०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ॥ साकल्येन शब्दागोचरत्वादिरूपमनामत्वं ‘‘यतो वाचो निवर्तन्त’’ इत्यादिभाष्योक्तश्रुतिभिर्विष्णोरेव । ईक्षत्यधिकरणे तु अवाच्यत्वमेव निषिद्धम् । ते यदन्तरेत्यनेन च प्रकृतनिर्वाह्यप्राकृतरूपराहित्यमेवोक्तम् । तच्च ‘‘अरूप’’मित्यादिश्रुतिभिर्ब्रह्मण्येव सुप्रसिद्धम् । न तु गगने । ब्रह्मणि रुग्मवर्णादिश्रुतितात्पर्यापरिज्ञानादिप्राप्तलौकिकरूपस्य ‘‘अरूप’’मित्यादिश्रुत्या निषेधवद्गगने तदभावात् । तदुक्तं न्यायविवरणे ‘‘प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्ध’’मिति । न च निपातविरोधः । यतः

वैदिकेषु प्रयोगेषु वैदिक्येव प्रसिद्धता ।

ग्राह्यान्तरंगभूतत्वात्तदयोगे त्ववैदिकी ॥ १ ॥

ब्रह्मणो हि सर्ववेदेषु महातात्पर्यतः प्रसिद्धिः । नैवं गगनस्य । एवं च प्रसिद्धेर्यदि पूर्ववादिरीत्योद्देश्याकाशान्वयस् तथापि ‘‘शास्त्रस्था वा तन्निमित्तत्वा’’दिति न्यायेन विजातीयबहिरङ्गलौकिकप्रसिद्धिसङ्ग्रहाय सजातीयान्तरङ्गवैदिकप्रसिद्धिपीडनायोगाद्ब्रह्मणः प्रसिद्धिरेव निपातद्योत्या । अत एव सप्तमे इत्थम्भावाकाङ्क्षेषु वैदिकेषु सौर्यादिषु वैदिकस्यैवेत्थम्भावस्यान्वय उक्तः । अस्ति च ब्रह्मण्याकाशशब्दार्थतयापि वेदे प्रसिद्धिः । यदातूद्देश्यस्य वस्तुतः प्रसिद्धिमात्रेणोद्देश्यतोपपत्तेर्विधेयस्यैव निर्वोढृत्वस्य स्थलान्तरसिद्धप्रसिद्ध्युपन्यासादिनोपपादनीयत्वादिदमित्थं खल्वित्यादौ विधेयान्वयस्यैव दर्शनाच्च प्रसिद्धेर्निर्वोढृत्वान्वयस् तदा ‘‘एको दाधार भुवनानि नामरूपे व्याकरो’’दित्यादि वेदे ब्रह्मण इव गगनस्य निर्वोढृत्वेन वेदे लोके चाप्रसिद्धेर्गगनपक्ष एव निपातायोगः । न हि गगने निरंकुशनामरूपनिर्वोढृत्वं लोकतोऽपि प्रसिद्धम् । एतमेव विधेयान्वयपक्षमभिप्रेत्य टीकायामपि ‘‘भगवतो नामादिनिर्वहितृत्वस्यालोकसिद्धत्वेऽपी’’त्युक्तम् । न्यायविवरणे च ‘‘वैनामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्य’’मित्युक्तम् । यद्यप्यत्र लोके निर्वोढृशब्द एव साधुः । तथापि टीकादौ श्रुत्यनुकरणार्थं निर्वहितृशब्दः युक्तः । भाष्येऽनामत्वे हेतूकृतमप्रसिद्धत्वं साकल्येनाप्रमितत्वम् । निपातद्योत्या प्रसिद्धिस्तु निर्वोढृत्वेनान्यत्र निर्णीतत्वमित्यविरोधः ।

प्रकाशिका

अर्थातरत्वादिव्यपदेशादिति सूत्रभाष्याद्युक्तनिरवकाशानामरूपत्वादिहेतुबलादाकाशो विष्णुरेव । निपातद्योत्यप्रसिद्धिरप्यन्तरङ्गत्वाद्विष्णौ सम्भवद्वैदिक्येव ग्राह्येति भावेन सिद्धान्तटीकां विवृण्वन् अनामरूपत्वयोष्टीकायामस्पष्टस्वरूपस्य स्पष्टीकरणेन तयोर्निरवकाशत्वं क्रमेण व्यनक्ति ॥ साकल्येनेत्यादिना ॥ आदिपदेनामुख्यार्थकनामराहित्यं स्वानभिधायकनामराहित्यमयौगिकनामराहित्यमित्यादि ग्राह्यम् ॥ भाष्योक्तेति ॥ अत्र सूत्रेऽन्यत्र चेत्यर्थः । तेन ‘‘अशब्दमस्पर्शं यत्तदद्रेश्यमग्राह्यम् अवागमन’’ इत्यादिश्रुतयो ग्राह्या इति बहुवचनोपपत्तिः । एवमग्रेऽपि । ‘‘ननु हरेः कथमनामरूपत्वम् । उक्तविरोधा’’दित्यादि टीकां व्यंजयन् प्रागुक्तशङ्कां निराह ॥ ईक्षतीति ॥ न तु साकल्येन शब्दागोचरत्वादिकमित्येवकारार्थः ।

ननु ‘‘अरूपो भूतवर्जना’’दिति भाष्यमयुक्तम् । श्रुतौ भौतिकरूपराहित्याप्रतीतेरित्यत आह ॥ प्रकृतनिर्वाह्येति ॥ प्रकृतं यन्निर्वाह्यलक्षणं प्राकृतरूपं तद्राहित्यमित्यर्थः । भाष्ये भूतपदमुपलक्षणम् । अत एव प्रथमस्कन्धे ‘‘अनामरूपात्मनि नामरूपे’’ इति श्लोकतात्पर्ये ‘‘अप्राकृतत्वाद्रूपस्याप्यरूपोऽसावुदीर्यत’’ इत्युक्तमिति भावः । अन्यथाऽप्रकृतपरत्वं, ‘‘रुग्मवर्ण’’मित्यादिवचनविरोधः, ‘‘श्यामाच्छबलं प्रपद्य’’ इति सन्निहितवाक्यविरोधश्च स्यादिति भावः ॥ अरूपमिति ॥ ‘‘अशब्दमस्पर्शमरूपमव्ययमवर्णमगोत्र’’मित्यादिश्रुतिभिरित्यर्थः । ब्रह्मणि रूपप्रसक्तया तन्निषेधस्सम्भवतीति भावेन सुप्रसिद्धमित्युक्तम् । तद्व्यनक्ति ॥ ब्रह्मणीति ॥ आदिपदेन कुसमयादिप्राप्तेति गृह्यते । भाष्यविवरणपरटीकया न्यायविवरणमपि विवृतमिति भावेनाह ॥ तदुक्तमिति ॥ यद्वा भाष्यटीकयोरनामत्वस्यारूपत्वस्य च व्युत्क्रमेणैव सूत्रानुरोधेन व्युत्पादनादिह च श्रौतक्रमानुरोधेनानामरूपत्वयोः क्रमेण व्युत्पादनं किं मूलमित्यत आह ॥ तदुक्तमिति ॥ यद्वा भाष्ये हरावनामरूपत्वोपपादनस्यैव कृतत्वेन गगने तदभावस्यानुक्तत्वाट्टीकायां ‘‘अन्यथाऽनामरूपत्वविरोधात् । अवकाशस्यापि नामवत्त्वा’’दित्युक्तिः किं मूला । यस्या उपपादनं न तु गगन इत्यादिना कृतमित्यत आह ॥ तदुक्तमिति ॥ तद् गगनेऽनुपपन्नत्वमित्यर्थः । यद्वा टीकायां ‘‘अवकाशस्यापि नामवत्त्वा’’दित्यादिनाऽनामत्वाभाव एवोपपादितो नत्वरूपत्वाभावोऽपि । भवद्भिस्त्वनामत्वाभावं टीकोक्तत्वादनुक्त्वाऽरूपत्वाभाव एव टीकानुक्तोऽपि व्युत्पादितः । स किं मूल इत्यत आह ॥ तदुक्तमिति ॥ अनामत्वमरूपत्वमुभयं गगने विरुद्धमित्येतदुक्तमित्यर्थः । टीकोपलक्षणमिति भावः । न्यायविवरणेऽनामत्वमरूपत्वं च विरुद्धमित्यनुक्त्वाऽनामरूपत्वमिति सहनिर्देशेऽपीह पृथग्व्युत्पादनं तु श्रुतौ ते इत्यत्र निर्वाह्यतया प्रकृतयोर्नामरूपयोर्मध्ये रूपमेव प्राकृतम् । न तु नामापि । सर्ववैदिकनाम्नामनादिनित्यत्वेन प्रकृतिजन्यनाम्नोऽभावादिति द्योतयितुमित्याहुः ।

ननु ‘‘नामरूपयो’’रित्यत्र रूपपदेनार्थप्रपञ्चो गृह्यत इत्युपेत्य सर्वाधारत्वं तेन लब्धमित्युच्यते । ते यदन्तरेत्यत्र तु ‘‘अवर्ण’’मित्यादिभाष्योक्तश्रुत्या प्राकृतशुक्लपीतादिरूपराहित्यमर्थ इति भाति । तत्कथमेतदिति चेन्मैवम् । नामरूपयोरित्यत्र रूपपदेनाजहल्लक्षणया रूपस्पर्शगन्धादिविषयमात्रोपलक्षणाददोष इत्याहुः । ‘‘न च विष्णुपक्षे निपातद्वयविरोधः । भगवतो नामादिनिर्वहितृत्वस्यालोकप्रसिद्धत्वेऽपि ‘‘एको दाधार भुवनानि विश्वे’’त्यादिवेदप्रसिद्धत्वेन तदर्थत्वेनोपपत्ते’’रिति टीकां विवृण्वन् प्रागुक्तशङ्कामनूद्य निराह ॥ न च निपातेति ॥ टीकायां द्वयेत्युक्तेर्भावः प्रागेवोक्त इति भावेन निपातविरोध इत्येवानुवादः कृतः । वै इत्यस्यावधारणार्थत्वेनाप्युपपत्तेरिति भावः । यत इत्यस्य श्लोकेनान्वयः । अतो न विरोध इत्यर्थः । श्लोकं विवरीतुं ब्रह्मणि वैदिकप्रसिद्धिमाह ॥ ब्रह्मण इति ॥

सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।

सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ॥

सर्वेषामपि वेदानामितिहासपुराणयोः ।

प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते ॥

इत्यादिपुराणवचनात्, ‘‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्य’’ मित्यादिश्रुतेरिति भावः । अवान्तरतात्पर्यतोऽन्यस्यापि प्रसिद्धिरस्तीत्यतो महातात्पर्यत इत्युक्तम् ॥ श्लोकं तात्पर्यतो विवृणोति ॥ शास्त्रस्थावेति ॥ उक्तमधिकरणं प्राक् जन्माधिकरणे । शास्त्रनिष्ठा वैदिकीप्रसिद्धिरेव ग्राह्या । वेदशब्दार्थनिर्णयस्य वैदिक प्रसिद्धिनिमित्तकत्वात् । नत्वार्थप्रसिद्धिबलेन लौकिकी प्रसिद्धिर्ग्राह्येति सूत्रार्थः ॥ सप्तम इति ॥ सप्तमस्य चतुर्थे पादे ‘‘स लौकिकस्स्याद्दृष्टप्रवृत्तित्वा’’दिति द्वितीयेऽधिकरणे ‘‘सौर्यं चरुं निर्वपे’’दित्यादौ किं लौकिक इत्थम्भावोऽतिदिश्यतेऽथ वैदिक इति संशये वैदिकेत्थम्भावस्य प्रत्यक्षेण शास्त्रेण दर्शपूर्णमासादिषु निबद्धत्वेनान्यत्र सम्बन्धायोगाद् लौकिकस्य पार्वणस्थालीपाकादावनुवृत्तस्य साधारणशास्त्रेणेह प्रापणसम्भवाल्लौकिक एवेति प्राप्ते वैदिकस्य कर्मणः कथम्भावाकाङ्क्षायां वैदिकेत्थम्भावस्य शीघ्रमुपस्थितेस्तदतिक्रमेणानुपस्थितलौकिकग्रहणायोगाद्वैदिक एवेत्थंभा वोऽतिदिश्यत इत्युक्तम् । अन्यथा तत्रापि पूर्वपक्ष्युक्तदिशा लौकिकेतिकर्तव्यताया एवान्वय उच्येतेत्यर्थः ।

ननु स्वरूपतो हरेः प्रसिद्धावप्याकाशशब्दार्थतया प्रसिद्ध्यभावे यः प्रसिद्धाकाश इति कथमुक्तिरित्यत आह ॥ अस्ति चेति ॥ एवं प्रसिद्धेरुद्देश्यान्वयेऽप्याकाशो ब्रह्मेत्युपपाद्येदानीं टीकोक्तं विधेयान्वयं सोपपत्तिकमुपपादयन् तत्रापि ब्रह्मणस्सिद्धिमाह ॥ यदात्विति ॥ नामरूपनिर्वोढृत्वं किं तद्धारकत्वं किं वा तत्कर्तृत्वम् । द्वयमपि हरावेवेति श्रुतिद्वयोक्तिर् लोके चेत्युक्तमेवोपपादयति ॥ न हीति ॥ अवकाशदानादिना नामादिनिर्वाहकत्वं गगनेऽप्यस्तीत्यत उक्तं निरङ्कुशेति ॥ तस्य तत्र भगवदायत्तत्वादिति भावः । यदात्वित्यादिनोक्तं टीकारूढं करोति ॥ एतमेवेति ॥ टीकोक्तेर्मूलमाह ॥ न्यायविवरणे चेति ॥ वैनामेति निपातद्वयं भगवतो नामरूपनिर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यं दर्शयतीत्यर्थः । वह प्रापण इत्यस्य धातोरनिट्त्वात्कथं निर्वहितृत्वपदप्रयोग इत्याशङ्क्याह ॥ यद्यपीति ॥ श्रुत्यनुकरणार्थमिति ॥ यथा ‘‘न लोकाव्ययनिष्ठाखलर्थतृना’’मित्यत्र तृणामिति णत्वेन निर्देशे कार्ये तृनामिति णत्वाभावेन निर्देशो विवक्षितरूपानुकरणार्थस्तथेति भावः । उक्तं च मञ्जर्यां ‘‘जिघृक्षितरूपविनाशप्रसङ्गात्तृनामित्यत्र णत्वाभाव’’ इति । ननु यदि भगवतो निपातद्योत्यप्रसिद्धिरुपपद्येत तर्हि ‘‘अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जना’’दित्यप्रसिद्धत्वोक्तिर्विरुध्यत इत्यत आह ॥ भाष्य इति ॥

चन्द्रिकाबिन्दुः

अरूपवत्वं स्वीकृत्येति ॥ अव्याकृताकाशस्यारूपवत्वमुपपद्यते । न भूताकाशस्य आकाशे नीलिमोदेतीति श्रुतेरिति भावः । भूताकाशस्यारूप त्वाभावमुपपादयति ॥ न हीति ॥ यद्यपि प्रकृते न हि भूताकाशमरूपमित्येव वक्तव्यं तथाप्यनामग्रहणं प्रसङ्गादिति ध्येयम् ।

ननु साकल्येन शब्दागोचरत्वादिरूपं यद्यनामत्वं विष्ण्वेकनिष्ठमित्युच्यते तर्हि ईक्षत्यधिकरणविरोधः। तत्र वाच्यत्वोक्तेरित्यत आह ॥ ईक्षत्यधिकरणे त्विति ॥ अवाच्यत्वमेव निराकृतं न तु साकल्येन शब्दावाच्यत्वमिति भावः ॥ निर्वाह्येति नामरूपयोः प्राकृतत्वोपपादकम् । ननु प्राकृतरूपराहित्यमव्याकृताकाशेऽप्यस्ति । तथा च गगने कथमरूपत्वाभाव इत्याशङ्क्य अरूपत्वं नाम रूपनिषेधयोग्यत्वं तच्च न गगने तत्र रूपप्रसक्तेरेवाभावेन निषेधाप्रसक्तेरित्यभिप्रेत्याह ॥ ब्रह्मणि रुग्मवर्णादीत्यादि ॥ ननु गगनस्यापि वैदिकप्रसिद्धिविषयत्वेन व्यावर्त्याभाव इत्यत आह ॥ महातात्पर्यत इति ॥ तथा च महातात्पर्यतो वेदप्रसिद्धिमत्वं विष्णोरेव न गगनस्येति व्यावर्त्यसिद्धिरिति भावः । नन्वत्राकाशो वै नामेति आकाशसमभिव्याहृतनिपातद्वयेन आकाशशब्दार्थत्वेनैव प्रसिद्धिरानेया न तु यथा कथञ्चिद् ब्रह्मणस्सिद्धिरित्याशङ्क्य साऽप्यस्तीत्याह ॥ अस्ति च ब्रह्मणीति । वैनामेति निपातद्वयस्य विधेयविशेषणत्वमेव स्वरसमित्युपपादयति ॥ यदा तूद्देश्येति ॥ निर्वोढृशब्द एव साधुरिति ॥ वहेरनिट्त्वादितीति भावः ।

पाण्डुरङ्गि

प्रकृतनिर्वाह्यं निर्वाह्यत्वेन प्रकृतमित्यर्थः ॥ अत एवेति ॥ बहिरङ्गलौकिकप्रसिद्धिसङ्ग्रहाय सजातीयान्तरङ्गवैदिकप्रसिद्धिपीडनायोगादेवेत्यर्थः ॥ निर्वोढृशब्द एव साधुरिति ॥ निरुपसर्गपूर्वकाद्वहेस्तृचि होढ इति ढत्वे खषस्तथोर्धोऽध इति धत्वे ष्टुनाष्टुरिति ष्टुत्वे सहिवहोरोदवर्णस्येत्यवर्णस्यौत्वे ढोढेलोप इति लोपे निर्वोढृशब्दनिष्पत्तिरिति भावः ।