०२ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ पूर्वोक्त आकाशशब्दः श्रुतिषु ब्रह्मणि प्रसिद्धः । नामादिनिर्वोढृत्वं तु ब्रह्मण्येव प्रसिद्धम् । ‘‘द्रवति स्वप्नायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गोह्ययं पुरुष’’ इति श्रुतं स्वप्नादिद्रष्टृत्वं तु न तथा । किं तु लोके जीव एव प्रसिद्धम् । आर्यप्रसिद्ध्यभावे पिकनेमादौ लोकप्रसिद्धिवद्वेदप्रसिद्ध्यभावे लोकप्रसिद्धिरेव च ग्राह्या । यद्यपि प्रसिद्धिद्योतकनिपातो नास्ति । तथापि ‘‘यमन्तः समुद्र’’ इत्यादाविव प्रसिद्धमेव ग्राह्यम् । न च वज्राकाशादिशब्दानां प्रसिद्धार्थत्यागेन ब्रह्मपरत्ववदिह पश्यत्यादिपदानां योगेन ब्रह्मपरता युक्ता इष्टा वा । न च ‘‘सन्ध्ये सृष्टिराह ही’’त्यादिन्यायैः स्वाप्नवस्तुनि, जीवगतस्वप्नावस्थाच सत्या । ब्रह्मणश्च सर्वज्ञत्वं श्रुतिप्रसिद्धमिति वाच्यम् । यथाऽव्याकृताकाशस्य रूपमात्राभावेऽपि प्राकृतरूपरहितत्वेन प्रसिद्धस्य ब्रह्मण एव ‘‘ते यदन्तरे’’त्यत्र ग्रहणं तथा ब्रह्मणो वस्तुमात्रद्रष्टृत्वेऽपि स्वप्नादिद्रष्टृत्वेन प्रसिद्धस्य जीवस्यैवेह ग्रहणात् । न च वाच्यं पश्यतीतिपदं न द्रष्टृत्वमाह ॥ किन्तु ‘‘ज्योतिर्दर्शना’’दित्यत्रोक्तन्यायेन दर्शयितृत्वम् । अन्यथाऽसङ्गत्वविरोधादिति । तथात्वे दर्शनकृतसङ्गप्रसक्तेरेवाभावेन तन्निषेधायोगात् । तथाचासङ्गत्वं स्वोपजीव्यद्रष्टृत्वानुरोधात् ‘‘सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्ये’’ति न्यायाज्जीव एव ब्रह्माभेदाभिप्रायम् । पूर्वत्रत्वाकाशस्य जडत्वेन ब्रह्माभेदायोगान्नामरूपनिर्वोढृत्वादिकं नाकाशे ब्रह्माभेदेन नेतुं शक्यमिति वैषम्यम् ।

ननु तर्हि स्वप्नादिद्रष्टृत्वमेव ब्रह्मणि जीवाभेदाभिप्रायमस्त्विति चेन्न । जीवस्य येन चैतन्यात्मना ब्रह्माभेदस्तस्मिञ्शुद्धे चैतन्येऽसङ्गतत्ववद्ब्रह्मणो येन चैतन्यात्मना जीवाभेदस्तस्मिंश्चैतन्ये स्वप्नादिद्रष्टृत्वायोगात् । एतदेवाभिप्रेत्योक्तं न्यायविवरणे ‘‘जीवेश्वराभेद ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत’’ इति ॥ यद्वा जिज्ञासासूत्रे ब्रह्मणो जीवाद्भेदस्य प्रतिज्ञातत्वात् सिद्धान्तिना स्वप्नद्रष्टृत्वादिकं न ब्रह्मणि जीवाभेदाभिप्रायं वक्तुं शक्यमिति न्यायविवरणाभिप्रायः । न च ‘‘प्राज्ञेनात्मना सम्परिष्वक्त’’ इति ‘‘प्राज्ञेनात्मनान्वारूढ’’ इति सुषुप्त्युत्क्रांत्योर्भेदोक्तेर्नाभेद इति वाच्यम् । सुषुप्त्यादिमतो विशिष्टस्य शुद्धात् सदा भेदेऽपि विशेष्यस्य भेदासिद्धेः । एतेनान्तरधिकरणोक्तेन ‘‘भेदव्यपदेशाच्चान्य’’ इति न्यायेनात्रापि भेदः सिद्ध इति परास्तम् ॥

प्रकाशिका

‘‘स्वप्नादिद्रष्टृत्वं जीवस्यैव भवेत् । प्रसिद्धत्वा’’दिति टीकां विवृण्वन् पूर्ववैषम्येण पूर्वपक्षं व्यनक्ति ॥ पूर्वोक्त इति ॥ न तथेति ॥ श्रुतिषु ब्रह्मणि प्रसिद्धं नेत्यर्थः । ननूक्तं पूर्वत्र लौकिकी प्रसिद्धिर्नग्राह्येति । तत्राह ॥ आर्येति ॥ सत्यं लौकिकी न ग्राह्येति । किं तु वैदिक्या अभाव एव सा ग्राह्या नतु तत्सद्भावे । पिकनेमं सततामरसादिशब्दानामार्यप्रसिद्धेरभावेन निगमनिघण्टुव्याकरणादिवशेनापूर्वार्थकल्पने गौरवाल्लौकिकप्रसिद्धिवशेनैवार्थग्रहणस्य पिकनेमाधिकरणे प्रथमस्य तृतीयपादे व्युत्पादितत्वादित्यर्थः । अत एव प्राक् ‘‘तदयोगे त्ववैदिकी’’त्युक्तमिति भावः । एतेन टीकायां ‘‘प्रसिद्धत्वा’’दित्यस्य लोकप्रसिद्धत्वादित्यर्थो दर्शितः । टीकोक्तहेतुमाक्षिप्य समाधत्ते ॥ यद्यपीति ॥ यमिति ॥ यमन्तस्समुद्रे कवयो वयन्ती’’त्यत्र यस्य कस्यापि समुद्रस्थत्वे सम्भवत्यपि ‘‘महोदधिशयोंऽतक’’ इत्यादौ विष्णोरेव प्रसिद्धतया प्रसिद्धो नारायण एव ‘‘यमन्तस्समुद्र’’ इत्यादौ गृह्यते तथेहापि ‘‘सयत्तत्र किञ्चित्पश्यती’’त्यत्र तथात्वेन प्रसिद्धो जीव एव ग्राह्य इत्यर्थः । उक्तं चाद्यसूत्रभाष्ये ‘‘समुद्रेंऽतर्नारायणः । प्रसिद्धत्वा’’दिति । नन्वसङ्गत्वरूपनिरवकाशेश्वरलिङ्गात्प्रसिद्धिबाधः स्याद्वज्रादिशब्देष्विवेत्याशङ्क्य तद्वैषम्यमाह ॥ न च वज्रेति ॥ युक्ता इष्टावेति ॥ ‘‘तथात्व’’ इत्यादि वक्ष्यमाणदिशा वाक्यार्थासिद्धिप्रसङ्गादिति भावः ।

‘‘प्रसिद्धत्वा’’दिति टीकोक्तहेतोः प्रकारान्तरेणापि तात्पर्यं विवरीतुं शङ्कामाह ॥ न च सन्ध्य इति ॥ तृतीयस्य द्वितीयपादे ‘‘सन्ध्ये सृष्टिराहहि’’ इत्यत्र स्वप्नविषयो भगवदधीनो न वेति संशये स्वाप्नवस्तूनां नित्यत्वेऽनित्यत्वे वा प्रागूर्ध्वमुपलंभप्रसङ्गात् कर्त्रुपादाननिमित्तानामभावाच्च सत्यत्वायोगाद् असत्यत्वे तेषामन्याधीनत्वायोगान्नेशाधीन इति प्राप्ते सत्यत्वेऽपि विद्युदादिवत्तदानीमेवोत्पादविनाशसम्भवादीशकर्तृकत्वस्य वासनोपादानकत्वस्यादृष्टादिनिमित्त कत्वस्य च सम्भवात् ‘‘अथरथान् रथयोगान् पथस्सृजत’’ इति सृष्ट्यवगमाच्च सत्यस्स्वप्नो भगवदधीन इति वक्ष्यते । तन्न्यायैरित्यर्थः । परमार्थाशेषार्थाभिज्ञत्वस्य सार्वज्ञशब्दार्थत्वात्सत्यत्वोपन्यासः ॥ श्रुतीति ॥ ‘‘यस्सर्वज्ञस्सर्व’’ इत्यादिश्रुतीत्यर्थः । उपलक्षणमेतत् । ‘‘विशेषणभेदव्यपदेशाभ्यां च नेतरा’’विति सूत्रे विशेषणपदेन सार्वज्ञस्य विष्णुधर्मत्वेनोपादानात् सूत्रप्रसिद्धं चेत्यपि ध्येयम् । एतेन ‘‘स्वाप्नपदार्थानां जीवगतावस्थायाश्च सत्यत्वात् परमात्मनश्च सर्वज्ञत्वेन तद्विशेषदर्शनोपपत्ति’’रिति सिद्धान्तटीकाऽत्रैव विवृता ध्येया । एतेन ‘‘संध्ये सृष्टि’’रित्यनेन गतार्थत्वमप्याशङ्कितं भवति । एतच्छङ्कोत्तरत्वेनापि ‘‘प्रसिद्धत्वा’’दिति टीकोक्तहेत्वर्थं विवृण्वन् पूर्वसिद्धान्तन्यायेन पूर्वपक्षमुज्जीवयति ॥ यथेति ॥ ‘‘अरूपमस्पर्शम् अरूपोभूतवर्जना’’दित्यादिश्रुतिस्मृतिभिः प्रसिद्धस्येत्यर्थः । एतेन पूर्वन्यायेनेत्येतद्विवृतं भवति । ज्योतिर्नयेन गतार्थत्वमाशङ्क्य निराह ॥ न च वाच्यमिति ॥

ननु तत्र ब्रह्मपरैकवाक्यत्वबलादन्तर्णीतण्यर्थत्वं कल्पितं शब्दानामिति चेत्तर्हीहापि लिङ्गबलात् सुतरां तथा स्यात् । वाक्यादपि लिङ्गस्य बलवत्त्वादिति भावेनाह ॥ अन्यथेति ॥ यद्यपि पश्यतीति कर्तृप्रयोगस्य दर्शनकर्तर्येव प्रसिद्धेः प्रयोजककर्तर्यप्रसिद्धेः प्रसिद्धस्य स्वप्नादिदर्शनकर्तुर्जीवस्यैव ग्रहणं न त्वप्रसिद्धस्य प्रयोजककर्तुरीश्वरस्य । तल्लिङ्गं तु प्रसिद्धिबलात् कथञ्चिन्नेयमित्येवंरूपेण टीकोक्त ‘‘प्रसिद्धत्वा’’दिति हेतुरेवैतच्छङ्कोत्तरत्वेनापि योजयितुं शक्यः । तथाप्यस्य योजनस्योक्तदिशा ऊहितुं शक्यत्वाद्बलवदन्तरङ्गं बाधकान्तरमाह ॥ तथात्व इति ॥ दर्शनं प्रति कर्तृत्वाभावे । प्रयोजककर्तृत्वे स्वाप्नार्थदर्शनकृतविकाररूपलेपाभावेन ‘‘अनन्वागतस्तेन भवति’’ तेन दर्शनेनानन्वागतो लिप्तो न भवतीति निषेधायोगादित्यर्थः । व्यामोहयितुर्मायाविनो व्यामोहकृतकार्यादर्शनादिति भावः । कथं तर्हि ब्रह्मलिङ्गोपपत्तिरित्यतो ‘‘जीवेशयोरभेदेन जीवे चैतन्यविवक्षयाऽसङ्गत्वोक्तिसम्भवा’’दिति टीकोक्तं सौत्रभेदपदव्यावर्त्यमभेदेनोपपन्नत्वं लिङ्गस्याह ॥ तथाचेति ॥ स्वस्यासङ्गत्वस्य यदुपजीव्यं द्रष्टृत्वं तदनुरोधादित्यर्थः । प्रतियोगिभूतसंगप्रसक्तिसम्पादकत्वेन द्रष्टृत्वस्योपजीव्यत्वमिति भावः ।

शाब्दिकन्यायमाह ॥ सन्निपातेति ॥ सन्निपातस्सन्निधानम् । लक्षणशब्दो निमित्तवचनः । बहुव्रीहिश्च समासः । यत्सन्निधानं निमित्तीकृत्य यो विधिः प्रवर्तते स विधिस्तत्सन्निधानविघातकस्य शास्त्रस्य कार्यस्य वा न निमित्तमिति न्यायार्थः ‘‘कृन्मेजन्त’’ इत्यत्र कैयटोक्तः । यथा शतानीतिशब्दे शतशब्दात्परस्य जसः ‘‘जश्शसोश्शि’’रिति शिभावे कृते तस्य ‘‘शि सर्वनामस्थान’’मिति सर्वनामस्थानसंज्ञायां तत्संनिपातेन शतशब्दस्य ‘‘नपुंसकस्य खलच’’ इति नुमागमे सति शतन् इ इति स्थिते ‘‘ष्णान्ताष’’डिति षट्संज्ञायां शिभावस्य ‘‘षड्भ्योलु’’गिति लुक्प्राप्नोति । शिभावसन्निपातेन विहितो नुं षट्संज्ञाद्वारा शिभावविघातकस्य लुको निमित्तं न भवति । तथेहाप्यसङ्गत्वं ‘‘पश्यती’’त्युक्तद्रष्टृत्वविघातकस्य णिजर्थकल्पनस्यानिमित्तमिति द्रष्टव्यम् ।

ननु क्वचिद्वृक्षायेत्यादौ ‘‘ङेर्य’’ इत्यकारनिमित्तकोऽपि यादेशः ‘‘सुपिचे’’ति दीर्घविधेर्हेतुस्सन् अकारविघातहेतुरपि दृष्ट इति तत्रायं न्यायो व्यभिचारीति चेन्मैवम् । ‘‘कष्टायक्रमण’’ इत्यादिनिर्देशाज् ज्ञापकात्तत्र तथात्वेऽपि नेह तथा । तादृशज्ञापकाभावादिति भावः । टीकायां वाक्यशेषानुपपत्तेस्स्पष्टत्वादेतदाशङ्कासमाधी नोक्ताविति भावः । टीकोक्तलिङ्गोपपत्तावतिप्रसङ्गमाशङ्क्यनिराह ॥ पूर्वत्र त्विति ॥ एतेन ‘‘पूर्ववैषम्येणे’’त्येतत्प्रकारान्तरेणापि विवृतं ध्येयम् । ‘‘न च मन्तव्यं यथा स्वप्नादिदर्शनस्ये’’त्यादिटीकां व्यनक्ति ॥ ननु तर्हीति ॥ भाष्येऽनुक्तस्याप्यभेदपूर्वपक्षस्य टीकायामुपपादने मूलमाह ॥ एतदेवेति ॥ जीवेश्वराभेद इति निमित्तसप्तमी । जीवेश्वराभेदेन निमित्तेनेत्यर्थः । तयोरभेदश्च स्वप्नद्रष्टृत्वासङ्गत्वरूपजीवेशलिङ्गयोस्सामानाधिकरण्यान्यथानुपपत्त्यैव सिद्ध इति भावः । टीकानुक्तं स्वयं भाष्यतात्पर्यान्तरमाह ॥ यद्वेति ॥ सिद्धान्तिना जीवेशाभेदानङ्गीकारादिति वाक्यशेषो न्यायविवरणे द्रष्टव्य इति भावः । सिद्धान्तन्यायमप्याशङ्क्याह ॥ न च प्राज्ञेनेति ॥ क्रमेण सुषुप्त्युत्क्रान्त्योर्वाक्यद्वयम् । तथा च विशिष्टे प्रतीतो भेदो मिथ्येति भावः ॥ एतेनेति ॥ विशेष्यस्य भेदाभावेनेत्यर्थः । प्रागुक्तोऽपि भेदव्यपदेशो न विशेष्यभेदविषय इति भावः ।

चन्द्रिकाबिन्दुः

पूर्वाधिकरणवैषम्यव्युत्पादनपूर्वकं पूर्वपक्षमारचयति ॥ पूर्वोक्त आकाशशब्द इति ॥ प्रसिद्धत्वादिति टीकावाक्यार्थं व्युत्पादयति ॥ आर्यप्रसिद्ध्यभाव इत्यादिना ॥ पूर्वाधिकरणेन गतार्थत्वं परिहरति ॥ न च वज्रेति ॥ तत्र वज्रशब्दवद् अत्र स्वप्नादिद्रष्टेति शब्दो नास्ति किन्तु पश्यत्यादिपदान्येवेति भावः । पूर्वसिद्धान्तन्यायेनेत्युक्तं विशदयति ॥ यथाऽव्याकृताकाशस्येति ॥ न च वाच्यमित्याद्युत्तरटीकां व्याख्याति ॥ न च वाच्यमिति ॥ तथात्व इति ॥ पश्यतीत्यस्य दर्शयितृत्वार्थकत्व इत्यर्थः । द्रष्टृत्वेन सङ्गे प्रसक्ते असङ्गत्वश्रुतिर्हि प्रवृत्ताद्रष्टृत्वं दर्शयितृत्वपरं

न करोति । तथात्व उपजीव्यविरोधप्रसङ्गादिति भावः । टीकानुसारेण न्यायविवरणाभिप्रायमुक्त्वा स्वयमभिप्रायान्तरमाह ॥ यद्वेति ॥ एतेनेति ॥ विशिष्टस्य शुद्धाद्भेदसिद्धावपि विशेष्यस्य भेदासिद्धेरित्यनेनेत्यर्थः ।

पाण्डुरङ्गि

वैषम्येण पूर्वपक्षमाह ॥ पूर्वोक्तेति ॥ न तथा ब्रह्मणि न प्रसिद्धमित्यर्थः । ननु यवादिशब्दानां प्रियंग्वादिषु म्लेच्छप्रसिद्धेः सत्त्वेऽपि यदा अन्या ओषधयो म्लायन्ते अथैते मोदमानास्तिष्ठंतीत्यादिवाक्यशेषानुगृहीतार्यप्रसिद्ध्या दीर्घशूकादिपरत्ववत् स्वप्नद्रष्टृत्वस्य लोकतो जीव एव प्रसिद्धत्वेऽपि वैदिकप्रसिद्ध्या ब्रह्मण एव स्वप्नद्रष्टृत्वं किं न स्यादित्यतो दृष्टान्त आर्यप्रसिद्धेः सत्त्वेन तदनुसारेण यवादिशब्दानां दीर्घशूकपरत्वेऽपि प्रकृते स्वप्नद्रष्टृत्वस्य ब्रह्मणि वैदिकप्रसिद्ध्याभावाद्दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यापत्त्या नास्य यववराहाधिकरणविषयत्वम् । किन्तु पिकनेमाधिकरणविषयत्वमेवेत्याह ॥ आर्यप्रसिद्ध्यभाव इति ॥ पूर्वाधिकरण आकाशश्रुतेर्वैनामेति प्रसिद्धिद्योतकनिपातेनेव स्वप्नद्रष्टृत्वस्य प्रसिद्धिद्योतकनिपातेनाविशेषणात्पूर्वपक्षानुपपत्तिरित्याशङ्कते ॥ यद्यपीति ॥

ननु न स्वप्नद्रष्टृत्वं ब्रह्मपक्षे बाधकम् । ब्रह्मणः सर्वज्ञत्वेन स्वप्नद्रष्टृत्वोपपत्तेः । न च स्वप्नादेर्मिथ्यात्वेन तज्ज्ञत्वे ब्रह्मणो भ्रान्तत्वं स्यादिति वाच्यम् । सन्ध्ये सृष्टिराह हीत्यादिन्यायेन स्वप्नादेस्सत्यत्वेन तज्ज्ञत्वे भ्रान्तत्वायोगादिति शङ्कते ॥ न चेति ॥ पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह ॥ यथेति ॥ उक्तन्यायेनेति ॥ अन्तर्भावितण्यर्थत्वरूपोक्तन्यायेनेत्यर्थः ॥ अन्यथेति ॥ पश्यतीत्यस्य द्रष्टृत्वार्थकक्रियावेशापत्त्याऽसंगतत्वव्याघात इत्यर्थः । यत्सन्निपातेन यस्य यद्भवति तत्तद्विघातस्यानिमित्तमिति न्यायार्थः ।

नन्वेवं पूर्वाधिकरणेऽपि ब्रह्माभेदाभिप्रायेण नामादिनिर्वोढृत्वमाकाशस्यैव स्यादित्यत्राह ॥ पूर्वत्रेति ॥ चैतन्यैक्याभिप्रायेणेति टीकाऽनुपपन्ना । चैतन्यैक्याभिप्रायेणैव जीवेऽमुख्यत्ववत्तेनैवेश्वरे स्वप्नादिद्रष्टृत्वस्याप्यमुख्यत्वोपपत्तेः । अतोभिप्रायमाह ॥ जीवस्येति ॥ न्यायविवरण इति ॥ ईश्वरोक्तावपि असङ्गतत्वेनेश्वरोक्तावपीत्यर्थः । नन्वसङ्गत्वेनेश्वरोक्तौ कथं जीव एवोक्त इत्यत उक्तं जीवेश्वराभेद इति ॥ नन्वेवं जीवेश्वराभेदादेव जीवोक्तावपीश्वर एवोक्त इति किं न स्यादित्यत उक्तमर्थादिति ॥ ईश्वरधर्मभूतासङ्गत्वोक्तावपि येन रूपेण जीवस्येश्वरैक्यं तत्रासङ्गत्वस्य सत्त्वेनोपपन्नत्वाद् ब्रह्मणश्च येन रूपेण जीवाभेदस्तत्र चिन्मात्रे स्वप्नद्रष्टृत्वाभावात् ॥ यद्वैति ॥ अस्मिन् पक्षे यद्वेतिस्मिन्पक्षे यदि जीवेश्वराभेदस्तदेश्वरोक्तावर्थाज्जीव उक्त इति सम्भवति । नत्वेवं त्वया वक्तुं शक्यम् । जीवेश्वराभेदस्य त्वयाऽनभ्युपगमादिति न्यायविवरणं व्याख्यातं भवति ॥ एतेनेति ॥ विशिष्टस्य भेदसिद्धावपि विशेष्यस्य भेदसिद्ध्यभावेनेत्यर्थः ।