमस्तदोषोपमर्दनाभिप्रायेण शङ्कते ॥ नन्विति ॥ तदर्थत्वेऽपीति ॥ प्रधानस्य अव्यक्तशब्दार्थत्वेऽपि न दोषः । परशब्दस्य कारणत्वार्थभावादिति भावः । ननु अव्यक्तशब्दस्य साङ्ख्याभिमतेश्वराधीनप्रधानार्थकत्वनिरासः कर्तव्यः । अतो न वैयर्थ्यमित्यत आह ॥ इन्द्रियेभ्य इति ॥ प्रधानादेः कारणत्वमात्रनिरास एवोचितः । न तु स्वरूपनिरासोऽपि । तथात्वे उक्तातिप्रसङ्ग इति भावः । जगदुपादानस्येत्युक्तविशेषणचतुष्टये क्रमेण प्रमाणचतुष्टयमाह ॥ मायां त्विति ॥ प्रकृतिमुपादानम् । प्रधानस्य साङ्ख्याभिमतेशानाधीनत्वसत्यत्वादिनिरासार्थमयं यत्न इत्यत आह ॥ ईशानधीनत्वेति ॥ आकाशादिस्थलेऽपि तन्निराकरणं कर्तव्यमविशेषादिति भावः ॥ शरीरविशेषणत्वेनेति ॥ रूपकतया विन्यस्तं शरीरमित्यर्थकथनादिति भावः । बीजस्य लिङ्गपदाभिधेयस्येति शेषः ॥ अमुख्यवृत्त्येति ॥ कारणगताव्यक्तत्वस्य कार्य उपचारादिति भावः ॥ प्रकृतेति ॥ शरीरं रथमेव चेत्यादिवाक्ये प्रकृतेत्यर्थः ॥ तदधीनत्वादर्थवदिति तृतीयसूत्रार्थमाह ॥ यच्चोक्तं यदि बीजात्मकमित्यादिना ॥ अनृतविविक्तत्वेनेति ॥ तथा च त्वया अव्यक्तशब्देन अविद्या ग्रहीतुं न शक्यते तत्र त्वदभ्युपगतज्ञेयत्ववचनाभावः स्यादिति भावः । प्रधानधर्मानुक्तिवद् अविद्याधर्मानुक्तिरप्यस्तीत्याह ॥ त्वदभिप्रेताविद्येति ॥
पाण्डुरङ्गि
श्रुत्यादिसिद्धताया वक्ष्यमाणत्वेनेति ॥ मायां तु प्रकृतिं विद्यात्, देवात्मशक्तिं स्वगुणैर्निगूढां, गौरनाद्यंतवती यस्याव्यक्तं शरीरमित्यादिश्रुत्या सिद्धताया वक्ष्यमाणत्वेनेत्यर्थः । नवा तत्प्रयोजकं सूक्ष्मत्वमिति ॥ अव्यक्तत्वप्रयोजकं सूक्ष्मत्वमप्यविद्याया न सम्भवति । अपरिच्छिन्नत्वाभ्युपगमादिति भावः ॥ गुणपुरुषांतरज्ञानादिति ॥ गुणास्सत्वादयः पुरुषश्च तयोरन्तरं विवेकस् तज्ज्ञानान्मोक्षः प्रकृतिपुरुषविवेकज्ञानान्मोक्ष इति यावत् ॥ ज्ञेयत्वाभ्युपगमादिति ॥ तथा चात्र ज्ञेयत्वावचनान्नेदमव्यक्तमविद्येति भावः । ननु नेदमव्यक्तं प्रधानं त्रिगुणत्वादिप्रधानधर्मानुक्तेरित्यत आह ॥ त्वदभिप्रेतेति ॥