पूर्वपक्षस्तु
पूर्वपक्षकथनम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु ॥ यद्यप्याकाशे ‘‘तद्ब्रह्म तदमृतं स आत्मे’’ति ब्रह्मश्रुत्यादीनि सन्ति । आकाशशब्दस्तु तल्लिङ्गादिति न्यायेन ब्रह्मण्यपि मुख्यवृत्त्या युक्तः । न च वाच्यं तल्लिङ्गादित्यत्र भूताकाशमिति पूर्वःपक्षः । अत्र त्वव्याकृताकाशमिति । निरवकाशलिङ्गेन प्रसिद्धिबाधस्योभयत्र साम्यात् । तथापि इह ‘‘वैनामे’’ति निपातद्योतितप्रसिद्धिर्न ब्रह्मणि युक्ता । लोके तस्याप्रसिद्धत्वात् । वेदे प्रसिद्धत्वेऽपि ‘‘अनादिर्वा अयमाकाश’’ इत्यादौ गगनस्यापि प्रसिद्धेर्व्यावर्त्यस्याप्रसिद्धाकाशस्यैवाभावेन निपातवैयर्थ्यात् । गगनपक्षे तु शास्त्रयोनित्वेन लोकाप्रसिद्धब्रह्माकाशस्य व्यावर्त्यत्वाल्लौकिकप्रसिद्धिद्योतकनिपातावैयर्थ्यम् । न च वाच्यं वेदमात्रप्रसिद्धिर्निपातद्योत्या । तथा च लोकवेदप्रसिद्धं गगनं व्यावर्त्यत इति । मात्रशब्दार्थभूताया लोकाप्रसिद्धेः प्रसिद्धिद्योतकनिपाताद्योत्यत्वात् । किं च ब्रह्मवेदमात्रे प्रसिद्धम् । गगनं तु लोके वेदेच स्वरूपेण नामरूपावकाशदानात्तन्निर्वाहकतया च प्रसिद्धम् । अत एव ‘‘न हि विष्णुस्तन्निर्वहितृत्वं वा प्रसिद्ध’’मिति टीकायामाकाशस्य स्वरूपेण तन्निर्वाहकत्वेन च लोकवेदयोः प्रसिद्धिं सिद्धां कृत्वा विष्णोस्तदप्रसिद्धिरुक्ता । न चासङ्कुचितप्रसिद्धौ सत्यां सङ्कुचितप्रसिद्धिद्योतनं युक्तम् । यद्वा प्रसिद्धस्यैवोद्देश्यत्वादप्रसिद्धस्यैव च विधेयत्वात्प्रसिद्धेरुद्देश्याकाशेनैवान्वयात् सुकरः पूर्वपक्षः । गगने निर्वोढृत्वस्याप्रसिद्धावपि स्वरूपप्रसिद्धेरसङ्कुचितायाः सत्त्वात् । टीकायां ब्रह्मपक्षे प्रसिद्धेर्विधेयभूतनिर्वोढृत्वान्वयप्रतिषेधस्तु तदन्वयेऽपि न सिद्धांतिन इष्टसिद्धिः । विधेयस्यापि ब्रह्मणि ‘‘अप्रसिद्धेरवाच्यं त’’दित्यादाविव प्रसिद्धिशब्दार्थत्वेन स्वतः प्राप्ता या लोकप्रसिद्धिस्तद्राहित्यादिति दर्शयितुम् । न चाकाशश्रुतिरिव ब्रह्मश्रुत्यादिकं प्रसिद्ध्या विशेषितम् । येन ब्रह्मत्वादेरीशे प्रसिद्धत्वात्स एव गृह्येत । एवं च ब्रह्मत्वादिकं गगने कथञ्चिन्नेयम् । अप्रसिद्धस्य ब्रह्मणः प्रसिद्धिद्योतकनिपातेनैव निरासात् । तल्लिङ्गादित्यस्य विषयवाक्ये तु ‘‘सर्वाणि हवा इमानि भूतान्याकाशादेवे’’त्यत्र वैशब्दस्य सन्निहितसर्वभूतान्वयो वा । ‘‘स्युरेव तु पुनर्वै वेत्यवधारणवाचका’’ इति वचनेनावधारणार्थत्वं वा । इह त्वाकाशस्यैव सन्निधानम् । नामशब्दस्य च नार्थांतरमस्तीति वैषम्यम् । अत एव भाष्ये वैनामेतिनिपातद्वयोक्तिः । न्यायविवरणे च ‘‘वैनामे प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधी’’त्युक्तम् । ते यदन्तरेति श्रुतं नामरूपराहित्यं तु न ब्रह्मण्यपि युक्तम् । ईक्षत्यधिकरणे ‘‘रूपोपन्यासाच्चे’’त्यत्र च ब्रह्मणो नाम्नो रूपस्य चोक्तेः । भूताकाशस्य रूपित्वेप्यव्याकृताकाशस्यारूपत्वात् । अत एव भूताकाशस्यापि शब्दैकगम्यत्वात्कथं लोकप्रसिद्धिरिति निरस्तम् । अव्याकृताकाश इत्येव पूर्वपक्षकरणात् । अत एव भाष्ये प्रसिद्धाकाश इत्येवोक्तम् । टीकायामपि सिद्धान्ते ‘‘अवकाशस्यापि नामवत्त्वा’’ दित्यत्रारूपवत्त्वं स्वीकृत्यनामवत्त्वमेव वक्ष्यते । न हि भूताकाशमनामरूपमिति ॥
प्रकाशिका
अत्र टीकाया ‘‘अयमाकाशः प्रसिद्धाकाश एव भवेत् । आकाशशब्दस्य तत्र रूढत्वा’’दित्युक्त्वा ‘‘न च वाच्य’’मित्यादिना पूर्वपक्षानुदयमाशंक्य वैनामेति निपाताभ्यां पूर्वपक्षोदयो दर्शितः । तत्र शङ्कोत्तरग्रन्थौ व्यनक्ति ॥ यद्यपीत्यादिना ॥ श्रुत्यादीनीत्यादिपदेन नामरूपनिर्वोढृत्वरूपसर्वाधारत्वामृतत्वानामरूपत्वग्रहः । ‘‘सर्वाधारत्वलिङ्गेने’’ति टीकोपलक्षणमिति भावः । आकाशश्रुतिर्निरवकाशेत्यत आकाशशब्दस्य विष्णावपि प्रवृत्तेरसौ सावकाश इति टीकार्थं व्यक्तमाह ॥ आकाशशब्दस्त्विति ॥ टीकायां सावकाशत्वशङ्का न युक्तेति भावेनाशङ्क्य टीकाभिप्रायविवरणेन समाधत्ते ॥ न च वाच्यमित्यादिना साम्यादित्यन्तेन ॥ भूतेति ॥ तत्र भाष्ये भूतपदप्रयोगादिह टीकायां सिद्धान्ते ‘‘अवकाशस्यापि नामवत्त्वा’’दित्युक्तेरिति भावः । वैनामेति निपातयोरुद्देश्याकाशान्वयमुपेत्य तत्र लोकप्रसिद्धाकाश इत्यर्थ उत वेदप्रसिद्धाकाश इति विकल्पौ हृदि कृत्वाऽर्थद्वयमप्याकाशस्य विष्णुत्वेऽयुक्तमित्याह ॥ लोक इति ॥ आकाशस्य ब्रह्मत्वेऽपि निपातयोः सार्थक्यमाशङ्क्य निराह ॥ न च वाच्यं वेदमात्रेति ॥ ‘‘आकाशो वैनामे’’त्यस्य वेदमात्रे प्रसिद्धो य आकाशस्स नामरूपयोर्निर्वहितेत्यर्थः । तादृशश्चाकाशो विष्णुरेव न तु गगनम् । तस्य लोकवेदोभयप्रसिद्धत्वादिति व्यावर्त्यसत्त्वात्सार्थक्यं निपातयोरिति भावः ॥ मात्रशब्दार्थेति ॥ वेदमात्रप्रसिद्ध इत्यस्य लोकतोऽप्रसिद्धत्वे सति वेदतः प्रसिद्ध इत्यर्थस्स्यात् । तत्र च प्रसिद्धिमात्रद्योतकस्य निपातद्वयस्य विशेषानालिङ्गितसामान्याभावेन तद्विशेषवेदप्रसिद्धिद्योतकत्वसम्भवेऽपि न लोकाप्रसिद्धत्वद्योतकत्वम् । तस्य तत्रासामर्थ्यादिति भावः । प्रसिद्ध्यर्थकनिपातेत्यादिव्यवहारे कार्ये द्योतकत्वद्योत्यत्वादिव्यवहारस्तु निपातानां द्योतकत्वमेव,न वाचकत्वमिति पक्षमुपेत्य ‘‘प्रसिद्धिद्योतकत्वा’’दिति टीकामनुरुध्येति ध्येयम् । ननु प्रसिद्धिसामान्यद्योतकस्य क्वचिद्विशेषे पर्यवसानावश्यम्भावेन वेदप्रसिद्ध आकाश इत्युक्तयैवार्थाल्लोकाप्रसिद्ध इति गम्यत इत्यतो वाऽभ्युपेत्यवादेन वाह ॥ किञ्चेति ॥ वैनामेति निपातद्वयस्य नामरूपयोर्निर्वहिता वैनामेति विधेयान्वयमुपेत्याप्याह ॥ नामरूपेति ॥ लोके तस्याप्रसिद्धत्वादित्यादिना प्रतिपादितार्थं टीकारूढं करोति ॥ अत एवेति ॥ निपातयोरुभयत्रान्वयादेवोभयथा प्रसिद्धेराकाशे सम्भवादेव चेत्यर्थः । निर्वहितृत्वमिति ॥ श्रौतपदानुकरणमेतदित्यदोषः ।
नन्वस्तु द्वेधाप्रसिद्धिर्गगने टीकासंमताच । तथाप्यत्राकाशपदेन गगनस्य ग्रहः कुत इत्यत आह ॥ न चेति ॥ सङ्कुचितेति ॥ वैदिकप्रसिद्धिमात्रेत्यर्थः । ननु निपातयोर्विधेयान्वये नामरूपनिर्वहितृत्वस्य विष्णावेव ‘‘एको दाधार भुवनानि विश्वे’’त्यादिना प्रसिद्धेर्गगने सर्वाधारत्वस्य वैदिकप्रसिद्धेर्विष्णाविवाभावात्कथं विधेयान्वयपक्षे गगनप्राप्तिरित्यत उद्देश्येनैवान्वयमुपेत्य पूर्वपक्षमाह ॥ यद्वेति ॥ सुकर इत्युक्तमेवाह ॥ गगन इति ॥ असङ्कुचिताया इति ॥ लोकवेदयोस्सिद्धाया इत्यर्थः । विधेयान्वयपरटीका तु अभ्युपेत्यवादेन प्रवृत्तेति भावेन तां घटयति ॥ टीकायामिति ॥ विधेयस्यापीति ॥ या स्वतः प्राप्ता लोकप्रसिद्धिरित्यन्वयः । ‘‘अप्रसिद्धेरवाच्यं तदतर्क्याज्ञेयमेव चे’’त्यादाववाच्यत्वहेतुभूताऽप्रसिद्धिर्न वैदिकप्रसिद्ध्यभावः । तस्याब्रह्मणि सत्त्वात् । किन्तु लौकिकप्रसिद्ध्यभाव एव । तथाचा प्रसिद्धेरित्यत्र प्रसिद्धिशब्दस्य यथालोकप्रसिद्धिरर्थस्तथेहापि निपातद्योतितविधेयान्वितायाः प्रसिद्धेः प्रसिद्धिशब्दार्थतयास्वरसतः प्राप्तलोकप्रसिद्धेरभावादिति दर्शयितुमित्यर्थः । टीकायां ‘‘प्रसिद्ध’’मित्यस्य लोकतः प्रसिद्धं न च भवतीत्यर्थ उक्तो भवति । एवं च निपातद्वयविशेषितत्वेन प्रबलयाऽऽकाशश्रुत्या पूर्वपक्षकरणात्तया ब्रह्मसाधकानामन्यथासिद्धिं वक्तुं तेषां सावकाशत्वमाह ॥ न चाकाशेति ॥ एवं चेति ॥ आकाशश्रुतेरिव ब्रह्मश्रुत्यादेर्निरवकाशत्वद्योतकाभावे सतीत्यर्थः ॥ कथञ्चिदिति ॥ देशकालाभ्यां गगनस्यापि वृद्धत्वेन ब्रह्मत्वम् आततत्वादात्मत्वम् अवकाशदानान्नामरूपनिर्वाहकत्वं नित्यत्वादमृतत्वं नेयमित्यर्थः । यदत्रान्यैरुक्तं न ब्रह्मत्वादिकं नामरूपनिर्वोढर्याकाशे युक्तम् । किं तु तयोर्मध्यस्थत्वेन वक्ष्यमाणे वस्तुनि । ‘‘यदन्तरा तद्ब्रह्मे’’त्यादिसामानाधिकरण्यात् । एतच्चान्तरालिकं वस्तु यदिति नपुंसकनिर्देशात्पुल्लिङ्गनिर्दिष्टाकाशादन्यदिति । तन्न । सिद्धान्ते वक्ष्यमाण दिशाऽन्तराशब्दस्य विनाऽर्थत्वेनोपपत्तौ लक्षणाक्लेशायोगात् । तद्ब्रह्मेति वक्ष्यमाणापेक्षया नपुंसकत्वेऽप्याकाशात् प्रकृतादर्थान्तरग्रहणायोगात् । त्वयापि सिद्धान्ते ‘‘यस्य ब्रह्मणोंऽतराल’’ इत्याकाशरूपब्रह्मपरत्वेनोक्ततयाऽऽकाशरूपैकार्थस्य एव कथनौचित्याच्चेति । ब्रह्मादिशब्दान् मुख्यार्थस्य ब्रह्मण एव ग्रहणं कुतो नेत्यत आह ॥ अप्रसिद्धस्येति ॥ लोकप्रसिद्धिशून्यस्येत्यर्थः ।
ननु प्रसिद्धिद्योतकनिपातोपेतस्याप्याकाशस्य प्राग्ब्रह्मत्वं निर्णीतमिति तेन गतत्वमाशङ्क्य निराह ॥ तल्लिङ्गादितीति ॥ नार्थान्तरमिति ॥ ‘‘स्युरेव’’त्वित्यादिवत्प्रमाणाभावादिति भावः ॥ भाष्ये वै नामेतीति ॥ एतेन ‘‘वैनामेति निपातद्वयविरोधा’’दिति टीकाऽपि विवृता । भाष्ये द्वयेत्यनुक्तावपि द्वित्वे तात्पर्यं कथं टीकाकृता ज्ञातमित्यत आह ॥ न्यायविवरणे चेति ॥ अनामरूपत्वमप्यन्यथयति ॥ ते यदन्तरेतीति ॥ ईक्षतीति ॥ ईक्षतेर्नाशब्दमित्यनेन नञ्द्वयोपेतेन शब्दवत्त्वापरपर्यायनामवत्त्वस्योक्तत्वात् । अदृश्यत्वनयगुणसूत्रे रूपस्योक्तेरित्यर्थः ॥ रूपित्वेपीति ॥ ‘‘आकाशो नीलिमोदेती’’ति श्रुतेरिति भावः । अत एवेत्युक्तमेव व्यनक्ति ॥ अव्याकृतेति ॥ आकाशद्वैतं तु वियत्पादे ‘‘न वियदश्रुते’’रित्यत्र समर्थयिष्यते ॥ इत्येवेति ॥ अन्यथा भूतमित्यवक्ष्यदिति भावः । इह भूतमेव कुतो नेत्यत आह ॥ नहीति ॥ यद्यप्यनात्मत्वमव्याकृतेऽपि नास्ति । तथापि भूते रूपसत्त्वेनारूपित्वस्याप्यभावादव्याकृते तस्य भावात्तदभिप्रायेणैवमुक्तिः । यद्वा ब्रह्मवदव्याकृताकाशस्यापि देशादितोऽनन्तत्वेन साकल्येन शब्दागोचरत्वरूपमनामत्वमव्याकृतेऽप्यस्तीति भावः ।
चन्द्रिकाबिन्दुः
लोक इति ॥ आकाशशब्दार्थत्वेन लोके ब्रह्मणि प्रसिद्ध्यभावादित्यर्थः ।
ननु आकाशो वै इत्यस्य वेदप्रसिद्धाकाशो गृह्यत इत्यत आह ॥ वेद इति ॥ वेदमात्रप्रसिद्धिरिति ॥ तथा च वेदमात्रप्रसिद्धाकाशो ब्रह्मेति कृत्वा आकाशशब्देन ब्रह्मग्रहणमुपपन्नम् । व्यावर्त्यं च लोकवेदोभयप्रसिद्धं गगनमिति भावः ॥ नामेति ॥ निपातद्वयस्य नामरूपयोर्निर्वहितेत्यनेनान्वयमभिप्रेत्याह ॥ किं च ब्रह्मेति ॥ अत एवाव्याकृताकाशस्वरूपेण नामरूपनिर्वोढृत्वेन प्रसिद्धेरभिप्रेतत्वादेव ॥ सिद्धां कृत्वेति ॥ अन्यथाऽकाशेऽपि तादृशी प्रसिद्धिर्नास्तीति दूषणं स्यादिति भावः ॥ न चासङ्कुचितप्रसिद्धौ सत्यामिति ॥ आकाशस्य स्वरूपनामरूपनिर्वोढृत्वाख्योभयविषयप्रसिद्धौ सत्यां स्वरूपमात्रविषयप्रसिद्धिमुपजीव्य पूर्वपक्षप्रणयनमनुचितमिति भावः । वैनामेतिनिपातद्वयस्य नामरूपनिर्वहितेत्यनेनापि अन्वयमङ्गीकृत्याकाशे नामरूपनिर्वोढृत्वमवकाशदानादिनोपपाद्य पूर्वपक्षकरणे गौरवं मन्वानः सुकरं पूर्वपक्षमाह ॥ यद्वेति ॥ सुकरः नामरूपनिर्वोढृत्वाङ्गीकार उपपादनानपेक्षः ॥ असङ्कुचिताया इति ॥ लोकवेदसाधारणपर इत्यर्थः । ननु तर्हि टीकायां न हि विष्णुस्तन्निर्वहितृत्वं वा प्रसिद्धमित्यनेन वैनामेति निपातद्वयस्य विधेयनामरूपनिर्वोढृत्वमप्यभिप्रेत्य कथं तन्निषेधः कृत इत्यत आह ॥ टीकायां ब्रह्मेति ॥
ननु निपातद्वयस्य नामरूपनिर्वहितृत्वेनान्वये कथं नेष्टसिद्धिः । ब्रह्मण्यपि वैदिकनामरूपनिर्वहितृत्वप्रसिद्धेः सत्त्वादित्यत आह ॥ विधेयस्यापीति ॥ प्रसिद्धिर्हि लौकिकप्रसिद्धिरेव या निसर्गतः प्राप्ता इत्यत्र दृष्टान्तमाह ॥ अप्रसिद्धेरिति ॥ ब्रह्म लोकप्रसिद्ध्यविषय इति कृत्वैवाप्रसिद्धेरिति वाक्यं प्रवृत्तम् । अन्यथा ब्रह्मणोऽपि वेदप्रसिद्धिविषयत्वेनाप्रसिद्धेरित्युक्त्ययोगस् तद्वदत्रापि नामरूपनिर्वहितृत्वेन प्रसिद्धमित्युक्ते लोकप्रसिद्धिरेव वाच्या स्वरसप्रायत्वात् । तेन रूपेण च ब्रह्मणि न लोकप्रसिद्धिरस्ति । अतस्तदन्वयेऽपि सिद्धान्तिन इष्टसिद्धिर्नास्तीति दर्शयितुमित्यर्थः ॥ कथञ्चिदिति ॥ देशकालपूर्णत्वादिनेत्यर्थः । आकाशस्तल्लिङ्गादित्यधिकरणविषयवाक्येऽपि प्रसिद्धिद्योतकनिपातसद्भावात् तदधिकरणेन गतार्थत्वमित्याशङ्क्याह ॥ तल्लिङ्गादित्यस्येति ॥ अत एवेति ॥ अव्याकृताकाशस्यैव पूर्वपक्षविषयत्वादेवेत्यर्थः । अव्याकृताकाशस्य साक्षिविषयत्वेन लोकप्रसिद्धिरुपपादयितुं शक्यते । भूताकाशस्यातीन्द्रियत्वाङ्गीकारेण लोकप्रसिद्धिर्नास्तीति भावः ॥
पाण्डुरङ्गि
अत एवेत्यस्यैव विवरणमाकाशस्येति ॥ अस्मिन्पक्षे गगनस्य स्वरूपेण लोकवेदप्रसिद्धत्वेऽपि नामरूपनिर्वोढृत्वे प्रमाणाभावात्कथं तस्य प्रसिद्धिरिति पूर्वपक्षिणं प्रति नियोगापत्त्या पूर्वपक्षस्य दौर्घट्यं भवतीत्यतस्तत्सौघट्याय पक्षान्तरमाह ॥ यद्वेति ॥ नन्वेवं प्रसिद्धेरुद्देश्याकाशान्वयेनैव पूर्वपक्षे टीकायां न हि विष्णुस्तन्निर्वहितृत्वं वा प्रसिद्धमित्यनेन प्रसिद्धेर्विधेयभूतनिर्वोढृत्वान्वयप्रतिषेधोऽनुपपन्नः । विधेयप्रसक्तेरभावादित्यत आह ॥ टीकायामिति ॥ ननु वै नामेति प्रसिद्धेरुद्देश्याकाशान्वयेन लोकवेदयोः प्रसिद्धत्वेन विष्णोरेव ग्रहणं किं न स्यादित्यत आह ॥ न चाकाशेति ॥ सिद्धान्तीयलिङ्गादिकं सावकाशयति ॥ एवं चेति ॥ स्युरिति ॥ एव तु पुनः वै वा एतेऽवधारणवाचकाः स्युरित्यन्वयः ।