०२ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ पूर्वत्र यथा निरवकाशलिङ्गबलाद्वज्रश्रुतेर्लोकप्रसिद्धार्थत्यागस्तथेहापि ‘‘स समानःसन्नुभौ लोकावनुसंचरति । सवा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते । स उत्क्रामन्म्रियमाणः पाप्नोविजहाती’’त्यादिजीवलिङ्गबलादेव ‘‘विष्णुरेवज्येति’’-रित्यदिश्रुतिप्रसिद्धार्थत्यागः । यद्यपि जायमानत्वं द्युभ्वाद्यधिकरणन्यायेन उत्क्रमणं च भूमाधिकरणन्यायेन सावकाशम् । तथापि म्रियमाणत्वादिकं निरवकाशम् । भाष्य उभयलोकसंचरणोक्तिस्तु कर्माधीनलोकद्वयसंचरणं न ब्रह्मणि युक्तमित्यभिप्राया । नतु सञ्चरणमेवायुक्तमित्यभिप्राया । अत एवोक्तं टीकायां ‘‘जीवस्यहि कर्मवशादुभयलोकसञ्चरणं युक्त’’मिति ।

किञ्च ‘‘किंज्योतिरयंपुरुष’’ इति प्रश्ने ‘‘आदित्यज्योतिरादित्येनैवायं ज्योतिषाऽऽस्त’’ इत्यादिना यस्य जागरण आदित्यादिज्योतिष्ट्वमुक्तं स तावज्जीवः । नह्यादित्यादिज्योतिष्ट्वं विष्णोर्युक्तम् । ‘‘न तत्र सूर्योभाती’’त्यादेः । तदुक्तं न्यायविवरणे ‘‘आदित्यादिज्योतिष्ट्वमुभयलोकसंचरणमादित्येनैवायं ज्योतिषास्त इत्यवधारणमित्यादीनां परमात्मन्यवकाशाभाव’’ इति । तस्यैव च जीवस्य ‘‘आत्मैवास्यज्योति’’रिति वाक्ये स्वप्नादौ स्वप्रकाशत्वरूपमात्मज्योतिष्ट्वमुक्तम् । अस्येतीदंशब्दस्य प्रकृतजीवपरत्वात् । आत्मशब्दस्य च स्वरूपार्थत्वात् । ज्योतिश्शब्दस्य च ज्ञानार्थत्वात् । अस्मिंश्चात्मनि ‘‘कतमआत्मा’’इति पृष्टे उच्यमानमिदं ज्योतिर्जीव एव । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यापातात् । ननु यस्यादित्यादिज्योतिष्ट्वमुक्तं सजीव एवास्तु । आत्मैवास्येति वाक्य इदंशब्दोऽपि जीवपर एवास्तु । आत्मशब्दस्तु ‘‘गौणश्चेन्नात्मशब्दा’’दित्यादिन्यायेनपरमात्मपरः । ज्योतिश्शब्दश्च ‘‘वाचैवायं ज्योतिषाऽऽस्त’’ इत्यादिपूर्ववाक्य इव ज्ञानहेतुपरः । तथाचास्य जीवस्य परमात्माज्ञानहेतुरित्युक्ते स एव परमात्मा ‘‘कतम आत्मे’’ति पृष्ट इति न वैयधिकरण्यम् । न च वाच्यं ब्रह्मणो जागरणेऽपि जीवज्ञानहेतुत्वेन तदादित्येनैवेत्याद्यवधारणं, स्वप्नादौ विशिष्यब्रह्मणो ज्ञानहेतुत्वोक्तिश्चायुक्तेति । जीवपक्षेऽपि साम्यात् । जीवस्यापि स्वगतज्ञानहेतुत्वेनावधारणायोगात् । जागरणेऽपि स्वप्रकाशत्वेन विशिष्योक्तययोगाच्च । तस्माद्ब्रह्मैव ज्योतिरिति चेदुच्यते । किं ज्योतिरयं पुरुष इति ज्ञानसाधनप श्नोपक्रमस्थस्य जीवस्यात्र ‘‘अयं पुरुषः स्वयं ज्योति’’रित्यात्मप्रश्नोत्तरोपसंहारे पुरुषादिशब्दैः प्रत्यभिज्ञानात्तन्मध्यस्थं ‘‘आत्मैवास्य ज्योति’’रित्येतदपि जीवपरमेव ।

अत एवोपसंहारवाक्यस्यायं पुरुषः परमात्माऽस्य जीवस्य स्वयमेव ज्योतिरित्यर्थ इति निरस्तम् । पुरुषादिशब्दानां तैःप्रकृतजीवपरत्वत्यागेन तैरप्रकृतब्रह्मपरत्वायोगात् । अस्येत्यस्याध्याहारापाताच्च । किंच उपसंहारस्थस्वयंशाब्दानुसारात् ‘‘आत्मैवास्ये’’त्यत्राप्यात्मशब्दःस्वरूपपरः । न तु ब्रह्मपरः । तस्मादात्मप्रश्नोत्तरे अपि जीवविषये एवेति जीवएवेदं ज्योतिः । यद्यप्यत्रानन्दमयाधिकरणे दहराधिकरणे च ब्रह्मपरत्वेन निर्णीतं विज्ञानमयत्वं हृद्गतत्वं चास्ति तथापि पूर्वपक्षेऽतीतज्योतिरधिकरणस्येव तयोरप्याक्षेपात्पूर्वपक्षोदयः ॥

प्रकाशिका

आद्यमचिन्तास्थपूर्वकोटिं विवृण्वन् ‘‘जीव एवेदं ज्योति’’रित्यादिपूर्वपक्षटीकां व्यनक्ति ॥ पूर्वत्रेति ॥ एतेन पूर्वसिद्धान्तन्यायेनेत्येतद्विवृतम् ॥ प्रसिद्धेति ॥ ज्योतिरादिशब्दस्येति शेषः । विष्ण्वर्थत्वत्याग इत्यर्थः । केन प्रसिद्धेत्यत उक्तं विष्णुरेवेति ॥ एतेन ‘‘विष्णुरेव ज्योति’’रिति श्रुत्या ज्योतिश्श्रुतेर्विष्णौ प्रसिद्धेः कथं जीव इति टीकोक्तिरिति प्रत्युक्तम् । पूर्वन्यायेन निरवकाशलिङ्गबलेन श्रुतिबाधोपपत्तेरिति । टीकोक्तलिङ्गानि न बाधकानीत्याशङ्क्याह ॥ यद्यपीति ॥ म्रियमाणत्वेति ॥ तस्य देहवियोगरूपत्वेन नित्यदेहे भगवत्ययोगादिति भावः ।

ननु भाष्ये लोकसंचरणस्य जीवलिङ्गत्वोक्तया भगवत्यपरिच्छिन्ने क्रियामात्रमपि नेति प्रतीयत इत्युत्क्रमणमपि निरवकाशमिति गम्यत इत्यत आह ॥ भाष्य इति ॥ टीकायाः सावकाशस्यापि जायमानत्वादेर्जीवलिङ्गतयोक्तिस्तु निरवकाशजीवलिङ्गान्तरसाहचर्याज्जायमानत्वादिकमपीह जीवे प्रसिद्धमेव ग्राह्यम् । न तु विष्णुधर्मभूतमित्यभिप्रायेति भावः । ‘‘आदित्यादिज्योतिष्ट्व’’मिति न्यायविवरणैकदेशप्रपञ्चनपरां ‘‘किञ्चे’’त्यादिटीकां ‘‘न तत्र सूर्यो भातीत्यादे’’रित्यन्तां विवृणोति ॥

किञ्चेति ॥ टीकोक्तेर्मूलमाह ॥ तदुक्तमिति ॥ इत्यादीनामित्यादिपदेन प्रागुक्तजायमानत्वादिलिङ्गजातं गृह्यते । सर्वेषामवकाशाभाव उपपादितः । अस्तु स जीवः । ततः किमित्यत आह ॥ तस्यैव चेति ॥ तत्कुत इत्यत आह ॥ अस्येति ॥ अस्मिन्निति ॥ स्वप्रकाशत्वेनोक्त इत्यर्थः । इदं हृद्यन्तर्ज्योतिरुच्यमानम् । एतेन द्वितीयचिन्तास्थपूर्वपक्षकोटिर्विवृता । ‘‘न च वाच्यं यस्यादित्यादिज्योतिष्ट्वमुक्त’’मित्यादिटीकां व्यनक्ति ॥ नन्विति ॥ टीकायामेतच्छङ्कानिवर्तकत्वेन न्यायविवरणोक्तावधारणं योजयित्वा ‘‘अयं पुरुषः स्वयं ज्योतिर्भवतीत्यस्यैवार्थस्य प्रत्यभिज्ञानाच्चे’’ति युक्तयन्तरं चोक्तम् । तत्र युक्तयन्तरोक्तेरवधारणं नातीवशङ्कानिवर्तने क्षममिति हृदयमिति भावेन टीकोक्तावधारणयोजनां विवृण्वन्नस्याक्षमतामाह ॥ न च वाच्यमिति ॥ अयुक्तेतीत्यनेनान्वयः । टीकोक्तां प्रत्यभिज्ञानयुक्तिं व्यनक्ति ॥ किं ज्योतिरिति ॥ न्यायविवरणे त्वादिपदोक्तप्रत्यभिज्ञानादिनिरवकाशलिङ्गसत्त्वादभ्युच्चयत्वेनावधारणम् उक्तमिति भावः । एतेन तृतीयचिन्तास्थपूर्वपक्षकोटिर्विवृता । अत एवेत्युक्तमेवाह ॥ पुरुषादीति ॥ तैः पुरुषादिशब्दैः प्रकृतो यो जीवस्तत्त्यागेनेत्यर्थः । सापेक्षत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । युक्तयन्तरं च स्वयमाह ॥ किञ्चेति ॥ अतीतेति ॥ भाष्यादिकमुपलक्षणमिति भावः ।

चन्द्रिकाबिन्दुः

पूर्वाधिकरणसिद्धान्तन्यायेनेत्युक्तं दर्शयति ॥ पूर्वत्र यथेति ॥ म्रियमाणत्वादिकं निरवकाशमिति ॥ तथा च तत्साहचर्येण जायमानत्वादिकमपि निरवकाशमेवेति भावः ॥ न तु सञ्चरणमेवेति ॥ सर्वगतेऽपि ब्रह्मणि क्रियाया द्युभ्वाद्यधिकरणे उपपादितत्वादिति भावः । किञ्चेत्यादिटीकाभिप्रायमाह ॥ किञ्चेति ॥ न च वाच्यमित्यादिटीकाभिप्रायमाह ॥ ननु यस्यादित्यादीति ॥ जीवपक्षेऽपि साम्यादिति ॥ अनेन आदित्येनैवेत्याद्यवधारणानुपपत्तेर् विशिष्यात्मज्योतिष्ट्वोक्तयनुपपत्तेश्चेति टीका दूषिता । अत एवास्वरसाद् अत्रायं पुरुष इत्यनन्तरं टीकावाक्यं प्रवृत्तमित्याशय इति स्वामिनः । अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्यस्यैवार्थस्य प्रत्यभिज्ञानाच्चेति टीकावाक्यार्थमाह ॥ उच्यत इत्यादिना ॥ जीवपरमेवेति ॥ अन्यथा जीवपरपूर्वोत्तरवाक्यसन्दोहविरोध इति भावः । तस्यैव वाक्यस्यार्थान्तरमभिप्रेत्याह ॥ किञ्चोपसंहारस्थेति ॥