०५ विशिष्टाद्वैतमतपरीक्षा

यच्चोक्तं सौत्रस्य दर्शनादित्यस्येह..

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

यच्चोक्तं सौत्रस्य दर्शनादित्यस्येह प्रकरणे ब्रह्मणो वक्तव्यत्वेनानुवृत्तेर्दर्शनादित्यर्थ इति । तन्न । तथात्वे आवश्यकत्वेनानुवृत्तेरित्येव वक्तव्यत्वात् ॥ केचित्तु ॥ इदं सूत्रं ‘‘शब्दादेव प्रमित’’ इत्येतदधिकरणशेषभूतं सद् अङ्गुष्ठमात्रस्य ब्रह्मत्वे हेत्वन्तरपरम् । नत्वधिकरणान्तरम् । ‘‘ज्योतिश्चरणाभिधाना’’दित्यत्रैव ज्योतिश्शब्दसमन्वयोक्तेः । अङ्गुष्ठमात्रप्रकरणे ‘‘न तत्र सूर्यो भाती’’ति ब्रह्मरूपज्योतिर्दर्शनादिति च सूत्रार्थ इत्याहुः । तन्न । तच्छेषत्वे तदानन्तर्यस्य चशब्दस्य चापातात् । ‘‘न तत्रे’’ति श्रुतौ च ज्योतिःपदाभावेन सूत्रस्य श्रुत्यननुगमप्रसङ्गाच्च । सूत्रान्तरेष्विव ज्योतिर्दर्शनपदयोः प्रतिज्ञाहेतुरूपत्वसम्भवे हेतुमात्रत्वायोगात् । ‘‘आकाशस्तल्लिङ्गात्’’ अत एव प्राण इत्यत्रोक्तसमन्वययोरप्याकाशप्राणशब्दयोस्त्वयाऽपि ‘‘दहर उत्तरेभ्यः प्राणस्तथानुगमा’’दित्यत्र पुनः समन्वयस्याङ्गीकृतत्वाच्चेति ॥ टीकाक्षरार्थस्तु स्पष्टः ॥

प्रकाशिका

सूत्रार्थोऽप्ययुक्त एवेत्याह ॥ यच्चेति ॥ ज्योतिश्शब्दं ब्रह्मेति प्रतिज्ञार्थः ॥ अनुवृत्तेरिति ॥ ‘‘प्राणस्तथानुगमा’’दितिवदिति भावः ॥ केचित्त्विति ॥ पूर्वशेषत्वे कथं सूत्रार्थ इत्यतस्तमनुवदति । अङ्गुष्ठमात्रप्रकरण इति ॥ ‘‘न तत्र सूर्योभाती’’त्यारभ्य ‘‘तस्य भासा सर्वमिदं विभाती’’ति सर्वेषां छादकस्य निरवधिकातिशयस्य भाशब्दाभिहितस्य परब्रह्मभूतस्य ज्योतिषो दर्शनाच्चाङ्गुष्ठप्रमितः परमात्मेति सूत्रार्थ इत्यर्थः । यदुक्तं समन्वितस्य समन्वयो नेति तत्राह ॥ आकाश इति ॥ ननु तत्र प्रापकविशेषसत्त्वात्पूर्वपक्षादिसम्भवात्पुनरुक्तिः । इह तु समुत्थानादिश्रुतेरन्यथोपपत्तेः परंज्योतिश्शब्दस्य विष्णावेव प्रसिद्धेर्न पुनरुक्तिर्युक्तेति चेत्तर्ह्यनेकप्रापकयुक्तास्मदीयोदाहरणमेवाद्रियताम् । न तु पूर्वशेषत्वम् । क्लिष्टत्वादिति भावः । यत्तु कश्चिदाह ‘‘परञ्ज्योतिरुपसम्पद्ये’’त्यत्र परञ्ज्योतिर्नारायणो वा शिवो वेति संशये ‘‘स उत्तमः पुरुष’’ इति वाक्यशेषे ‘‘देवकीनन्दनश्शौरिश्श्रीपतिः पुरुषोत्तम’’ इत्यादौ नारायणे प्रसिद्धपुरुषोत्तमशब्दश्रवणान्नारायण एवेति प्राप्ते ज्योतिश्शिव एव । तत्प्राप्तानामनिवृत्तिदर्शनात् । शिवादन्यत्प्राप्तानामनिवृत्तेरभावात् । पुरुषोत्तमशब्दो नारायणे रूढोऽपि शिवे यौगिक इति । तन्न । परशब्दसहितज्योतिश्शब्दस्य पूर्वोक्तदिशा पुरुषोत्तमशब्दस्य च ‘‘उत्तमः पुरुषस्त्वन्य’’ इति ‘‘प्रथितः पुरुषोत्तम’’ इत्यादिना विष्णावेव प्रसिद्धत्वेन संशयस्य शिव इति सिद्धान्तस्य चानुत्थानात् । शिवासाधारणलिङ्गाद्यभावाच्च । ‘‘यद्गत्वा न निवर्तंते तद्धाम परमं ममे’’त्यादिना विष्णुं प्राप्तानामनिवृत्तेर्दर्शनाच्च । दहराधिकरण एवास्य विष्णुपरत्वेनोक्तत्वाच्च ।

यं प्राप्यते निजानंदमाप्नुवन्ति स केशवः ।

तं प्राप्य रमते मुक्तस्स्त्रीभिर्यानैश्च बन्धुभिः ॥

इत्यादिव्याख्यानरूपस्मृतिविरोधाच्च । यदपि पुरुषोत्तमशब्दस्यात्राश्रवणात्तेन पूर्वपक्षकरणं कथमित्याशङ्क्य कृत्वाचिन्तेयमित्युक्तम् । तन्न । व्यर्थत्वात् । गत्यन्तरसम्भवाच्च । ‘‘उत्तमः पुरुष’’ इत्यस्यैव ‘‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत’’ इति, ‘‘यस्मात्क्षरमतीतोहम-क्षरादपि चोत्तमः । अतोस्मिलोके वेदे च प्रथितः पुरुषोत्तम’’ इति गीतायां,

ब्रह्माशिवस्सुरेशाद्याश्शरीरक्षरणात्क्षराः ।

लक्ष्मीरक्षरदेहत्वादक्षरातत्परोहरिः ॥ इति श्रुतौ

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।

सर्वे क्षरा अक्षरातु श्रीरेका तत्परो हरिः ॥

इति स्कान्दे च पुरुषशब्दितक्षरपदेन शिवादीनुक्त्वा तत्परत्वेन योगवृत्त्या विष्णोरेवाभिधानेन शिवस्य योगेनाप्युत्तमपुरुषत्वायोगाच्च । यदपि कृष्णस्य शिवशक्तयवतारत्वादिकल्पनं तदप्रामाणिकमनेकप्रमाणविरुद्धं च । सूत्रे परञ्ज्योतिरिति निर्देशापाताच्चेति ॥

चन्द्रिकाबिन्दुः

रामानुजपक्षे ज्योतिर्दर्शनादिति सूत्रार्थमाह ॥ न तत्र सूर्यो भातीति ॥ तथा च ज्योतिषः सूर्याद्याभासस्य ब्रह्माख्यज्योतिषः दर्शनादित्यर्थः सूचितो भवति ।

॥ इति ज्योतिरधिकरणम् ॥ १० ॥