०४ अद्वैतमतपरीक्षा

अन्येतु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ॥ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यस्थं ज्योतिरादित्यः । यद्यपीदं प्रकरणं दहराधिकरणे ब्रह्मपरमित्युक्तम् । तथापि ‘‘समुत्थाये’’त्यादिश्रुत्या प्रकरणबाध इहाशङ्क्यते । ज्योतिषो ब्रह्मत्वे हि ब्रह्मभावरूपायास्तत्संपत्तेरुत्क्रान्त्यनपेक्षत्वात्समुत्थायेति श्रुतिबाधः । स्वरूपनिष्पत्त्यतिरिक्ताया ब्रह्मसम्पत्तेरभावात् सम्पद्येति पूर्वकालार्थक्त्वा श्रुतिबाधश्च । ज्योतिष आदित्यत्वे तु शरीरादुत्क्रम्यादित्यसमीपं गत्वा कार्यब्रह्मलोकं प्राप्य क्रमेण मुक्तो भवतीत्यर्थोपपत्तेर्न श्रुतिबाध इति प्राप्ते स्यादेतदेवं यद्यत्रोक्तो मोक्षः सगुणः स्यात् । अयं तु निर्गुणः । ‘‘य आत्मापहतपाप्मे’’त्यादिना निर्गुणं ब्रह्मोक्त्वा तज्ज्ञानफलस्यैवोच्यमानत्वात् । तथाच शरीरादुत्थानं नाम श्रवणादिकम् । स्वरूपाभिनिष्पत्तिस्तु तज्जन्यः साक्षात्कारः । सम्पत्तिस्तु तत्साध्यो ब्रह्मभावः । क्त्वाश्रुतिस्तु ‘‘मुखं व्यादाय स्वपिती’’त्यादिवदिति सिद्धान्त इत्याहुः । तन्न । ‘‘नारायणपरोज्योति’’रित्यादिश्रुतिषु ‘‘परं ज्योतिः परं धाम पवित्रं परमं भवानि’’त्यादिस्मृतिषु च परशब्दसहितस्य ज्योतिश्शब्दस्य परब्रह्मण्येव प्रसिद्धत्वेन संशयपूर्वपक्षयोरनुदयात् । किञ्च–

पूर्वं यत्सत्यकामादि पश्चाद्यत्क्रीडनादिकम् ।

तद्द्वयं निर्गुणे मोक्षे सर्वथा नोपपद्यते ॥ १ ॥

अस्माद्वाक्यात्पूर्वत्र ‘‘य आत्मापहतपाप्मे’’त्यारभ्य ‘‘सत्यकामः सत्यसङ्कल्प’’ इति सविशेषब्रह्मणः श्रवणादुत्तरत्र च ‘‘स्वेन रूपेणाभिनिष्पद्यते । सतत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वे’’ति सगुणमोक्षस्य श्रवणान्न निर्गुणोऽयं मोक्षः । अपहतपाप्मत्वादिकं तु सगुणेऽप्यस्ति । ‘‘य एषोन्तरादित्ये हिरण्मयः पुरुष’’ इति श्रुते सगुणे ‘‘सर्वेभ्यः पाप्मभ्य उदित’’ इति पापातीतत्वश्रवणात् । सत्यकाम इत्यादिकं तु न निर्गुणे । किं चैवं सति सर्वपदानां लक्षणा स्यात् । ‘‘शरीरात्समुत्थाये’’त्यस्य श्रवणादौ ‘‘उपसम्पद्ये’’त्यस्यैक्ये ‘‘स्वेन रूपेणाभिनिष्पद्यत’’ इत्यस्य च साक्षात्कारे योगरूढ्योरभावात् ।

प्रकाशिका

अन्येत्विति ॥ किं ज्योतिरादित्योऽथ ब्रह्मेति संशये ज्योतिःश्रुतेरादित्ये रूढत्वादादित्य इति पूर्वः पक्षः । ननु ‘‘ज्योतिषां ज्योति’’रिति ब्रह्मण्यपि ज्योतिश्शब्दोऽस्ति । प्रकरणं च ब्रह्मपरम् । तथाच कथमादित्य इत्युक्तिरित्याशंक्य भामत्युक्तं समाधिमनुवदति ॥ यद्यपीति ॥ श्रुत्येति ॥ समुत्थायेति प्रकृतिश्रुत्येत्यर्थः । उत्थानं नामोद्गमनम् । उत्क्रमणमिति यावत् । तद्ब्रह्मज्योतिः पक्षे न युक्तमित्याह ॥ ज्योतिष इति ॥ क्त्वाश्रुतीति ॥ ब्रह्मण एव स्वरूपत्वात्स्वरूपं प्राप्य स्वरूपं प्राप्नोतीत्यसङ्गतिप्रसङ्गादिति भावः । उपलक्षणमेतत् । ज्योतिश्शब्दस्य तेजसि मुख्यत्वाद्ब्रह्मणि जघन्यतया ज्योतिश्श्रुतिबाधश्च स्यादित्यपि ध्येयम् । यथोक्तं ‘‘तिसृभिश्श्रुतिभिः प्रकरणबाधा’’दिति । उपसंपद्येत्यस्यार्थमाह ॥ आदित्यसमीपमिति ॥ तस्य तात्पर्यमाह ॥ कार्येति ॥ आदित्यसमीपे ब्रह्मलोके स्थित्वा तत्रोत्पन्नज्ञानान्मुक्तो भवतीत्यर्थः ॥ स्यादेतदेवमिति ॥ यद्यत्र गौणमोक्षश्श्रुतः स्यात्तदा शरीरादुत्क्रम्यार्चिरादिनाऽऽदित्यसमीपं गत्वा क्रमेण मुक्तो भवतीत्यर्थःस्यात् । न चैवमित्यर्थः ।

ननु ज्योतिरुपसंपत्तेरभिनिष्पत्तिरूपसाक्षात्कारसाध्यत्वादभिनिष्पद्य ज्योतिरुपसम्पद्यत इति वक्तव्यम् । न तु ज्योतिरुपसम्पद्याभिनिष्पद्यत इतीत्याशङ्क्य दहराधिकरणे भामत्युक्तमर्थमाह ॥ क्त्वाश्रुतिस्त्विति ॥ उपसम्पद्येत्यत्र ल्यबादेशस्य स्थानिरूपक्त्वाश्रुतिरित्यर्थः । व्यादाय विवृत्य । तत्र यथा व्यादानस्य पश्चात्तनत्वेऽपि क्त्वाप्रत्ययस्तद्वदित्यर्थः ॥ परशब्देति ॥ एतेनार्चिराद्यपेक्षया परत्वात्परज्योतिष्ट्वमादित्यस्य युक्तमिति कल्पतरूक्तं निरस्तम् । कथञ्चित्परसम्पादने प्रसिद्धिबाधापत्तेः । ननूक्तं समुत्थायेत्यादिश्रुतिबलात्संशयाद्युत्थानमिति चेन्न । तस्याब्रह्मपरत्वेऽप्युपपत्तेः । ‘‘भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकव’’दित्यादौ ब्रह्मभावरूपसम्पत्तेर्निरसिष्यमाणत्वात् सिद्धान्तेऽपि मुख्यार्थसम्भवाच्चेति भावः । स्वमते तु ‘‘स तेजसि सूर्ये सम्पन्न’’ इति समाख्ययाऽस्य ज्योतिषोऽन्यपरत्वमाशंक्य समाधास्यते चतुर्थे ‘‘आत्मा प्रकरणा’’दित्यत्रेति भावः । यदप्यस्य वाक्यस्य निर्गुणमुक्तिपरत्वमुपेत्य सिद्धान्तकरणं तदपि नेत्याह ॥ किञ्चेति ॥ श्लोकं विवृणोति ॥ अस्मादिति ॥ परञ्ज्योतिरिति वाक्यादित्यर्थः ।

ननु य आत्माऽपहतपाप्मेत्याद्यपहतपाप्मत्वादिश्रवणान्निर्गुणत्वमस्येति तद्बलात्सत्यकामत्वादिकं कथञ्चिन्नेयमित्यतो वैपरीत्यमेवोचितमित्याह ॥ अपहतेति ॥ न निर्गुण इति ॥ क्वाप्यश्रुतेर्व्याहतेश्चेति भावः । यदपि समुत्थायेत्यादेरन्यार्थवर्णनेनोपपत्तिकथनं तदप्ययुक्तमित्याह ॥ किञ्चेति ॥ लक्षणेति ॥ उपलक्षणमेतत् । ‘‘व्यादाय स्वपिति सम्मील्य हसतीत्युपसङ्ख्यान’’मित्युक्तेर्व्यादायेत्यस्य निर्वाहेऽपीह तथा निर्वाहकाभावात् क्वाश्रुतिपीडनम् । किञ्च ‘‘उत्तराच्चेदाविर्भूतस्वरूपस्त्वि’’ति सूत्रेणैव ‘‘यत्तत्परं ज्योतिरुपसम्पत्तव्यं श्रुतं तत्परं ब्रह्म । तच्चापहतपाप्मत्वादिधर्मकम् । तदेव जीवस्य पारमार्थिकं रूप’’मित्यादिनाऽस्य ब्रह्मपरत्वं त्वयैव समर्थितमिति तेन गतार्थताच । समुत्थानादिश्रुतेश्चान्यथैवोपपत्तेः । समुत्थानं श्रवणादिकमित्यादिनिर्वाहस्य त्वया तत्रैव कृतत्वाच्च । इह परब्रह्मोपसत्त्याऽऽविर्भूतस्वरूप विषयत्वसमर्थनमुपजीव्यदहराकाशस्य परमात्मत्वं तत्र समर्थितमिति चेत्तर्हि ‘‘उत्तराच्चे’’दिति सूत्रानन्तर्यमेतस्य स्यात् । हेतुप्रयोगानन्तरमेव हेत्वसिद्धेर्निरसनीयत्वादित्यपि ध्येयम् ।

चन्द्रिकाबिन्दुः

यद्यपीदं प्रकरणमिति ॥ एष सम्प्रसाद इत्यस्यापि वाक्यस्य दहरप्रकरणस्थत्वादिति भावः । समुत्थायेत्यादिश्रुतेः प्रकरणबाधकत्वमुपपादयति ॥ ज्योतिषो ब्रह्मत्वे हीति ॥ उत्क्रान्त्यनपेक्षत्वादिति ॥ सगुणमोक्षस्यैवोत्क्रमणसाध्यत्वाङ्गीकार इति भावः । नन्वत्र स्वेन रूपेणाभिनिष्पद्यत इति स्वरूपेणावस्थानमात्रमेवोच्यते न तु ब्रह्मीभाव इत्यत आह ॥ स्वरूपनिष्पत्त्यतिरिक्ताया इति ॥ परं ज्योतिरुपसम्पद्य स्वेन रूपेणेत्यस्यार्थान्तरमाह ॥ कार्येति ॥ ननु ज्योतिरुपसम्पद्येत्यनेन पूर्वं ब्रह्मीभावस् त्वाप्रत्ययेन श्रुतः । अनन्तरं स्वेन रूपेणाभिनिष्पद्यत इति ब्रह्मसाक्षात्कारः । कथमेतदित्याशङ्क्य अत्र सम्पद्येति त्वाप्रत्ययार्थो न विवक्षित इत्येतत्सदृष्टान्तमाह ॥ उक्त श्रुतिस्त्विति ॥ निर्गुणमोक्षोऽत्र विवक्षित इति सिद्धान्तोऽप्ययुक्त इत्याह ॥ किञ्च पूर्वमिति ॥