०२ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ अव्यक्तजीवादिशब्दमुख्यार्थो न ब्रह्म । अव्यक्तादिशब्दानां प्रधानादौ प्रसिद्धेः । अव्यक्ते पञ्चम्युक्तेन परत्वावधित्वेनार्थादाक्षिप्तस्यावरत्वस्य जीवे श्रुतस्य दुःखित्वादेश्च ब्रह्मणि सर्वप्रमाणविरुद्धत्वात् । पूर्वाधिकरणोक्तसर्वाधिपतित्वादिविरुद्धत्वाच्च । तदुक्तं न्यायविवरणे ‘‘सर्वमानविरोध’’ इति । ‘‘अक्षरात् परतःपर’’ इत्यत्र तु न पञ्चम्यंतोऽक्षरशब्दो ब्रह्मणि । किन्तु ‘‘तदक्षरमधिगम्यत’’ इति प्रथमांतः । नन्ववधित्वादिकं प्रत्याश्रयत्वमेव न पञ्चम्यादि निमित्तम् । किन्तु तत्प्रति स्वातन्त्र्यमपि । भृत्यगतजयस्य राजाधीनत्वमात्रेण राजाजयीति प्रयोगात् । तथाच ब्रह्मण्यवधित्वादिकं प्रति स्वातन्त्र्यस्य सत्त्वादवरादिशब्दो युक्तः । एतेन यत्रावरादिशब्दोऽस्ति तत्रास्तु तस्य स्वातन्त्र्याभिप्रायत्वम् । इह तु पञ्चम्युक्तपरत्वावधित्वेनाक्षिप्तमवरत्वं न तदभिप्रायम् । न हि शब्द इवानुपपत्तिरपि व्याख्यानार्हेति निरस्तम् । परत्वावधित्वं प्रत्याश्रयत्वस्यैवार्थादवरत्वाक्षेपकत्वेन तत्प्रति स्वातन्त्र्यस्य तदनाक्षेपकत्वादिति चेन्न । भृत्यदैर्ध्येण ह्रस्वेऽपि राज्ञि दीर्घशब्दस्य राजाधीनेन शत्रुगतदुःखेन राज्ञि दुःखिशब्दस्य राजाधीनभृत्यगतबन्धादिना राज्ञि बद्धादिशब्दस्य चापातात् । तेषाममङ्गलत्वाद्राज्ञि प्रयोगो न चेद्ब्रह्मण्यपि सनस्यादिति ।

प्रकाशिका

‘‘प्रधानाद्येवाव्यक्तादिपदवाच्य’’मित्यादिटीकां विवृण्वन्नाद्यचिन्तास्थाद्यकोटिमाह ॥ अव्यक्तेति ॥ पञ्चम्यंताव्यक्तशब्ददुःखिपदसमानाधिकरणजीवशब्दबद्धादि शब्दमुख्यार्थ इत्यर्थः । द्वितीयचिन्तास्थाद्यकोटिं वक्तुं टीकोक्तहेतुमाह ॥ अव्यक्तादीति ॥ ‘‘न च तेषां विष्णावपि सावकाशतेति वाच्य’’मिति टीकास्थशङ्कां हृदि कृत्वा ‘‘तत्राव्यक्तस्य पुरुषावरत्वश्रवणा’’दित्यादिटीकां तन्निवर्तनपरां विवृण्वन् द्वितीयचिन्तास्थाद्यकोटिं हेतूक्तया व्यनक्ति ॥ अव्यक्त इति ॥ ‘‘न तत्समश्चाभ्यधिकश्च दृश्यत इत्यादिप्रमाणविरोधा’’दिति टीकार्थः ॥ सर्वप्रमाणेति ॥ टीकास्थादिपदेनैव ‘‘सर्वाधिपति’’ रित्यादिवाक्यस्यापि ग्रह इति भावेनाह ॥ पूर्वेति ॥ भाष्यानुक्तस्यापि टीकायामुक्तौ मूलमाह ॥ तदुक्तमिति ॥ अव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकार इति न्यायविवरणपूर्वशेषः । अदृश्यत्वनयेन गतार्थत्वभ्रांतिं निराह ॥ अक्षरात्परत इति ॥ इत्यत्र त्वित्युक्तया ‘‘अक्षरात्सम्भवतीह विश्व’’मित्यत्र पञ्चम्यंतोऽक्षरशब्दो ब्रह्मणीति सूचयति । तथैव वाच्ये इति प्रथमांत इत्युक्तिस्तु प्राचीनं पञ्चम्यंतं परविद्या विषयत्वरूपब्रह्मलिङ्गोपेतम् उत्तरं पञ्चम्यंताक्षरपदं परत्वावधित्वाख्याब्रह्मलिङ्गोपेतमिति सूचनाय । एवं यथाटीकं न्यायविवरणोक्तमुक्त्वा

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥

इति तदधीनत्वन्यायव्यभिचारनिरासपरानुव्याख्यानव्यावर्त्यरूपं तृतीयचिन्तास्थाद्यकोटौ हेतुभूतं पूर्वपक्षं वक्तुं सिद्धांतिशङ्कामाह ॥ नन्वित्यादिना इति चेदित्यंतेन ॥ स्यादेषा व्याख्या यत्र शब्दादवरत्वादिप्रतीतिः । यत्र पुनः ‘‘अव्यक्तात्पुरुषःपर’’ इत्यादावर्थादवरत्वादिप्राप्तिस्तत्र कथम् । न हि शब्दवदुपपत्तिर्व्याख्यानमर्हती’’ति सुधोक्तामाशङ्कामनूद्य तत्रोक्तसमाधिना निराह ॥ एतेनेति ॥ परत्वावधित्वमिति ॥ परत्वं प्रत्यवधित्वं यन्निष्ठं तस्यावरत्वमर्थादापद्यताम् । परत्वावधित्वं प्रति परगतं यत्स्वातंत्र्यं तस्यावरत्वं प्रत्यपि तस्य स्वातन्त्र्याक्षेपकत्वमेव । नत्ववरत्वाक्षेपकत्वमित्यर्थः । अवधित्वदुःखित्वादिकं प्रत्याश्रयत्वमेव पञ्चमी दुःख्यादिशब्दप्रवृत्तिनिमित्तमित्येवंरूपमुक्तानुव्याख्यानव्यावर्त्यचोद्यमुक्तशङ्कोपमर्दकतयाह ॥ भृत्येति ॥

चन्द्रिकाबिन्दुः

पूर्वाधिकरणोक्तेति ॥ अनेन पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तिरिति दर्शितः । तत्प्रति पञ्चम्यर्थभूतावधित्वं प्रति । एतेन अवधित्वं प्रति स्वातन्त्र्यस्यापि पञ्चम्यर्थकथनेन । तत्प्रतीति ॥ अवधित्वं प्रति स्वातन्त्र्यस्य अवरत्वनियामकत्वाक्षेपकत्वमेव न त्ववरत्वाक्षेपकत्वमिति भावः ।

पाण्डुरङ्गि

नन्वक्षराधिकरणेऽक्षरशब्दस्य ब्रह्मपरत्वेन निर्णीतत्वात्तत्रैव पञ्चम्युक्तावधित्वस्य ब्रह्मणि समर्थितत्वेन तन्न्यायेनाव्यक्तादिति पञ्चम्युक्तावधित्वमपि ब्रह्मणि सम्भवत्येवेति कथं तद्बाधकमित्यत आह ॥ अक्षरादिति ॥ ननु भृत्यगतदैर्ध्येण राज्ञः स्वातन्त्र्यमिति कथं तत्प्रयोगापादनमित्यतो दृष्टान्तोत्तरमाह ॥ राजाधीनेनेति ॥