०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ॥ ‘‘विष्णुरेव ज्योति’’रिति भाष्योदाहृत श्रुताववधारणात्, ‘‘नारायणपरो ज्योतिः परञ्ज्योतिरुपसम्पद्य तं देवा ज्योतिषां ज्योति’’रित्यादि श्रुतिषु परत्वादिविशेषणाच्च ज्योतिश्शब्दो विष्णावेव मुख्यः । स च ‘‘हृद्यन्तर्ज्योति’’ रित्यात्मप्रश्नोत्तरोपक्रमे ‘‘सुप्त इत्यत्रायं पुरुषः स्वयं ज्योति’’रित्युपसंहारे ‘‘स्वपित्यत्रायं पुरुषः स्वयं ज्योति’’रिति मध्ये च श्रुतः । तथा च ज्ञानसाधनप्रश्नोपक्रमादन्तरङ्गेणात्मप्रश्नोत्तरोपक्रमेण तदुपसंहारेण च विष्णुपरत्वेन निर्णीतवाक्यमध्यपतितानि ‘‘म्रियमाण’’ इत्यादीनि उपांशुयाजादिवाक्यमध्यपातिविष्ण्वादिवाक्यवत्तदनुसारेण नेयानि । तथाहि–

म्रियमाणादिलिङ्गानामन्तर्गतणिजर्थता ।

अश्वप्रतिग्रहेष्ट्यादौ गृह्णीयादिति शब्दवत् ॥ १ ॥

यदा ‘‘प्रजापतिर्वरुणायाश्वमनय’’दित्याद्युपक्रममात्रानुसारेण ‘‘यावतोऽश्वान् प्रतिगृह्णीयादित्यत्र प्रतिगृह्णीयादित्यस्य प्रतिग्राहयेदित्यन्तर्भावितणिजर्थता तदाहि किमु वाच्यमिहोपक्रमोपसंहारमध्यपरामर्शानुसारेण म्रियमाणादिशब्दानामन्तर्भावितणिजर्थतेति । दर्शिताश्च बृहदारण्यकभाष्येऽन्तर्भावितण्यर्था बहवः प्रयोगाः ‘‘जज्ञे बहुज्ञं परमाभ्युदारं,

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुध्येय दुर्बोधं योषा भवदनुग्रहात् ॥

द्रष्टुश्चक्षुषोनास्ति जिह्वे’’त्यादयः । उक्तश्च प्रयोजककर्तर्यपि कर्तृत्वमात्र विवक्षायामण्यन्तप्रयोगस्तन्त्रसारे प्रतिग्रहेष्टिनये । ‘‘लोकावनुसञ्चरती’’त्यादौ तु नान्तर्भावितण्यर्थता । ‘‘लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्या’’दिति न्यायविवरणोक्तेः । ‘‘पाप्मभिः संसृज्यत’’ इत्यादावपि तथा । ‘‘फलदानाय पापानां ग्रहः संसर्ग उच्यत’’ इत्यादिबृहदारण्यकभाष्योक्तेः । अत्र ‘‘यस्य ज्योतिरयं विष्णुः स परामृश्यते तथे’’त्यादिबृहदारण्यकभाष्योक्तरीत्या यदा म्रियमाणत्वादिकं जीवगतं तदात्रापि न ण्यर्थान्तर्भावः । किन्तु

यदा तु भगवानुक्तस्तदा स्वातन्त्र्यतो विभुः ।

म्रियमाणो जायमान इत्युक्तस्तन्नियामकः ॥

इति तत्रोक्तभगवद्गतत्वपक्ष एवेति द्रष्टव्यम् । आदित्येनैवेत्यवधारणं तु बाह्यज्योतिषु प्राधान्यापेक्षयेति न्यायविवरण एवोक्तम् । अत्रेति विशिष्योक्तिरपि स्वप्नादौ ज्योतिरन्तराभावाभिप्राया । न च प्रत्यभिज्ञाविरोधः । यतः

समानशब्दप्रकृतादर्थांतरपरत्वतः ।

तेनाप्रकृतमुख्यार्थपरतैव गरीयसी ॥ १ ॥

प्रकाशिका

श्रुत्यादौ ज्योतिश्शब्दस्य विष्ण्वेकवाचित्वोक्तेर्मुख्यार्थत्यागे बाधकाभावाज्जीवलिङ्गानां च ब्रह्मपरोपक्रमोपसंहारप्रतीतैकवाक्यमध्यपतिततया ब्रह्मण्येव कथञ्चिन्नेयत्वादिदं ज्योतिर्विष्णुरेवेति भावेन ‘‘विष्णुरेवेदं ज्योति’’रित्यादिसिद्धान्तटीकां विवृण्वन् सिद्धान्तयति ॥ सिद्धान्तस्त्विति ॥ अवधारणादिति ॥ यद्यसौ भगवति मुख्यो न स्यात्तदाऽन्ययोगव्यवच्छेदकावधारणं न स्यात् । आदित्यादौ ज्योतिश्शब्दवृत्तेर्दर्शनात् । मुख्यत्वे त्वन्यत्रामुख्यत्वाभिप्रायेण विष्णुरेव ज्योतिरित्यवधारणं सङ्गच्छत इत्यर्थः । मुख्यत्वे युक्तयन्तरमाह ॥ नारायणेति ॥ परत्वादीति ॥ ज्योतिषां ज्योतिष्ट्वविशेषणाच्चेत्यादिपदार्थः । ननूक्तं जीवलिङ्गबलादेव मुख्यार्थत्याग इति तत्राह ॥ स चेति ॥ विष्ण्वेकवाची ज्योतिश्शब्द इत्यर्थः । नन्वस्त्वेवम् । ‘‘किं ज्योतिरयं पुरुष’’ इति जीवोपक्रमस्यापि सत्त्वात्कथं निर्णय इत्यत आह ॥ तथाचेति ॥ उपांशुयाजेति ॥ प्रपञ्चितमेतदधिकरणशरीरमाद्यसूत्रे । ‘‘विष्णुरुपांशु यष्टव्य’’ इत्यादिवाक्यमर्थवादत्वेन यथोपांशु याजशेषत्वेन नियतं तद्वदित्यर्थः । उत्तरार्धोक्तदृष्टान्तव्यक्तिपूर्वं पूर्वार्धोक्तदार्ष्टांतिके विशेषमाह ॥ यदेत्यादिना ॥ प्रजापतिरिति ॥ विवृतमेतत्समन्वयाधिकरणे ।

ननु प्रयोगाधीना ह्यर्थकल्पनेत्यत आह ॥ दर्शिताश्चेति ॥ जज्ञे जनयामास । विजानीहि विज्ञापय । द्रष्टुर् दर्शयितुः । एतेन ‘‘न चेमं लोकमतिक्रामति मृत्योरूपाणीत्याद्युक्तलिङ्गविरोधः । द्रष्टुश्चक्षुष इत्यादिवदन्तर्णीतणिच्त्वेनोपपत्ते’’रिति टीका हेतूक्तिपूर्वं विवृता भवति ॥ प्रतिग्रहेष्टिनय इति ॥ ‘‘अचोदितं च कर्मभेदा’’दिति तृतीयाध्यायस्य चतुर्थपाद एकादशाधिकरण इत्यर्थः । अधिकरणशरीरं तु समन्वयसूत्रे विवृतम् । ‘‘यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपे’’दित्यत्र गृह्णीयादित्यस्य ग्राहयेदित्यर्थमुक्त्वा तत्र प्रयोगोऽप्युक्त इत्यर्थः ।

ननु लोकसंचरणलिङ्गविरोध इत्यतः ‘‘जीवमादायेश्वरस्यैवोभयलोकसंचरणोक्तेर्न तद्विरोध’’ इति टीकां विवृण्वंस्तन्मूलमाह ॥ लोकाविति ॥ म्रियमाणादावपि ण्यर्थता त्वर्थविशेष एवेत्याह ॥ अत्रेति ॥ स परामृश्यते स जायमान इत्यादौ तच्छब्देनेत्यर्थः । नन्वथाप्यादित्येनैवेत्यवधारणं स्वप्नादौ विशिष्य ब्रह्मणो ज्ञानहेतुत्वोक्तिश्चायुक्ता । न च जीवपक्षेऽप्येतद्दोषसाम्यापादनमात्रेण स्वपक्षे स दोषः परिहृतो भवतीत्यतो ‘‘न चैवं सत्यवधारणविरोध’’ इत्यादिटीकार्थं मूलोक्तया व्यनक्ति ॥ आदित्येनैवेति ॥ ‘‘न च विशिष्योक्तिविरोध’’ इत्यादिटीकां व्यनक्ति ॥ अत्रेतीति ॥ टीकायामेव तदुक्तमिति संमत्युक्तेर्नात्र मूलोक्तिः । ‘‘न च प्रत्यभिज्ञाविरोध’’ इत्यादिटीकार्थं स्वयमुपपत्त्युक्तया व्यनक्ति ॥ न चेत्यादिना ऐकार्थ्यं चेत्यन्तेन ॥ यत इत्यस्य गरीयसीत्यनेनान्वयः ॥ अर्थान्तरेति ॥ अमुख्यार्थान्तरेत्यर्थः । तेन समानशब्देन ।

चन्द्रिकाबिन्दुः

नारायणेति अविभक्तिको निर्देशः । नारायणः परं ज्योतिरित्यर्थः । स च ज्योतिश्शब्दः ॥ ज्ञानसाधनेति ॥ ज्ञानसाधनप्रश्नोपक्रमः । किं ज्योतिरयं पुरुष इति वाक्ये मध्ये आत्मप्रश्नोपक्रमः । कतम आत्मेति वाक्यं गृह्नीयादिति शब्दवदिति दृष्टान्ततयोपादानम् । न केवलं साम्याभिप्रायेण किन्तु प्रकृते तदपेक्षया विशेषोऽस्तीत्याह ॥ यदा प्रजापतिरिति ॥ जज्ञ इति ॥ बहुज्ञं कृष्णं देवकी जनयामासेत्यर्थः । तदेतन्मे विजानीहीति ॥ देवहूतिवाक्यं विज्ञापयेत्यर्थः । द्रष्टुश्चक्षुषः दर्शयितुश्चक्षुषः । तस्य कर्तृत्वायोगात् । नात्ति जिह्वा नादयति जिह्वा । तस्या अदनकर्तृत्वाभावात् ।

ननु पाप्मभिस्संसृज्यत इत्यस्यान्तर्भावितण्यर्थत्वाभावे कथं परमात्मनः पापसंसर्ग इत्यत आह ॥ फलदानायेति ॥ यस्य ज्योतिरयमिति ॥ यस्य जीवस्यायं विष्णुर्ज्योतिः स जीव एव, स चायं म्रियमाण इत्यादौ तच्छब्देन परामृश्यत इति पक्षे म्रियमाणादिशब्दानां न ण्यन्तार्थता कल्पनीया । न चाण्यन्तम्रियमाणादिशब्दानां ण्यन्तार्थत्वाङ्गीकारे लक्षणादोषः । बहूनां प्रयोगाणां दर्शितत्वेन निरूढलक्षणात्वस्याभिप्रेतत्वात् ॥ तेनाप्रकृतेति ॥ समानशब्देनाप्रकृतमुख्यार्थपरत्वं युक्तमित्यर्थः ।

पाण्डुरङ्गि

उपक्रमानुसारेणेति ॥ नन्वेतदयुक्तम् । समन्वयाधिकरणे तन्त्रसारे

मैत्रायणीयशाखायां दात्रुपक्रमतोऽप्यृते ।

कर्मांगत्ववशादेव दातुरिष्टिः प्रतीयते ॥

इत्युपक्रमं विनैव दातुरिष्टिरित्युक्तत्वादिति ह्युक्तम् । अत्रोपक्रममात्रानुसारेण प्रतिगृह्णीयादित्यस्यान्तर्णीतण्यर्थतोच्यते । तथाच पूर्वोत्तरविरोध इति चेन्न । अस्य भट्टसिद्धान्तानुवादरूपत्वात् । समन्वयाधिकरणे च तन्मतापवादकताभिधानान्न दोषः । द्रष्टुश्चक्षुष इत्यादिवदिति टीकास्थादिपदसङ्ग्राह्यमाह ॥ जज्ञ इत्यादिना ॥

जज्ञे बहुज्ञं परमाभ्युदारं यद्द्वीपमध्ये सुतमात्मभाजम् ।

पराशराद्गन्धवती महर्षिस्तस्मै नमो ज्ञानतमोनुदाय ॥ इति ।

टीकायां न चेमं लोकमतिक्रामति मृत्योरूपाणीत्याद्युक्तलिङ्गविरोधे शङ्किते सर्वेषामन्तर्भावितण्यर्थत्वेन परिहारोभिमत इति प्रतीयते । तदयुक्तम् । तथासति न्यायविवरणबृहद्भाष्यविरोधापत्तेरित्यतोऽभिप्रायमाह ॥ लोकावनुसञ्चरतीत्यादाविति ॥ तथा अनन्तर्भावितण्यर्थतेत्यर्थः । ननु ‘‘यस्य ज्योतिरयं विष्णुः स परामृश्यते तथा’’इत्यादि बृहद्भाष्योक्तरीत्या म्रियमाणत्वस्यापि जीवगतत्वादन्तर्भावितण्यर्थत्वोक्तिरयुक्तेत्यत आह ॥ अत्रेति ॥ तत्रोक्तेति ॥ बृहद्भाष्योक्तेत्यर्थः । ननु ब्रह्मणो ज्योतिष्ट्वे आदित्येनैवेत्यवधारणायोग इत्यत आह ॥ आदित्येनैवेति ॥ ननु ब्रह्मणो जागरणेऽपि जीवज्ञानहेतुत्वेन स्वप्नादावत्रायं पुरुषः स्वयं ज्योतिर्भवतीति विशिष्य ब्रह्मणो ज्ञानहेतुत्वोक्तिरयुक्तेत्यत आह ॥ अत्रेतीति ॥ ननु किं ज्योतिरयं पुरुष इति ज्ञानसाधनप्रश्नोपक्रमस्थस्य जीवस्यायं पुरुषः स्वयं ज्योतिरित्यात्मप्रश्नोत्तरोपसंहारे पुरुषादिशब्दैः प्रत्यभिज्ञानविरोध इत्याशङ्कते ॥ न चेति ॥ तथा लाक्षणिको न हीत्यर्थः ।