सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ॥
कार्त्स्न्येन स्वाप्नवस्तूनां द्रष्टा सर्वज्ञ ईश्वरः ।
न युज्यते च सङ्कोचो ह्यसङ्कोचस्य सम्भवे ॥ १ ॥
ते यदन्तरेत्यत्र तु प्राकृतयोर्नामरूपयोः प्रकृतत्वात्प्रकृतपरसर्वनामबलाद्रूपमात्र निषेधे ‘‘श्यामाच्छबलं प्रपद्य’’ इति सन्निहितवाक्यविरोधाच्च प्राकृतपरत्वेन सङ्कोचः । न च साकल्येन स्वप्नद्रष्टृत्वमसर्वज्ञे जीवे लोकतोऽपि प्रसिद्धम् । ब्रह्मणि तु श्रुतितः प्रसिद्धम् । न च श्रुतितः प्रसिद्धग्रहणसम्भवे श्रुतितो लोकतश्चाप्रसिद्धस्य ग्रहणं युक्तम् । न चेह स्वप्नाद्यवस्थावत्तोच्यते । पश्यतीति तद्द्रष्टृत्वस्यैवोक्तेः । किंच ‘‘अनन्वागतस्तेन भवती’’त्यत्र ‘‘असङ्गोह्ययं पुरुषः’’ इत्यसङ्गत्वं हेतुः । प्रसिद्धमेव च हेतुत्वयोग्यम् । ‘‘असङ्गमस्पर्श’’मित्यादिश्रुतिषु च ब्रह्मण्येव तत्प्रसिद्धम् । किं चासङ्गत्वं न स्वरूपेणापि जीवे युक्तम् । जडेशयोरसंसारित्वाज्जीवस्यैव संसारिणः सङ्गवत्तया श्रुत्यादिसिद्धत्वेन तत्र सङ्गनिषेधायोगात् । यच्चोक्तं विशेष्यस्य भेदासिद्धेरिति तन्न । बन्धमोक्षयोः सामानाधिकरण्यनियमेन विशेष्यस्यैव बन्धाश्रयत्वात्तस्यैव च तत्तत्कारणाधीनसुषुप्त्याद्यवस्थावत्त्वेन विशेष्यस्यैव भेदसिद्धेः । अन्यथा तुरीयावस्थया स्वप्नाद्यवस्थानां सामानाधिकरण्यं न स्यात् । भेदस्य मिथ्यात्वे च तच्छतिरप्रमाणं स्यात् । न च सुषुप्त्यादावीशस्य जीवपरिष्वङ्गादिमानान्तरप्राप्तम् । येन तत्रातात्पर्याच्छतिरप्रमाणं न स्यात् । किं च भ्रान्तिरहितायां सुषुप्तौ सतो भेदस्य न भ्रान्तिमात्रशरीरत्वरूपं मिथ्यात्वं युक्तम् । अपि च जीवपरिष्वंगादिश्रुतिर्मुक्तिविषया । तथा सूत्रकृतैव वक्ष्यमाणत्वात् । ‘‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकानि’’त्यादिमुक्तिलिङ्गाच्च । न च मुक्तावपि सतो मिथ्यात्वम् । तदुक्तं न्यायविवरणे ‘‘सुषुप्त्युत्क्रान्त्योर्जीवेशयोर्भेदोक्तेरसङ्गत्वादिचेश्वरस्यैवेत्यर्थाद्भवती’’ति । अत्र सूत्रे भेदेनेत्यस्य पूर्वसूत्रानुषक्तेन व्यपदेशादित्यनेनान्वयः ॥
प्रकाशिका
अत्र टीका‘‘स्वप्नादिद्रष्टा परमात्मैव असङ्गत्वलिङ्गा’’दिति । सा नयुक्तेव । जीवे प्रसिद्धनिरवकाशस्वप्नद्रष्टृत्वलिङ्गेनासङ्गत्वरूपेश्वरलिङ्गस्येशाभेदेन सावकाशत्वादित्यतो ‘‘न विष्णोस्स्वप्नादिदर्शनायोग’’ इत्यादि टीकोक्तं स्वप्नादिद्रष्टृत्वस्य विष्णौ मुख्यत्वं तावदुपपादयति ॥ कार्त्स्न्येनेति ॥ ननु श्रुतौ ‘‘स यत्र किञ्चित्पश्यती’’त्येवोच्यते न तु कृत्स्नं पश्यतीत्यत आह ॥ न युज्यत इति ॥ हिर्हेतौ । तस्मात्स्वप्नद्रष्टेश्वर इति पूर्वार्धेनान्वयः । न च भ्रान्तत्वप्रसङ्गः । स्वाप्नसत्यताया वक्ष्यमाणत्वेनेति पूर्वपक्ष एवोक्तत्वात् । न चासङ्कोचे तत्रारोपितजाग्रत्त्वस्यापि दर्शनप्रसङ्ग इति शङ्कयम् । पश्यतीति दृष्टेर्मुख्यज्ञानवाचित्वेन प्रमितेरेवात्र ग्रहणात् । अत एव स्वाप्नवस्तूनामित्युक्तिरिति भावः ।
ननु पूर्वत्रेवेहापि सङ्कोचः किं न स्यादित्यत आह ॥ ते यदिति ॥ नाम्नः प्राकृतत्वं प्राकृतपदार्थवाचित्वम् । अस्त्वेवंरूपं जीवेऽपीत्यतः ‘‘तस्यैव तन्मुख्यं जीवादपी’’ति टीकोक्तं जीवेऽमुख्यत्वं व्यनक्ति ॥ न च साकल्येनेति ॥ श्रुतितः‘‘ यस्सर्वज्ञ’’ इत्यादिश्रुतितः । ननु तस्य सर्वज्ञतया सामान्यतः प्रसिद्धावपि न विशिष्य स्वप्नद्रष्टृत्वप्रसिद्धिरिति चेत्किं तावता । ‘‘शब्दादेवे’’त्यत्रोक्तरीत्या प्रासादवासिन्यायेन सर्वज्ञग्रहणेन तद्विशेषस्वप्नदर्शनग्रहणोपपत्तेरिति भावः ॥ न चेहेति ॥ येन जीवस्स्यादिति भावः । एवं स्वप्नद्रष्टृत्वं भगवत्येव मुख्यं न जीव इति तद्बलेनासङ्गत्वं न जीवे कथञ्चिन्नेयमिति भावेन टीकोपपादिता । इदानीं त्विहवाक्ये श्रुतमसङ्गत्वं न कथञ्चिदपि जीवेऽवकाशमर्हतीति भावेन तस्य विष्ण्वेकनिष्ठतां ‘‘यतोऽसङ्गः पर एवे’’ति टीकोक्तामाह ॥ किं चानन्वागत इति ॥ यद्वा ‘‘स्वप्नादिद्रष्टा परमात्मैवे’’ति टीकास्थप्रतिज्ञांशमुत्तरटीकावाक्यानुरोधेनोपपाद्य ‘‘असङ्गत्वलिङ्गा’’दिति टीकास्थं हेत्वंशमुपपादयति ॥ किञ्चेति ॥ यद्वा न केवलं स्वरूपपर्यालोचनया स्वप्नद्रष्टृत्वमीश्वरस्यैव मुख्यमिति । किं त्वत्र वाक्ये श्रुतासङ्गत्वरूपलिङ्गपर्यालोचनयापीति भावेन तल्लिङ्गं हरावेवोपपादयति ॥ किञ्चेति ॥ अस्मिन्पक्षे टीकायां स्वप्नादिद्रष्टा परमात्मैव तस्य सर्वज्ञत्वेन सत्यस्वप्नाद्यशेषवस्तुदृष्टेस्तस्मिन्नेव मुख्यत्वादसङ्गत्वलिङ्गाच्चेति योजना ध्येया । यद्वा टीकायामसङ्गत्वेत्यस्यानन्वागतवाक्योक्तासङ्गत्वलिङ्गादित्यर्थः । यतोऽसङ्गः पर एवेत्यस्य हेतूकृतासङ्ग इत्यर्थ इति भावेन तद्व्याख्याति ॥ किञ्चेति ॥ हेतुरिति ॥ स्वाप्नवस्तुदर्शनकृतलेपाभावरूपे साध्येऽसङ्गत्वशब्दितलेपाभाव सामान्यं हेतुरुच्यते । असङ्गो हीति हिशब्दस्य हेत्वर्थत्वादित्यर्थः । यदपि शुद्धचैतन्यात्मना ब्रह्माभिन्ने जीवेऽप्यसङ्गत्वं युक्तमिति तदपि नेत्याह ॥ किं चासङ्गत्वमिति ॥ श्रुत्यादीति ॥ ‘‘अतोऽन्यदार्तं ,जीवा एव तु दुःखिनः, अनादिमायया सुप्तो यदाजीवः प्रबुध्यते, स पात्रं बन्धमोक्षयो’’रित्यादिश्रुतिस्मृतिसिद्धत्वादित्यर्थः । सूत्रभाष्याद्युक्त भेदव्यपदेशं प्रागाक्षिप्तमिदानीं समर्थयते ॥ यच्चेति ॥ तुरीयावस्थया मुक्तयवस्थयेत्यर्थः । ‘‘न चायं भेदो व्यावहारिक एवे’’त्यादिटीकां व्यनक्ति ॥ भेदस्य मिथ्यात्वे चेति ॥ स्वयं युक्तयन्तरमाह ॥ तच्छतिरिति ॥ तत्रातात्पर्यान्नाप्रामाण्यमित्यत आह ॥ नचेति ॥ मानान्तरबाधितमपि नेत्यपि ग्राह्यम् । मिथ्यात्वं नासत्त्वम् । किन्तु प्रातिभासिकत्वम् । तच्च प्रतीतिमात्राभावदशायां सतो भेदस्य न युक्तमित्याह ॥ किञ्चेति ॥ भाष्यटीकया न्यायविवरणमपि विवृतमिति भावेनोक्तं प्रमेयं तदारूढं करोति ॥ तदुक्तमिति ॥ भेदोक्तेः प्राज्ञेनात्मनेत्यादिनेत्यर्थः । आदिपदेन स्वप्नादिद्रष्टृत्वम् । परमतं त्वग्रे निरसिष्यते ॥
चन्द्रिकाबिन्दुः
साकल्येन स्वाप्नपदार्थ उपादानादिसामस्त्येन । ननु शरीराद्यभावात्कथमीश्वरस्य स्वप्नावस्थेत्यत आह ॥ न चेहेति । असङ्गमस्पर्शमपूर्वश्रुत्यन्तरविशेष्यभेदमाह ॥ बन्धमोक्षयोरिति ॥ तुरीयावस्थाया मोक्षावस्थायाः । तच्छतिर् भेदश्रुतिः । ननु सुषुप्त्यादौ जीवपरिष्वङ्गादिप्राप्तो भेदः निषेधायानूद्यत इत्यत आह ॥ न च सुषुप्त्यादाविति ॥
पाण्डुरङ्गि
ननु स्वप्नादिद्रष्टृत्वं नाम स्वप्नाद्यवस्थावत्त्वम् । न चात्मनः स्वप्नाद्यवस्थावत्त्वं लोकवेदयोः प्रसिद्धमित्यत आह ॥ न चेति ॥ न च प्राज्ञेनात्मना सम्परिष्वक्त इति प्राज्ञेनात्मनान्वारूढ इति सुषुप्त्युत्क्रान्त्योर्भेदोक्तेर्नाभेद इति । अत्रोक्तसुषुप्त्यादिमतो विशिष्टस्य शुद्धात्सदाभेदेपि विशेष्यस्य भेदासिद्धेरिति यत्तदनूद्य दूषयति ॥ यच्चेति ॥ ननु भेदस्य मिथ्यात्वेऽपि न तच्छतेरप्रामाण्यम् । मिथ्याभूते भेदे तात्पर्याभावात् । न च तात्पर्यमपि किं न स्यादिति वाच्यम् । तस्य मानान्तरप्राप्तत्वेन तात्पर्यज्ञापकापूर्वताया अभावादित्यत आह ॥ न चेति ॥ वक्ष्यमाणत्वात् स्वाप्ययसंपत्त्योरित्यादिनेति शेषः । आविष्कृतं हीत्याद्युक्तां युक्तिमाह ॥ अनन्वागतमिति ॥ मुक्तावपीत्यपिशब्देनान्यथा ब्रह्मणोऽपि मिथ्यात्वं स्यादित्यतिप्रसङ्गं सूचयति ॥
इति सुषुप्त्यधिकरणम् ॥ १३ ॥