०६ सूत्रतात्पर्यनिरूपणम्

सूत्रक्रमस्तु

सूत्रतात्पर्यनिरूपणम्

तात्पर्यचन्द्रिका

सूत्रक्रमस्तु ॥ आद्ये सूत्रे ब्रह्मणोऽव्यक्तादौ विन्यस्तत्वेनाव्यक्तादेरपि ब्रह्मसम्बन्धत्वाद्वाच्यतेति दर्शयितुं विन्यस्तपदम् । न च वाच्यं प्रधानादिसम्बन्धाद्ब्रह्मणो वाच्यताऽस्त्विति ॥ तस्य ब्रह्मशरीरतुल्यत्वेन तत्तंत्रत्वादिति दर्शयितुं शरीररूपपदम् । शरीरस्य रूपमिव रूपं यस्येति विग्रहः । कप्रत्ययेन मुख्यतो नेश्वरशरीरम् । जडत्वादिना कुत्सितत्वादित्युक्तम् । दर्शयतिचशब्दाभ्यां तु ब्रह्मग्रहणे हेतुत्वेन भाष्योक्तश्रौतस्मार्तप्रयोगोक्तिः । द्वितीये प्रयोगमात्रान्न मुख्यतेति शङ्कानिरासाय ब्रह्मण्यव्यक्तादिप्रातिपदिकनिमित्तोक्तिः । तृतीये पञ्चमीविभक्त्यादिनिमित्तोक्तिः । चतुर्थे भावरूपांतरंगनिमित्तरूपहेतूक्त्यनन्तरमभावरूपबहिरङ्गज्ञेयत्वावचनरूपहेतूक्तिः । अस्य च सूत्रस्य ‘‘तमेवैकं जानथे’’ति ब्रह्मण एव मुमुक्षुज्ञेयत्ववचनादन्यस्य च तदभाववचनान्मोक्षफलकानां वेदानां ब्रह्मपरत्वसिद्धेः प्रतिवाक्यं च तत्परत्वस्य ‘‘आदावंते च मध्ये च विष्णुः सर्वत्र गीयते’’ इत्यादिवचनसिद्धत्वात्स्वतः प्राप्तमुख्यवृत्तित्यागे च हेत्वभावाद्ब्रह्मैवाव्यक्तादिशब्दमुख्यार्थ इत्यर्थः । पञ्चमे चतुर्थोक्तज्ञेयत्वावचनमसिद्धम् । ‘‘निचाय्य तं मृत्युमुखात्प्रमुच्यत’’ इत्यत्र महत्परत्वेन लिङ्गेन प्रधानस्योक्तेरिति शङ्कायां लिङ्गस्यान्यथासिद्ध्युक्तिः । षष्ठे निचाय्यवाक्ये प्रधानोक्तौ बाधकोक्तिः । सप्तमेऽस्यामुपनिषद्येव मुमुक्षुज्ञेयत्वेन प्रधानोक्तौ बाधकोक्तिः । तत्र च त्रयाणां मध्ये प्रधानमेकमस्त्विति शङ्कां निरसितुं पितृसौमनस्याग्निब्रह्मरूपश्रुत्युक्तप्रकारोक्तयर्थं सूत्र एवंशब्दः । प्रश्नस्य प्राथम्येऽपि प्रतिवचनस्थनिचाय्यवाक्यस्य प्रधानपरतायाः शङ्कितत्वात्तन्निरासाय प्रतिवचनस्यादौ निर्देशः । ननु प्रश्नप्रतिवचनयोस्त्रयविषयत्वेऽपि यथा ‘‘महतः परमव्यक्त’’मिति वाक्यममुख्यवृत्त्या प्रधानपरं तथा निचाय्यवाक्यमप्यस्तु । तावतैव प्रधानस्य महतः परत्ववन्मोक्षार्थं ज्ञेयत्वं च सेत्स्यतीति चेन्न । अव्यक्तमिति वाक्यस्य प्रधानपरत्वेऽपि ब्रह्मणि पर्यवसानवन्निचाय्य वाक्यस्य तदभावात् । तत्प्रश्नोत्तरेऽपि हि तदर्थमन्योक्तिर्युक्ता नतु स्वातन्त्र्येण । एवं चतुर्थोक्तस्वपक्षसाधके त्रिभिः स्थापितेऽष्टमे प्रयोगप्राचुर्याभावरूपस्वपक्षबाधकोद्धाराय तत्प्राचुर्याभावेऽपि प्रवृत्तिनिमित्तातिशयेन मुख्यत्वे महच्छब्ददृष्टान्तोक्तिः । नवमे महच्छब्दस्य विष्णौ मुख्यत्वमद्याप्यसिद्धमिति मन्वानं प्रत्यनुशासनरूपश्रुतिसद्भावेन मुख्यत्वे चमसशब्ददृष्टान्तोक्तिरिति ।

प्रकाशिका

सूत्रार्थकथनेन किंचिदग्रे विवरिष्यते चेति भावः ॥ आद्य इति ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति चेत्यत्र । अस्यार्थः । एकेषां शाखिनां शाखासु ‘‘महतः परमव्यक्तमव्यक्तात्पुरुषःपर’’ इत्यव्यक्तशब्देन प्रधानमेवोच्यत इति चेन्न । शरीरसदृशेऽव्यक्तादौ विन्यस्तस्य विष्णोरव्यक्तशब्देन गृहीतेः । अव्यक्तादेः पारतन्त्र्यं परमात्मनस्स्वातन्त्र्यं प्रधानादिविन्यस्तत्वं च ‘‘तुच्छ्येनाभ्वपिहितं यदासी’’दिति दर्शयतीति । अत्र ब्रह्मगृहीतेरित्येव वाच्ये शरीरेत्याद्युक्तिः किमर्थेत्यतश्शरीरेत्यादिसूत्रांशभाष्यटीकां ‘‘यथा शरीरं पुरुषतन्त्रमित्यादिकां विवृण्वंस्तदुक्तेः फलमाह ॥ ब्रह्मण इति ॥ टीकोक्तमर्थान्तरं सूत्रशेषस्याह ॥ दर्शयति चेति ॥ दर्शयतिशब्दचशब्दाभ्यामित्यर्थः । ‘‘अव्यक्तमचलं शान्त’’मिति श्रौतः । ‘‘अव्यक्तोऽक्षर उच्यत’’ इति स्मार्तः प्रयोगः ॥ द्वितीय इति ॥ सूक्ष्मं तु तदर्हत्वादित्यत्र सूक्ष्ममेवाव्यक्तशब्देनोच्यते । सूक्ष्मस्यैवाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्ततार्हत्वात् । ब्रह्मणश्च मुख्यसूक्ष्मत्वादित्युक्तेरिति भावः । प्रयोगोक्तौ तस्य मुख्यतासमर्थनस्य तदानन्तर्यादिति भावः ॥ तृतीय इति ॥ तदधीनत्वादर्थवदित्यत्र । अव्यक्तादिति पञ्चम्याद्युक्तावरत्वादेर्विष्णावभावेऽप्यन्यगतस्य तस्य तदधीनत्वादव्यक्तादित्यादिशब्दजातं तस्मिन्नेवार्थवदित्युक्तेरिति भावः । तथाच प्रातिपदिकस्य तद्विभक्तेश्च पौर्वापर्यादस्य तृतीयतेति भावः । चतुर्थे ज्ञेयत्वावचनाच्चेत्यत्र । अस्पष्टत्वात्तदर्थं विवेचयति ॥ अस्यचेति ॥ मुमुक्ष्विति ॥ ‘‘अमृतस्यैषसेतु’’ रिति वाक्यशेषादिति भावः । ननु ‘‘पुरुषःपर’’ इत्युक्तपुरुषाधीनतया प्रधानादिपरत्वेऽपि मोक्षफलतोपपद्यत इत्यत आह ॥ प्रतिवाक्यमिति ॥ हेत्विति ॥ प्रधानादेस्तत्तारतम्यस्य चामुख्यतोऽन्यपरत्वोपगमेन सिद्धेरिति भावः । अत्रोत्तरत्र च क्रमस्स्पष्टः । पञ्चमे वदतीति चेन्न प्राज्ञो हीत्यत्र ॥ अन्यथासिद्धीति ॥ सर्वस्मात्परस्य विष्णोर्महत्तत्वात्परत्वस्य प्रासादवासिन्यायेन सम्भवाद्विष्णुनिष्ठत्वोक्तिरित्यर्थः । षष्ठे प्रकरणादित्यत्र ‘‘सोध्वनः पारमाप्नोति तद्विष्णोः परमं पद’’मित्येतत्प्रकरणोक्तार्थोपासकस्य विष्णुपदप्राप्त्युक्तयाऽस्य प्रकरणस्य वैष्णवत्वावगमेन तद्विरोधान्न निचाय्यवाक्ये प्रधानस्य ग्रहणमिति बाधकोक्तिरित्यर्थः । सप्तमे त्रयाणामेव चैवमुपन्यासः प्रश्नश्चेत्यत्र ॥

अग्नीति ॥ स्वर्ग्याग्नीत्यर्थः । निचाय्यवाक्येऽन्यपरत्वमप्याशङ्क्याह ॥ नन्विति ॥ पर्यवसानवदिति ॥ तद्वाक्योक्ततारतम्यस्य ‘‘पुरुषःपर’’ इत्युक्तसर्वोत्तमे तात्पर्यादिति भावः। अष्टमे महद्वच्चेत्यत्र ॥ महच्छब्देति ॥ महत्त्वरूपप्रवृत्तिनिमित्तातिशयेन ‘‘महांतं विभुमात्मान’’मित्यत्र यथा महच्छब्दो विष्णौ मुख्यस्तथेहापीति महच्छब्ददृष्टान्तोक्तिरित्यर्थः । नवमे चमसवदविशेषादित्यत्र । यथा चमसशब्दो यज्ञपात्रे प्रसिद्धोऽपि ‘‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न’’ इति श्रुतिबलेन शिरोवाचकस् तथेहाप्यव्यक्तादिशब्दानां प्रधानादौ प्रसिद्धानामपि ‘‘नामानि सर्वाणी’’ति श्रुतिबलेन विष्णुवाचित्वं निश्चीयते । नामानीति श्रुतेरर्वाग्बिल इति श्रुतेरिवानुशासनरूपत्वाविशेषादित्युक्तेरिति भावः । यदत्र केनचिदुक्तं पाराशर्यविजये । आद्ये दर्शयतीत्येव सामंजस्ये पूर्वखण्डो व्यर्थः । भगवद्वाचकत्वसमर्थनादेव प्रकृतौ प्रयोगस्यानेक शक्तिकल्पनागौरवभयेन लाक्षणिकताया ज्ञातुं शक्यत्वात् । न च सम्बन्धबोधनार्थः पूर्वखण्डः । ब्रह्मप्रपञ्चसम्बन्धस्य सुप्रसिद्धत्वात् । शरीररूपकविन्यस्तेत्यस्य शरीररूपकतया शरीरसदृशतया विन्यस्तस्य गृहीतेरित्यर्थप्रतीत्या शरीरे मुख्यस्य शरीरशब्दस्य ब्रह्मणि गौणत्वे निमित्तोक्तिपरत्वस्यैव प्राप्तेश्च । कप्रत्ययत्वे च तस्य वैयर्थ्यात् । शरीरस्य कुत्सितत्वोक्तया हरेरशरीरत्वोक्तयर्थत्वे च प्रकृतानुपयोगः । शरीरस्य कुत्सिदत्वेन तत्र विन्यस्तत्वोक्तिरयुक्ता । वस्तुनः कुत्सितत्वे तत्रानवस्थानस्यैव प्रयोजकत्वेन विन्यस्तेत्यवस्थानोक्तया शरीरस्याकुत्सितत्वस्यैव प्राप्तेः । अत्र ‘‘जीवा एव तुदुःखिन’’ इत्यादेरुदाहरणत्वे ज्ञापकाभावाच्च । आनुमानिकशब्देनाव्यक्तशब्दस्यैव तथात्वावगमात् । द्वितीयसूत्रे चाव्यक्तादिशब्दप्रातिपदिकप्रवृत्तिनिमित्तस्य विष्णुनिष्ठतयोपपादने तेनैव विष्णौ मुख्यत्वसिद्ध्याऽऽद्यसूत्रे दर्शयति चेत्युक्तिर्व्यर्था । तृतीयसूत्रे प्रथमान्तषष्ठ्यन्तयोरध्याहारापातः । वेतनदानादिनाऽध्यापकप्रवर्तकेऽधीतवेद इति प्रयोगापत्त्या गौरवेण च तदधीनतायाश्शब्दप्रवृत्तावनिमित्तत्वेन तदाश्रयत्वस्यैव निमित्तत्वाच्च । ‘‘यदधीनो गुणो यस्य तद्गुणी’’ति स्मृतिरपि तद्गुणी तदुपसर्जनकस् तच्छरीरक इत्येवंपरतयोपपन्ना । त्वदभिमतार्थपरत्वेऽपि तदधीनत्वरूपसम्बन्धात्तद्गुणबोधकशब्दप्रयोग इत्यमुख्यवृत्त्युक्तिपरत्वेनाप्युपपन्ना । ‘‘नामानि सर्वाणी’’ति श्रुतिरपि प्रकारवाचिशब्दानां प्रकारिपर्यंतत्वेनोपपन्ना । स बंन्धयतीत्यादिश्रुतिरपि सम्बन्धसामान्ये मतुबित्याशयेति न बद्धादिशब्दवाच्यत्वसिद्धिः । चतुर्थं चायुक्तम् । ज्ञेयत्वस्य प्रधानपरत्वाबाधकत्वात् । प्रकरणमपि पुरुषशब्दार्थस्य विष्णुत्वमात्रेणोपपन्नमिति नाव्यक्तस्य विष्णुत्वसाधकम् । अक्षादिनानार्थशब्दानां लोकसिद्धत्वेनेहाव्यक्तादिशब्दानां हरावन्यत्र च प्रयोगे दृष्टान्तनैरपेक्ष्येणांतिमसूत्रद्वयवैयर्थ्यात् । अन्ते श्रुतेरित्यध्याहारदोषश्चेति । तदेतत्सर्वं स्वमतोन्मूलनावलोकनिमित्तकाग्रहमात्रविजृम्भितमिति तुच्छम् । तथाहि । ब्रह्मणि मुख्यानां शब्दानामन्यत्र प्रयोगो हि ‘‘समाकर्षा’’दिति वक्ष्यमाणदिशा किंचिन्न्यूनमुख्यवृत्त्या वाच्यः । स चायुक्तः । परममुख्यवृत्त्या विष्णुवाचकानां शब्दानां किंचिन्न्यूनमुख्यवृत्याऽप्यन्यत्र प्रयोगेऽव्यवस्था स्यान् निमित्ताभावादिति शङ्कायां तत्तच्छब्दपरममुख्यार्थेश्वरसम्बन्धस्य निमित्तत्वोक्तयर्थत्वाच्छरीररूपकेत्याद्यंशस्य । अत एवोक्तं टीकायां ‘‘समाकर्षादिति वक्ष्यमाणन्यायस्यात्राभिमतत्वेन लक्षणानाश्रयणा’’दितीति । उक्तं च ग्रन्थकृतापि ‘‘अव्यक्तादेरपि ब्रह्मसम्बद्धत्वाद्वाच्यतेती’’ति । तत्र प्रतिपदसार्थक्यस्याद्यसूत्र एव स्पष्टत्वाच्च त्वयापि सर्वहेयप्रत्यनीकस्यापि ब्रह्मणो विश्वशरीरकत्वस्य विश्वस्मिन्हेयत्वस्य स्वीकारेण कुत्सितत्वस्य भोगायतनत्वरूपमुख्यशरीरत्वाभावमात्रोपपादकत्वेन तत्रानवस्थानाप्रयोजकतया विन्यस्तेत्युक्तयविरोधात् । अशरीरः प्रज्ञात्मेत्यादिश्रुत्यविरोधाय स्वोक्तेरमुख्यशरीरत्वाभिप्रायकत्वस्यावश्यं वाच्यत्वेन प्रकृतोपयोगसम्भवाच्च । सूत्रस्य विश्वतोमुखत्वेन ‘‘जीवा एव’’त्वित्यादेस्तुल्यन्यायविषयतयोपलक्षणावश्यम्भावेन तुल्यन्यायत्वस्यैव तदुदाहरणतायां नियामकत्वाच्च । द्वितीये निमित्तोक्तेः प्रयोगमूलत्वेनाद्ये ‘‘दर्शयतिचे’’त्यनेन भगवति प्रयोगसिद्धौ तदुपजीव्यप्रवृत्तेन निमित्तकथनेन मूलभूतप्रयोगोक्तेर्वैयर्थ्यचोदनस्यायुक्तत्वात् । अत एव प्रयोगमूलं व्याकरणमिति प्रसिद्धिः । धानकर्मत्वादिरूपधेन्वादिपदप्रवृत्तिहेतोर्महिष्यादौ सत्त्वेऽपि धेन्वादिशब्दमुख्यार्थत्वादृष्ट्या प्रयोगप्रवृत्तिनिमित्ताभ्यामेव मुख्यत्वस्य वाच्यत्वाच्च । प्रधानादौ रूढाव्यक्तादिशब्दस्य केवलद्वितीयसूत्रोक्तयोगमात्रेणापहारायोगेन श्रौतस्मार्तप्रयोगस्यावश्यमनुसर्तव्यत्वाच्च । तृतीयेऽध्याहारस्य त्वन्मतेऽप्यग्रे वक्तव्यत्वात् । सौत्रत्वेन तत्र यावदपेक्षितपूर्तेरदोषत्वाच्च । उक्तं च महाभाष्ये पस्पशाग्रन्थे ‘‘उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यान’’मिति । स्वातन्त्र्यस्य शब्दवृत्तौ निमित्तत्वस्याव्यभिचारस्य चाकर एव व्युत्पादितत्वाच्च । स्मृतौ तद्गुणक इत्येव पूर्त्या मतुपो व्यर्थतापत्त्यादिनाऽन्यार्थस्यायोगात् । श्रुतौ विशिष्य कर्तृव्युत्पत्त्याऽऽङ्प्रयोगेण मुख्यतोक्तेः स्फुटत्वात् । स्मृतौ ‘‘अभिधीयत’’ इत्यभिधोक्तेश्च । चन्द्रिकोक्तदिशा प्रतिवाक्यं ब्रह्मपरत्वस्य मुख्यतः प्रधानपरत्वबाधकत्वादव्यक्तस्याब्रह्मत्वे निचाय्यवाक्यस्य ब्रह्मपरत्वानापत्तौ प्रकरणस्यापि साधकत्वाच्च । शब्दानां हरौ मुख्यत्वेन नानार्थत्वाभावाच्च । विप्रतिपन्ने दृष्टान्तोक्तेरावश्यकत्वाच्चेति यत्किञ्चिदेतत् । एवमन्यस्यापि तदीयक्षुद्रोपद्रवस्य निरासः सहृदयं मूलग्रन्थमभिमृशतां न दुष्कर इत्युपरम्यते ॥

चन्द्रिकाबिन्दुः

टीकायामुक्तसूचितप्रकारानुसारेणैव सूत्रस्वारस्यक्रमादिकं कथयति ॥ आद्ये सूत्र इत्यादिना ॥ प्रातिपदिकनिमित्तोक्तिरित्यत्र प्रातिपदिकग्रहणं प्रत्ययनिमित्तकथनपरोत्तरसूत्रात् प्राथम्यसूचनार्थम् । एवमुत्तरत्र क्रमे निमित्तानि विशेषणोपादानवशादूह्यानि ॥ बाधकोक्तिरिति ॥ विष्णुप्रकरणस्य प्रधानपक्षे बाधकत्वाट्टीकायामपि बाधकसूचनपरतयैवावतारितत्वादिति भावः ॥ सूत्रस्थैवमिति पदार्थमाह ॥ तत्र चेति ॥ निचाय्यत्ववाक्यस्यामुख्यतया प्रधानपरत्वे किं तेन तव लब्धमित्यत आह ॥ तावतैवेति ॥ तथा च प्रधाने उक्तं ज्ञेयत्वावचनमसिद्धमिति भावः ॥ ब्रह्मणि पर्यवसानवदिति ॥ अव्यक्तात्पुरुषः पर इति अव्यक्तवाक्ये तारतम्यस्य सत्त्वान् निचाय्यवाक्यस्य प्रधानपरत्वे कयाचिदपि रीत्या ब्रह्मपरत्वानङ्गीकारेण स्वातन्त्र्येणैव ब्रह्मप्रश्नोत्तरप्रकरणेऽवस्थानं न स्यादेवेति भावः । तन्निरासेन प्रधानपरत्वनिरासो न किन्तु अविद्यापरत्वस्थापनेनेति शेषः । शाब्दत्वमात्रं शाब्दत्वसामान्यम् । त्वन्मते समन्वयसूत्र इत्यनेन प्रतिबन्दी मोचिता । तन्मात्रनिरसनस्य शाब्दत्वमात्रनिरसनस्य ।