टीकाक्षरार्थस्तु
टीकाक्षरार्थनिरूपणम्
तात्पर्यचन्द्रिका
टीकाक्षरार्थस्तु ॥ सेदुराजेत्यादिवदिति ॥ यथा स इत्यत्र छान्दसेन विसर्गलोपेन सेदिति गुणस्तथा हार इत्वेत्यत्रापि हारेत्वेति गुण इत्यर्थः । यद्वा हारेत्वेत्येकं पदम् । व्यत्ययेन च द्विवचनस्यैकवचनमित्याह ॥ हारेत्वानाविति ॥ दीर्घस्वरार्थत्वेनाद्रवणादित्युक्तमिति ॥
संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।
उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥
इत्यादिवचनैः श्रुतौ शूद्रशब्दे ऊ इति दीर्घस्वरः शोकाधिक्यज्ञापनार्थ इति सूचयितुं सूत्र आद्रवणादित्युक्तमित्यर्थः ॥ ब्रह्माणनयोग्यानां त्रैवर्णिकानामिति ॥ ‘‘आर्जवं ब्राह्मणे साक्षाच्छूद्रो नार्जवलक्षण’’ इति श्रुतिव्याख्यानरूपायां स्मृतौ ब्राह्मणप्रतियोगित्वेन शूद्रस्योपादानाच्छतावपि ब्राह्मणशब्दस्त्रैवर्णिकपर एवेत्यर्थः ॥ अविहितोपनयनानामेवेति ॥ अविहितोपनयनत्वे सत्यनिषिद्धाध्ययनानामुत्तमस्त्रीतिर्यगादीनामेवापवादविषयता न तु निषिद्धाध्ययनानामित्यर्थः ॥
प्रकाशिका
‘‘हारे त्विति सेदुराजेत्यादिवद्विसर्गलोपेन भवति । हारेत्वानाविति वे’’ति वाक्यद्वयं क्रमेण व्यनक्ति ॥ यथेति ॥ ‘‘सेदुराजाक्षयतिचर्षणीना’’मित्यत्र स इदुराजेति वक्तव्ये पदकाले श्रूयमाणस्य विसर्गस्य लोपे ‘‘आद्गुण’’ इति गुणे च सति रूपमाश्रित्य सेदिति निर्देशस्तथेत्यर्थः । ननु ‘‘सोऽचि लोपे चेत्पादपूरण’’मित्यनेन सुप्रत्ययस्यैव लोपो विहितो न विसर्गस्य । तत्कथं विसर्गलोपेनेत्युक्तिः । सत्यम् । पदकाले विसर्गस्यैव श्रवणेन संहिताकाले तस्यैवाश्रवणेन विसर्गलोपेनेत्युक्तावपि तत्रैव तात्पर्यादित्याहुः । दीर्घेति वाक्यं दुर्गमत्वात्सप्रमाणं व्यनक्ति ॥ संहितायामिति ॥ ऊ इति दीर्घस्वर इति ॥ शुद्रेत्येव पदकालेऽभिप्रेतत्वादित्यर्थः ॥ इत्युक्तमिति ॥ सूत्रे आङुच्चारणं कृतमित्यर्थः । ‘‘तदभावे’’ति सूत्रटीकायां ‘‘नैतदब्राह्मणो विवक्तुमर्हती’’ति वाक्ये ब्राह्मणपदस्यैव श्रवणेन शूद्रत्वाभावनिर्णय एव प्रवृत्तेरिति भाष्यादि कथमित्याशङ्क्य ‘‘ब्राह्मणपदेन ब्रह्माणनयोग्यानां त्रैवर्णिकानामुक्ते’’रित्युक्तं वाक्यं रूढार्थत्यागेन यौगिकार्थग्रहणेन हेतुं वदन् व्याचष्टे ॥ आर्जवमिति ॥ अविहितेत्याद्यन्तिमं वाक्यमस्पष्टत्वाद्व्याचष्टे ॥ अविहितेति ॥ शिष्टं स्पष्टमिति भावः ॥
चन्द्रिकाबिन्दुः
विसर्गलोपेनेति ॥ रोरुत्पत्त्यनन्तरम्भाविसर्गलोपेने इत्यर्थः ॥ संहितायामिति ॥ अत्र शूद्र इति संहिता शुक् द्र इति विग्रह इति व्यवस्था ॥ शोकाधिक्येति ॥ आद्रवणाधिक्येन कार्येण शोकाधिक्यं ज्ञायत इति भावः ।
पाण्डुरङ्गि
अविहितोपनयनत्वे सतीति ॥ यद्यपि स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरेत्यादिना शूद्रादेरिव स्त्रीणामप्यध्ययननिषेधेनानिषिद्धानामेवापवादविषयत्वे स्त्रीणामप्यपवादविषयत्वमनुपपन्नम् । तथापि नाग्निर्न यज्ञः शूद्रस्येत्यादिशूद्रस्य विशेषतोऽध्ययननिषेध वत्स्त्रीमात्रस्यैवाध्ययननिषेधा-भावात्तासामनिषिद्धाध्ययनवत्त्वेनाप्यपवादविषयतोपपत्तिरिति भावः ॥
॥ इति अपशूद्राधिकरणम् ॥ ८ ॥