पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
॥ पूर्वपक्षस्तु ॥ अयं ब्राह्मणोविरिञ्चः । ‘‘स वा एष महानज आत्मे’’त्यजशब्दात् । न च वाच्यमजशब्दो न जायत इत्यज इति विष्णौ यौगिकः । विरिञ्चेऽप्यकारवाच्यविष्णुजातत्वाद्यौगिक इति । विरिञ्चे रूढेरपि सत्त्वात् । योगरूढेश्च योगमात्रात्प्राबल्यात् । टीकायां ब्राह्मणशब्देन सहपठितस्याजशब्दस्यानवकाशत्वोक्तिस्त्वजशब्दमात्रस्य सावकाशत्वमभ्युपेत्य । एवं च ‘‘ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य परमात्माभेदं विनाऽवकाशराहित्या’’दिति न्यायविवरणे ब्राह्मणश्रुतितो भाष्ये चाजश्रुतितो विरिञ्चप्राप्तेरुक्तत्वेन तयोर्विरोध इति निरस्तम् । निरपेक्षयोः श्रुत्योर्विप्रत्वजातौ विष्णौ च सावकाशत्वमुपेत्यानवकाशत्वाय श्रुत्योः साहित्यस्य च विवक्षितत्वादिति टीकाभिप्रायः ।
यद्वा ‘‘तस्मादहमजः स्मृत’’ इति भारतवचनादजशब्दस्य विष्णौ रूढेरपि सत्त्वाद्ब्राह्मणशब्दसाहित्योक्तिः । महच्छब्दोऽप्यभिमान्यधिकरणन्यायेन महत्तत्वाभिमानिनि विरिञ्चे मुख्यः । न तूत्कृष्टत्वमात्रवाची । विशेषपरत्वसम्भवे सामान्यपरत्वायोगात् । आत्मशब्दोऽपि ‘‘आत्माविरिञ्चः सुमना’’ इति वचनात् ‘‘बुद्धेरात्मामहान्पर’’ इति प्रयोगाच्च विरिञ्चे रूढः । न च ‘‘विष्णोर्ब्राह्मणजातिः सन् जज्ञे ब्रह्मा चतुर्मुख’’ इति वचनाच्चतुर्मुखे ब्राह्मणत्ववर्णसम्भवेऽपि ‘‘अगोत्रमवर्ण’’मित्यादिश्रुतिभिर्विष्णौ तदसम्भवेऽपि ‘‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपति’’रित्यादिविष्णुलिङ्गैर्ब्राह्मणशब्दो ‘‘ब्रह्मणा वेदेन गम्यत’’ इति न्यायविवरणोक्तरीत्या विष्णौ यौगिक इति वाच्यम् । विरिञ्चस्य विष्ण्वभेदेऽपि तल्लिङ्गोपपत्तेस्सावकाशश्रुतेर्निरवकाशलिङ्गानां चाबाधेनोपपत्तौ बाधायोगात् ।
न च श्रुतिलिङ्गाबाधाय मुख्यत्वाय च ‘‘अज आत्मे’’त्यादिकं विरिञ्चविषयम् । सर्वस्य वशी’’त्यादिकं तु विष्णुविषयमिति वाच्यम् । गङ्गाघोषादाविवैकवाक्यत्वायामुख्यार्थत्वस्यैवोचितत्वात् । न च पूर्वत्र जीवादिवात्र विरिञ्चाद्भेदो व्यपदिष्टः । न च जीवैरभेद इव विरिञ्चेनाभेदे बद्धमुक्तादिव्यवस्थानुपपत्तिरस्ति । ‘‘स त्रेधा बभूवैषां गुणानामुपादानाय । विष्णुर्वाव सत्वस्य रजसो ब्रह्मा ईशानो नामतमस’’ इत्यादिश्रुतिभिः ‘‘स्थित्यादये हरिविरिञ्चहरेति संज्ञा’’ इत्यादिस्मृतिभिश्चाभेदोक्तेश्च ।
न च सा ‘‘शास्त्रदृष्ट्ये’’त्युक्तन्यायेनान्तर्याम्यभेदाभिप्राया । नापि ‘‘तद्गुणसारत्वा’’दिति वक्ष्यमाणन्यायेन सादृश्याभिप्राया । तयोर्जीवमात्रसाधारण्येन विशिष्याभेदोक्तययोगात् । अत एव टीकायां पूर्वाधिकरण पूर्वपक्षे ‘‘तत्त्वमसी’’त्यादिजीवेश्वराभेदवाक्यं नोक्तम् । अत्र तु ‘‘सृष्ट्यादय’’ इति विष्णुहिरण्यगर्भाभेदवाक्यमुक्तम् ।
प्रकाशिका
अत्र टीकाया भाष्यदिशा शब्दात् पूर्वपक्षप्राप्तिमुक्त्वा तस्य सावकाशत्वमाशंक्य ब्राह्मणशब्दसाहित्येनानवकाशत्वमुक्तम् । तत्राजश्रुतेस्स्वत एव चतुर्मुखप्रापकत्वोपपादनेन भाष्यस्वारस्ये सम्भवति भाष्येऽनुक्तस्यापि ब्राह्मणपदसाहित्येनानवकाशत्वस्योक्तिरभ्युपगमवादेनेति भावेन पूर्वपक्षटीकां व्यनक्ति ॥ अयं ब्राह्मण इति ॥ अजशब्दमात्रस्य केवलाजशब्दस्येत्यर्थः । ननूक्तदिशाऽजशब्दस्यान्यानपेक्षेणैवानवकाशत्वसम्भवेऽभ्युपगमवादो व्यर्थ इत्यत आह ॥ एवं चेति ॥ तथाच टीकायां विरोधपरिहारार्थमेव तथोक्तम् । न तूक्तदिशाऽनवकाशत्वं नेतीति भावः । ‘‘स न साधुना कर्मणा भूयान्नोवाऽसाधुना कनीया’’नित्युक्तपापालेपलिङ्गस्येत्यर्थः । नन्वजशब्दस्यैवानवकाशत्वसम्भवे तस्य चतुर्मुखपरत्वलाभायान्यसाहित्यापेक्षाभिप्रायेण न्यायविवरणे ब्राह्मणशब्दोक्तिर्व्यर्थेत्यत आह ॥ यद्वेति ॥ महत्तत्वेत्यादिटीकां व्यनक्ति ॥ महदिति ॥ ‘‘आत्मशब्देन सहश्रवणाद्विष्णुवाची किं नस्या’’दिति टीकोक्तशङ्कां हृदि कृत्वा तदुक्तमेव समाधिमाह ॥ आत्मशब्दोऽपीति ॥ इति प्रयोगाच्च काठक इत्यर्थः । न्यायविवरणोक्ताभेदप्रपञ्चनाय प्रवृत्तां तथाहीत्यादि टीकां विवरीतुं शङ्कामाह ॥ न चेति ॥ विष्णोरित्यादिना ब्राह्मणशब्दनिरवकाशत्वानुवादग्रन्थेन ‘‘वर्णादि शून्यादीश्वराद्व्यावर्तमानस्य ब्राह्मणशब्दस्ये’’त्यादि टीका विवृता ॥ इत्यादिविष्णुलिङ्गैरिति ॥ सौत्रत्वादेतदुक्तिः । ‘‘पापालेपलिङ्गस्ये’’ति न्यायविवरणोक्तिः ‘‘नित्यमहिमत्वलिङ्ग’’मिति भाष्यटीकोक्तिश्चोपलक्षणमिति भावः । सूत्रे तस्य साक्षादनुक्तेः ॥ ब्रह्मणा वेदेनेति ॥ स्वरव्यत्यय आधिक्यार्थ इत्यर्थः ॥ न्यायविवरणेति ॥ सिद्धान्त इत्यर्थः ॥ अबाधेनेति ॥ यौगिकार्थग्रहणे रूढार्थबाधादिति भावः । एवं च रूढ्या विरिञ्चे योगेन विष्णौ श्रुतेस्सावकाशत्वेऽपि रूढार्थाबाधेनैक्यपरत्वेनैव रूढ्या विष्णौ निरवकाशश्रुतेश्चतुर्मुखेऽनवकाशलिङ्गानां चोपपत्तौ न श्रुते रूढार्थबाधः कार्य इत्यर्थः । एतेन न्यायविवरणे टीकायां च श्रुतेरनवकाशत्वोक्तेस्सावकाशश्रुतेरित्युक्तिस्तद्विरुद्धेति निरस्तम् । नन्वेवमन्तर्नयादिषूदाहृतेन्द्रादिश्रुतीनां समुद्रशायित्वादिलिङ्गानां च श्रुते रूढार्थाबाधेनाभेद एवाश्रीयतामिति वाच्यम् । तत्रेवेहभेदव्यपदेशरूपबाधकाभावादिति भावः । अत एव वक्ष्यति ‘‘न च पूर्वत्रे’’त्यादि । ‘‘न च भिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वा’’दिति टीकां विवृण्वन्नभेदं विनाऽपि श्रुत्यादेरुपपत्तिमाशङ्क्य निराह ॥ न चेति ॥ गङ्गेति ॥ यथा गङ्गायां घोष इत्युक्ते गङ्गायां मत्स्यस्तीरे घोष इति वाक्यभेदो न कल्प्यते किं तु लक्षणयैकवाक्यत्वं तद्वदित्यर्थः । श्रुतिलिङ्गान्वयानुपपत्तिरूपाभेदसाधकार्थापत्तिर्न श्रुतिबाधितेत्याह ॥ न च पूर्वत्रेति ॥ एतेन पूर्वेणागतार्थत्वं चोक्तम् । तर्कपराहतिश्चार्थापत्तेर्नास्तीत्याह ॥ न च जीवैरिति ॥ एतेन पूर्ववैषम्येणापि पूर्वपक्ष उक्तो ध्येयः । न केवलमर्थापत्त्यैवाभेदसिद्धिरागमादपीति भावेनार्थापत्तेर्मूलमप्याह ॥ स त्रेधेति ॥ तृतीयस्कन्धैकादशाध्यायतात्पर्योक्तेयं श्रुतिः । एतेन ‘‘सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्यधत्ते । स्थित्यादये हरिविरिञ्चहरेति संज्ञा इत्यादेश्चे’’ति टीकोक्तादिपदार्थो विवृतः । स्थित्यादय इति भागवते । नयान्तरेणास्यागतार्थत्वाय श्रुत्यादावभेदोक्तेरन्यथासिद्धिमाशङ्क्य निराह ॥ न च सेति ॥ विशिष्येत्युक्तसमाधिष्टीकाकृत्सम्मत इत्याह ॥ अत एवेति ॥ तत्त्वमसीत्यादेर्गतेर्वक्ष्यमाणत्वादेव विशिष्य भेदोक्तेर्गत्यनुक्तेरेव चेत्यर्थः ।
चन्द्रिकाबिन्दुः
नन्वजशब्दस्य विरिञ्चपरत्वे न यौगिकत्वं, विष्णुपक्षे तु यौगिकत्वम् अतो न विष्णुर्गृह्यत इत्यत आह ॥ विरिञ्चेऽपीति ॥ ननु योगरूढिबलादेवाजशब्दस्य चतुर्मुखपरत्वमिति पूर्वपक्षसम्भवे किमिति ब्राह्मणशब्दसहकारादिव्युत्पादनपूर्वकमजशब्दस्य चतुर्मुखपरत्वव्युत्पादनमित्याशङ्क्याह ॥ टीकायामिति ॥ एवं सौलभ्येन पूर्वपक्षसम्भवे किमिति विष्णाववकाशमभ्युपेत्य पूर्वपक्षकरणमित्यत एवमभ्युपगमेन पूर्वपक्षे प्रयोजनं दर्शयति ॥ एवं चेत्यादिना ॥ श्रुत्योरिति ॥ ब्राह्मणश्रुत्यजश्रुत्योरित्यर्थः । ननु एकैकत्रैकग्रहणेऽपि न विरोधः । ब्राह्मणश्रुत्यजश्रुत्योः प्रत्येकमपि विरिञ्चिसाधकत्वमस्तीत्यभिप्रायेण तदुपपत्तिरित्यस्वरसात् पक्षान्तरमाह ॥ यद्वेति ॥ सर्वाधिपतित्वादिलिङ्गेन श्रुतिबाधो न युक्तः । उभयाबाधेनोपपत्तौ अन्यतरबाधस्यान्याय्यत्वादित्यभिप्रेत्याह ॥ विरिञ्चस्य विष्ण्वभेदेऽपीति ॥ सावकाशश्रुतेरिति ॥ अजश्रुतेरित्यर्थः । न च भिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वादित्येतद्वाक्यार्थमाह ॥ न च श्रुतिलिङ्गाबाधायेति ॥ मुख्यत्वायेति ॥ सर्वाधिपतित्वादीनां विष्णुविषयत्वे मुख्यत्वादित्यर्थः । पूर्वाधिकरणेन गतार्थत्वं परिहरति ॥ न च पूर्वत्रेति ॥ जीवैरिति ॥ वाक्यद्वयेन व्यवस्थानुपपत्तिरिति भावः ॥ अस्तीति ॥ विरिञ्चस्यापीशत्वेन बन्धस्यैवाभावादिति भावः । तयोर् अन्तर्यामिभेदतद्गुणसारत्वाख्यसादृश्ययोः । विशिष्य चतुर्मुखमात्रं गृहीत्वा ॥ अत एवेति ॥ जीवब्रह्माभेदवाक्यसाधारणस्याधिकरणद्वयन्यायेन सावकाशत्वादेव । विशेषवाक्यप्रबलत्वेन तन्न्यायविषयत्वेनेत्यर्थः । अन्यथा पूर्वमपि तत्त्वमस्यादिवाक्यमुदाह्रियेतेति भावः ।
पाण्डुरङ्गि
ननु ब्रह्मणि ब्रह्मशब्दस्य यौगिकत्वाच्चतुर्मुखे च योगरूढत्वाद्योगमात्रापेक्षया योगरूढेः प्राबल्येनाजशब्दस्यैव विषणावनवकाशत्वाभिधाने टीकाविरोधः । तत्र केवलस्याजशब्दस्य विष्णौ सावकाशत्वेऽपि ब्राह्मणशब्देन सहपठितस्याजशब्दस्य विष्णावनवकाशत्वाभिधानादित्यत आह ॥ टीकायामिति ॥ अभ्युपेत्योक्तेः किं प्रयोजनमित्यतो भाष्यन्यायविवरणयोरविरोधोपपादनमित्याह ॥ एवं चेति ॥ टीकाया ब्राह्मणशब्देन सहपठितस्याजशब्दस्यानवकाशत्वोक्तेरभ्युपेत्य वादत्वे टीकाया गौणत्वं भवतीत्यतष्टीकास्वारस्याय पक्षान्तरमाह ॥ यद्वेति ॥ तथाचाजशब्दस्योभयत्रापि योगरूढत्वेन सावकाशत्वादनवकाशत्वार्थं ब्राह्मणशब्दसाहित्येनाजशब्दस्य विष्णावनवकाशतोक्तिर्युक्तेत्यर्थः ।
ननु स वा एष महानज आत्मेति वाक्ये महच्छब्दस्य सत्त्वात्तस्य चोत्कृष्टार्थत्वादुत्कर्षस्य च बाधाभावे सङ्कुचितत्वासम्भवाद् असङ्कुचितोत्कर्षस्य च ब्रह्मण्येव सत्त्वेनाजशब्दस्य विरिञ्चपरत्वे तत्समानाधिकरणतया श्रुतस्य महच्छब्दस्य विरोधापत्त्या न विरिञ्चस्याजशब्दार्थत्वमित्याशङ्क्य स्यादेवं यदि महच्छब्दस्योत्कृष्टार्थत्वं स्यात्तदेव नास्तीत्याह ॥ महच्छब्दोऽपीति ॥ विरिञ्चस्यैवाजशब्दार्थत्वे आत्मश्रुतिविरोध इत्यत आह ॥ आत्मशब्दोऽपीति ॥ नन्वभेदाभावेऽपि श्रुतिलिङ्गाबाधः सम्भवतीत्यभेदः किमर्थमित्याशङ्कते ॥ न चेति ॥ पूर्वाधिकरणन्यायाविषयत्वमाह ॥ न च पूर्वत्रेति ॥ पूर्वत्रेवाऽत्र बाधकाभावाच्च नाभेदस्त्याज्य इत्याह ॥ न चेति ॥ अत एवेति ॥ अभेदोक्तिमात्रस्यान्तर्यामिपरत्वस्य सादृश्याभिप्रायत्वसत्त्वेऽपि विशिष्याभेदोक्तेरन्तर्यामिपरत्वस्य वा सादृश्याभिप्रायत्वस्य वाऽसम्भव इति टीकाभिप्रेतत्वादेवेत्यर्थः ।