०१ संगतिकथनम्

अस्योभयत्र प्रसिद्धत्वं कंपनादित्यत्रैवोक्तम्

सुषुप्त्यधिकरणम्

तात्पर्यचन्द्रिका

संगतिकथनम्

॥ ॐ सुषुप्त्युत्क्रांत्योर्भेदेन ॐ ॥

अस्योभयत्र प्रसिद्धत्वं कंपनादित्यत्रैवोक्तम् । अनन्तरसङ्गतिस्तु पूर्ववैषम्येण वा पूर्वसिद्धान्तन्यायेन वा पूर्वपक्षोत्थानात् । प्रयोजनं तु पूर्वपक्षेऽक्षराधिकरणोक्तासङ्गत्वाक्षेपः । सिद्धान्ते तु तत्समाधानमिति भाष्य एवोक्तम् । अत्र स्वप्नादिद्रष्टृत्वं किं जीवस्योत ब्रह्मण इति चिन्ता । तदर्थं किं लोकप्रसिद्धिबाधकं नास्त्युतास्तीति । तदर्थमसङ्गत्वादिकं किं जीवे ब्रह्माभेदाभिप्रायेण नेतुं शक्यमुताशक्यमिति । तदर्थं सुषुप्त्युत्क्रांत्योर्व्यपदिष्टो भेदः किं मिथ्योत सत्य इति ।

प्रकाशिका

अत्र टीकायां ‘असङ्गत्वलिङ्गेन लोकप्रसिद्ध्या चेशजीवयोस्साधारणस्य स्वप्नादिदर्शनलिङ्गस्ये’’त्युभयत्र प्रसिद्धत्वमुक्तम् । तदयुक्तमिव । नामपादीयाकाशादिशब्दानामपीश्वरलिङ्गलोकप्रसिद्धिभ्यां तथात्वापत्तेरित्यत आह ॥ अस्येति ॥ स्वप्नद्रष्टृत्वलिङ्गस्येत्यर्थः । नामपादादिन्यायसाम्येन वज्रादिनाम्नां स्वप्नद्रष्टृत्वादिलिङ्गानां च ब्रह्मणि प्रयोगस्योक्तया प्रयोगसाधारण्येनोभयत्र प्रसिद्धत्वादित्यर्थः । टीकाऽपि तथैव नेयेति भावः । ‘‘जीवस्यैव भवेत्प्रसिद्धत्वा’’दिति टीकायां प्रसिद्धपदप्रयोगेण हरावप्रसिद्धिसूचनेन सूचितं सङ्गतिद्वयमाह ॥ पूर्वेति ॥ प्रागाकाशशब्दस्य श्रौतप्रसिद्ध्या ब्रह्मणि सम्भवेऽपीह तदभावान्न स्वप्नद्रष्टृत्वं हरेर्युक्तमिति वा आकाशस्य जडत्वेन तत्रेशलिङ्गस्येशाभेदेनायोगेऽपीह जीवस्येशाभेदेन तल्लिङ्गं नेतुं शक्यत इति वा पूर्ववैषम्येण अव्याकृताकाशस्यारूपत्वेऽप्यरूपत्वेन प्रसिद्धब्रह्मण एव ग्रहणं पूर्वत्र यथा तथेहापि स्वप्नादिद्रष्टृत्वेन प्रसिद्धस्य जीवस्यैव ग्रहणमिति पूर्वन्यायेन वेत्यग्रे स्पष्टम् । तथाच प्रत्युदाहरणरूपा वाऽऽपवादिकी वा सङ्गतिरित्यर्थः । एवं तर्हि पूर्वोक्ते विरोधाभावादफलेयं चिन्तेत्यत आह ॥ प्रयोजनं त्विति ॥ एतेन ‘‘असङ्गमरसमगन्ध’’मित्यादिटीका विवृता । एतेनैव स्वोक्तसङ्गतेर्भाष्यादिविरोधोऽपि प्रत्युक्तः । तस्य फलपरत्वादिति । विषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ वाजसनेये षष्ठे तृतीयब्राह्मणे ज्योतिर्वाक्यादनन्तरं श्रूयते ‘‘सवा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्नायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्यादि । तद्वाक्ये यत्तत्र स्वप्ने किञ्चित्पश्यतीत्युक्तं स्वप्नावस्थातत्स्थवस्तु नोर्द्रष्टृत्वं विषय इत्यर्थः । यदि भेदो मिथ्या तदाऽसङ्गत्वस्य जीवेऽपि ब्रह्माभेदेन नयनसम्भवेन प्रसिद्धिबाधाभावाज्जीवस्यैवेदं लिङ्गम् । अन्यदातु नेति स्पष्टा हेतुहेतुमत्तेति भावः ।

पाण्डुरङ्गि

ननु स्वप्नद्रष्टृत्वलिङ्गस्य लोकतोऽन्यत्र प्रसिद्धत्वात्कथमुभयत्र प्रसिद्धतेत्यत आह ॥ अस्येति ॥ पूर्ववैषम्येणेति ॥ पूर्वाधिकरणे आकाशशब्दस्य ब्रह्मणि प्रसिद्धत्वान्नामादिनिर्वोढृत्वस्य ब्रह्मणि प्रसिद्धत्वेऽपि स्वप्नद्रष्टृत्वस्य ब्रह्मण्यप्रसिद्धत्वादन्यपरत्वमिति वैषम्येणेत्यर्थः ॥ सिद्धान्तन्यायेनेति ॥ यथा पूर्वाधिकरणेऽव्याकृताकाशस्य रूपमात्राभावेऽपि प्राकृतरूपरहितत्वेन प्रसिद्धस्य ब्रह्मण एव ग्रहणं तथा स्वप्नादिद्रष्टृत्वेन प्रसिद्धस्य जीवस्यैव ग्रहणमिति पूर्वसिद्धान्तन्यायेनेत्यर्थः ।