तल्लिङ्गादित्यत्र..
आकाशाधिकरणम्
तात्पर्यचन्द्रिका
संगतिनिरूपणम्
॥ ॐ आकाशोर्थान्तरत्वादिव्यपदेशात् ॐ ॥
तल्लिङ्गादित्यत्र ब्रह्मण्यप्याकाशशब्दप्रयोगस्य दर्शितत्वाद्वा इह प्रयुक्तवैनामेतिनिपातद्योतितप्रसिद्धेर्व्यावर्त्यत्वेनाप्रसिद्धे ब्रह्मण्यप्याकाशशब्दस्य पूर्वपक्षिणाऽप्यङ्गीकृतत्वाद्वोभयत्र प्रसिद्धता । ‘‘प्रयोगवशा’’दिति टीकाऽप्युक्तरीत्या द्वेधा व्याख्येया । अनन्तरसङ्गतिस्तु आकाशस्याब्रह्मत्वे पूर्वोक्तं ज्योतिरप्यब्रह्म स्यात् । ‘‘बहिः कुलायादमृतश्चरित्वे’’ति ज्योतिषि श्रुतस्यामृतत्वस्येहाकाशे ‘‘तदमृत’’मिति श्रवणादिति पूर्वाधिकरणाक्षेपात् । अत्र ‘‘आकाशो वै नाम नामरूपयोर्निर्वहिते’’ति श्रुत आकाशः किं प्रसिद्धाकाशः किं वा ब्रह्मेति चिन्ता । तदर्थं ब्रह्मग्रहणे प्रसिद्धिद्योतकौ वैनामेतिनिपातौ न युक्तावुत युक्ताविति । तदर्थं किं लौकिकी प्रसिद्धिर्निपातद्योत्या किं वा वैदिकीति । तदर्थं वैदिकप्रसिद्धिग्रहणे किं प्रसिद्धिव्यावर्त्यं नास्त्युतास्तीति । तदर्थं प्रसिद्धेः किमुद्देश्यस्वरूप एवान्वयः किं वा विधेयान्वय इति । यद्याद्यस् तदा गगनस्वरूपस्यापि वेदप्रसिद्धत्वाद्वैदिकप्रसिद्धिग्रहणे व्यावर्त्याभावेन लोकप्रसिद्धेरेव ग्राह्यत्वाल्लोकप्रसिद्धगगन एवानामरूपत्वं कथञ्चिन्नेयम् । यदि तु द्वितीयस् तदा गगने विधेयस्य नामादिनिर्वोढृत्वस्य वेदतोऽप्रसिद्धेर्व्यावर्त्यसम्भवाद्वैदिकप्रसिद्धेर्ग्रहणे बाधकाभावादनामरूपत्वादिना ब्रह्मैवाकाशः ।
प्रकाशिका
‘‘प्रयोगवशा’’दित्यादिटीकां विवृण्वन् पादसङ्गतिं विवृणोति ॥ तल्लिङ्गादिति ॥ ‘‘आकाश इति होवाचे’’ति वाक्ये निरवकाशपरोवरीयस्त्वादिलिङ्गेनाकाशशब्दे विष्णुवाचित्वस्य दर्शितत्वाल्लोकतश्चाकाशे प्रयोगात् प्रयोगसाधारण्येनोभयत्र प्रसिद्धतेत्यर्थः । पूर्वाधिकरणे तु प्राक्तनज्योतिषो भाष्यादौ विष्णुत्वाक्षेपाद्वा पूर्वपक्ष्यभिमते जीवे सम्प्रतिपन्नप्रयोगाभावाद्वा नैवं साधारण्यमुक्तम् । ननु तर्हि पूर्वत्रेवात्राप्याकाशशब्दप्रवृत्तिनिमित्तस्यावकाशदातृत्वादिरूपस्य ‘‘तल्लिङ्गा’’दित्यत्रोक्तन्यायेन विष्णौ लोकतश्चान्यत्र प्रसिद्ध्यांऽतरङ्गप्रवृत्तिनिमित्तसाम्येनैवोभयत्र प्रसिद्धिर्वाच्या । न तु बहिरङ्गप्रयोगसाम्येनेति चेन्मैवम् । पूर्वत्र ज्योतिश्श्रुतेर्विष्णुजीवयो रूढेः पूर्वपक्षिणोऽसंमतेर्योगेन जीवनिष्ठत्वे वाच्ये तस्य विष्णावपि तौल्यात्प्रवृत्तिहेतुसाम्येन तथात्वमुक्तम् । इह त्वाकाशशब्दस्य लोके गगने प्रसिद्धत्वेन योगेनार्थद्वयोपस्थितेः प्रागेव लोकप्रयोगादर्थान्तरस्यैवोपस्थितेरुभयोपस्थित्यर्थं विष्णावपि प्रयोगस्यैव दर्शनीयत्वादेवमुक्तम् । नन्वेवमपि ‘‘तल्लिङ्गा’’दित्यत्रैवान्यत्र प्रसिद्धेस्त्याजितत्वात्कथमुभयत्र प्रसिद्धिः । न च तत्र विष्णौ प्रसिद्धिरेवोक्ता नान्यत्रप्रसिद्धिस्त्याजितेति वाच्यम् । ‘‘नेतरोनुपपत्ते’’रित्यादिना, प्रतिनयमन्वितेन तत्त्वित्यवधारणार्थतुशब्देन चान्यत्र प्रसिद्धेरपि त्याजितत्वात् । मैवम् । तत्तद्विषयवाक्येऽन्यत्र प्रसिद्धेस्त्याजितत्वेऽपि सर्वत्र तत्त्याजनाभावात् ॥ व्यावर्त्यत्वेनेति ॥ निपातस्य प्रसिद्ध्यर्थत्वेन प्रसिद्धाकाशो नामरूपनिर्वोढेत्युक्तया नैवम्भूतोऽप्रसिद्धाकाश इति गम्यमानत्वात्तादृशाकाशश्च ब्रह्मैवेति भावः । कथमेतट्टीकाविवरणमित्यत आह ॥ प्रयोगेति ॥ प्रागुक्तप्रयोगाद्वा वैनामेतिनिपातवशादाकाशे पूर्वपक्ष्यभिमतप्रयोगाद्वेति द्वेधेत्यर्थः । ‘‘सर्वाधारत्वं विष्णोरुक्त’’मित्यादिभाष्यटीकाभ्यां तुल्यन्यायविषयतया सूचितां सङ्गतिमाह ॥ अनन्तरेति ॥ सङ्गतिराक्षेपिकी । भाष्यादि तु फलाभिप्रायमिति भावः । ननूक्तदिशाऽमृतत्वमुखाक्षेपेणैव फलं सङ्गतिश्चोभयं भविष्यतीति । सत्यम् । भाष्ये व्यवहिताक्षेपस्तु पूर्वं विष्णुधर्मतयाऽवधारितनामरूपनिर्वोढृत्वरूपसर्वाधारत्वलिङ्गेनाकाशो विष्णुः किं न स्यादिति शङ्काव्युदासाय । अत एव तुल्यन्यायतयाऽमृतत्वाक्षेपस्यापि सूचनात्प्राङि्नर्णीतामृतत्वरूपविष्णुलिङ्गेन विष्णुरित्यपि शङ्का प्रत्युक्ता । नन्वेवं सन्निहिताक्षेपमेव साक्षादुक्त्वा सर्वाधारत्वाक्षेपस्सूच्यताम् । न तु वैपरीत्यम् । मैवम् । सन्निहिताक्षेपस्य स्पष्टत्वाद्व्यवहिताक्षेपस्य दुर्बोधत्वाद्भाष्ये स एव कण्ठोक्तः । अन्यस्तु सूचितः ।
‘‘आकाशोऽत्र विषय’’ इत्यादिविषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ छान्दोग्येऽष्टमाध्यायान्ते ‘‘आकाशो वैनाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेस्सभां वेश्म प्रपद्ये यशोहं भवानि ब्राह्मणाना’’मित्यादि श्रूयते । तत्रस्थाकाश इत्यर्थः । नामरूपयोः शब्दात्मकार्थात्मकप्रपञ्चयोः । निर्वहिता निर्वोढा । धारक इत्यर्थः । छान्दस इडागमः । कीदृश आकाश इत्यत उक्तं ते यदिति ॥ अन्तरा विना । नामरूपराहित्येन यद्वर्तत इत्यर्थः । ते नामरूपे ॥ प्रसिद्धेति ॥ अव्याकृताकाश इत्यर्थः । कोट्यन्तरं त्वग्रे निरसिष्यत इति भावः ॥ प्रसिद्धिव्यावर्त्यमिति ॥ आकाशो वैनाम वेदे प्रसिद्धाकाशो नामादिनिर्वोढा न तु वेदाप्रसिद्धाकाश इति व्यावर्त्यभूतं वेदेऽप्रसिद्धमाकाशं नास्त्युतास्तीत्यर्थः ॥ उद्देश्येति ॥ यः प्रसिद्धाकाशः स सर्वनिर्वोढेति वा आकाशो नामादिनिर्वोढा वैनाम सर्वनिर्वोढृत्वं प्रसिद्धमिति वेत्यर्थः । नन्वाद्ये निपातद्योतितप्रसिद्धिसत्त्वेऽपि निरवकाशविष्णुलिङ्गाश्रवणात्कथमाकाश इति सिध्यतीत्यतोऽस्पष्टत्वात् फलफलिभावं स्वयमाह ॥ यद्याद्य इति ॥ उद्देश्य एवान्वय इत्यर्थः ॥ अनामेति ॥ ते यदन्तरेति वाक्योक्तं नामरूपराहित्यमित्यर्थः ॥ कथञ्चिदिति ॥ वक्ष्यमाणदिशेति भावः ॥ द्वितीय इति ॥ विधेयान्वय इत्यर्थः ।
चन्द्रिकाबिन्दुः
ब्रह्मण्यपीति । अप्रसिद्धब्रह्माख्याकाशाभावे तद्व्यावृत्यर्थमुभयत्रप्रसिद्धिद्योतकनिपातद्वयं व्यर्थमिति भावः । तदर्थं किं वैदिकप्रसिद्धग्रहण इत्यादिचिन्तावाक्यार्थः पूर्वपक्षपर्यालोचनया ऊह्यः ॥ किमुद्देश्यस्वरूप एवेति ॥ आकाशशब्दोदित इत्यर्थः ॥ विधेय इति ॥ नामरूपनिर्वहितृत्व इत्यर्थः ॥ लोकप्रसिद्धेरेवेति ॥ लोकप्रसिद्धाकाशग्रहणे वैदिकप्रसिद्धिविषयब्रह्माख्याकाशो व्यावर्त्योऽस्ति । वेदप्रसिद्धब्रह्माख्याकाशग्रहणे तु न गगनादिकं व्यावर्त्यं गगनस्यापि वैदिकप्रसिद्धिविषयत्वाद् इति हृदयम् ॥ व्यावर्त्यसम्भवादिति ॥ नामरूपनिर्वहितृत्वेन वेदाप्रसिद्धगगनस्यैव व्यावर्त्यत्वसम्भवादित्यर्थः ॥
पाण्डुरङ्गि
नन्वेवं प्राणशब्दस्यापि अत एव प्राण इत्यत्र विष्णौ प्रयोगस्य दर्शितत्वादुभयत्र प्रसिद्धत्वं स्यादित्यत आह ॥ इहेति ॥ नन्वेवं प्रकारान्तरेणैवोभयत्र प्रसिद्धत्वे टीकाविरोधः । तत्र प्रयोगवशादित्यादिना प्रयोगवशेनोभयत्र प्रसिद्धिव्युत्पादनादित्यतो यथाश्रुतटीकाया उक्तानुपपत्तेस्सम्भवेनार्थान्तरपरत्वमावश्यकमित्याह ॥ प्रयोगवशादिति टीकापीति ॥ उक्तरीत्येति ॥ तल्लिङ्गादित्यत्र ब्रह्मण्यप्याकाशशब्दप्रयोगस्य दर्शितत्वाद्वेत्याद्युक्तरीत्येत्यर्थः ।