सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ॥ जगत्सर्वं प्राण एजतीत्युक्तं सर्वचेष्टकत्वं ‘‘कोह्येवान्या’’दिति भाष्योक्तश्रुत्यादिभिर्विष्ण्वेकनिष्ठम् । न च ‘‘तेनेन्द्रो वज्रमुदयच्छ’’दिति श्रुतौ ‘‘वर्जनाद्वज्र’’मिति स्मृतौ विष्णौ वज्रशब्दार्थ इवोद्यतशब्दो निरुक्तः । न च ‘‘कोह्येवान्या’’दित्यत्र जगच्चेष्टकत्वमिवान्यत्रोद्यतत्वं निषिद्धम् । यद्यप्यमृतत्वहेतुवेदनविषयत्वमपि ‘‘नेतरोनुपपत्ते’’रित्यादौ निर्णीतं ब्रह्मलिङ्गमिहास्ति । तथापि तस्य पूर्वपक्षिणाऽऽक्षिप्तत्वान्न तं प्रति सूत्रादौ हेतूकृतम् । न च वज्रश्रुतिविरोधः ।
श्रुत्यर्थनिर्णयार्थत्वात्स्मृतेस्तत्र निरूपितः ।
अर्थो ग्राह्यो वेदवाक्ये तदयोगे तु लौकिकः ॥ १ ॥
यथा ‘‘यू स्त्र्याख्यौ नदी’’त्यादि संज्ञाकरणस्य कार्यार्थत्वात् ‘‘आण् नद्या’’ इत्यादिषु कार्यप्रदेशेषु कृत्रिमनद्या एव ग्रहणम् । यत्र तु ‘‘नदीपौर्णमास्याग्रहायणीभ्य’’ इत्यादौ तदयोगस्तत्राकृत्रिमायालोकसिद्धनद्याः ॥ कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । तथाऽत्रापि श्रुत्युपबृंहकेषु ‘‘वर्जनाद्वज्रमुच्यते । आसमन्तात्काशते यदाकाशः, प्राणः प्रणयनादेष’’ इत्यादिस्मृतिवाक्येष्वन्वर्थसंज्ञाकरणस्य श्रुत्यर्थनिर्णयार्थत्वात् ‘‘महद्भयं वज्र’’मित्यादौ स्मृत्युक्तयोग एव ग्राह्यः ।
प्रकाशिका
भगवल्लिङ्गस्य निरवकाशत्वाद्वज्रश्रुतिलिङ्गयोस्सावकाशत्वात्तेन तयोर्बाध इति भावेन प्रवृत्तां ‘‘अयं वज्रो भगवानेवे’’त्यादि सिद्धान्तटीकां विवृण्वन् लिङ्गनिरवकाशत्वपरं ग्रन्थं तावद्व्यनक्ति ॥ जगत्सर्वमिति ॥ जगत्सर्वं प्राणे स्थितं यस्मादेजति चेष्टते । यत्प्रेरणया वर्तते । तद्वज्रमिति सर्वचेष्टकत्वं ‘‘कोह्येवान्यात्कः प्राण्या’’दित्यादिश्रुतिभिर्
नभस्वतोऽपि सर्वास्स्युश्चेष्टा भगवतो हरेः ।
किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः ॥
इत्यादिस्मृतिभिश्च विष्णुमात्रगतमित्यर्थः । ‘‘कोह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् ’’इत्याकाशशब्दश्च ‘‘आकाशस्तल्लिङ्गा’’दित्युक्तन्यायेन विष्णुपर इति भावः । ननूद्यतत्वलिङ्गमपि निरवकाशमित्युक्तमिति चेत्किमुद्यतशब्द आयुधे निरुक्त इति तन्निरुक्तेर्वक्ष्यमाणवज्रश्रुतिनिरुक्तेरिव निरवकाशत्वमुच्यतेऽथायुधादन्यत्र तस्य निषेधात् । नाद्य इत्याह ॥ न चेति ॥ द्वितीयं प्रत्याह ॥ न च कोहीति ॥ क इत्याक्षेपे । यद्ययमाकाशशब्दितो विष्णुरुद्रिक्तानंदो न स्यान्न जगच्चेष्टयेत् । तर्हि को ह्येवान्यात् । न कोऽपीत्यन्यत्र यथा जगच्चेष्टकत्वं निषिद्धं तथा वज्रादन्यत्रोद्यतत्वं श्रुत्यादौ न निषिद्धम् । येन वज्रादन्यत्रानवकाशं भवेदित्यर्थः ।
ननु ‘‘य एतद्विदुरमृतास्ते भवन्ती’’ति मुक्तिहेतुज्ञानविषयत्वस्यानन्दमयाधिकरणे आनन्दमय इतरो विरिञ्चादिर्न भवति । ‘‘ब्रह्मविदाप्नोति पर’’मित्युक्तस्यानन्दमयज्ञानान्मोक्षस्यानुपपत्तेरित्युक्ततया विष्णुलिङ्गतया निर्णीतस्य विषयवाक्य एव श्रुतस्य सूत्रणं कुतो न कृतम् । अन्यथा तस्य ‘‘नेतर’’ इत्यत्र हेतूकरणायोगादित्याशङ्क्य समाधत्ते ॥ यद्यपीति ॥ नन्वेषा शङ्का न युक्तेव । अल्पाक्षरे सूत्रे सर्वस्यापि साधकस्य साक्षादुपादानायोगेनोपलक्षणयैकस्योपादाने कार्ये प्रथमश्रुतत्वात् ‘‘प्राण एजती’’त्याद्युदाहरणविशेषद्योतकत्वादल्पाक्षरत्वात्कम्पनलिङ्गस्योपादानमुचितम् । न च मुक्तिहेतुवेदनत्वं पूर्वत्र ‘‘नेतर’’इति सूत्रोपात्तं ‘‘तमेवं विद्वानमृत इह भवति । नान्यः पंथा’’ इति श्रुत्यन्तरे विष्ण्वेकनिष्ठतयाऽवधारितं चेति वाच्यम् । कंपकत्वमपि ‘‘तद्धेतुव्यपदेशाच्चे’’ति सूत्रोपात्तं ‘‘कोह्येवान्यात्क’’ इति श्रुत्यन्तरे विष्ण्वेकनिष्ठतयाऽवधारितं चेत्यपि साम्यात् । तथापि विषयवाक्य एव श्रुतत्वाच्छङ्का युक्तेति भावः ॥ आक्षिप्तत्वान्न तं प्रतीति ॥ यद्यप्याक्षिप्तमपि हेतूकर्तुं शक्यम् । तथापि पूर्ववाद्यभिमतसाधकस्य सावकाशत्वोक्तयनन्तरमेव तस्य हेतूकरणमुचितम् । आक्षेपकहेतोः प्राबल्यखण्डनात् । अत एवात्र टीकायां ‘‘नन्वेवं सावकाशत्वे श्रुतिलिङ्गयोर्य एतद्विदुरित्युक्तलिङ्गं विहाय किं लिङ्गान्तरग्रहणेन । मैवम् । तदविहायैव लिङ्गान्तरस्याप्युक्तत्वा’’दित्युक्तम् । तथाच परोक्तश्रुतिलिङ्गयोरितः पूर्वं सूत्रे सावकाशताया अव्युत्पादनात्तत्सावकाशताव्युत्पादनबीजं पूर्ववाद्यनाक्षिप्तं कम्पकत्वमेव हेतूकृतम् । न तु तदाक्षिप्तमिति भावः ।
एतेन टीकाविरोधोऽपि प्रत्युक्तः । अत्र टीकायां ‘‘श्रुतेर्निरवकाशत्वान्निरवकाशेनापि लिङ्गेन कथं निर्णय इत्यतश्श्रुतेरपि विष्णाववकाशं स्मृत्या दर्शयति चक्रमिति’’ इति स्मृतिमवतार्य ‘‘न च योगस्य रूढेर्दौर्बल्यादनिर्णय इति वाच्यम् । स्मृत्युक्तत्वेन विद्वद्रूढेरपि सत्त्वा’’दिति समाहितम् । तत्समाधानमुपलक्षणम् । स्मृत्या योगप्रदर्शनस्य विद्वद्रूढिसूचनमिव निरवकाशत्वेनाज्ञरूढितोऽपि प्राबल्यसूचनमपि प्रयोजनमिति भावेन प्रागुक्तश्रुतिविरोधशङ्कामनूद्य स्मृत्युक्तयोगस्यानवकाशत्वमुपपादयति ॥ न चेत्यादिना ॥ श्रुत्यर्थेति श्लोकात्पूर्वं वज्रश्रुतेस्स्मृत्युक्तयोगेन विष्णौ सावकाशत्वात् । न चैवं पूर्वोक्तदिशाऽर्थाव्यवस्था । श्रुतितस्स्मृतिर्दुर्बला सती न श्रुतेरूढित्यागापादिका च इत्युक्तम् इति वाच्यं यत इत्येतावद्योज्यम् ॥ श्रुत्यर्थनिर्णयार्थत्वात्स्मृतेरिति ॥ ‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहये’’दित्युक्तेरिति भावः । एतेन स्मृतेर्निरवकाशत्वमुच्यते । अर्थाव्यवस्थां निराह ॥ तत्र निरूपितोऽर्थो ग्राह्य इति ॥ स्मृतौ निरूपित इत्यर्थः । तर्हि ‘‘वज्रहस्तः पुरन्दर’’ इत्यादावपि रूढार्थो न स्यादित्यत आह ॥ तदयोग इति ॥ दृष्टान्तोक्तिपूर्वं श्लोकं व्याचष्टे ॥ यथेति ॥ ईच ऊच यणादेशः । यू । ईकारान्तमूकारान्तं शब्दरूपं स्त्र्याख्यं स्त्रीत्वाभिधायकम् । स्त्रीलिङ्गमिति यावत् । नदीसंज्ञं भवतीति सूत्रार्थः । स्त्र्याख्याविति वाच्य इयङादेशेन स्त्रियाख्याविति निर्देशश्छान्दस इत्याहुः । आदिपदेन ‘‘वृद्धिरादैच्’’ ‘‘ओङ्गुण’’ इत्यादिग्रहः ॥ आण्नद्या इत्यादिष्विति ॥ नदीसंज्ञकेकारोकारान्तात् परस्य ङिद्वचनस्याडागमो भवतीत्यर्थः । कुमार्यै य वाग्वै इत्याद्युदाहरणम् । आदिपदेन ‘‘मृजेर्वृद्धिः । मिदेर्गुणः । मार्ष्टिमेद्यती’’ति ॥ कृत्रिमेति ॥ साङ्केतिकनद्याः । न तु प्रसिद्धनदीशब्दमात्रस्येत्यर्थः ॥ नदीति ॥ नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावाद्विकल्पेनाटच् प्रत्यय इत्यर्थः । उपनदम् उपनदि । उपपौर्णमासम् उपपौर्णमासि । उपाग्रहायणम् उपाग्रहायणीत्युदाहरणम् । टचि टकारादेः ‘‘चुटू’’ इत्यादिना लोपे ‘‘यस्ये’’तीकारलोपे च उपनदमिति रूपम् । अन्यदा तु ‘‘ह्रस्वो नपुंसके प्रातिपदिकस्ये’’तीकारस्य ह्रस्वे सत्युपनदीत्यादि ॥ तदयोग इति ॥ नदीपदेन कृत्रिमनदीग्रहणायोग इत्यर्थः । तत्र नदीपदेन नदीसंज्ञकशब्दस्यैव ग्रहणे पौर्णमास्यादिशब्दस्यापीकारान्तस्त्रीलिङ्गतया नदीसंज्ञकशब्दत्वेन नदीशब्देनैव ग्रहणसम्भवात् पृथग्ग्रहणमयुक्तमिति तत्साहचर्याल्लोकप्रसिद्धनदीशब्दस्यैव ग्रहणम् । तदुक्तं महाभाष्ये ‘‘बहुगणवतुडति सङ्ख्ये’’त्यत्र ‘‘यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति नदीपौर्णमास्याग्रहायणीभ्य इत्यत्रापि प्रसज्येत । पौर्णमास्याग्रहायणीग्रहणसामर्थ्यान्न भविष्यती’’ति । नन्वाण्नद्या इत्यादौ कृत्रिमग्रहणे को हेतुरित्यतो बहुगणसूत्रे महाभाष्योक्तन्यायमाह ॥ कृत्रिमेति ॥ वर्जनादिति ॥
चक्रं चङ्क्रमणादेष वर्जनाद्वज्रमुच्यते ।
खण्डनात्खड्ग एवैष हेतिनामा हरिस्स्वयम् ॥ इति ब्रह्मवैवर्तवाक्यम् ।
आसमन्तादित्यादिस्मृतीतु प्रागाकाशनयादावुदाहृते । आकाशादिशब्दानामपि योग इहाक्षिप्यत इत्यस्य समाधानायैतत् ।
चन्द्रिकाबिन्दुः
ननु उद्यतशब्दस्य इन्द्रायुधे निरुक्तत्वात्कथमुद्यतत्वं विष्णावित्यत आह ॥ न च तेनेति ॥ अन्यत्रोद्यतत्वमिति ॥ विष्ण्वादावुद्यतत्वं न निषिद्धमित्यर्थः । स्मृत्या वज्रशब्दनिर्वचनं हि कार्यार्थम् । कार्यं च यत्र श्रुतो वज्रशब्दस्स विष्णुपर इति ज्ञापनमेव अन्यस्यानुपलम्भात् । वज्रबाहुरित्यादौ तु बाधकवशात् । आयुधस्वीकार इत्येतत् सदृष्टान्तमुपपादयति ॥ यथा ‘यूस्त्र्याख्यौ’ इत्यादिना ॥
पाण्डुरङ्गि
ननु तेनेन्द्रो वज्रमुदयच्छदिति श्रुतावुद्यतशब्दस्य वज्रे प्रसिद्धत्वादुद्यतत्वमपि निरवकाशमित्यत आह ॥ नचेति ॥ अत्र वर्जनाद्वज्रमित्युक्तिस्तु पूर्वपक्षीयश्रुतेरपि विष्णौ सावकाशत्वप्रदर्शनार्थमिति बोध्यम् । वर्जनाद्वज्रमिति स्मृतौ वज्रशब्दस्य निरुक्तत्वात्तन्निर्वचनस्य च वज्रशब्देन सर्वत्र विष्णोरेव ग्रहणार्थत्वाद्वज्रशब्दस्य विष्णुपरत्वसम्भवेऽपि तेनेन्द्रो वज्रमुदयच्छदिति श्रुतौ तदनिर्वचनेनोद्यतशब्देन तद्ग्रहणायोगादिति भावः ।
ननु कोह्येवान्यादित्यत्र जगच्चेष्टकत्वस्य भगवदनिर्वचनेऽपि तन्मात्रनिष्ठत्वसिद्धिवत् तेनेन्द्र इति श्रुतौ तदनिर्वचनेऽपि तन्मात्रनिष्ठत्वसिद्धिरित्यत आह ॥ न च कोहीति ॥ तथा च नैतत्प्रतिबन्दीति भावः । ननूद्यतशब्दार्थस्योद्यतत्वस्य वज्रादन्यत्र निषिद्धत्वात्कथं विष्णौ सावकाशत्वमित्यतो वाह ॥ न च कोहीति ॥ कोह्येवान्यादित्यत्र जगच्चेष्टकत्वमिवेत्युक्तया सिद्धान्तीयलिङ्गस्य निरवकाशत्वमुक्तं भवति ॥ आक्षिप्तत्वादिति ॥ नन्वाक्षेपोऽपि तस्यैव कुतः । अव्यवहितपूर्वाधिकरणे तस्यैव प्रसक्तत्वादिति भावः । पूर्वोक्तवज्रशब्दस्य भगवति सावकाशत्वमुपपादयितुं शङ्कते ॥ न चेति ॥ आडामादिकार्यार्थत्वादित्यर्थः । इत्यादिष्वित्यत्रादिपदेन ङेराम्नद्याम्नीभ्य इत्यस्य सङ्ग्रहः । तदयोग आडामादिकार्यार्थत्वायोगः । नद्या ग्रहणमिति सम्बन्धः । नन्वेवं वज्रशब्दस्य यौगिकत्वेन वज्रबाहुरित्यादावपि योग एव ग्राह्य इत्यत आह ॥ यत्रत्विति ॥ तदयोगःस्मृत्युक्तयोगायोगः ।