०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

॥ सिद्धान्तस्तु ॥ भाष्याद्युक्तश्रुत्यादिभिः सर्वाधिपतित्वादिकं तावन्न विष्णोरन्यत्र । नाप्युभयाबाधायाऽभेदः । यतः–

विरुद्धेष्वप्यभेदश्चेद्यवव्रीह्यादिकेष्वपि ।

अभेदः स्यात्ततः क्वापि विकल्पाद्येव नो भवेत् ॥ १ ॥

व्रीहिभिर्यजेत यवैर्यजेते’’त्यादावुभयाबाधाय व्रीहियवयोरभेदापत्त्या तयोर्विकल्पो न स्यात् । ‘‘धेन्वा क्रीणाति वाससा क्रीणाती’’त्यादौ धेन्वादीनां समुच्चयश्च न स्यात् । ततश्च लोकवेदयोर्विकल्पादिवार्तैवोत्सीदेत् । व्रीह्यादिभेदः प्रत्यक्षश्चेद्विष्णोर्विरिञ्चाद्भेदोऽपि ‘‘तत एते व्यजायन्त विश्वो हिरण्यगर्भ’’ इत्यादिधर्मिग्राहकश्रुतिसिद्धः । ‘‘स त्रेधे’’त्याद्यपि तद्गतरूपविशेषाभिप्रायम् । अन्यथा ‘‘स आविवेश ब्रह्मा ब्रह्माणं चतुर्मुखमीश ईशानं पञ्चमुख’’मिति वाक्यशेषेण ‘‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थित’’ इत्यादिस्मृत्याच विरोधात् । ‘‘स्थाणुर्होच्चक्राम स प्रजापतिमुवाच कोऽसि के स्मः कः स इति । स होवाच योऽस्मि ये स्थ यःस’’ इति विशिष्य भेदोक्तेश्च । अत्र च ‘‘भेदव्यपदेशाच्च शारीरश्चोभयेऽपि हि भेदेने’’त्यादौ जीवाद्विष्णोर्भेदं स्वीकृत्यानन्दमयादेस्तत्तल्लिङ्गैर्जीवत्वे शङ्किते तन्निरासः ।

‘‘भेदव्यपदेशाच्चान्य’’ इत्यत्र तु ‘‘इन्द्रस्यात्मे’’त्यादावात्मेति प्रातिपदिकस्य स्वरूपार्थत्वात्तदनुसारेण प्रयाजशेषन्यायेनेन्द्रस्येत्यादिषष्ठी नेया । ततश्च विष्णोरिन्द्राद्यभेद इत्यादिके शङ्कित आत्मप्रातिपदिकस्य शरीरप्रतिसम्बध्यर्थत्वोपपत्तेर्न विभक्तिबाधकतेत्यादिना परिहृतम् । पूर्वाधिकरणे तु ईशकर्तृकपरिष्वङ्गकर्मणो जीवस्येशाद्भेदधियं स्वीकृत्य स भेदो विशिष्टस्यैव । न तु विशेष्यस्येति स्वप्नद्रष्टृत्वसमन्वयविरोधिनि जीवमात्रस्य विष्ण्वभेदे तद्वाक्यस्थजीवविष्णुलिङ्गानाम् अबाधाय शङ्किते तन्निरासः । इह तु अभेदपक्षे सर्वाधिपतित्वादेर्विरिञ्चेऽपि सम्भवान्न भेदधीरिति ब्राह्मणशब्दसमन्वयविरोधिनि विरिञ्चस्य विष्ण्वभेदे तद्वाक्यस्थविष्णुविरिञ्चलिङ्गाबाधाय शङ्किते तन्निरासः । ‘‘भोक्त्रापत्ते’’रित्यत्र तु जीवाभिन्नत्वाद्ब्रह्मणो जगत्कर्तृत्वं युक्तिविरुद्धमिति शङ्किते तन्निरासः । पृथगित्यत्र तु जीवेशभेदाभेदश्रुत्योर्विरोध इति शङ्किते तन्निरास इत्यपौनरुक्तयमिति ध्येयम् । तदुक्तमनुव्याख्याने

न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता ।

वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता ॥ इति ।

प्रकाशिका

अत्र टीकायां ‘‘अयं ब्राह्मणो विष्णुरेवे’’त्यारभ्य ‘‘अन्यथा पत्यादिशब्दविरोधा’’दित्यन्तेन निरवकाशलिङ्गेन सिद्धान्तः कृतः । तत्र लिङ्गनिरवकाशत्वं व्यनक्ति ॥ भाष्यादीति ॥ ‘‘उतामृतत्वस्येशान’’ इत्यादिभिरित्यर्थः । श्रुत्यर्थष्टीकायां व्यक्तः । ब्राह्मणाजशब्दौ सावकाशाविति टीकायामेवोक्तम् । विवृतं च पूर्वपक्ष एवास्माभिरिति भावः । ‘‘न चाभेदात् पतित्वादिविरिञ्चेऽपि सम्भवती’’त्यादिटीकां विवृण्वन् लिङ्गानामन्यथासिद्धिं प्रागुक्तामाशङ्क्य निराह ॥ नापीति ॥ विमतौ नाभिन्नौ विरुद्धधर्माश्रयत्वाद् व्रीहि यवादिवदित्यनुमानविरोधः । विरिञ्चस्य कर्मलेपाभावायुक्तेर्नित्यमुक्तेन परमात्मना भेदस्यैवोपपन्नत्वादिति टीकोक्तिलब्धं मनसि निधाय तस्यानुमानस्याप्रयोजकत्वपरिहाराय विपक्षे बाधकतर्कमाह ॥ विरुद्धेष्विति ॥ व्रीह्यादाविष्टापत्तिमाशंक्याह ॥ ततः क्वापीति ॥ श्लोकं व्याचष्टे ॥ व्रीहिभिरिति ॥ अधिकरणशरीरं प्रागुक्तमन्तस्तद्धर्मेति सूत्रे । विकल्पादीत्यादिपदार्थमाह ॥ धेन्वेति ॥ द्वादशस्य चतुर्थेपादे ‘‘क्रयणे तु विकल्पः स्या’’दिति तृतीयेऽधिकरणे ‘‘एकहायन्या क्रीणाति वाससा क्रीणाती’’ति श्रुतधेन्वादीनां व्रीह्यादिवद्विकल्पप्राप्तौ समुच्चय उक्तः । स नस्यादित्यर्थः । ‘‘इत्यादिभेदश्रुतिबाहुल्याच्चे’’ति टीकोक्तिं विवृण्वंस्तदुक्तेरुपयोगं व्यनक्ति ॥ व्रीह्यादिभेद इति ॥ भेदोऽपीति ॥ श्रुतिसिद्ध इत्यन्वयः । ‘‘एको नारायण आसीन्न ब्रह्मा नच शङ्करः । समुनिर्भूत्वा समचिन्तयत् । तत एत’’ इति कार्यकारणभावेन भेदबोधिन्या धर्मिग्राहकतया प्रबलया ‘‘रूपोपन्यासाच्चे’’ति सूत्रभाष्योक्तश्रुत्या सिद्ध इत्यर्थः । प्रागुक्तश्रुत्यादिविरोधमाशङ्क्य स्मृतेस्तु तदन्तर्गतेश्वररूपापेक्षयोपपत्तेरिति टीकोक्तं समाधिं विपक्षे बाधोक्तया व्यनक्ति ॥ स त्रेधेति ॥ तद्गतेति ॥ ब्रह्मेशानगतेत्यर्थः ॥ ब्रह्मणीति ॥ प्रथमस्कन्धद्वितीयाध्यायतात्पर्यस्मृतिः । स्थाणुरिति तात्पर्योक्तश्रुतिः । स्थाणुः रुद्रः । प्रजापतिं ब्रह्माणम् ।

ननु प्राग्बहुशोऽभेदस्य व्युदस्तत्वात्पुनरभेदाशङ्का तत्समाधिश्च न युक्त इत्यतो भेदसूत्राणां विषयभेदमाह ॥ अत्र चेति ॥ शास्त्र इत्यर्थः ॥ भेदं स्वीकृत्येति ॥ ‘‘भेदव्यपदेशाच्चे’’ त्यानन्दमयाधिकरणगुणसूत्रस्य ‘‘ते ये शतं प्रजापतेरानन्दा’’ इत्यादि भाष्ये जीवादानन्दमयस्य भेदव्यपदेशार्थकत्वेनोक्तत्वात्तदभिप्रायेणैतदुक्तम् । सुधायां जीवब्रह्मपरत्वेन व्याख्यानं तु वर्णकान्तरमभिप्रेत्य । तस्मिन्पक्षे पौनरुक्तयाभावस्तु तत्र सर्वजीवसाधारण्येन तस्मिन्वाक्यविशेषेऽभेदे शङ्किते साधारणभेदव्यपदेशेन निरासः । इह तु विशिष्याभेदे शङ्किते विशिष्य भेदोक्तया निरास इति भावः । अत एवोक्तं विशिष्याभेदोक्तययोगाद् विशिष्यभेदोक्तेश्चेति ॥ ‘‘शारीरश्चोभयेऽपी’’त्यन्तर्यामिनयगुणसूत्रे भाष्ये जीवानामन्तर्यामित्वे शङ्किते ‘‘य आत्मनि तिष्ठ’’न्नित्यादिनाऽऽत्मशब्दितजीवस्यान्तर्यामितो भेदाध्ययनस्योक्तया तदभिप्रायेणान्तर्यामिणो जीवत्वे शङ्किते तन्निरास इत्यादिपदेनोक्तम् । यदि तु ‘‘आत्मा विज्ञानमिति च सर्वजीवाभिमानवान् । ब्रह्मैवोक्त’’ इति बृहद्भाष्यदिशा चतुर्मुखस्यान्तर्यामितो भेदाध्ययनमित्यर्थस् तदा चतुर्मुखस्यान्तर्यामित्वशङ्कातन्निरासयोरेव प्रतीत्या विष्ण्वभेदशङ्कातन्निरासयोरभावेनापौनरुक्तयमिति भावः । इत्यादावित्यादिपदेन ‘‘विशेषणभेदव्यपदेशाभ्यां च नेतरा’’वित्यत्र विरिञ्चस्य विष्णुतो भेदमुपेत्यैवादृश्यत्वादिगुणकाक्षरत्वे शङ्किते ‘‘तस्मादेतद्ब्रह्मनाम रूपमन्नं च जायत’’ इत्यक्षराद्भेदव्यपदेशोक्तया तन्निरासः । आत्मेत्यादावित्यादिपदेन ‘‘भेदव्यपदेशा’’दित्यत्र द्युभ्वादिनयगुणसूत्रे वाक्यविशेषे जीवब्रह्माभेदे शङ्किते तत्रैव प्रकरणे भेदोक्तया तन्निरास इति गृह्यते ॥ प्रयाजशेषेति ॥ उक्तमधिकरणशरीरं प्रागनुकृतिसूत्रे । ‘‘प्रयाजशेषेण हवींष्यभिघारयती’’त्यत्र शेषशब्दप्रातिपदिकस्वारस्येन तृतीयाया द्वितीयार्थकत्वकल्पनेन प्रयाजशेषं हविष्षूत्क्षारयेदित्यर्थ इत्युक्तन्यायेन षष्ठी ‘‘राहोश्शिर’’ इतिवदुपचारेण नेयेत्यर्थः । एतेनाभेदप्रापकभेदादपौनरुक्तयमित्युक्तं भवति ॥ भोक्त्रिति ॥ द्वितीयाद्यपादे ॥ पृथगिति ॥ तत्रैव तृतीयपादे ॥ तदुक्तमिति ॥ आनन्दमयाधिकरणानुव्याख्यान इत्यर्थः । अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्तिश्शङ्क्या । नन्वेवं सत्यभेदः क्वापि न निरस्तः स्यादित्यत उक्तं पृथगिति ॥ पूर्णता प्रधानता । भेदसाधनस्य स्वातंत्र्येण विचारितत्वादित्यर्थः ।

चन्द्रिकाबिन्दुः

विकल्पाद्येवेत्यादिशब्दार्थं दर्शयन् कारिकां व्याख्याति ॥ व्रीहिभिर्यजेतेत्यादि ॥ उभयाबाधायेत्यादि ॥ एकैकस्यानुष्ठानसमयेऽन्यस्य बाध इति भावः ॥ तद्गतेति ॥ हिरण्यगर्भादिरूपेत्यर्थः । एवं च विशिष्योक्तिरनुपपन्ना । हिरण्यगर्भादिरूपाणां विशिष्टत्वेन तैरभेदोक्तेस्समुच्चयश्च न स्यादिति । अभेदेनैव इत्युक्तत्वात् । इदं च समाधानं तदन्तर्गतेश्वररूपापेक्षयेति टीकायां रूपपदस्वारस्यलब्धम् । अन्यथा भेदानङ्गीकारे । एवमेतदधिकरणसिद्धान्तं समाप्य अध्यायादिमारभ्य भेदप्रतिपादनपराणां सूत्राणां बहूनां गतार्थत्वेन वैयर्थ्यमाशङ्क्य तत्र शङ्कापरिहारविषयाणां वैलक्षण्येन गतार्थत्वं नेति परिहरति ॥ अत्र चेत्यादिना ॥

नन्वात्मशब्दस्य स्वरूपार्थकत्वे इन्द्रस्येति षष्ठ्या औपचारिकत्वं स्यादित्यत आह ॥ तदनुसारेणेति ॥ आत्मेति प्रातिपदिकानुसारेणेत्यर्थः ॥ शरीरेति ॥ शरीरं, प्रति सम्बन्धी शरीरीति यावत् । तथा च इन्द्रः शरीरम् आत्मपदोदितः परमश्शरीरीति लभ्यते । अव्यवहितपूर्वाधिकरणस्य सामान्यादिविषयत्वादिना भेदं दर्शयति ॥ पूर्वाधिकरणे त्विति ॥ न पौनरुक्त्यमित्यर्थः ॥

पाण्डुरङ्गि

व्रीह्यादिकेष्वित्यत्र विकल्पाद्येवेत्यत्र चादिपदसङ्ग्राह्यं दर्शयन् सङ्ग्रहश्लोकं व्याख्याति ॥ व्रीहिभिरित्यादिना ॥ दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं शङ्कते ॥ व्रीह्यादीति ॥ साम्येन परिहरति ॥ विष्णोरिति ॥ धर्मिग्राहकेत्युक्तया विष्णोर्विरिञ्चाद्भेदग्राहकप्रमाणस्य धर्मिग्राहकत्वेनोपजीव्यत्वात्तदभेदग्राहकप्रमाणापेक्षया प्राबल्यमिति सूचयति । विशिष्य भेदोक्तयभावं परिहरति ॥ स्थाणुरिति ॥ सर्वत्रापि भेदप्रतिपादने पौनरुक्तयं स्यादित्यतः न जीवभेदसूत्राणामित्याद्यनुव्याख्यानोक्तं परिहारं व्यनक्ति ॥ अत्र चेत्यादिना ॥

तात्पर्यचन्द्रिका

न च सर्वाधिपतित्वादेर्विरिञ्चस्य विष्ण्वभेदेनाप्युपपत्तेर्न भेदकत्वमिति वाच्यम् । अन्योन्याश्रयात् । ‘‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माण’’मित्यादिश्रुतिषु विरिञ्चस्य सर्वाधिपतित्वनित्यमहिमत्वादेर्निषेधाच्चेति । अत्र च वाजसनेये ‘‘सर्वस्य वशी’’ति वशित्वस्यादित्वेऽपि भाष्योदाहृतशाखान्तरे पतिशब्दस्यादित्वात् सूत्रे तदनुसारेण पत्यादीत्युक्तम् ॥ अन्येतु ॥ ‘‘कतम आत्मा योऽयं विज्ञानमयः प्राणे’’ष्वित्यादि ‘‘स वा एष महानज आत्मा योऽयं विज्ञानमय’’ इत्यन्तं बृहदारण्यकवाक्यं मानान्तरप्राप्तसंसार्यात्मस्वरूपानुवादमात्रम् । उपक्रमोपसंहारयोः संसारिरूपस्यैव प्रतीतेरिति प्राप्ते ‘‘स वा अयं पुरुषो जायमान’’ इत्यादिना कल्पितसंसारिस्वरूपमनूद्य ‘‘स वा एष महानज’’ इत्यादिनाऽकल्पितासंसार्यैक्यं बोध्यत इति सिद्धान्तः । सुषुप्तीत्यादिसूत्रद्वयं चैकाधिकरणमित्याहुः ॥ तत्र ब्रूमः ॥

यत्तत्वमैक्यं तन्नैव कीर्त्यते श्रुतिसूत्रयोः ।

तत्र यः कीर्त्यते भेदस् तच्च तत्वं न ते मते ॥ १ ॥

सुषुप्त्यादिसूत्रेण, तद्विषयतया त्वयाप्युदाहृताभ्यां ‘‘प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनान्वारूढ’’ इति श्रुतिभ्यां च जीवाद्भेद एवोक्तः । तथा पत्यादिसूत्रेण, तद्विषयत्वेन त्वयाप्युदाहृतया ‘‘एष लोकाधिपति’’रित्यादिश्रुत्याच जीवाद्भेदकधर्मा उक्ताः । न तु त्वया तत्वतयाऽभिप्रेतमैक्यम् । एतेन योऽयं विज्ञानमयो जीवः स एवैष महानात्मा परमात्मेत्यभेद उक्त इति निरस्तम् । सूत्रविरोधात् । प्राज्ञेनेत्यादिमानान्तरा-प्राप्तभेदोपदेशविरोधाच्च । न च ‘‘अत ऊर्ध्वं विमोक्षायैव ब्रूही’’ति पृष्टे उक्तो भेदो भेदकधर्माश्च मिथ्येति युक्तम् । न वा मानान्तरेण स्वप्रकरणस्थेन प्राज्ञेनेत्यादिवाक्येन चाविरुद्धमहत्त्वादिविधिपरत्वसम्भवे तद्विरुद्धाभेद परत्वं युक्तम् । तस्मान्नेहैक्योक्तिः । यच्चेहोच्यते भेदादिकं तच्च न तत्वम् । पत्यादिसूत्रस्य पूर्वशेषत्वेच चशब्दापात इति ॥ केचित्तु ॥ सुषुप्त्यादीतिसूत्रद्वयमस्मदुक्तवाक्यविषयमेव स्वीकृत्य मुक्तजीवाद्विलक्षण-ब्रह्मसाधनपरं सत् ‘‘आकाशोऽर्थान्तरे’’त्येतदधिकरणशेष इत्याहुः । तन्न । ‘‘आकाशो वैनामे’’त्यत्राकाशो मुक्तजीव एव न तु ब्रह्मेति वदता पूर्वपक्षिणा तस्मिन्नेवाधिकरणे तद्वाक्यविचारं विहाय स्वोक्तिविरुद्धस्य मुक्तजीवब्रह्मैक्यस्य तत्त्वमस्यादिवाक्यान्तर-माश्रित्य शङ्कितुमनुचितत्वात् ॥ टीकाक्षरार्थस्तु ॥ स्वरव्यत्ययस्याधिकार्थत्वादिति ॥ ‘‘आधिक्येऽधिकमित्येव हरिणासूत्रमीरित’’ मित्यृग्भाष्य उक्तत्वाद्ब्रह्मणा वेदेन गम्यत्वाधिक्यविवक्षया दीर्घ इत्यर्थः । इतरत् स्पष्टमिति ॥

इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाविवृतौ

तात्पर्यचन्द्रिकायां प्रथमाध्यायस्य तृतीयः पादः ॥ १ ॥ ३ ॥

प्रकाशिका

ननु यदुक्तं विरुद्धेष्वभेदश्चेदिति तन्न । विशेष्यस्यैकत्वेन धर्माणां विरोधस्यैवाभावादित्याशङ्क्याह ॥ न चेति ॥ अन्योन्येति ॥ सिद्धेऽभेदे धर्माणामविरोधेनाभेदकत्वं सति च तस्मिन्नभेद इत्यन्योन्याश्रयादित्यर्थः । यं रुद्रं चतुर्मुखं वा कर्तुं कामये तं तं रुद्रं चतुर्मुखं वा करोमीति लक्ष्म्याऽभिधानादिति भावः । सूत्रे वश्यादिशब्देभ्य इति वक्तव्ये पत्यादीत्ययुक्तमित्याशङ्क्य सौत्रनिर्देशं साधयति ॥ अत्रेति ॥ सर्वस्याधिपतिस्सर्वस्येशान इति भाष्योदाहृतेत्यर्थः । तथाप्यधिपत्यादिशब्देभ्य इति वक्तव्ये पत्यादीति निर्देशस्तूपसर्गस्य द्योतकत्वाभिप्रायः । चरणाभिधानादितिवदित्येके । अन्येतु ‘‘पतिं विश्वस्यात्मेश्वर’’मिति समानार्थत्वेन नारायण एव विशेष्यभूत इति ज्ञापनाय पत्यादीत्युक्तमित्याहुः । अपरेतु ‘‘सर्वस्याधिपतिरेष भूतपति’’रिति पतिशब्दस्याभ्यस्तत्वात्तात्पर्यद्योतनाय पत्यादीत्युक्तिरित्याहुः । केचित्तु तत्पुरुषबहुव्रीहिरूपसमासद्वयस्याप्याश्रयणेन पतिशब्दात्पूर्वशब्दानामुत्तरशब्दानां च सर्वेषामप्युपादानान्मध्यस्थस्याभ्यस्तस्य पतिशब्दस्योपादानेन पत्यादीतिनिर्देश इति वदन्ति । सर्ववशित्वादेरवान्तरेश्वरे विरिञ्चे कथञ्चित्सम्भवेऽपि पापालेपलिङ्गं कथमपि न विरिञ्चे सावकाशमिति तत्सहपाठादन्यदपि तथेति द्योतनाय ‘‘सनसाधुना’’त्याद्यलेपोक्तिपरवाक्यात्पूर्वत्रोत्तरत्र च श्रुतपतिशब्दोपादानेन पत्यादीत्युक्तम् । उभयत्र श्रुतोक्तयर्थमेव सर्वस्येति वा भूतस्येति वोपपदस्यानुपादानम् । अत एव च न्यायविवरणे ‘‘पापालेपलिङ्गस्य चे’’त्येवोक्तिरित्यपि सङ्गिरन्ते । अत्र सूत्रे साक्षाद्भेदस्यानुक्तत्वादभेदेन पूर्वपक्षस्सूत्राननुगुण इत्येतदेतेन निरस्तम् । पतित्वादेर्भेदकधर्मस्योक्तयैवाभेदनिरासस्याभिमतत्वात् । भेद एव वक्तव्ये भेदकोक्तिस्तु विरुद्धयोरैक्यं न युक्तम् । अतिप्रसङ्गात् । विरुद्धत्वं चान्योन्याश्रयापत्त्यैव सिद्धम् । अभेदपूर्वपक्षश्चोभयविधधर्मान्यथानुपपत्त्येत्यादिसूचनाय । अत एव प्राक्सूत्राभिमत एवातिप्रसङ्गो ‘‘विरुद्धेष्वप्यभेदश्चे’’त्यादिना प्रपञ्चितः । पूर्वसूत्रेऽनुषङ्गसिद्धस्य ‘‘भेदेन व्यपदेशा’’दित्यस्येहाप्यनुवर्तनेन पत्यादिशब्देभ्यो भेदेन व्यपदेशादित्यन्वये तु साक्षादेव भेदोक्तिरिति बोध्मय् ॥ बृहदारण्यकवाक्यमिति ॥ प्रागेव लिखितमेतत् । किं संसार्यात्मस्वरूपानुवादपरमुतासंसारिब्रह्मस्वरूपप्रतिपादनपरमिति संशयः ।

आदिमध्यावसानेषु संसारिप्रतिपादनात् ।

तत्परो ग्रन्थसन्दर्भः सर्वं तत्रैव योज्यते ॥

इति भामत्युक्तं पूर्वपक्षमनुवदति ॥ मानान्तरेति ॥ संसार्येव तावदात्माऽहंकारास्पदं प्राणादिपरीतस्सर्वजनसिद्ध इति प्रत्यक्षप्राप्तसंसार्यात्मप्रतिपादकमिदमनुवादमात्रमित्यर्थः । अनुवादफलं च कर्मापेक्षितकर्तुः स्तुतिरिति भावः ॥ उपक्रमेति ॥ आदावन्ते च जीववाचिविज्ञानमयशब्दप्रयोगादिति भावः । मध्ये च ‘‘स वा एष एतस्मिन्संप्रसादे स्वप्ने बुद्धान्ते रत्वा चरित्वे’’ति स्वप्नाद्यवस्थोपपत्तेरित्यपि ध्येयम् । महानज इत्यादिकं तु संसारिण्येव कथञ्चिद्योज्यमिति भावः । तत्किं संसारिणोऽन्यः परमात्मैव नेति संसार्यनुवादपरमित्युच्यतेऽथ वाऽत्र संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्तनात्संसारिण एवादावन्ते च कीर्तनात्तत्परमिति । नाद्यः । ‘‘ईक्षतेर्नाशब्दम्’’ गतिसामान्या’’दित्यादिभिस्तद्भिन्नपरमात्मप्रतिपादकागमस्योपपादितत्वात् । न द्वितीयः । ‘‘प्राज्ञेनात्मना सम्परिष्वक्त’’ इति सुषुप्तौ ‘‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याती’’त्युत्क्रान्तौ च भेदेन व्यपदेशात् ।

ननु भेदेन जीवपरव्यपदेशे वाक्यं भिद्येतेत्यत आह ॥ सवायमिति ॥ अनधिगतैक्यावबोधनपरत्वसम्भवेऽनुवादमात्रमयुक्तमिति भावः । पत्यादिशब्दैश्चेदं वाक्यजातमसंसार्यात्मप्रतिपादनपरमिति सिद्धान्त इत्यर्थः ॥ श्रुतिसूत्रानानुगुण्येन सिद्धान्तं पराचष्टे ॥ यत्तत्वमिति ॥ ऐक्यकीर्तनाभावे निर्विषयं वाक्यमापद्येतेति शङ्कां व्युदस्यन् पूर्वार्धं व्यनक्ति ॥ सुषुप्त्यादीति ॥ भेद एवेति ॥ एतेन तृतीयपादार्थस्यासिद्धिरपि परास्ता । एतेनेत्युक्तमेव व्यनक्ति ॥ सूत्रेति मानान्तरेति ॥ प्राज्ञभेदस्य प्रत्यक्षाद्यगोचरत्वादिति भावः । उत्तरार्धं व्यनक्ति ॥ यच्चेति ॥ केचित्त्विति ॥ पूर्वसूत्रे आकाशः परमात्मा न मुक्तजीवः । नामरूपास्पृष्टत्वेन तन्निर्वोढृत्वेन च बन्धमुक्तोभयावस्थाज्जीवादर्थान्तरत्वस्य वैलक्षण्यस्य व्यपदेशादित्युक्तम् । तन्न युक्तम् । ‘‘तत्त्वमसी’’त्यादिनैक्यव्यपदेशेन ‘‘नेहनानास्ती’’ति भेदनिषेधेन च प्रत्यगात्मनेऽर्थान्तरभूतस्य परमात्मनोऽभावादित्याशङ्क्य तत्किं जीवमात्रादर्थान्तरत्वे विप्रतिपत्तिरुत मुक्तयवस्थाज्जीवात् । नाद्यः । ‘‘प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनाऽन्वारूढ’’ इति सुषुप्त्युत्क्रान्त्योर्भेदेन जीवादर्थान्तरस्य व्यपदेशादिति सुषुप्तिसूत्रेणोक्त्वा न द्वितीयः । ‘‘सर्वस्याधिपतिस्सर्वस्य वशी’’त्यादिपत्यादिशब्देभ्यश्च मुक्तयवस्थादर्थान्तरस्य व्यपदेशात् । न हि सर्वाधिपतित्वादिकं मुक्तयवस्थेपि सम्भवतीति द्वितीयसूत्रेणोक्तमित्यर्थः । पूर्वशेषत्वे तु सूत्रानुत्थानं स्यादिति दूषयति ॥ तन्नेति ॥ यदप्युक्तं श्रुतप्रकाशे प्रतिज्ञाभागाभावान्नाधिकरणान्तरम् । न चाध्याहारः । अनध्याहारेणैवोपपत्तेरिति तदेतेन निरस्तम् । सूत्रगमनिकारूपशङ्काया एवानुदयात् । अभिव्यक्तेरित्यादौ त्वन्मत इव योग्यस्याध्याहारे दोषाभावादिति । चशब्दाभावादिति दूषणमत्रापि ध्येयम् । एतेन रामानुजमतरीतिमनुसरतः कस्यचिच्छैवस्य मतं प्रत्युक्तमिति ध्येयम् । ‘‘विदेहि रुद्रो रुद्रियं महित्व’’मित्यादिश्रुतिभिः ‘‘रुद्रो ब्रह्माणमाश्रित’’ इत्यादिस्मृतिभिस्तस्य पराधीनत्वोक्तया सर्ववशित्वादेरसङ्कुचितस्यायोगाच्चेति । ‘‘ब्रह्मणा वेदेन गम्यत इति योगेनोपपत्तेः । स्वरव्यत्ययस्याधिक्यार्थत्वा’’दिति सिद्धान्तस्थवाक्यं हेतूक्तिपूर्वं व्यनक्ति ॥ स्वरेति ॥ अर्थाधिक्ये विवक्षिते शब्देऽधिकमिति सूत्रं महाव्याकरण ईरितमित्यर्थः ॥ दीर्घ इति ॥ ब्रह्माण इति वक्तव्ये ब्राह्मणस्येत्युत्तरस्य दीर्घलोपेन पूर्वस्य दीर्घरूपः स्वर इत्यर्थः । तेन योगस्य ब्रह्मादिष्वयोग्यतामभिप्रैति । शिष्टं स्पष्टमुपन्यासमुखेनेति भावः । इतिशब्दः पादसमाप्तौ ॥

इति श्रीसुधींद्रतीर्थगुरुपादशिष्यश्रीराघवेन्द्रयतिकृते

चन्द्रिकाप्रकाशे प्रथमाध्यायस्य तृतीयः पादः ॥ १ ॥ ३ ॥

चन्द्रिकाबिन्दुः

प्राज्ञेनेत्यादीति ॥ प्राज्ञकर्तृकजीवकर्मकपरिष्वङ्गाख्यभेदस्य मानान्तराप्राप्तत्वादित्यर्थः । तथा प्राज्ञेनेत्यादिश्रुतिर्भेदानुवादित्वान्न तत्र प्रमाणमिति शङ्का न कर्तव्येति भावः ॥ तद्विरुद्धेति ॥ स्वप्रकरणस्य वाक्यविरुद्धं परमात्मैक्यं तत्परत्वं न वक्तव्यमित्यर्थः । केषांचित्पक्षे एतत्सूत्रव्यावर्त्यशङ्कानुदय इत्याह ॥ तन्नेति ॥ स्वरेति ॥ ब्राह्मण इत्यत्र ब्रह्म इति ह्रस्वेन भवितव्ये ब्राह्म इति दीर्घ एव स्वरव्यत्यय ह्रस्वस्थाने दीर्घ एव स्वरव्यत्ययः ह्रस्वस्थाने दीर्घः ॥ आधिक्य इति ॥ न तु स्वरव्यत्यासः । यद्यपि भावबोधे ब्रह्माण इति वक्तव्ये ब्राह्मण इति व्यत्याय शब्दार्थ उक्तः स नादरणीयः । तस्य व्यत्यासमात्ररूपत्वेनाधिक्यरूपत्वात् । किं तु ब्रेत्यस्य ह्रस्वस्य दीर्घ एव व्यत्ययशब्दार्थः । ननु ब्रेत्यत्र दीर्घप्रवेशानन्तरमपि ब्राह्मण इति स्थितौ ब्राह्मण इति भवेदिति चेन्न । अतो गुण इत्येकरूपाश्रयणेन सारङ्गादित्वेनोपपद्यत इति स्वामिनः ॥ गम्यत्वाधिक्यविवक्षयेति ॥ वेदवाचकब्रह्मशब्दे दीर्घलक्षणाधिक्येन वेद एवाधिक्यमायाति न तु तद्गम्ये । तथापि वेदद्वारा तद्गम्ये ब्रह्मण्येवाधिक्यं गम्यत्वापेक्षया आयातीति नोक्तदोष इति स्वामिनः ॥

इति तृतीयः पादः समाप्तः

पाण्डुरङ्गि

सर्वस्य वशी सर्वेशान इति सर्वाधिपतित्वादि विष्णुलिङ्गैर्ब्राह्मण शब्दो ब्रह्मणा वेदेन गम्यत इति न्यायविवरणोक्तरीत्या यौगिक एवेत्यत्रोक्तं विष्ण्वभेदेनापि तल्लिङ्गोपपत्तेरित्यादिकं परिहर्तुं शङ्कते ॥ न चेति ॥ इतरत्स्पष्टम् ॥

इति श्रीमद्विद्याधीशतीर्थपूज्यपादानां शिष्येण

केशवभट्टारकेण विरचितायां श्रीमत्तात्पर्यचन्द्रिकावाक्यार्थविवृतौ

भावदीपिकायां प्रथमाध्यायस्य तृतीयः पादः ॥ १ ॥ ३ ॥

इति ब्राह्मणाधिकरणम् ॥ १४ ॥