सूत्रेऽर्थान्तरशब्देन..
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
सूत्रेऽर्थान्तरशब्देन विलक्षणत्वमात्रोक्तावपि विषयवाक्ये सन्निहितत्वादनामरूपत्वरूपविशेषसिद्धिः । आदिशब्दार्थस्तु ब्रह्मत्वादिकम् । यद्वा ‘‘ते यदन्तरे’’ति द्विवचनेनानामरूपत्वयोः साहित्यप्रतीतावपि ब्रह्मत्वे निरपेक्षयोरेव हेतुत्वमिति भावेन सूत्रेऽरूपत्वमर्थान्तरपदेन आदिपदेन तु अनामत्वमुक्तम् । अस्मिंश्चपक्षे ब्रह्मत्वादिकं प्रसिद्धत्वाच्छिष्यैरेवोहितुं शक्यमिति न तस्यादिपदेन ग्रहणमिति द्रष्टव्यम् ॥ अन्येतु ॥ ‘‘आकाशस्तल्लिङ्गा’’दित्यस्य विषयवाक्ये ‘‘आकाशादेव समुत्पद्यन्त’’ इत्यत्रेवैतत्सूत्रविषयवाक्ये ‘‘आकाशो हवैनामे’’त्यत्र ब्रह्मलिङ्गाभावेन पूर्वपक्षोदयादगतार्थतेत्याहुः । तन्न । अत्रापि नामरूपनिर्वहितृत्वादिलिङ्गानां ब्रह्मात्मादिश्रुतीनां च सत्त्वात् । क्लेशेनाकाशे योजनं तूभयत्र समम् ॥ केचित्तु ॥ तल्लिङ्गादिति न्यायेनैवात्रापि वाक्य आकाशस्य गगनत्वनिरासान् मुक्तजीवत्वेनैवेह पूर्वपक्ष इत्याहुः । तन्न । अस्मिन् वाक्ये ब्रह्मलिङ्गस्यास्फुटत्वे गगनपक्षस्यैवोदयात् । स्फुटत्वे च जीवपक्षस्याप्यनुदयाच्च । निर्बीजश्च जीवपक्षः । जीवलिङ्गाद्यभावात् । आकाशशब्दस्य तत्राप्रसिद्धेर्वैनामेति निपातानुपपत्तेः । जगद्व्यापारवर्जमित्यत्र मुक्तजीवस्य नामरूपनिर्वोढृत्वस्य निरसिष्यमाणत्वाच्च । ‘‘ब्रह्मलोकमभिसम्भवामी’’ति पूर्ववाक्ये च जीवस्य सन्निहितत्वेऽपि सन्निधानस्य श्रुत्यबाधकत्वात् । ब्रह्मलोकशब्देन ब्रह्मणः प्राधान्येन सन्निहितत्वाच्चेति ॥
प्रकाशिका
एवमधिकरणशरीरमुपपाद्य सूत्रस्थहेत्वंशस्य टीकायां ‘‘नामरूपराहित्याख्यविलक्षणार्थत्वव्यपदेशात्तद्ब्रह्मेति ब्रह्मत्वव्यपदेशाच्चे’’त्युक्तमर्थं सूत्रारूढं करोति ॥ सूत्र इति ॥ ‘‘अर्थान्तरत्वमिति रूपराहित्यमादिपदेनानामत्वमिति वे’’ति टीकोक्तं पक्षान्तरमुपपत्तिं वदन्नाह ॥ यद्वेति ॥ अस्मिन्पक्षे अन्योऽर्थोऽर्थान्तरम् । तत्त्वादिव्यपदेशादिति शब्दादेवानामरूपत्वसिद्धिः । न तु विषयवाक्यसन्निधानात् ॥ न तस्यादिपदेनेति ॥ तत्वप्रदीपेतु ‘‘अर्थान्तरत्वनामान्तरत्वादिव्यपदेशादिति वे’’ति पुनरादिपदप्रयोगाद्ब्रह्मत्वादिकमप्यादिपदार्थ इति प्रतीयते ॥ अन्येत्विति ॥ आकाशो वैनामेत्यत्र श्रुत आकाशः किं भूताकाशः परमात्मावेति सन्देहे आकाशशब्दस्य भूते रूढत्वाद्भूतमिति प्राप्ते नामरूपनिर्वाहकत्वादिब्रह्मलिङ्गाद्ब्रह्मेति सिद्धान्तः । ननु लिङ्गाद्रूढिबाधः प्रागेवोक्तः । अतो गतार्थमेतदित्यतो भामत्युक्तमनुवदति ॥ आकाश इति ॥ सर्वाणि भूतान्याकाशादेव समुत्पद्यन्त इत्यत्र सर्वजगदुत्पत्तेरेवकारावगतनिरपेक्षकारणत्वस्य प्रश्नप्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दर्शनाद्ब्रह्मपरत्वं नैवमिहेति कल्पतरूक्तार्थो बोध्यः । निर्वहितृत्वेति पूर्ववत्साधुत्वसमर्थनम् ।
ननूक्तमत्र ‘‘तत्रेवात्र सर्वशब्दाभाव•दवकाशदानादिना नामरूपनिर्वहणस्य गगनेऽपि सम्भवादकस्माद्रूढित्यागायोगात् ‘‘ते यदन्तरा तद्ब्रह्मे’’ति ब्रह्मणो नामरूपयोरन्तरालत्ववचनाद्भूताकाशो नामरूपयोर्निर्वहिता । ब्रह्मचैतयोरन्तरालम् । मध्यं सारमिति यावदिति नामरूपनिर्वोढ्राकाशतो ब्रह्मणोभेदेनोक्ते’’रित्यादिना ब्रह्मलिङ्गादेरन्यथानयनमित्यत आह ॥ क्लेशेनेति ॥ उभयत्रेति ॥ तत्रापि ‘‘आकाशाद्वायुर् वायोरग्नि’’रित्यादिनाऽऽकाशस्य सर्वभूतादित्वश्रवणेन सर्वभूतकारणस्य ततोऽन्यस्याभावेन निर्धारणोक्तनिरपेक्षत्वस्य भूतेऽप्युपपत्तेस्तत्रैवोक्तत्वादिति भावः ।
ननु पूर्वमाकाशस्य ब्रह्मत्वे निर्णीतेऽपि दहराधिकरणे दहराकाशो भूतमिति प्राप्ते ब्रह्मेति पुनर्विवरणमिवेहापि स्यादिति चेन्न । दहरस्थस्यैव ब्रह्मत्वेन दहरस्य ब्रह्मत्वनिरासात् । तत्र पूर्वपक्षप्रापकप्रबलहेतोरिवेह प्रापकस्याभावाच्चेति भावः ॥ केचित्त्विति ॥ ‘‘आकाशो वैनामे’’ति श्रुत आकाशो मुक्तजीवः परमात्मावेति संशये ‘‘अश्व इव रोमाणि विधूय पापं चन्द्र इव निर्मुक्त’’ इति मुक्तस्याभिधानेन प्रकृतत्वान् नामरूपभाक्त्वरूपनामरूपनिर्वोढृत्वस्य संसारित्वदशायां सम्भवाद् ब्रह्मत्वामृतत्वादेश्च मुक्ते सम्भवाद् आकाशशब्दस्य चासङ्कुचितप्रकाशयुक्ते मुक्ते यौगिकत्वेनोपपत्तेर्मुक्त एवायमाकाश इति प्राप्ते ‘‘नामरूपयोर्निर्वहिते’’ति कर्तृतया तन्निर्वोढृत्वस्य जीवेऽयोगात्सकलनिर्माणधुरंधरस्येश्वरस्यैव योगात् ‘‘ते यदन्तरे’’त्युक्तनामरूपास्पृष्टत्वस्य तत्रैव योगादाकाशो ब्रह्मेति सिद्धान्तः । तत्र दूष्यांशमात्रमनुवदति ॥ तल्लिङ्गादितीति ॥ किमस्मिन्वाक्ये ब्रह्मलिङ्गमस्पष्टमुत स्पष्टमिति विकल्पौ हृदि कृत्वा क्रमेण निराह ॥ अस्मिन्निति ॥ स्पष्टत्वे ब्रह्मलिङ्गेनैव जीवप्रापकबाधादिति भावः । जीवप्रापकं च नास्तीत्याह ॥ निर्वीजश्चेति ॥ श्रुतीति ॥ आकाशश्रुतीत्यर्थः । सन्निधेः स्थानप्रमाणत्वेन श्रुतितो दुर्बलत्वादिति भावः । एतेनास्याकाशस्य भूतजीवान्यतरत्वप्राप्तौ शिवत्वेन सिद्धान्त इति वदतः कस्यचिन्मतमपि निरस्तं बोध्यम् । शिवासाधारणलिङ्गाभावाच्च । सर्वाधारत्वादेर्विष्णुलिङ्गत्वसमर्थनाच्चेति अक्षरार्थस्तु प्रागेव विवृतः ॥
चन्द्रिकाबिन्दुः
ननु नामरूपनिर्वोढृत्वं प्रसिद्धाकाशे यथा कथञ्चिन्नेयमित्याशङ्क्य तर्हि आकाशादेव समुत्पद्यन्त इति लिङ्गमपि अन्यत्र नेतुं शक्यमित्याह ॥ क्लेशेनाकाश इति ॥ निरसिष्यमाणत्वादिति ॥ तथा चात्र मुक्तजीवविषयकपूर्वपक्षानुदय इति भावः ॥
पाण्डुरङ्गि
पूर्वपक्षे सूत्रे साक्षाद्धेतुविशेषाभावात्पक्षान्तरमाह ॥ यद्वेति ॥ प्राधान्येनेति ॥ प्राप्यत्वेन तस्य प्राधान्यमित्यर्थः ॥
॥ इति आकाशाधिकरणम् ॥ १२ ॥